बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 2 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 526, कुल 760 में से
संदर्भ में पढ़ेंस्थित हो और सम्मुख, वाम या दक्षिण पार्श्व में दिखाई दे तो कलह करता है।।७।।
ग्रामे भवो ग्राम्यः शकुनः, स च स्वरचेष्टिताभ्यां प्रदीप्तः। स्वरेण शब्देन चेष्टया
वा प्रदीप्तः। उग्रस्तीव्रो रुवन् क्रोशन्। कण्टकिनि सकण्टके वृक्षे स्थितः। भौमर्क्षे मेष-
वृश्चिकौ तयोरन्यतमे लग्ने। स च शकुनो यदि नैर्ऋतीं च स्थितो भवति, नैर्ऋत्यां दिशि
समवस्थितः। अभितः सम्मुख उभयतश्चेद्यदि वामदक्षिणपार्श्वयोस्तदा स दृष्टोऽवलोकितः
कलहाय भवति, कलहं करोति।।७।।
अथ संग्रहणमाह—
लग्नेऽथवेन्दोर्भृगुभांशसंस्थे विदिक्स्थितोऽधोवदनश्च रौति।
दीप्तः स चेत्संग्रहणं करोति योन्या तया या विदिशि प्रदिष्टा ॥८॥
कर्क लग्न में, शुक्र के नवांश में, विदिशा में स्थित होकर दीप्त शकुन नीचे की
ओर मुख करके शब्द करे तो उस विदिशा में उक्त स्त्री ('स्त्रीणां विकल्पे बृहती कुमारी'
इत्यादि से उक्त स्त्री) के साथ समागम होता है।।८।।
अथवा इन्दोर्लग्ने कर्कटे तस्मिंश्च भृगुभांशसंस्थे। भृगोः शुक्रस्य भांशो नवांशको
भृगुभांशः। कर्कटस्य तुलनवांशक इत्यर्थः। तस्मिंल्लग्नस्थे शकुनो विदिक्स्थितो विदिशम-
वस्थितः। तत्र चाधोवदनोऽधोमुखश्च विरौति शब्दं करोति। स चेद्यदि दीप्तः स्थानदीप्तः
शब्ददीप्तश्च, तदा संग्रहणं संयोगं करोति, क्या? स्त्रिया सह। योन्या तया वा विदिशि
प्रदिष्टा, तस्यां विदिशि यस्या योनिरुत्पत्तिः प्रदिष्टोक्ताः स्त्रीणां विकल्पे बृहती कुमारीत्यादि।
तया सह संग्रहणं करोति। केषाञ्चित् पाठः योऽन्योऽनुयायाद्दिशिः सम्प्रदिष्टः। तस्यां दिशि
अनु पश्चात् सम्प्रदिष्टः सम्यक् प्रेषितो योऽन्योऽपरो यायाद् गच्छेत् तेन सह संयोग इति।।८।।
पुनरप्याह—
पुंराशिलग्ने विषमे तिथौ च दिक्स्थः प्रदीप्तः शकुनो नराख्यः।
वाच्यं तदा संग्रहणं नराणां मिश्रे भवेत् षण्डकसम्प्रयोगः ॥९॥
पुरुषराशि (मेष, मिथुन, सिंह, तुला, धनु और कुम्भ) के लग्न में, विषम (१,
३, ५, ७, ११, १३, १५) तिथियों में और पूर्व आदि (पूर्व, दक्षिण, पश्चिम और
उत्तर) दिशाओं में पुरुषसंज्ञक दीप्त शकुन हो तो पुरुषों के साथ समागम होता है।
मिश्रित (पुरुषसंज्ञक लग्न में सम तिथि हो या सम राशि के लग्न में विषम तिथि हो
तथा विदिशा या दिशा में स्थित पुरुषसंज्ञक दीप्त शकुन) हो तो नपुंसक के साथ
समागम होता है।।९।।
पुंराशयो मेषादयः षड् विषमा मेषमिथुनसिंहतुलाधन्विकुम्भाः। विषमास्तिथयः संख्याया
प्रतिपत् तृतीया पञ्चमी सप्तमी नवमी एकादशी त्रयोदशी पञ्चदशी चेति। नराख्यः पुरुषाख्यः
शकुनो दिक्स्थितो दिशि पूर्वस्यां दक्षिणस्यां पश्चिमायामुत्तरस्यां वा स्थितः प्रदीप्तश्च यदि
भवति तदा नराणां पुरुषाणां वा संग्रहणं संयोगो वाच्यं वक्तव्यम्। मिश्रे भवेत् षण्डक-
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA