बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 2 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 375, कुल 760 में से
संदर्भ में पढ़ेंशय्यालक्षणाध्यायः ३४७
सुषिरोऽथवेति । पादस्य शीर्षगे शिरोगते ग्रन्थौ सुषिरे अन्तरसार अथवा विवर्णे
विगतवर्णे दारुवर्णान्तरमाश्रिते व्याधिर्भवति शिरस्येव स्वामिनः । तस्मिन्नेव पादे यश्च कुम्भः
कुम्भभागस्तस्मिन् ग्रन्थौ स्थिते सत्युदररोगो भवति ।
कुम्भाधस्ताद्या जङ्घा तत्र कृतो ग्रन्थिर्जङ्घयोर्भयं करोति । तस्या जङ्घाया अधस्ताद्
यं आधारस्तत्र कृतो ग्रन्थिर्द्रव्यस्य धनादिकस्य क्षयकृद्भवति ।
खुरदेश इति । यो ग्रन्थिः खुरदेशे पादस्थाने स्थितः खुरिणामश्वादीनां स पीडाकारो
निर्दिष्टः कथितः । ईषा पार्श्वपट्टिका । शीर्षणी शिरःकाष्ठम् । तयोः समाने त्रिभागे तृतीयांशे
यः स्थितो ग्रन्थिः स स्वामिनो न शुभो भवति । पादभागस्य काष्ठद्वितीयपट्टिका वा अपि
त्रिभागसंस्था न शुभदैव ।। २९-३१ ।।
अधुना छिद्राणां नामान्याह—
निष्कुटमथ कोलाक्षं सूकरनयनं च वत्सनाभं च ।
कालकमन्यद्धुन्ध्युकमिति कथितश्छिद्रसंक्षेपः ।।३२।।
निष्कुट, कोलाक्ष, सूकरनयन, वत्सनाभ, कालक, धुन्ध्युक—ये संक्षेप से छिद्रों
की संज्ञायें कही गई हैं ।।३२।।
निष्कुटं नाम छिद्रम्। अथशब्दश्चार्थे। कोलाक्षम्। सूकरनयनं च। वत्सनाभं च।
कालकम्। अन्यदपरं धुन्ध्युकम्। इत्येवम्प्रकारेण छिद्राणां संक्षेपः समासः कथित उक्तः ।।३२।।
अथैतेषां लक्षणमाह—
घटवत् सुषिरं मध्ये सङ्कटमास्ये च निष्कुटं छिद्रम् ।
निष्पावमाषमात्रं नीलं छिद्रं च कोलाक्षम् ।।३३।।
सूकरनयनं विषमं विवर्णमध्यर्धपर्वदीर्घं च।
त्वामावर्तं भिन्नं पर्वमितं वत्सनाभाख्यम् ।।३४।।
कालकसंज्ञं कृष्णं धुन्ध्युकमिति यद्भवेद्द्विनिर्भिन्नम् ।
दारुसवर्णं छिद्रं न तथा पापं समुद्दिष्टम् ।।३५।।
यदि छिद्र के मध्य में घड़े के समान चौड़ा और ऊपर तंग मुख की आकृति दिखाई
दे तो निष्कुट, शालि धान्य या उड़द के बराबर नील वर्ण का छिद्र हो तो कोलाक्ष,
विषम, विवर्ण और डेढ़ पर्व लम्बा छिद्र हो तो सूकरनयन, एक पर्व लम्बा वामावर्त
छिद्र हो तो वत्सनाभ, काला छिद्र हो तो कालक और दूसरी तरफ से भी दिखाई देने
वाला काला छिद्र हो तो वह छिद्र धुन्ध्युक संज्ञक होता है। काष्ठ के समान वर्ण वाले
अशुभ छिद्र भी विशेष अशुभ फल नहीं देते हैं।।३३-३५।।
घटवत् सुषिरं मध्ये इति । यत्सुषिरं छिद्रं मध्ये मध्यभागे घटवत् कुम्भवत्। आस्ये
मुखे च सङ्कटमल्पं तन्निष्कुटं नाम। निष्पावाः शालयः। निष्पावमात्रं निष्पावतुल्यं माष-
मात्रं च वा। नीलं नीलवर्णं तच्छिद्रं कोलाक्षसंज्ञम्।