सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

Brihat Samhita Vol 2 with Vimala Hindi Commentary

आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा

DevanagariHindipublished760 पृष्ठ

३४० बृहत्संहिता
जल से भरा हुआ घड़ा, रत्न और अन्य मंगलद्रव्यों का देखना शुभ होता है।।७।।
सितकुसुमानि श्वेतपुष्पाणि। मत्तवारणो मत्तहस्ती। दधि क्षीरविकारः। अक्षता यवाः।
पूर्णकुम्भो जलपूर्णो घटः। रत्नानि मणयः। मङ्गल्यानि। अन्यानि शङ्खशब्दवेदध्वनिगो-
चक्रवाककोकिलादीनां शब्दाः। आरम्भे आरम्भकाले दृष्ट्वाऽवलोक्य शुभं ज्ञेयं ज्ञात-
व्यमिति।।७।।
अथ नृपस्य शय्यायाः प्रमाणमाह—
कर्माङ्गुलं यवाष्टकमुदरासक्तं तुषैः परित्यक्तम्।
अङ्गुलशतं नृपाणां महती शय्या जयाय कृता ॥८॥
तुषरहित आठ जौ को परस्पर पेटा-पेटी करके मिलाने से एक कर्माङ्गुल होता है
तथा सौ कर्माङ्गुलतुल्य लम्बी शय्या राजाओं के जय के लिये होती है।।८।।
अष्टौ यवा यवाष्टकम्। तुषैः परित्यक्तं तुषरहितम्। परस्परमन्योन्यमुदरासक्तं कर्माङ्गुलसंज्ञं
भवति। तेनाङ्गुलप्रमाणेन नृपाणां राज्ञामङ्गुलशतं महती दीर्घा शय्या कृता रचिता जयाय
भवति।।८।।
अथ नृपपुत्रमन्त्रिबलपतिपुरोधसां शय्याप्रमाणमाह—
नवतिः सैव षडूना द्वादशहीना त्रिषट्कहीना च।
नृपपुत्रमन्त्रिबलपतिपुरोधसां स्युर्यथासङ्ख्यम् ॥९॥
राजपुत्र, मन्त्री, सेनापति और पुरोहित की शय्या क्रम से नब्बे, चौरासी, अठहत्तर
और बहत्तर अंगुल लम्बी होनी चाहिये।।९।।
अङ्गुलानां नवतिर्नृपपुत्रस्य राज्ञः सुतस्य दीर्घा शय्या कार्या। सैव नवतिः षडूना चतुर-
शीत्यङ्गुलानि सचिवस्य मन्त्रिणो दीर्घा कार्या। सैव नवतिर्द्वादशहीनाष्टसप्तत्यङ्गुलानि बलपतेः
सेनापतेः। सैव नवतिस्त्रिषट्कहीना अष्टादशभिरङ्गुलैर्न्यूना पुरोधस आचार्यस्य शय्या दीर्घा
कार्या। दैवज्ञस्याप्येवं समानत्वादिति।।९।।
अथ विष्कम्भलक्षणं पादोच्छ्रायप्रमाणं चाह—
अर्धमतोऽष्टांशोनं विष्कम्भो विश्वकर्मणा प्रोक्तः।
आयामत्र्यंशसमः पादोच्छ्रायः सकुक्ष्यशिराः ॥१०॥
शय्या की लम्बाई के आधे भाग में से उसके ( आधे के ) अष्टमांश घटा देने पर
जो शेष बचे, तत्तुल्य शय्या की चौड़ाई होती है तथा चौड़ाई के तृतीयांशतुल्य कुक्षि और
शिर के साथ पाये की ऊँचाई होती है; यह विश्वकर्मा का मत है।।१०।।
अतोऽस्माद् दैर्घ्यादर्धं दलमष्टांशोनमष्टभागवर्जितं विष्कम्भो विस्तारो विश्वकर्मणा
प्रोक्तः कथितः। तद्यथा—अङ्गुलशतं नृपशय्या। अतोऽर्धं पञ्चाशदङ्गुलानि। एतदष्टांशोनं
त्रिचत्वारिंशदङ्गुलानि सषड्यवानि विष्कम्भो वैपुल्यम्। एवं स्वदैर्घ्यानुसारेणान्यासामपि
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

शय्यालक्षणाध्यायः ३४१
कल्पनीयम्। आयामत्र्यंशसम इति। आयामस्य दैर्घ्यस्य यस्त्र्यंशस्तृतीयो भागस्तत्सम-
स्तत्तुल्यः पादयोच्छ्रायः कार्यः। स च सकुक्ष्यशिराः सह कुक्ष्येण शिरो वर्तत इति सकुक्ष्य-
शिराः पादोच्छ्राय इति। एवमन्यासामपि स्वदैर्ध्यानुसारेण कल्पनीयम्। तथा च विश्व-
कर्मणोक्तम्—
अन्योन्यमुदरासक्तं वितुषं तु यवाष्टकम्।
कर्माङ्गुलमिति प्रोक्तं तेन मानेन कारयेत्।।
नृपाणामङ्गुलशतं शय्या दीर्घा जयावहा।
नवतिर्नृपपुत्रस्य सा षडूना तु मन्त्रिणः।।
द्वादशोना बलेशस्य त्रिषट्कोना पुरोधसः।
दैवज्ञमानमेवैतत् तुल्यत्वात् कारयेत् ततः।।
दैर्घ्यमष्टमभागोनं विष्कम्भः परिकीर्तितः।
आयामत्र्यंशतुल्यश्च पादोच्छ्रायः प्रकीर्तितः।।
सकुक्ष्यशिरसो ज्ञेयः शय्यायाः शुभकारकः।
ऊनाधिका च या शय्या सा ज्ञेया स्वामिनोऽशुभा।। इति।।१०।।
अधुना दारूणां विशेषफलमाह—
यः सर्वः श्रीपर्ण्या पर्यङ्को निर्मितः स धनदाता।
असनकृतो रोगहरस्तिन्दुकसारेण वित्तकरः ।।११।।
यः केवलशिंशपया विनिर्मितो बहुविधं स वृद्धिकरः।
चन्दनमयो रिपुघ्नो धर्मयशोदीर्घजीवितकृत् ।।१२।।
यः पद्मकपर्यङ्कः स दीर्घमायुः श्रियं श्रुतं वित्तम्।
कुरुते शालेन कृतः कल्याणं शाकरचितश्च ।।१३।।
केवलचन्दनरचितं काञ्चनगुप्तं विचित्ररत्नयुतम्।
अध्यासन् पर्यङ्कं विबुधैरपि पूज्यते नृपतिः ।।१४।।
श्रीपर्णी वृक्ष से बनी हुई शय्या धन देने वाली, असन ( विजयसार ) वृक्ष से बनी
हुई शय्या रोग का हरण करने वाली, तिन्दुकसार से बनी हुई शय्या धन देने वाली,
केवल शिंशपा वृक्ष से बनी हुई शय्या बहुत तरह से वृद्धि करने वाली, चन्दन वृक्ष से
बनी हुई शय्या शत्रु का नाश, कीर्ति और दीर्घायु करने वाली, पद्मक वृक्ष से बनी हुई
शय्या दीर्घायु, लक्ष्मी, धर्म और धन देने वाली एवं शाल वृक्ष से बनी हुई शय्या
कल्याण करने वाली होती है। केवल चन्दन वृक्ष से बनी हुई, सुवर्ण से मढ़ी हुई और
अनेक तरह के रत्नों से व्याप्त शय्या पर शयन करने वाल राजा देवताओं द्वारा भी
पूजित होता है।।११-१४।।
CC-0. JK Sanskrit Academy, Jammmmu. Digitized by S3 Foundation USA

३४२ बृहत्संहिता
यः सर्वः श्रीपर्ण्या इति। यः पर्यङ्कः सर्वो निःशेषं श्रीपर्ण्या निर्मितो रचितः स
धनदाता वित्तप्रदो भवति। यः सर्वोऽसनकृतः स रोगहरो रोगान् हरति विनाशयति। यः
सर्वस्तिन्दुकसारेण रचितः स वित्तकरो धनकरः।
यः केवल इति। यः पर्यङ्कः केवलः शिंशपयैव निर्मितः स बहुविधं बहुप्रकारं
वृद्धिकरः। यः सर्वश्चन्दनमयश्चन्दनविरचितः पर्यङ्कः स रिपुघ्नस्तथा धर्मं यशः कीर्तिं दीर्घं
च जीवितं करोति।
यः पद्मकपर्यङ्क इति। यः सर्वः पद्मकचितः पर्यङ्कः आयुर्जीवितं दीर्घं चिरकाल-
स्थायि। श्रियं लक्ष्मीम्, श्रुतं विद्याशुभं धर्म्यम्, वित्तं धनं कुरुते। तथा शालेन कृतो रचितः
शाकरचितश्च कल्याणं श्रेयः कुरुते।
केवलचन्दनरचितमिति। यत्पर्यङ्कं केवलेनैव चन्दनेन विरचितं निर्मितं तथा काञ्चनेन
सुवर्णेन गुप्तमाच्छादितम्। विचित्रैर्नानाकारै रत्नैर्मणिभिर्युक्तं तन्नृपो राजा अध्यासन्नुपरि
तिष्ठन् विबुधैर्देवैरपि पूज्यतेऽर्च्यते।।११-१४।।
अथ व्यतिमिश्रदारूणां फलमाह—
अन्येन समायुक्ता न तिन्दु की शिंशपा च शुभफलदा ।
न श्रीपर्णेन च देवदारुवृक्षो न चाप्यसनः ॥१५॥
शुभदौ तु शालशाकौ परस्परं संयुतौ पृथक् चैव ।
तद्वत् पृथक् प्रशस्तौ सहितौ च हरिद्रककदम्बौ ॥१६॥
सर्वः स्पन्दनरचितो न शुभः प्राणान् हिनस्ति चाम्बकृतः ।
असनोऽन्यदारुसहितः क्षिप्रं दोषान् करोति बहून् ॥१७॥
अम्बस्पन्दनचन्दनवृक्षाणां स्पन्दनाच्छुभाः पादाः ।
फलतरुणा शयनासनमिष्टफलं भवति सर्वेण ॥१८॥
तिन्दु की और शिंशपा वृक्ष की लकड़ी में किसी अन्य वृक्ष की लकड़ी मिलाकर
तथा श्रीपर्णी वृक्ष की लकड़ी में देवदारु या असन वृक्ष की लकड़ी मिलाकर बने हुये
पलंग या आसन शुभ फल देने वाले नहीं होते हैं। शाल, शाक—इन दोनों वृक्षों की
लकड़ी परस्पर मिली हुई हो या अलग-अलग हो तो भी शुभ फल देने वाली होती है।
इसी तर हरिद्रक और कदम्ब वृक्ष की लकड़ी परस्पर मिली हुई या अलग-अलग होने
पर भी शुभ फल देने वाली होती है। केवल स्पन्दन वृक्ष की लकड़ी से बने हुये
पलंग या आसन शुभ नहीं होते हैं। अम्ब वृक्ष की लकड़ी से बने हुये पलंग या आसन
प्राणनाशक होते हैं। अन्य वृक्षों की लकड़ी से युत असन वृक्ष की लकड़ी से बने हुये
पलंग या आसन शीघ्र ही बहुत दोष उत्पन्न करने वाले होते हैं। अम्ब, स्पन्दन और
चन्दन वृक्षों से बने हुये पलंगों के पाये स्पन्दन वृक्ष की लकड़ी से बनाने पर शुभ होता
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

है। समस्त फल वाले वृक्षों की लकड़ी से बने हुये पलंग या आसन का उपयोग करने
से अभीष्ट फल की प्राप्ति होती है।।१५-१८।।
अन्येन समायुक्तेति। तिन्दुको शिंशपा च अन्येनापरेण दारुणा समायुक्ता सहिता
शुभफलदा न भवति। अशुभैत्यर्थः। न श्रीपर्णेन च देवदारुर्युक्तः शुभफलदो भवति। एवं
श्रीपर्णेन चासनो युक्तो न शुभफलदो भवति।
शुभदाविति। शालशाकौ परस्परमन्योन्यं संयुक्तौ शुभदौ पृथक् चासंयुक्तौ केवलावपि
शुभदौ। तद्वत्तेनैव प्रकारेण पृथक् पृथक् सहितौ च हरिद्रककदम्बौ प्रशस्तौ।
सर्वः स्यन्दनरचित इति। सर्वो निःशेषं स्यन्दनेन रचितो निर्मितो न शुभः पर्यङ्कः।
यतः प्राणानसून् हिनस्ति नाशयति। अम्बकृतश्चशब्दादेवमेव प्राणान् हिनस्ति। असनो-
ऽन्येनापरेण दारुणा संयुक्तः सहितः क्षिप्रमाश्वेव बहून् प्रभूतान् दोषान् करोति।
अम्बस्यन्दनेति। अम्बः। स्पन्दनम्। चन्दनम्। एषां वृक्षाणां स्पन्दनात् स्पन्दनवृक्षात्
पादाः शुभाः। सर्वेण येन केनचित् फलदारुणा फलवृक्षेण शय्यासनमिष्टं फलं शुभफलं
भवति।।१५-१८।।
अथ सर्वेषां वृक्षाणां प्रशस्तगजदन्तेनालङ्कारविधिः कार्य इत्येतदाह—
गजदन्तः सर्वेषां प्रोक्ततरूणां प्रशस्यते योगे।
कार्योऽलङ्कारविधिर्गजदन्तेन प्रशस्तेन ।।१९।।
पूर्वोक्त समस्त वृक्षों की लकड़ियों के साथ हाथी दाँत को मिलाना शुभ होता है।
अतः प्रशस्त लक्षणों से युत हाथीदाँत से पलंग और आसन को भूषित करना चाहिये।।१९।।
प्रोक्ततरूणां कथितवृक्षाणां सर्वेषां निःशेषाणां योगे गजदन्तो हस्तिरदः। प्रशस्यते
स्तूयते इष्यत इत्यर्थः। प्रशस्तेन लक्षणसंयुक्तेन गजदन्तेन हस्तिरदेनालङ्कारविधिः कार्यः।
शोभामुत्पादयेत्।।१९।।
अथ गजदन्तलक्षणमाह—
दन्तस्य मूलपरिधिं द्विरायतं प्रोह्य कल्पयेच्छेषम्।
अधिकमनूपचराणां न्यूनं गिरिचारिणां किञ्चित् ।।२०।।
गजदन्त के मूल में जितनी अंगुलात्मक परिधि हो, उसको द्विगुणित करने पर जो
प्राप्त हो, तत्तुल्य मूल से छोड़कर शेष भाग से समस्त कल्पनायें करनी चाहिये।
जलप्राय देश के हाथियों में उससे कुछ अधिक और पर्वतचारी हाथियों में उससे कुछ
कम भाग छोड़कर शेष भाग से समस्त कल्पनायें करनी चाहिये।।२०।।
गजदन्तस्य मूले यः परिधिः परिमण्डलं द्विरायतं द्विगुणं प्रोह्य त्यक्त्वा शेषं कल्प-
येच्छिन्द्यात्। एतदुक्तं भवति—मूले यः परिणाहो गजदन्तस्य तद्द्विगुणमायतं गजदन्तमूलात्
परित्यज्य शेषं कल्पयेत्। बहूदको देशोऽनूपः। अनूपचराणां गजानां दन्तमूलपरिधिं द्विरायत-

३४४ बृहत्संहिता
मधिकमपि प्रोह्य शेषं कल्पयेत्। गिरिचारिणां पर्वतचारिणां न्यूनमपि प्रोह्य शेषं कल्पयेत्।
यतः पर्वतशिलास्तद्दन्तान् घर्षन्ति।।२०।।
अथ गजदन्तस्य कल्पितस्य शुभाशुभमाह—
श्रीवृक्षवर्धनमानच्छत्रध्वजचामरानुरूपेषु ।
छेदे दृष्टेष्वारोग्यविजयधनवृद्धिसौख्यानि ।।२१।।
प्रहरणसदृशेषु जयो नन्द्यावर्ते प्रनष्टदेशाप्तिः ।
लोष्ठे तु लब्धपूर्वस्य भवति देशस्य सम्प्राप्तिः ।।२२।।
स्त्रीरूपे धननाशो भृङ्गारेऽभ्युत्थिते सुतोत्पत्तिः ।
कुम्भेन निधिप्राप्तिर्यात्राविघ्नं च दण्डेन ।।२३।।
कृकलासकपिभुजङ्गेष्वसुभिक्षव्याधयो रिपुवशित्वम् ।
गृध्रोलूकध्वाङ्क्षश्येनाकारेषु जनमरकः ।।२४।।
पाशेऽथवा कबन्धे नृपमृत्युर्जनविपत् स्रुते रक्ते ।
कृष्णे श्यावे रूक्षे दुर्गन्धे चाशुभं भवति ।।२५।।
काटने के समय हाथी के दाँत में यदि बिल्ववृक्ष, वर्धमान, छत्र, ध्वज या चामर
की तरह चिह्न दिखाई दे तो आरोग्य, धन की वृद्धि और सुख प्राप्त होता है। इसी प्रकार
काटते समय यदि शस्त्र के समान चिह्न दिखाई दे तो जय, नदी के आवर्त ( जलभ्रम )
के समान चिह्न दिखाई दे तो नष्ट देश की प्राप्ति, ढेले के समान चिह्न दिखाई दे तो पूर्व
में प्राप्त हुये देश की प्राप्ति, स्त्री के समान चिह्न दिखाई दे तो धन का नाश, भृङ्गार के
समान चिह्न दिखाई दे तो पुत्र की उत्पत्ति, घड़े के समान चिह्न दिखाई दे तो निधि की
प्राप्ति, दण्ड के समान चिह्न दिखाई दे तो यात्रा में विघ्न; गिरगिट, वानर या सर्प की
तरह चिह्न दृष्टिगोचर हो तो दुर्भिक्ष, व्याधि और शत्रु के अधिकार में रहना; गिद्ध, उल्लू,
काक या बाज के समान चिह्न दृष्टिगोचर हो तो मरकी, पाश ( फांसी ) या कबन्ध
( बिना शिर का पुरुष ) के समान चिह्न दृष्टिगोचर हो तो राजा की मृत्यु, काटने पर रक्त
निकलने लगे तो मनुष्यों के ऊपर विपत्ति तथा वह काला, पीला, रूखा या दुर्गन्धियुक्त
हो तो अशुभ करने वाला होता है।।२१-२५।।
श्रीवृक्षवर्धमान इति । श्रीवृक्षः प्रसिद्धः। विल्वः। वर्धमानश्चिह्नम्। वर्धमानो वास्तु-
सदृशं सरागमिति केचित्। छत्रमातपत्रम्। ध्वजः प्रसिद्धो विविधपटविरचितं चिह्नम्।
चामरं बालव्यजनम्। एषामनुरूपेषु सदृशेषु। छेदे दन्तच्छेदे। दृष्टेष्ववलोकितेषु। आरोग्य-
मरोगित्वम्। विजयो विशेषेण जयः। धनवृद्धिर्वित्तवर्धनम्। सौख्यम्। एतानि भवन्ति।
प्रहरणसदृशेष्विति । प्रहरणमायुधादि। प्रहरणसदृशेषु छेदे दृष्टेषु जयो भवति। नन्द्या-
वर्तसदृशं तस्मिन् दृष्टे प्रनष्टस्यापहृतस्य देशस्य प्राप्तिर्लाभो भवति। लोष्ठं मृत्खण्डम्।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

शय्यालक्षणाध्यायः ३४५
लोष्टसदृशेषु छेदे दृष्टेषु लब्धपूर्वस्य देशस्य सम्प्राप्तिर्लाभो भवति। पूर्वं लब्धो लब्धपूर्वः।
आदावेव लब्धः सम्प्राप्तो हस्तीभूतः स लब्धपूर्वः। देशस्य सम्प्राप्तिर्लाभो भवति तस्येति।
स्त्रीरूप इति। स्त्रीरूपे छेदे दृष्टे सुतोत्पत्तिः। पुत्रजन्म भवति। कुम्भेन कुम्भसदृशे
छेदे चिह्ने दृष्टे निधिप्राप्तिर्निधिलाभो भवति। दण्डेन दण्डाकारेण यात्राविघ्नमगमनं भवति।
कृकलासेति। कृकलासः प्राणिविशेषः। कपिर्वानरः। भुजङ्गः सर्पः। एवंविधेषु छेदे
दृष्टेष्वसुभिक्षं दुर्भिक्षम्। व्याधयः पीडाः। रिपुवशित्वं शत्रूणां वश्यत्वम्। गृध्रोलूकौ पक्षिणौ।
ध्वाङ्क्षः काकः। श्येनो वाजिकः। एतेषामाकारेषु दृष्टेषु छेदे जनानां मरको भवति।
पाशेऽथवेति। पाशः प्रसिद्धो रज्जुरूपः। कबन्धश्छिन्नशिराः पुरुषः। एवंविधेऽथवा
छेदे दृष्टे नृपस्य राज्ञो मरणं मृत्युर्भवति। रक्ते शोणिते स्रुते निर्गते छेदाज्जनानां विपदो
भवन्ति। कृष्णे कृष्णवर्णे। श्यावे मलिने। रूक्षे परुषे। दुर्गन्धे च छेदात्, अशुभमनिष्टं
भवति।।२१-२५।।
अथ शुभच्छेदानां लक्षणं शयने च तथाविधं फलमाह—
शुक्लः समः सुगन्धिः स्निग्धश्च शुभावहो भवेच्छेदः।
अशुभशुभच्छेदा ये शयनेष्वपि ते तथा फलदाः ।।२६।।
यदि दाँत का छेद सफेद, समान, सुगन्धित या निर्मल हो तो शुभ होता है। ये सभी
फल आसन के कहे गये हैं। इसी तरह पूर्वोक्त सभी लक्षण शय्या में भी फल प्रदान
करते हैं।।२६।।
शुक्लः शुक्लवर्णः। समस्तुल्यः। सुगन्धिः शोभनगन्धिः। स्निग्धो निर्मलः। एवं-
विधश्छेदः शुभावहो भवति। ये छेदा अशुभाः शुभा दन्ते प्रोक्तास्ते शयनेष्वपि शय्यायां
लग्नास्तथा तेनैव प्रकारेण फलदाः। तथाविधं फलं भवति। शुभमशुभं वा प्रयच्छतीत्यर्थः।
दारूणामप्येवमेव वेदितव्याः।।२६।।
अथ दारूणां विनियोगमाह—
ईषायोगे दारु प्रदक्षिणाग्रं प्रशस्तमाचार्यैः।
अपसव्यैकदिगग्रे भवति भयं भूतसञ्जनितम् ॥२७॥
ईषा (बनाये हुये दक्षिण और वाम तरफ के काष्ठ) के योग प्रदक्षिणक्रम से
(शिर की तरफ के काष्ठ के अग्र भाग में दक्षिण तरफ के काष्ठ के मूल को, दक्षिण
तरफ के काष्ठ के अग्र भाग में पाँव की तरफ के काष्ठ के मूल को, पाँव की तरफ के
काष्ठ के अग्र भाग में उत्तर तरफ के काष्ठ के मूल को और उत्तर तरफ के काष्ठ के अग्र
भाग में शिर की तरफ के काष्ठ के मूल को) लगाना शुभ होता है—ऐसा आचार्यों का
कथन है। अपसव्य (उक्त के विपरीत) क्रम से लगाने से भूतों से सम्बन्धित भय
होता है।।२७।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

ईषाशब्देन चत्वारि काष्ठानि घटितान्युच्यन्ते। शिरः पादभागयोर्द्वौ वामदक्षिणभागयो-
र्द्वाविति। तेषां परस्परं यत्र संयोगः शिरःपादकाष्ठयोर्द्वे द्वे छिद्रे कृत्वा वामदक्षिणपाद-
काष्ठानि तेषु क्षिपेत्। तत्रायं क्रमः—ईषायोगे दारु प्रदक्षिणाग्रमाचार्यैः प्रशस्तमुक्तम्। प्राद-
क्षण्येनाग्रं यस्मिन्। अपसव्यैकदिगग्र इति। अपसव्येऽप्रदक्षिणस्थे। पूर्वोक्तविन्यस्तस्य
शिरःकाष्ठस्य यदग्रं तत्र दक्षिणदिक्स्थकाष्ठमूलं क्षिपेत्। तस्याग्रे पादान्तभागस्थं काष्ठमूलं
क्षिपेत्। तदग्र उत्तरदिग्भागस्थकाष्ठमूलं क्षिपेत्। तदग्रे शिरःकाष्ठमूलं क्षिपेत्। एवं पूर्वदक्षिण-
पश्चिमोत्तरसंस्थानेन न्यासे कृते प्रदक्षिणाग्रं भवति। अपसव्ये न प्रदक्षिणस्थे पूर्वोक्तन्यासा-
द्विपर्ययस्थे तथैकदिगग्रस्थिते दारौ भूतसञ्जनितं भूतग्रहोत्पन्नं भयं भीतिर्भवति। शिरःपादभाग-
काष्ठयोरेकस्यां दिश्यग्रं यद्भवति तदैकदिगग्रम्॥२७॥
अथ पदानां लक्षणमाह—
एकेनावाक्शिरसा भवति हि पादेन पादवैकल्यम्।
द्वाभ्यां न जीर्यतेऽन्नं त्रिचतुर्भिः क्लेशवधबन्धाः॥२८॥
यदि शय्या या आसन का एक पाया अधोमुख (मूलाग्रविपर्यय = काष्ठ के मूल
में पाये का अग्र भाग या काष्ठ के अग्र भाग में पाये का मूल ) हो तो उस पर सोने वाले
को पाँव में पीड़ा, दो पाये अधोमुख हों तो भुक्त अन्न अजीर्ण और तीन या चार पाये
अधोमुख हों तो क्लेश, वध और बन्धन होता है॥२८॥
एकेन पादेन। अवाक्शिरसा अधोमुखेन। मूलाग्रविपर्ययस्थितेन। पादवैकल्यं स्वामिनो
भवति। द्वाभ्यां पादाभ्यामेवंविधाभ्यामन्नं भुक्तं न जीर्यते न परिणामं याति। त्रिभिश्चतुर्भिश्च
क्लेशवधबन्धा भवन्ति॥२८॥
अथ पादस्य ग्रन्थियुक्तस्य लक्षणमाह—
सुषिरेऽथवा विवर्णे ग्रन्थौ पादस्य शीर्षगे व्याधिः।
पादे कुम्भो यश्च ग्रन्थौ तस्मिन्नुदररोगः॥२९॥
कुम्भादस्ताज्जङ्घा तत्र कृतो जङ्घयोः करोति भयम्।
तस्याश्चाधारोऽधः क्षयकृद्द्रव्यस्य तत्र कृतः॥३०॥
खुरदेशे यो ग्रन्थिः खुरिणां पीडाकरः स निर्दिष्टः।
ईषाशीर्षण्योश्च त्रिभागसंस्थो भवेन्न शुभः॥३१॥
यदि पाये का शिर छिद्रयुत, विवर्ण या ग्रन्थियुत हो तो उस पर सोने वाले को
व्याधि होती है। इसी प्रकार यदि पैर के कुम्भ में गाँठ हो तो उदररोग, जंघा ( कुम्भ के
नीचे भाग ) में गाँठ हो तो जंघाओं में भय, आधार ( जंघा के नीचे का भाग ) में गाँठ
हो तो धन का नाश, खुरप्रदेश में गाँठ हो तो खुर वाले जानवरों को पीड़ा तथा ईषा
( पार्श्व काष्ठ ) और शीर्षणी ( शिर की तरफ का काष्ठ ) के तिहाई पर गाँठ हो तो
कल्याणकारी नहीं होता है॥२९-३१॥

शय्यालक्षणाध्यायः ३४७
सुषिरोऽथवेति । पादस्य शीर्षगे शिरोगते ग्रन्थौ सुषिरे अन्तरसार अथवा विवर्णे
विगतवर्णे दारुवर्णान्तरमाश्रिते व्याधिर्भवति शिरस्येव स्वामिनः । तस्मिन्नेव पादे यश्च कुम्भः
कुम्भभागस्तस्मिन् ग्रन्थौ स्थिते सत्युदररोगो भवति ।
कुम्भाधस्ताद्या जङ्घा तत्र कृतो ग्रन्थिर्जङ्घयोर्भयं करोति । तस्या जङ्घाया अधस्ताद्
यं आधारस्तत्र कृतो ग्रन्थिर्द्रव्यस्य धनादिकस्य क्षयकृद्भवति ।
खुरदेश इति । यो ग्रन्थिः खुरदेशे पादस्थाने स्थितः खुरिणामश्वादीनां स पीडाकारो
निर्दिष्टः कथितः । ईषा पार्श्वपट्टिका । शीर्षणी शिरःकाष्ठम् । तयोः समाने त्रिभागे तृतीयांशे
यः स्थितो ग्रन्थिः स स्वामिनो न शुभो भवति । पादभागस्य काष्ठद्वितीयपट्टिका वा अपि
त्रिभागसंस्था न शुभदैव ।। २९-३१ ।।
अधुना छिद्राणां नामान्याह—
निष्कुटमथ कोलाक्षं सूकरनयनं च वत्सनाभं च ।
कालकमन्यद्धुन्ध्युकमिति कथितश्छिद्रसंक्षेपः ।।३२।।
निष्कुट, कोलाक्ष, सूकरनयन, वत्सनाभ, कालक, धुन्ध्युक—ये संक्षेप से छिद्रों
की संज्ञायें कही गई हैं ।।३२।।
निष्कुटं नाम छिद्रम्। अथशब्दश्चार्थे। कोलाक्षम्। सूकरनयनं च। वत्सनाभं च।
कालकम्। अन्यदपरं धुन्ध्युकम्। इत्येवम्प्रकारेण छिद्राणां संक्षेपः समासः कथित उक्तः ।।३२।।
अथैतेषां लक्षणमाह—
घटवत् सुषिरं मध्ये सङ्कटमास्ये च निष्कुटं छिद्रम् ।
निष्पावमाषमात्रं नीलं छिद्रं च कोलाक्षम् ।।३३।।
सूकरनयनं विषमं विवर्णमध्यर्धपर्वदीर्घं च।
त्वामावर्तं भिन्नं पर्वमितं वत्सनाभाख्यम् ।।३४।।
कालकसंज्ञं कृष्णं धुन्ध्युकमिति यद्भवेद्द्विनिर्भिन्नम् ।
दारुसवर्णं छिद्रं न तथा पापं समुद्दिष्टम् ।।३५।।
यदि छिद्र के मध्य में घड़े के समान चौड़ा और ऊपर तंग मुख की आकृति दिखाई
दे तो निष्कुट, शालि धान्य या उड़द के बराबर नील वर्ण का छिद्र हो तो कोलाक्ष,
विषम, विवर्ण और डेढ़ पर्व लम्बा छिद्र हो तो सूकरनयन, एक पर्व लम्बा वामावर्त
छिद्र हो तो वत्सनाभ, काला छिद्र हो तो कालक और दूसरी तरफ से भी दिखाई देने
वाला काला छिद्र हो तो वह छिद्र धुन्ध्युक संज्ञक होता है। काष्ठ के समान वर्ण वाले
अशुभ छिद्र भी विशेष अशुभ फल नहीं देते हैं।।३३-३५।।
घटवत् सुषिरं मध्ये इति । यत्सुषिरं छिद्रं मध्ये मध्यभागे घटवत् कुम्भवत्। आस्ये
मुखे च सङ्कटमल्पं तन्निष्कुटं नाम। निष्पावाः शालयः। निष्पावमात्रं निष्पावतुल्यं माष-
मात्रं च वा। नीलं नीलवर्णं तच्छिद्रं कोलाक्षसंज्ञम्।

३४८ बृहत्संहिता
सूकरनयनमिति । सूकरनयनसंज्ञं विषममतुल्यम् । विवर्णं विगतवर्णम् । अध्यर्ध-
पर्वदीर्घमधिकमर्धं यस्य पर्वणः सार्धं पर्व दीर्घं भवति । वामावर्तं प्रदक्षिणावर्तं भिन्नं द्वितीय-
भागदृश्यं पर्वमितं पर्वप्रमाणं वत्सनाभाख्यं वत्सनाभसंज्ञं छिद्रम्।
कालकसंज्ञमिति । कालकसंज्ञं कृष्णं कृष्णवर्णं भवति। यद्विनिर्भिन्नं द्वितीयभागदृश्यं
कृष्णवर्णं च तद्धुन्धुकसंज्ञम्। दारुसवर्णं दारुसदृशवर्णं यच्छिद्रं न तत्र तथैषामेवं दुष्टफल-
मुद्दिष्टमुक्तम्। एतदुक्तं भवति—अशुभमपि छिद्रं दारुसवर्णं यदि भवति तदाऽतिदुष्टफलं
न भवति।।३३-३५।।
अथैतेषां फलान्याह—
निष्कुटसंज्ञे द्रव्यक्षयस्तु कोलेक्षणे कुलध्वंसः ।
शस्त्रभयं सूकरके रोगभयं वत्सनाभाख्ये ।।३६।।
कालकधुन्धुकसंज्ञं कीटैर्विद्धं च न शुभदं छिद्रम् ।
सर्वं ग्रन्थिप्रचुरं सर्वत्र न शोभनं दारु ।।३७।।
यदि निष्कुट नामक छिद्र हो तो धन का नाश, कोलाक्ष नामक छिद्र हो तो कुल का
क्षय, सूकरनयन नामक छिद्र हो तो शस्त्रभय और वत्सनाभ नामक छिद्र हो तो रोग का
भय होता है। यदि कालक और धुन्धुकसंज्ञक छिद्र कीटों से व्याप्त ( घुनखौक ) हो
तो शुभ नहीं होता है तथा बहुत गाँठों से युक्त सभी प्रकार की लकड़ियाँ सभी जगहों पर
शुभ देने वाली नहीं होती हैं अर्थात् बहुत गाँठ वाली कोई भी लकड़ी कहीं पर भी शुभद
नहीं होती है।।३६-३७।।
निष्कुटसंज्ञे छिद्रे द्रव्यस्य अर्थस्य क्षयो विनाशो भवति। कोलेक्षणे कोलाक्षसंज्ञे
कुलस्य वंशस्य ध्वंसो विनाशः । सूकरके सूकरनयने शस्त्रभयं भवति। वत्सनाभाख्ये रोगभयम्।
कालकच्छिद्रं तथा धुन्धुकाख्यं च यच्च कीटैः क्रिमिभिर्विद्धं तच्छिद्रं न शुभदं दुष्टफलम्।
यद्दारु सर्वं ग्रन्थिप्रचुरं समस्तमेव ग्रन्थिबहुलं तत् सर्वत्र सर्वस्मिन् वस्तुनि न शोभनं
प्रशस्तफलम्।।३६-३७।।
अथ मिश्रदारुरचितस्य शयनस्य फलमाह—
एकद्रुमेण धन्यं वृक्षद्वयनिर्मितं च धन्यतरम् ।
त्रिभिरात्मजवृद्धिकरं चतुर्भिरर्थं यशश्चाग्र्यम् ।।३८।।
पञ्चवनस्पतिरचिते पञ्चत्वं याति तत्र यः शेते ।
षट्सप्ताष्टतरूणां काष्ठैर्घटिते कुलविनाशः ।।३९।।
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां शय्यासनलक्षणं
नामैकोनाशीतितमोऽध्यायः ।।७९।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

शय्यालक्षणाध्यायः ३४९
एक वृक्ष के काठ से बनी हुई शय्या धन्य, दो वृक्षों के काठ से बनी हुई धन्यतर,
तीन वृक्षों के काठ से बनी हुई शय्या पुत्रों को बढ़ाने वाली और चार वृक्षों के काठ से
बनी हुई शय्या उत्तम धन और यश प्रदान करने वाली होती है। पाँच वृक्षों के काठ से
बनी हुई शय्या पर जो व्यक्ति शयन करता है, उसकी मृत्यु होती है तथा छः, सात या
आठ वृक्षों के काठ से बनी हुई शय्या कुल का नाश करती है।।३८-३९।।
इति 'विमला'हिन्दीटीकायां शय्यासनलक्षणाध्याय एकोनाशीतितमः ॥७९॥
यच्छय्यासनमेकद्रुमेणैकवृक्षेण निर्मितं तद्धन्यम्। वृक्षद्वयनिर्मितं धन्यतरम्। त्रिभिर्वृक्षैः
प्रागुक्तैर्यैर्विनिर्मितं तदात्मजानां पुत्राणां वृद्धिकरम्। चतुर्भिर्यन्निर्मितं तदर्थं धनम्। अग्र्यं
प्रधानं यशः कीर्तिं च करोति।
पञ्चवनस्पतिरचित इति। पञ्चभिर्वनस्पतिभिर्वृक्षै रचिते निर्मिते शयनासने शयने
यः शेते स्वपिति स पञ्चत्वं याति। म्रियत इत्यर्थः। षण्णां सप्तानामष्टानां च तरूणां
वृक्षाणां काष्ठैर्घटिते निर्मिते कुलविनाशो वंशक्षयो भवति।।३८-३९।।
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ शय्यासनलक्षणं
नामैकोनाशीतितमोऽध्यायः ॥७९॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

अथ रत्नपरीक्षाध्यायः
अथ रत्नपरीक्षा व्याख्यायते। तत्र मणीनां तावद्गुणप्रधानार्थलक्षणमाह—
रत्नेन शुभेन शुभं भवति नृपाणामनिष्टमशुभेन।
यस्मादतः परीक्ष्यं दैवं रत्नाश्रितं तज्ज्ञैः ॥१॥
शुभ रत्न धारण करने से राजाओं का शुभ और अशुभ रत्न धारण करने से राजाओं
का अशुभ होता है। इसलिये रत्नज्ञों के द्वारा रत्नगत दैव (शुभाशुभ फल) की परीक्षा
करनी चाहिये॥१॥
नृपाणां राज्ञां रत्नेन मणिना शुभेन शुभलक्षणेन संयुक्तेन शुभं दैवं भवति; अशुभेनानिष्टम-
शुभं दैवं भवति। दैवशब्देन प्राक्तनकर्मणां विपाक उच्यते। यस्मादेवमतोऽस्मात्तज्ज्ञै रत्न-
लक्षणज्ञै रत्नाश्रितं रत्नसंस्थितं दैवं परीक्ष्यं विचार्यम्॥१॥
रत्नपरीक्षायामुपलरत्नानामधिकारः क्रियत इत्येतदाह—
द्विपहयवनितादीनां स्वगुणविशेषेण रत्नशब्दोऽस्ति।
इह तूपलरत्नानामधिकारो वज्रपूर्वाणाम् ॥२॥
हाथी, घोड़ा, स्त्री आदि में अपने-अपने गुण की विशेषता से 'रत्न' शब्द का प्रयोग
होता है; जैसे गजरत्न, अश्वरत्न, स्त्रीरत्न आदि। किन्तु यहाँ पर वज्र आदि पाषाणरत्नों का
अधिकार है॥२॥
द्विपो हस्ती। हयोऽश्वः। वनिता स्त्री। अधिकरणाज्जातौ जातौ यदुत्कृष्टं रत्नं तदभिधीयते।
एवमादीनां स्वगुणविशेषेणात्मीयगुणप्रभावेण रत्नशब्दोऽस्ति विद्यते। तथा च—
जातौ जातौ यदुत्कृष्टं तद्रत्नमभिधीयते। इति।
इह त्वस्यां रत्नपरीक्षायामुपलरत्नानां पाषाणमणीनां वज्रपूर्वाणां वज्रप्रथमानाधिकारः
क्रियते॥२॥
तत्र रत्नानामुत्पत्तिप्रदर्शनार्थं मतभेदमाचार्याणामाह—
रत्नानि बलाद्दैत्याद्दधीचितोऽन्ये वदन्ति जातानि।
केचिद् भुवः स्वभावाद् वैचित्र्यं प्राहुरुपलानाम् ॥३॥
किसी का मत है कि बलसंज्ञक दैत्य से रत्न की उत्पत्ति हुई है। कोई दधीचि मुनि
की अस्थि से रत्नोत्पत्ति मानते हैं। कोई पृथ्वी के स्वभाव से उपलों में विचित्रता आकर
रत्न हो जाता है—ऐसा मानते हैं॥३॥
बल इति दैत्याख्यस्तस्माद्बलाद्रत्नानि जातानि सम्भूतानि। स किलेन्द्रेण निहतस्त-
स्यास्थिभ्यो रत्नान्युत्पन्नानि। तथा च—
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

रत्नपरीक्षाध्यायः ३५१
सम्भूतानि बलाद्दैत्याद्रत्नानि विविधानि च।
गतानि नानावर्णत्वमस्थिभ्यो भूमिसंश्रयात् ।।
दधीचितोऽन्य इति । अन्येऽपरे दधीचिमुनेरस्थिभ्यो जातानीति वदन्ति। तथा च—
रत्नानि दधीचिमुनेर्जातानि सहस्रशो लोके।
अस्थिभ्यो भूमिवशाद् नानावर्णत्वमागतानि गुणैः।।
केचिदिति । केचिदन्ये आचार्या भुवो भूमेः स्वभावाज्जातानि रत्नानि विविधानि च।
उपला रत्नरूपत्वं प्राप्ताः कालान्तरेणेति प्राहुरुक्तवन्तः।।३।।
अथ रत्नानां नामान्याह—
वज्रेन्द्रनीलमरकतकर्कैतरपद्मरागरुधिराख्याः ।
वैदूर्यपुलकविमलकराजमणिस्र्फटिकशशिकान्ताः ॥४॥
सौगन्धिकगोमेदकशङ्खमहानीलपुष्परागाख्याः ।
ब्रह्ममणिज्योतीरससस्यकमुक्ताप्रवालानि ॥५॥
वज्र ( हीरा ), इन्द्रनील ( नीलम ), मरकत ( पन्ना ), कर्केतर, पद्मराग, रुधिर,
वैदूर्य, पुलक, विमलक, राजमणि, स्फटिक, चन्द्रकान्त, सौगन्धिक, गोमेद, शङ्ख,
महानील, पुष्पराज, ब्रह्ममणि, ज्योतीरस, सस्यक, मुक्ता ( मोती ), मूंगा—इन सबों
को 'रत्न' कहते हैं।।४-५।।
वज्रेन्द्रनीलेति । वज्रम्। इन्द्रनीलः। मरकतः। कर्केतरः। पद्मरागः। रुधिराख्यः।
वैदूर्यम्। पुलकः। विमलकः। राजमणी राजवान्। स्फटिकः। शशिकान्तश्चन्द्रकान्तः।
सौगन्धिकः। गोमेदकः। शङ्खः। महानीलः। पुष्परागाख्यः। ब्रह्ममणिः। ज्योतीरसः। सस्यकः।
मुक्ता मुक्ताफलानि। प्रवालं विद्रुमः। एतानि रत्नभेदानि। इत्यत उत्कृष्टानि चत्वारि वज्रमुक्ता-
पद्मरागमर्कताख्यानि, तेषामेव लक्षणमाचार्यः करोतीति सम्बन्धः।।४-५।।
अथ वज्रमणेः सप्ताकारस्थानानि लक्षणं चाह—
वेणातटे विशुद्धं शिरीषकुसुमप्रभं च कौशालकम् ।
सौराष्ट्रकमाताम्रं कृष्णं सौपरिकं वज्रम् ॥६॥
ईषत्ताम्रं हिमवति मतङ्गजं वल्लपुष्पसङ्काशम् ।
आपीतं च कलिङ्गे श्यामं पौण्ड्रेषु सम्भूतम् ॥७॥
वेणा नदी के तट पर सर्वथा शुद्ध, कौशल देश में शिरीष पुष्प के समान, सौराष्ट्र
देश में कुछ लाल, सूरपारक देश में काला, हिमवान् पर्वत पर कुछ लाल, मतङ्ग देश
में वल्लपुष्प के समान, कलिंग देश में पीले वर्ण का और पौण्ड्र देश में श्याम वर्ण का
हीरा उत्पन्न होता है।।६-७।।
वेणा नाम नदी तस्यास्तटे तीरे विशुद्धं दोषरहितम्। शिरीषकुसुमप्रभं शिरीषकुसुमसङ्काशं
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

३५२ बृहत्संहिता
श्वेतपीत वर्णं तत्कौशलकं कोशलदेशसम्भूतम्। वज्रमाताम्रमाताम्रवर्णमीषल्लोहितम्,
तत्तु सौराष्ट्रं सुराष्ट्रसम्भूतं वज्रम्। वज्रं कृष्णं कृष्णवर्णं सौर्पारकं सौर्पारदेशे सम्भूतं जातम्।
ईषत्ताम्रमिति। ईषत् किञ्चित्ताम्रं ताम्रवर्णं वज्रं हिमवति पर्वते हिमवत्सम्भूतम्। वल्ल-
पुष्पसङ्काशं वल्लपुष्पनिभमीषत्पाण्डुरं मातङ्गं मातङ्गदेशसम्भूतम्। आपीतं पीतवर्णं कलिङ्गे
कलिङ्गदेशोद्भवं वज्रम्। श्यामं श्यामवज्रं पौण्ड्रेषु सम्भूतं पौण्ड्रदेशजातमिति॥६-७॥
अथैतेषां दैवत्यमाह—
ऐन्द्रं षडश्रि शुक्लं याम्यं सर्पास्यरूपमसितं च।
कदलीकाण्डनिकाशं वैष्णवमिति सर्वसंस्थानम् ॥८॥
वारुणमबलागुह्योपमं भवेत् कर्णिकारपुष्पनिभम्।
शृङ्गाटकसंस्थानं व्याघ्राक्षिनिभं च हौतभुजम् ॥९॥
वायव्यं च यवोपममशोककुसुमप्रभं समुद्दिष्टम्।
स्रोतः खनिः प्रकीर्णकमित्याकरसम्भवस्त्रिविधः ॥१०॥
छः कोण वाले सफेद हीरे का इन्द्र, सर्पाकार मुख वाले काले हीरे का यम, कदली-
काण्ड के समान ( नील-पीत ) वर्ण वाले हीरे का विष्णु और सामान्य रूप से समस्त
प्रकार के हीरे का भी विष्णु ही देवता है। स्त्री की भग के समान आकृति वाले हीरे का
वरुण, कर्णिकारपुष्प के समान, सिंघाड़े के समान ( त्रिभुजाकार ) या बाघ के नेत्र के
समान हीरे का अग्नि तथा अशोक के पुष्प के समान वर्ण वाले हीरे का वायव्य देवता
है। नदी के प्रवाह, खान, प्रकीर्णक ( जिस भूमि में मणि होती है अर्थात् समुद्र आदि )—
ये तीन हीरों की उत्पत्ति के आकरस्थान कहे गये हैं॥८-१०॥
ऐन्द्रमिति। यद्वज्रं षडश्रि षड्भिरश्रिभिर्युक्तम्। षट्कोणमित्यर्थः। शुक्लं शुक्लवर्णम्।
तदैन्द्रम्। इन्द्रो देवतास्येन्द्रम्। यच्चासितं कृष्णवर्णं सर्पास्यरूपं भुजङ्गमुखसदृशम्, तद्याम्यं
यमदैवतम्। यच्च कदलीकाण्डनिकाशं नीलपीतमित्यर्थः। सर्वसंस्थानं सर्वाण्यशेषाणि
संस्थानानि यस्य, सर्वकारम्। तद्वैष्णवं विष्णुदैवत्यम्।
वारुणमिति। अबला स्त्री तस्या गुह्यं वराङ्गं तदुपमं तद्दिकारस्त्रीमणिसदृशम्, तद्वारु-
णम्। कर्णिकारपुष्पनिभम्, कर्णिकारो वृक्षस्तत्कुसुमप्रभम्। शृङ्गाटकसंस्थानं त्र्यस्रम्।
व्याघ्राक्षिनिभं व्याघ्रनेत्रसदृशं नीललोहितम्, तद्वज्रं हौतभुजमाग्नेयम्।
वायव्यं चेति। यद्वज्रं यवोपमं यवाकारं मध्यस्थूलम्। अशोककुसुमप्रभमशोकपुष्पसदृशं
लोहितवर्णं तद्वायव्यं वायुदैवत्यमुक्तम्। स्रोतः खनिः प्रकीर्णकमिति। श्रोतो यतो जलं
स्रवति। खनिः खन्यत इति खनिः खातम्। प्रकीर्णकं यस्यां भूमौ मणयो भवन्ति। समुद्रे यथा।
एवं स्रोतः खनिः प्रकीर्णकमिति त्रिविधः त्रिप्रकार आकरसम्भवो वज्रस्येति॥८-१०॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

रत्नपरीक्षाध्यायः ३५३
अथ ब्राह्मणादीनां कीदृशं वज्रं प्रशस्यत इत्याह—
रक्तं पीतं च शुभं राजन्यानां सितं द्विजातीनाम् ।
शौरीषं वैश्यानां शूद्राणां शस्यतेऽसिनिभम् ॥११॥
लाल और पीला हीरा क्षत्रियों को, सफेद हीरा ब्राह्मणों को, शिरीष-पुष्प के समान
वर्ण वाला वैश्यों को और नीला हीरा शूद्रों को शुभ करने वाला होता है॥११॥
रक्तं रक्तवर्णं पीतं च राजन्यानां क्षत्रियाणां शुभं प्रशस्तम्। सितं श्वेतवर्णं द्विजातीनां
ब्राह्मणानां शुभम्। शैरीषं शिरीषकुसुमसदृशं वैश्यानां शुभम्। असिनिभं खड्गसदृशं कृष्ण-
मित्यर्थः। शूद्राणां स्तूयते। शुभमित्यर्थः॥११॥
अधुनास्य वज्रमणेर्मूल्यपरिज्ञानार्थमाह—
सितसर्षपाष्टकं तण्डुलो भवेत्तण्डुलैस्तु विंशत्या ।
तुलितस्य द्वे लक्षे मूल्यं द्विव

३५४ बृहत्संहिता
लक्षद्वयं त्र्यंशोनं त्रिभागरहितं मूल्यम्। लक्षमेकं त्रयस्त्रिंशत्सहस्त्राणि शतत्रयं त्रयस्त्रिंशदधिकं
सत्रिभागमित्यर्थः। चतुर्दशभिस्तण्डुलैस्तुलितं तस्यार्धोनं लक्षद्वयं लक्षमेकमित्यर्थः। द्वादश-
भिस्तण्डुलैस्तुलितस्य लक्षद्वयत्रिभागो मूल्यम्। षट्षष्टिसहस्त्राणि षट्शतानि सप्तषष्ट्यधिकानि
त्रिभागद्वय इत्यर्थः। दशभिस्तुलितस्य लक्षद्वयपञ्चांशो मूल्यम्। चत्वारिंशत्सहस्त्राणीत्यर्थः।
अष्टाभिस्तण्डुलैस्तुलितस्य लक्षद्वयषोडशांशो मूल्यम्। द्वादशसहस्त्राणि पञ्चशतानीत्यर्थः।
षड्भिस्तण्डुलैस्तुलितस्य लक्षद्वयात् पञ्चविंशतिको भागो मूल्यम्। अष्टौ सहस्त्राणीत्यर्थः।
चतुर्भिस्तण्डुलैस्तुलितस्य लक्षद्वयाच्छतभागो मूल्यम्। सहस्त्रद्वयं कार्षापणानामित्यर्थः।
अन्तरे स्वबुद्ध्या व्यस्तत्रैराशिकेन मूल्यमूह्यमिति।।१२-१३।।
अथ शुभवज्रलक्षणान्याह—
सर्वद्रव्याभेद्यं लघ्वम्भसि तरति रश्मिवत् स्निग्धम्।
तडिदनलशक्रचापोपमं च वज्रं हितायोक्तम् ।।१४।।
जो हीरा किसी भी वस्तु से टूटने वाला न हो, अल्प जल में भी किरण की तरह
तैरता रहे, निर्मल हो एवं बिजली, अग्नि या इन्द्रधनुष के समान वर्ण वाला हो, वह
कल्याणकारी कहा गया है।।१४।।
यद्वज्रं सर्वद्रव्याभेद्यं न केनचिच्छस्त्रादिनापि भिद्यते। लघु गौरववर्जितम्। अम्भसि
जले तरति निमज्जतीत्यर्थः। रश्मिवत् रश्मयः किरणा विद्यन्ते यस्य तत्। स्निग्धं स्नेह-
संयुक्तम्। तडिद् विद्युत्। अनलोऽग्निः। शक्रचापमिन्द्रधनुः। एषामुपमं सदृशं तद्वज्रं हितायोक्तं
श्रेयसे कथितम्।।१४।।
अथाशुभलक्षणान्याह—
काकपदमक्षिकाकेशधातुयुक्तानि शर्करैर्विद्धम्।
द्विगुणाश्रि दग्धकलुषत्रस्तविशीर्णानि न शुभानि ।।१५।।
काकपद के समान चिह्न वाला, मक्खी के समान चिह्न वाला, केश के समान रेखा-
रूप चिह्न वाला, धातुओं ( मिट्टियों ) से युक्त, कंकड़ से विद्ध, कथित लक्षण से दुगुने
कोण वाला, आग से जला हुआ, मलिन, कान्तिहीन एवं जर्जर हीरा शुभदायी नहीं होता
है।।१५।।
यानि वज्राणि काकपदैः काकपदाकृतिभिश्चिह्नैः। मक्षिकाभिस्तदाकृतिभिः। केशैर्बाल-
सदृशरेखाभिः। धातुभिर्मृत्तिकाभिः। एतैर्युक्तानि। तथा यच्छर्करैर्युक्तं यच्च विद्धं वेधसंयुक्तम्।
यच्च द्विगुणाश्रि लक्षणाभिरश्रिभिर्द्विगुणाभिर्युक्तम्। दग्धमग्निना। कलुषं विवर्णम्। त्रस्तं
विगतकान्ति। विशीर्णं जर्जरितम्। एतानि न शुभानि, अशोभनानि ।।१५।।
अन्यदप्याह—
यानि च बुद्बुददलिताग्रचिपिटवासीफलप्रदीर्घाणि।
सर्वेषां चैतेषां मूल्याद् भागोऽष्टमो हानिः ।।१६।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पानी के बुलबुले के समान आगे से फटा, चिपटा और वासी फल के समान
लम्बा हीरा शुभ करने वाला नहीं होता। इसलिये इन दोषयुक्त हीरों का मूल्य पूर्वोक्त
मूल्य से अष्टमांश कम हो जाता है।।१६।।
यानि च वज्राणि बुद्बुदानि जलबुद्बुदसदृशानि। दलिताग्राणि दलितं विदारितमग्रं प्रान्तं
येषाम्। चिपिटानि चर्पटानि। वासीफलवत्प्रदीर्घाणि वासिका द्रव्यविशेषः। एतेषां सर्वेषां
प्राग्विधानेन यन्मूल्यं भवति तस्मादष्टमो भागो हानिर्भवति। अष्टमभागोनं मूल्यं भवती-
त्यर्थः।।१६।।
अथ वज्रमणेर्धारणे गुणानाह—
वज्रं न किञ्चिदपि धारयितव्यमेके
पुत्रार्थिनीभिरबलाभिरुशन्ति तज्ज्ञाः।
शृङ्गाटकत्रिपुटधान्यकवत् स्थितं यत्
श्रोणीनिभं च शुभदं तनयार्थिनीनाम् ।।१७।।
हीरा के लक्षणों को जानने वाले पण्डितों का कहना है कि पुत्र चाहने वाली स्त्रियों
को किसी भी प्रकार का हीरा नहीं धारण करना चाहिये। सिंघाड़े की आकृति वाले तीन
पुटों से युक्त, धान्यफल के समान या श्रोणी के समान हीरे को धारण करना पुत्र चाहने
वाली स्त्रियों के लिये शुभदायक होता है।।१७।।
वज्रं वज्रमणिर्बलाभिः स्त्रीभिः पुत्रार्थिनीभिः सुताभिलाषिणीभिर्न किञ्चिदपि
धारयितव्यमित्येके आचार्या उशन्ति कथयन्ति। यच्छृङ्गाटकाकारं त्र्यस्रम्। त्रिपुटं त्रिभिः
पुटैर्युक्तम्। धान्यकबद्द्धान्यकाफलवत्स्थितम्। श्रोणीनिभं रूह्यधररागसदृशम्। तत्तनयार्थिनीनां
शुभदम्। तथा च—
सुतार्थिनीभिर्धन्याभिर्न धार्यं वज्रसंज्ञकम्।
यच्च शृङ्गाटकाकारं त्रिपुटं धान्यवत्स्थितम्।।
श्रोणीनिभं सुवर्णं च स्निग्धं किरणसंयुक्तम्।
तच्छस्तं धारणे स्त्रीणां पुत्रवृद्धिप्रदं स्मृतम्।। इति।।१७।।
अन्यदप्याह—
स्वजनविभवजीवितक्षयं जनयति वज्रमनिष्टलक्षणम्।
अशनिविषभयारिनाशनं शुभमुपभोगकरं च भूभृताम् ।।१८।।
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां रत्नपरीक्षा-
नामाशीतितमोऽध्यायः ॥८०॥
अशुभ लक्षणों से युक्त हीरे को धारण करने से राजाओं के बन्धु, धन और प्राण

३५६ बृहत्संहिता
का नाश होता है तथा शुभ लक्षणों से युक्त हीरे को धारण करने से वज्रभय, विष एवं
शत्रु का नाश तथा भोग की वृद्धि होती है।।१८।।
इति 'विमला'हिन्दीटीकायां रत्नपरीक्षाध्यायोऽशीतितमः ॥८०॥
अनिष्टलक्षणमशुभलक्षणसंयुक्तं वज्रं वज्रमणिः स्वजनानां बान्धवानां विभवस्यैश्वर्यस्य
जीवितस्यायुषः क्षयं हानिं जनयत्युत्पादयति। शुभलक्षणं वज्रमशनिभयं विद्युद्भीतिम्। विष-
भयम्। अरिभयं शत्रुभयं च नाशयति। भूभृतां राज्ञामुपभोगकरं भवति। केचिदुरुभोगकरं
विस्तीर्णभोगकरमितीच्छन्ति।।१८।।
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ वज्रमणिपरीक्षा-
नामाशीतितमोऽध्यायः ॥८०॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

अथ मुक्तालक्षणाध्यायः
अथ मुक्तालक्षणं व्याख्यायते। तत्रादावेव मुक्ताफलानामुत्पत्तिप्रदर्शनार्थमाह—
द्विपभुजगशुक्तिशङ्खाभ्रवेणुतिमिसूकरप्रसूतानि ।
मुक्ताफलानि तेषां बहुसाधु च शुक्तिजं भवति ॥१॥
हाथी, सर्प, सीपी, शंख, मेघ, बांस, मछली और सूअर से मोती की उत्पत्ति होती
हैं। उनमें से सीपी से उत्पन्न मोती को सबसे उत्तम कहा गया है॥१॥
द्विपो हस्ती। भुजगः सर्पः। शुक्तिः प्राणिविशेषः। शङ्खः प्राणी। अभ्रं मेघः। वेणुर्वंशः।
तिमिर्मत्स्यः। सूकरो वराहः। एभ्यः प्रसूतानि उत्पन्नानि मुक्ताफलानि भवन्ति। तेषां सर्वेषां
मध्याच्छुक्तिजं शुक्तिसम्भूतं बहुसाध्वतिश्रेष्ठं भवति। प्राचुर्येण व्यवहारीत्यर्थः॥१॥
अथ मुक्ताफलानामष्टावाकरानाह—
सिंहलकपारलौकिकसौराष्ट्रिकताम्रपर्णिपारशवाः ।
कौबेरपाण्ड्यवाटकहैमा इत्याकरास्त्वष्टौ ॥२॥
सिंहलक देश, परलोक देश, सुराष्ट्र देश, ताम्रपर्णी नदी, पारशव देश, कौबेर देश,
पाण्ड्यवाटक देश और हिम—ये आठ मोतियों के आकरस्थान हैं॥२॥
सिंहलको देशः। परलोको देशः, तत्र भवः पारलौकिकः। सौराष्ट्रिकः। सुराष्ट्रको
देशभेदः। ताम्रपर्णी नदी। पारशवो देशः। कौबेरो देशः। पाण्ड्यवाटको देशः। तत्र भवाः।
हैमा हिमभवाः। इत्येवं प्रकारा अष्टौ मुक्ताफलानामाकरा उत्पत्तिस्थानानि॥२॥
अथैतेषां लक्षणमाह—
बहुसंस्थानाः स्निग्धाः हंसाभाः सिंहलाकराः स्थूलाः ।
ईषत्ताम्राः श्वेतास्तमोवियुक्ताश्च ताम्राख्याः ॥३॥
कृष्णाः श्वेताः पीताः सशर्कराः पारलौकिका विषमाः ।
न स्थूला नात्यल्पा नवनीतनिभाश्च सौराष्ट्राः ॥४॥
ज्योतिष्मत्यः शुभ्रा गुरवोऽतिमहागुणाश्च पारशवाः ।
लघु जर्जरं दधिनिभं बृहद् द्विसंस्थानमपि हैमम् ॥५॥
विषमं कृष्णश्वेतं लघु कौबेरं प्रमाणतेजोवत् ।
निम्बफलत्रिपुटधान्यकचूर्णाः स्युः पाण्ड्यवाटभवाः ॥६॥
सिंहलक देश में अनेक आकृति वाले, स्निग्ध, हंस के समान सफेद और स्थूल
मोती उत्पन्न होते हैं। ताम्रपर्णी नदी में कुछ लाल, सफेद और निर्मल मोती निकलते हैं।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

३५८ बृहत्संहिता
परलोक देश में काले, सफेद, पीले, कंकड़युक्त और विषम मोती होते हैं। सौराष्ट्र देश में
न बहुत मोटे, न बहुत छोटे और मक्खन के समान कान्ति वाले मोती होते हैं। पारशव
देश में तेजोयुक्त, सफेद, भारी और अधिक गुण वाले मोती होते हैं। हिम में छोटे,
जर्जर, दही के समान कान्ति वाले, बड़े और श्रेष्ठ आकृति वाले मोती होते हैं। कौबेर
देश में विषम, काले, सफेद, हल्के और अति तेजस्वी मोती होते हैं। पाण्ड्य देश में
निम्बफल के समान, तीन पुटों से युत, धान्यक फल के समान और अति सूक्ष्म मोती
उत्पन्न होते हैं।।३-६।।
बहुसंस्थाना इति । या मुक्ता बहुसंस्थाना बहुप्रकारसंस्थानमाकारो यासाम्। स्निग्धा
निर्मलाः। हंसाभा हंसवर्णसदृशकान्तयः। स्थूला बृहत्यस्ताः सिंहलाकराः, सिंहल आकरो
यासाम्। ईषत्ताम्राः किञ्चित्ताम्रवर्णाः। श्वेताः शुक्लाः। तमोवियुक्तास्तमोविरहिता निर्मला
इत्यर्थः। तास्ताम्राख्यास्ताम्रपर्णभवाः।
कृष्णाः श्वेता इति । कृष्णाः कृष्णवर्णाः। श्वेताः सिताः। पीताः पीतवर्णाः। सशर्करा
धातुयुक्ताः। विषमाश्चासमाः। ताः पारलौकिकाः परलोकभवाः। याश्च नातिस्थूला नातिबृहत्यः,
नात्यल्पा नातिसूक्ष्माः। नवनीतनिभा नवनीतकान्तयस्ताः सौराष्ट्राः।
ज्योतिष्मत्य इति। या मुक्ता ज्योतिष्मत्यस्तेजोयुक्ताः। शुभ्राः श्वेताः गुरवोऽतिगौरव-
युक्ताः। महागुणा महद्भिर्गुणैर्युक्ताः, ताः पारशवाः। लघु स्वल्पम्। जर्जरं विवर्णम्। दधिनिभं
दधिसदृशम्। बृहद्विस्तीर्णम्। द्विसंस्थानं द्वे संस्थाने यस्य तद्धैमं हिमवति सम्भूतम्।
विषममिति । विषममसमम्। कृष्णश्वेतं कृष्णवर्णं श्वेतवर्णं च। लघु गौरववर्जितम्।
प्रमाणतेजोवत्। प्रमाणं महत्त्वं तेजश्च कान्तिर्विद्यते यस्मिंस्तत्। निम्बफलसदृशम्। त्रिपुटं
त्रिभिः पुटैरुपलक्षितम्। धान्यकं धान्यकाफलसदृशम्। चूर्णं चातिसूक्ष्मम्। एताः सर्वा एव
मुक्ताः पाण्ड्यवाटभवाः पाण्ड्यवाटे जाताः स्युर्भवेयुः।।३-६।।
अथैतेषां विशेषमाह—
अतसीकुसुमश्यामं वैष्णवमैन्द्रं शशाङ्कसदृशम् ।
हरितालनिभं वारुणमसितं यमदैवतं भवति ॥७॥
परिणतदाडिमगुलिकागुञ्जाताम्रं च वायुदैवत्यम् ।
निर्धूममानलकमलप्रभं च विज्ञेयमाग्नेयम् ॥८॥
अलसी-पुष्प के समान श्याम वर्ण के मोतियों का देवता विष्णु, चन्द्र की कान्ति
के समान मोती का देवता इन्द्र, हरिताल के समान मोती का देवता वरुण, काले वर्ण के
मोती का देवता यम, पके हुये अनार के बीज या चोंटनी ( करजनी ) के समान रक्त
वर्ण वाले मोती का देवता वायु तथा धूमरहित अग्नि या कमल के समान कान्ति वाले
मोती का देवता अग्नि कहा गया है।।७-८।।
अतसीकुसुमश्याममिति । अतसीकुसुममतिप्रसिद्धं तद्वत् श्यामं यन्मुक्ताफलं तद्वैष्णवं
CC-0. JK Sanskrit Academy, Jammu. Digitized by S3 Foundation USA

मुक्तालक्षणाध्यायः ३५.
विष्णुदैवत्यम्। शशाङ्कसदृशं चन्द्राभं तदैन्द्रम्। यच्च हरितालनिभं हरितालवर्णं तद्वारुणम्।
यच्चासितं कृष्णं तद्यमदैवत्यम्।
परिणतदाडिमगुलिकागुञ्जाताम्रं चेति । परिपक्वदाडिमगुञ्जाफलरक्तं यत्तद्वायुदैवत्यं
वायव्यम्। निर्धूमस्य धूमरहितस्यानलस्याग्नेः सदृशी प्रभा कान्तिर्यस्य तथा कमलस्य
पद्मस्य च सदृशप्रभं यत्तदाग्नेयमग्निदैवत्यं विज्ञेयम्।।७-८।।
अथैतेषां मूल्यपरिज्ञानार्थनाह—
माषकचतुष्टयधृतस्यैकस्य शताहता त्रिपञ्चाशत् ।
कार्षापणा निगदिता मूल्यं तेजोगुणयुतस्य ॥९॥
माषकदलहान्यातो द्वात्रिंशद्विंशतिस्त्रयोदश च।
अष्टौ च शतानि शतत्रयं त्रिपञ्चाशता सहितम् ॥१०॥
पञ्चत्रिंशं शतमिति चत्वारः कृष्णला नवतिमूल्याः ।
सार्धास्तिस्रो गुञ्जाः सप्ततिमूल्यं धृतं रूपम् ॥११॥
गुञ्जात्रयस्य मूल्यं पञ्चाशद्रूपका गुणयुतस्य ।
रूपकपञ्चत्रिंशत्तस्य गुञ्जार्धहीनस्य ॥१२॥
चार मासे के बराबर तजोगुणयुक्त एक मोती का मूल्य ५३०० कार्षापण होता है
तथा चार मासे तुल्य मोती में आधे-आधे कम करने पर क्रमशः ३२००, २०००,
१३००, ८००, ३५३ कार्षापणतुल्य मूल्य होते हैं। जैसे—साढ़े तीन मासे तुल्य एक
मोती का मूल्य ३२००, तीन माशे तुल्य एक मोती का मूल्य २०००, ढाई माशे तुल्य
एक मोती का मूल्य १३०० कार्षापण इत्यादि होते हैं। एक माशे तुल्य एक मोती का
मूल्य १३५, पाँच कृष्णला ( गुञ्जा ) तुल्य मोती का मूल्य ९०, साढे तीन गुञ्जा तुल्य
मोती का मूल्य ७०, तीन गुञ्जा तुल्य एक मोती का मूल्य ५० और ढाई गुञ्जा तुल्य एक
मोती का मूल्य ३५ कार्षापण होता है॥९-१२॥
माषकचतुष्टयधृतस्येति । एकस्य मुक्ताफलस्य तेजोगुणयुक्तस्य गुणान् वक्ष्यति—
‘स्निग्धः प्रभानुलेपी’त्याद्येवं माषकचतुष्टयेन धृतस्य तुलितस्य त्रिपञ्चाशत्कार्षापणाः शताहताः
शतगुणिता मूल्यम्। त्रिपञ्चाशत्कार्षापणशतानीत्यर्थः।
माषकदलेति । अतोऽस्मान्माषकचतुष्टयधृतान्मुक्ताफलान्माषकदलहान्या माषकार्धो-
नितया एतद्वक्ष्यमाणं मूल्यम्। तद्यथा—सार्धैस्त्रिभिर्माषकैस्तुलितस्य द्वात्रिंशत्कार्षापणशतानि
मूल्यम्। त्रिभिर्माषकैस्तुलितस्य विंशतिकार्षापणशतानि मूल्यम्। द्वाभ्यां सार्धाभ्यां तुलितस्य
त्रयोदशकार्षापणशतानि। द्वाभ्यां तुलितस्याष्टौ शतानि। अध्यर्धेन माषेकेन तुलितस्य त्रिपञ्चाश-
दधिकं शतत्रयं कार्षापणानां मूल्यम्।
एकेन माषेकेन तुलितस्य पञ्चत्रिंशदधिकं शतं कार्षापणानां मूल्यम्। चत्वारः कृष्णला
CC-0. JK Sanskrit Academy, Jammnu. Digitized by S3 Foundation USA