सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

Brihat Samhita Vol 2 with Vimala Hindi Commentary

आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा

DevanagariHindipublished760 पृष्ठ

३१८ बृहत्संहिता
पूर्वोक्त सोलह द्रव्यों में चार-चार विकल्प से १८२० भेद होते हैं॥२०॥
अस्मिन् द्रव्यगणे षोडशके षोडशसङ्ख्ये चतुर्विकल्पेन चतुर्भिश्चतुर्भिर्द्रव्यैरैकैको गन्ध
इत्यनेन क्रमेण भिद्यमानानामष्टादश शतानि विंशत्यधिकानि गन्धानां जायन्ते उत्पद्यन्ते।
एतत्पुरस्तादाचार्य एव प्रदर्शयिष्यति॥२०॥
अथ सर्वगन्धानां संख्याप्रमाणज्ञानमाह—
षण्णवतिभेदभिन्नश्चतुर्विकल्पो गणो यतस्तस्मात्।
षण्णवतिगुणः कार्यः सा सङ्ख्या भवति गन्धानाम्॥२१॥
सोलह द्रव्यों में से चार-चार विकल्प करके लाये हुए भेद (१८२०) को
पूर्वकथित (९६) भेद से गुणा करने से १७४७२० भेद होते हैं; किन्तु ये भेद गौण
वृत्ति से आते हैं। मुख्य वृत्ति से तो १८२० को २४ से गुणा करने से ४३६८० भेद
होते हैं॥२१॥
अयमपि चतुर्विकल्पो यतो यस्मात् षण्णवतिभेदभिन्नो निरन्तरत्वेन तस्मादष्टादश
शतानि विंशत्यधिकानि १८२०। यो गणः समूहः षण्णवतिगुणः कार्यः सा संख्या सर्व-
गन्धानां भवति। लक्षमेकं चतुःसप्ततिसहस्राणि सप्तशतानि विंशत्यधिकानीत्यर्थः १७४७
२०। एतद्गौणवृत्त्या न मुख्यया। मुख्यवृत्त्या त्रिचत्वारिंशत्सहस्राणि षट्शतान्यशीत्यधिकानि
४३६८० भवन्ति। यतश्चतुर्विकल्पो गणश्चतुर्विंशतिभेदभिन्नः॥२१॥
अथैतेषां भेदप्रदर्शनार्थं सङ्ख्यानयनार्थं लोष्टकप्रस्तारमाह—
पूर्वेण पूर्वेण गतेन युक्तं स्थानं विनान्त्यं प्रवदन्ति सङ्ख्याम्।
इच्छाविकल्पैः क्रमशोऽभिनीय नीते निवृत्तिः पुनरन्यनीतिः॥२२॥
एक से लेकर जितने द्रव्य हों, उतनी संख्या तक नीचे से लेकर ऊपर को गई हुई
पंक्ति में अंकों को लिखे और पूर्व-पूर्व गताङ्क में ऊपर के अङ्कों को जोड़ता जाय। यहाँ
अन्तिम स्थान को छोड़कर संख्या होती है।
अभीष्ट विकल्पों से चरलोष्टक को अन्यत्र ले जाकर उसको वहाँ छोड़कर फिर
अन्य चरलोष्टक को अन्यत्र ले जाय॥२२॥
एकाद्यानङ्कान् षोडशान्ताननुपर्य्युपरि संस्थाप्योपरितनमङ्कं प्रत्येकेन पूर्वेण पूर्वेणाङ्कगतेनाङ्केन
युक्तं कार्यम्। य एव पूर्वः स गतः। यथैकस्योपरि द्वौ स्थितौ तत्र द्वयोरपेक्षया एकः पूर्वो
गतश्च तेन पूर्वेण पूर्वेण गतेनोपरितनमङ्कं युक्तं कार्यं तेनापि तदुपरितनं यावत्पञ्चदशं
स्थानम्, यत उक्तम्—स्थानं विनान्त्यं प्रवदन्ति सङ्ख्यामिति। अन्त्यं स्थानं विनाऽन्त्यं
वर्जयित्वा सङ्ख्यां प्रवदन्ति कथयन्ति। ततो भूयोऽधःप्रभृति पुनः पूर्वेण गतेन युक्तं कार्यम्।
यावच्चतुर्दशं स्थानम्। ततोऽपि पुनरधःप्रभृति पूर्वेण गतेन युक्तं कार्यम्, यावत्त्रयोदशं
स्थानम्। एवं तत्राष्टादशशतानि विंशत्यधिकानि भवन्ति। उदाहरणार्थमेकादीनां न्यासः।
CC-0. JK Sanskrit Academy, Jammu. Digitized by S3 Foundation USA

गन्धयुक्त्यध्यायः ३१९
| १६ | | | | अत्र पूर्वेण पूर्वेण गतेनाङ्केनैकादिनोत्तरमङ्कं द्वितीया-
| १५ | १२० | | | दिकमुपरिस्थितं युक्तं कार्यम्। तेनानुप्रविष्टेनान्त्यं विनोपरि
| १४ | १०५ | ५६० | | प्रथमे स्थाने षोडश जाताः। द्वितीये विंशत्यधिकं शतम्।
| १३ | ९१ | ४५५ | १८२० | तृतीये स्थाने पञ्चशतानि षष्ट्यधिकानि। चतुर्थे चाष्टादश-
| १२ | ७८ | ३६४ | १३६५ | शतानि विंशत्यधिकानि जातानि। एवं चतुर्विकल्पानां सङ्ख्या
| ११ | ६६ | २८६ | १००१ | जाता।
| १० | ५५ | २२० | ७१५ | अथैतेषां लोष्टकप्रस्तारार्थमाह—
| ९ | ४५ | १६५ | ४९५ | इच्छाविकल्पैः क्रमशोऽभिनीय नीते निवृत्तिः पुनरन्यनीतिः।
| ८ | ३६ | १२० | ३३० | तत्र तावद् घनादीनां द्रव्याणां षोडशानां नामाद्याक्षराणि
| ७ | २८ | ८४ | २१० | लिखेत्। तत्राद्यानि त्रीणि स्थिरलोष्टचिह्नितानि कृत्वा चतुर्थं
| ६ | २१ | ५६ | १२६ | चरलोष्टं चिह्नितं कृत्वा तदपि क्रमेणान्यस्मिन् द्रव्ये नीत्वा
| ५ | १५ | ३५ | ७० | तस्मिन्निवृत्तिः। पञ्चमे प्रत्यानयनम्। एवमनेन क्रमेण सर्वेषां
| ४ | १० | २० | ३५ | कार्यम्। यत उक्तम्—इच्छाविकल्पैरिति। अभीष्टैर्वि-
| ३ | ६ | १० | १५ | कल्पैश्चरलोष्ट्रं क्रमशः क्रमेणाभिनीय अन्यत्र सञ्चार्य नीते
| २ | ३ | ४ | ५ | निवृत्तिः कार्या। पुनरन्यनीतिः। अन्यस्मिन् स्थाने चरलो-
| १ | १ | १ | १ |
ष्टकेऽन्त्यवर्णे प्राप्तस्थिरलोष्टकमन्यस्थानान्तरं नयेत्। तत्र तं स्थिरं कृत्वा तदग्रतः स्थितेन
चरलोष्टकेन सह स्थानान्तरं नीयमानेन भेदाः प्रदर्श्याः। ततः पुनरपि स्थानान्तरस्थं चरलोष्टक-
मन्यस्थानान्तरं नीत्वा तत्र तं स्थिरं विनिधाय तदग्रतः स्थितेन चरलोष्टकेन स्थानान्तरनीयमानेन
भेदाः प्रदर्श्याः। एवमन्त्ये स्थिरलोष्टके उपान्तप्राप्तेऽन्यत् स्थिरलोष्टकं स्थानान्तरं नयेत्।
तत उपान्त्यान्त्यौ तदग्रस्थितौ कृत्वान्त्ये सञ्चार्यमाणे भेदाः प्राग्वत् प्रदर्श्याः। यावत्ते सर्व
एवोपान्त्यपूर्वं उपान्त्योऽन्यश्चान्त्यगताः स्युः। ततः पुनरन्यं स्थिरलोष्टकं स्थानान्तरं नयेत्,
तदग्रस्थितैरन्यैः प्राग्वद्भेदाः प्रदर्श्याः। एवं सर्वेषां क्रमेण कार्यम्। यावत् सर्व एवान्त्यस्था-
नमाश्रिता भवन्ति। तद्यथा—आद्यं त्रिकं स्थिरलोष्टचिह्नितं कृत्वा चतुर्थे सञ्चार्यमाणे त्रयोदश
उत्पद्यन्ते। ततस्तृतीयेन लोष्टकेन चतुर्थद्रव्यं नीते चतुर्थे लोष्टके सञ्चार्यमाणे द्वादश
उत्पद्यन्ते। ततस्तृतीये पञ्चमस्थानं नीते चतुर्थे लोष्टके सञ्चार्यमाणे एकादश उत्पद्यन्ते।
ततस्तृतीये षष्ठस्थाने नीते दश। एवं सप्तमे नव। अष्टमेऽष्टौ। एवं नवमे सप्त। दशमे
षट्। एकादशे पञ्च। द्वादशे चत्वारः। त्रयोदशे त्रयः। चतुर्दशे द्वौ। पञ्चदशे एकः। एवमेक-
नवतिः ९१। ततः प्रथमद्वितीयचतुर्थस्थानानि स्थिरलोष्टचिह्नितानि कृत्वा चतुर्थे सञ्चार्यमाणे
द्वादश। ततस्तृतीये प्राग्वत् स्थानान्तरेषु नीयमाने चतुर्थे सञ्चार्यमाणे एकादश दश नवाष्ट
सप्त षट् पञ्च चत्वारस्त्रयो द्वावेक इत्युत्पद्यन्ते। एवमष्टसप्ततिः ७८। पूर्वैः सहैकोन-
सप्तत्यधिकं शतम् १६९। ततः प्रथमद्वितीयपञ्चमेषु स्थानेषु स्थिरलोष्टचिह्नितेषु चतुर्थे
सञ्चार्यमाणे एकादश दश नवाष्ट सप्त षट् पञ्च चत्वारस्त्रयो द्वावेक उत्पद्यन्ते। एवं षट्षष्टिः
६६। पूर्वैः सह शतद्वयं पञ्चत्रिंशदधिकम् २३५। ततः प्रथमद्वितीयषष्ठस्थानेषु स्थिरलोष्ट-

चिह्नितेषु चतुर्थे सञ्चार्यमाणे दश नवाष्ट सप्त षट् पञ्च चत्वारस्त्रयो द्वावेक उत्पद्यन्ते।
एवं पञ्चपञ्चाशत् ५५। पूर्वैः सह शतद्वयं नवत्यधिकम् २९०। ततः प्रथमद्वितीयसप्तमेषु
स्थानेषु स्थिरलोष्टचिह्नितेषु चतुर्थे सञ्चार्यमाणे नवाष्ट सप्त षट् पञ्च चत्वारस्त्रयो द्वावेकश्च
भवन्ति। एवं पञ्चचत्वारिंशत् ४५। पूर्वैः सह शतत्रयं पञ्चत्रिंशदधिकम् ३३५। ततः
प्रथमद्वितीयाष्टमेषु स्थानेषु स्थिरलोष्टचिह्नितेषु चतुर्थे सञ्चार्यमाणे अष्ट सप्त षट् पञ्च
चत्वारस्त्रयो द्वावेकश्च भवन्ति। एवं षट्त्रिंशत् ३६। पूर्वैः सह शतत्रयमेकसप्तत्यधिकम्
३७१। ततः प्रथमद्वितीयनवमस्थानेषु स्थिरलोष्टचिह्नितेषु चतुर्थे सञ्चार्यमाणे सप्त षट्
पञ्च चत्वारस्त्रयो द्वावेकश्च भवन्ति। एवमष्टाविंशतिः २८। एवमनेन क्रमेणान्त्ये स्थानान्तरं
नीयमाने चतुर्थे सञ्चार्यमाणे एकविंशतिः २१। पुनरपि पञ्चदश १५। पुनरपि दश १०। पुनः
षट् ६। पुनस्त्रयः ३। पुनरेकः १। एवं चतुरशीतिः ८४। पूर्वैः सह चत्वारि शतानि पञ्च-
पञ्चाशदधिकानि ४५५। एवमनेन प्रकारेण यथा यथा प्रथमाद्या लोष्टका द्वितीयादिषु सञ्च-
रन्ति, तथा तथान्यानि त्रयोदशशतानि पञ्चषष्ट्यधिकानि १३६५ उत्पद्यन्ते। एकीकृता-
न्यष्टादशशतानि विंशत्यधिकानि भवन्ति १८२०। अस्माभिर्ग्रन्थगौरवभयात् सुप्रसिद्ध-
त्वाच्चोद्देशमात्र एव प्रदर्शितः। द्रव्यसंस्कारपाकवेधबोधधूपनादिकं नोक्तम्। एतत्तज्ज्ञेभ्य
उपलभ्य कार्यमिति।।२२।।
अथान्यान् गन्धयोगानाह—
द्वित्रीन्द्रियाष्टभागैरगुरुः पत्रं तुरुष्कशैलेयौ।
विषयाष्टपक्षदहनाः प्रियङ्गुमुस्तारसाः केशः॥२३॥
स्पृक्कात्वक्तगराणां मांस्याश्च कृतैकसप्तषड्भागाः।
सप्तर्तुवेदचन्द्रैर्मलयनखश्रीककुन्दुरुकाः ॥२४॥
सोलह कोष्ठ का पूर्ववत् एक चक्र बनाकर उसकी प्रथम पंक्ति में अगर दो भाग,
गन्धपत्र तीन भाग, सिह्लक पाँच भाग और शैलेय आठ भाग रक्खे। द्वितीय पंक्ति में
प्रियङ्गु पाँच भाग, मुस्ता आठ भाग, बोल दो भाग और शालीजातक ( हीवेर ) तीन
भाग रक्खे। तृतीय पंक्ति में स्पृक्का चार भाग, त्वक् एक भाग, तगर सात भाग और
मांसी छः भाग रक्खे तथा चतुर्थ पंक्ति में चन्दन सात भाग, नख छः भाग, श्रीवास चार
भाग और कुन्दरु एक भाग रक्खे।।२३-२४।।
द्वित्रीन्द्रियाष्टभागैरिति। अस्मिन् कच्छपुटे। अगुरुर्भागद्वयेन परिकल्प्यः। पत्रं गन्धपत्रं
त्रिभिर्भागैः। तुरुष्कं सिह्लरसमिन्द्रियसङ्ख्यैः पञ्चभिर्भागैः। शैलयोऽष्टभिः। विषयाष्टपक्षदहना
इति। प्रियङ्गुर्गन्धप्रियङ्गुर्विषयसङ्ख्यैः पञ्चभिर्भागैः। मुस्ता अष्टभिः। रसो बोलः स पक्षसंख्याभ्यां
द्वाभ्याम्। केशः शालीजातकः। स दहनभागैस्त्रिभिः।
स्पृक्कात्वक्तगराणामिति। स्पृक्का लता कृतसंख्यैश्चतुर्भागैः। त्वगेकेन भागेन।
तगरं सप्तभिः। मांसी षड्भिः। सप्तर्तुवेदचन्द्रैरिति। मलयं चन्दनं सप्तभिः। नखमृतुसंख्यैः

गन्धयुक्त्यध्यायः ३२१
षड्भिर्भागैः । श्रीकः श्रीवासको वेदसंख्यैश्चतुर्भिर्भागैः । कुन्दुरुकश्चन्द्रसंख्यैरेकेन भागेन देयः ।
एतेषां प्राग्वद्यथाभागक्रमेण षोडशकोष्ठके न्यासः कार्यः ।। २३-२४ ।।
| अ २ | प ३ | तु ५ | शै ८ |
| प्रि ५ | मु ८ | र २ | के ३ |
| स्पृ ४ | त्व १ | त ७ | मां ६ |
| म ७ | न ६ | श्री ४ | कु १ |
एवं न्यासे प्रदर्शिते प्रयोजनमाह—
षोडशके कच्छपुटे यथा तथा मिश्रिते चतुर्द्रव्ये ।
येऽत्राष्टादश भागास्तेऽस्मिन् गन्धादयो योगाः ।। २५ ।।
नखतगरतुरुष्कयुता जातीकर्पूरमृगकृतोद्बोधाः ।
गुडनखधूप्या गन्धाः कर्तव्याः सर्वतोभद्राः ।। २६ ।।
इस सोलह कोष्ठ वाले कच्छपुट में जिन-जिन चार द्रव्यों के भागों का योग करने
से अट्ठारह हो जायें, उतने प्रकार के गन्धयोग बनते हैं। इस तरह मिश्रित अट्ठारह भागों
में नख, तगर और सिह्लक सम भाग लेकर मिलावे। जायफल, कर्पूर और कस्तूरी सम
भाग लेकर उद्बोधन करे तथा गुड़ और नख का धूप दे। इस तरह करने से सर्वतोभद्र
नाम के अनेक प्रकार के गन्ध बन जायेंगे। इस चक्र में ऊर्ध्वाध, तिर्यक् या कोणाकृति
क्रम से भागों को जोड़ने से सब जगह अट्ठारह भाग होते हैं। अतः इन गन्धद्रव्यों का
नाम सर्वतोभद्र है ।। २५-२६ ।।
षोडशक इति । अस्मिन् षोडशके षोडशकोष्ठके कच्छपुटे यथा तथा येन तेन
प्रकारेण चतुर्द्रव्ये मिश्रिते एकीकृते । चतुर्भिर्द्रव्यैर्यथाभागपरिकल्पितैर्मिश्रीकृतैरत्र येऽष्टादश
भागा भवन्ति तेऽस्मिन् कच्छपुटे गन्धादय ऊर्ध्वाधःक्रमेण तिर्यग्वा चतुर्षु कोणेषु वा
मध्यमचतुष्कोणे वा कोणकोष्ठचतुष्टये वा प्राक्पंक्तौ वा मध्यमकोष्ठद्वये वान्त्यपंक्तौ।
मध्यमकोष्ठद्वये वा द्वितीयतृतीयपंक्तौ वाद्यन्तकोष्ठके वा येन तेन प्रकारेण। चतुर्षु मिश्रितेषु
अष्टादश भागा भवन्ति। तस्मिन् कच्छपुटे गन्धादयो योगा ये तेऽष्टादशभागा मिश्रीकृतास्ते
नखतगरतुरुष्कयुताः कार्याः। नखं शङ्खोद्भवं चर्म। तगरं प्रसिद्धम्। तुरुष्कं सिह्लरसम्।
एतैस्त्रिभिः सममात्रैर्युक्ताः कार्याः । तथा जातीकर्पूरमृगकृतोद्बोधाः, जाती जातीफलम्, कर्पूरः
प्रसिद्धः, मृगः कस्तूरिका—एतैस्त्रिभिः सममात्रैः कृत उद्बोधो येषां ते तथाभूताः । गुडनख-
धूप्याः, गुडेन नखेन च सममात्रेण च धूप्या धूपनीयाः । एवं गन्धाः सर्वतोभद्राः कर्तव्याः ।
तस्माद्यतस्ततो गृह्यमाणा अष्टादशभागा भवन्ति, अतः सर्वतोभद्रसंज्ञाः ।। २५-२६ ।।
अथ तैरेव पारिजातानाह—
जातीफलमृगकर्पूरबोधितैः ससहकारमधुसिक्तैः ।
बहवोऽत्र पारिजाताश्चतुर्भिरिच्छापरिगृहीतैः ।। २७ ।।
बृ० भ० द्वि०-२१
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

३२२ बृहत्संहिता
पूर्वोक्त द्रव्यों में से नियमानुसार अपनी इच्छा से किन्हीं चार द्रव्यों को लेकर
जायफल, कस्तूरी और कर्पूर से उद्बोधित करके आम के रस से युक्त शहद से सिक्त
करने पर पारिजातपुष्पसदृश गन्ध वाले बहुत तरह के मुखवास बनते हैं।।२७।।
चतुर्भिर्मध्यैरिच्छापरिगृहीतैः स्वेच्छया गन्धानि द्रव्याणि सङ्गृहीतैः। जातीफलमृग-
कर्पूरबोधितैः, जातीफलं प्रसिद्धम्। मृगः कस्तूरिका। कर्पूरः प्रसिद्धः। एतैर्बोधितैः। ससहकार-
मधुसिक्तैः सहकारेण चूतरससंयुक्तेन मधुना माक्षिकेण सिक्तैश्चैवास्मिन् कच्छपुटे बहवः
पारिजाताः पारिजातसदृशगन्धा मुखवासा भवन्ति।।२७।।
अथाधुना स्नानान्याह—
सर्जरसश्रीवासकसमन्विता येऽत्र सर्वधूपास्तैः ।
श्रीसर्जरसवियुक्तैः स्नानानि सबालकत्वग्भिः ॥२८॥
पूर्वकथित कच्छपुट में सर्जरस ( राल ) और श्रीवासक से युत जितने धूप कहे
गये हैं, उनमें श्रीवास और सर्जरस न मिलाकर नेत्रबाला और दालचीनी मिला देने से
अनेक प्रकार के स्नान करने के लिये चूर्ण बन जायेंगे।।२८।।
अत्रास्मिन् कच्छपुटे ये ये धूपाः सर्जरसश्रीवासकसमन्वितास्ते सर्व एव निःशेषाः।
तैरेव सर्वैः प्रागुक्तैः श्रीसर्जरसवियुक्तैः। श्रीवासकेन रहितैः सबालकत्वग्भिः, बालकं हीवेरम्।
त्वक् प्रसिद्धा। सबालकत्वग्भिर्बालकत्वक्सहितैः स्नानानि स्नानीयानि चूर्णानि भवन्ति।।२८।।
अधुना चतुरशीतिकेसरगन्धानाह—
रोध्रोशीरनतागुरुमुस्तापत्रप्रियङ्गुवनपथ्याः ।
नवकोष्ठात् कच्छपुटाद् द्रव्यत्रितयं समुद्धृत्य ॥२९॥
चन्दनतुरुष्कभागौ शुक्त्यर्धं पादिका तु शतपुष्पा ।
कटुगुग्गुलगुडधूप्याः केसरगन्धाश्चतुरशीतिः ॥३०॥
लोध्र, खस, तगर, अगुरु, मुस्ता, गन्धपत्र, प्रियङ्गु, वन ( परिपेलव ), हरीतकी—
इन नव द्रव्यों को लेकर पूर्वकथित रीति से बनाया हुआ नव कोष्ठ के कच्छपुट से क्रम
से तीन-तीन द्रव्य इकट्ठा करके चन्दन एक भाग, सिल्लक एक भाग, शुक्ति आधा भाग
और सौंफ एक भाग का चतुर्थांश मिलाकर कटुका, गुग्गुल और गुड का धूप देने पर
चौरासी प्रकार के बकुलपुष्प के समान गन्ध वाले गन्धद्रव्य बनते हैं।।२९-३०।।
रोध्रोशीरेति । रोध्रः प्रसिद्धः। उशीरं प्रसिद्धम्। नतं तगरम्। अगुरुः प्रसिद्धः। मुस्ता
प्रसिद्धा। पत्रं गन्धपत्रम्। प्रियङ्गुः प्रसिद्धा। वनं परिपेलवम्। पथ्या हरीतकी। एषां प्राग्व-
द्यथाक्रमेण नवकोष्ठके न्यासः। अस्मान्नवकोष्ठात् कच्छपुटाद्यथाक्रमेण द्रव्यत्रितयं त्रीणि
द्रव्याणि समुद्धृत्य सङ्गृह्य ततश्चन्दनतुरुष्कभागौ योज्यौ। चन्दनं मलयजम्, तुरुष्कं सिह्ल-
रसम्। चन्दनस्यैको भागः, तुरुष्कस्यैको भागः। शुक्तिर्नखस्तदर्धम्। शतपुष्पा पादिका
CC-0. JK Sanskrit Academy, Jammmu. Digit

गन्धयुक्त्यध्यायः ३२३
| रो | उ | न | चतुर्भागेन योज्या। कटुहिङ्गुलगुंडधूप्याः कटुका प्रसिद्धा, हिङ्गुलं कृष्णागुरुः,
| अ | मु | प | गुड इक्षुविकारः। एतैर्धूप्या धूपनीयः। केसरगन्धा वकुलगन्धाः चतुरशी-
| व | प्रि | प | तिर्भवन्ति। एतदुक्तं भवति—नव द्रव्याणि भेदभिन्नानि यावत् क्रियन्ते
तावच्चतुरशीतिर्भेदा भवन्ति। तद्यथैकादीनां न्यासः। तद्यथा पूर्वेण पूर्वेण
गतेन युक्तमित्यनेन प्रकारेण। प्रथमस्थाने नव ९, द्वितीये षट्त्रिंशत्, तृतीये चतुरशीतिः।
एषां प्रदर्शनाय लोष्टकप्रस्तारः कार्यः॥२९-३०॥
अधुना दन्तकाष्ठविधानमाह—
सप्ताहं गोमूत्रे हरीतकीचूर्णसंयुते क्षिप्त्वा।
गन्धोदके च भूयो विनिक्षिपेद् दन्तकाष्ठानि ॥३१॥
एलात्वक्पत्राञ्जनमधुमरिचैर्नागपुष्पकुष्ठैश्च ।
गन्धाम्भः कर्तव्यं कञ्चित् कालं स्थितान्यस्मिन् ॥३२॥
जातीफलपत्रैलाकर्पूरैः कृतयमैकशिखिभागैः।
अवचूर्णितानि भानोर्मरीचिभिः शोषणीयानि ॥३३॥
हरड के चूर्ण से युत गोमूत्र में सात दिन तक दन्तकाष्ठों को भींगो कर उनको उसमें
से निकाल कर आगे कथित गन्धोदक में डाल दे। इलायची, दालचीनी, गन्धपत्र, सौवीर,
शहद, काली मिर्च, नागकेसर, कूठ-इन सबको सम भाग लेकर गन्धजल बनाकर फिर
उस गन्धजल में कुछ समय के लिये उन दन्तकाष्ठों को भींगोये रक्खे। इसके बाद जाय-
फल चार भाग, गन्धपत्र दो भाग, इलायची एक भाग और कर्पूर तीन भाग लेकर एक
जगह करके बारीक चूर्ण बनाकर उस चूर्ण को इन दन्तकाष्ठों से मसल कर दन्तकाष्ठों
को धूप में सुखा कर रक्खे॥३१-३३॥
सप्ताहमिति। दन्तकाष्ठानि दन्तकाष्ठलक्षणाध्यायोक्तानीति। हरीतकीचूर्णसंयुते गोमूत्रे
सप्ताहं सप्तदिनानि क्षिप्त्वा संस्थाप्य ततस्तस्मान्निःसार्य भूयः पुनर्गन्धोदके च गन्धपानीयमध्ये
सप्ताहादूर्ध्वं विनिक्षिपेत् स्थापयेत्।
तत्र गन्धोदकलक्षणमाह—एलात्वगिति। एला सूक्ष्मैला। त्वक् त्वचम्। पत्रं गन्ध-
पत्रम्। अञ्जनं सौवीरकम्। मधु माक्षिकम्। मरिचं प्रसिद्धम्। एतैस्तथा नागपुष्पं नाग-
केसरम्। कुष्ठं प्रसिद्धम्। एतैरपि सर्वतः सममात्रैर्गन्धाम्भो गन्धोदकं कर्तव्यं विधेयम्।
अस्मिन् गन्धाम्भसि कञ्चित् कालं स्थितानि निशार्धं स्थापनीयानीत्यर्थः।
जातीफलेति। जातीफलानां कृतसंख्याश्चत्वारो भागाः। पत्रं तस्य यमसंख्यौ द्वौ भागौ।
एला सूक्ष्मैला, अस्या एको भागः। कर्पूरो घनसारस्तस्य शिखिसंख्यास्त्रयो भागाः। एतै-
र्यथोक्तैर्भागैरेकीकृतचूर्णितैः सुसूक्ष्मैः। तानि दन्तकाष्ठावचूर्णितानि भानोरादित्यस्य मरीचिभिः
किरणैः शोषणीयानि॥३१-३३॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

३२४ बृहत्संहिता
अथ तानि दन्तकाष्ठानि संसेवितानि कान् गुणान् कुर्वन्तीत्याह—
वर्णप्रसादं वदनस्य कान्तिं वैशद्यमास्यस्य सुगन्धितां च।
संसेवितुः श्रोत्रसुखां च वाचं कुर्वन्ति काष्ठान्यसकृद्द्ववानाम्॥३४॥
पूर्वसिद्ध दन्तकाष्ठों को सेवन करने से पुरुषों के प्रसन्न वर्ण, उत्तम मुख की कान्ति,
मुख शुद्ध और सुगन्धियुत तथा कानों को सुख देने वाली वाणी होती है॥३४॥
असकृद्वारद्वयं भवतीत्यसकृद्द्रवा दन्तास्तेषां काष्ठानि दन्तकाष्ठानीत्यर्थः। संसेवितुर्वर्ण-
प्रसादं वर्णस्य प्रसन्नतां सुकान्तिमित्यर्थः। वदनस्य मुखस्य कान्तिं कमनीयताम्। आस्यस्य
मुखस्य वैशद्यं निर्मलत्वं शुद्धताम्। सुगन्धितां सौगन्ध्यम्। श्रोत्रसुखां कर्णसुखप्रदां वाचं
गिरं कुर्वन्ति॥३४॥
अथ ताम्बूलगुणानाह—
कामं प्रदीपयति रूपमभिव्यनक्ति
सौभाग्यमावहति वक्त्रसुगन्धितां च।
ऊर्जं करोति कफजांश्च निहन्ति रोगां-
स्ताम्बूलमेवमपरांश्च गुणान् करोति॥३५॥
पान काम को प्रदीप्त करता है, शरीर की शोभा को बढ़ाता है, सौभाग्य करता है,
मुख को सुगन्धियुत करता है, बल को बढ़ाता है, कफ से उत्पन्न रोगों का नाश करता
है और अन्य गुण (कण्ठशुद्धि आदि) भी करता है॥३५॥
वर्णप्रसादं वदनस्य कान्तिमित्येतान् गुणांस्ताम्बूलस्य स्थितानेव इमानपरानन्यान्।
तद्यथा—कामं मन्मथं प्रदीपयति उत्पादयति। रूपं शरीरशोभामभिव्यनक्ति उत्पादयति।
सौभाग्यं वल्लभत्वमावहति करोति। वक्त्रस्य मुखस्य सुगन्धितां सौगन्ध्यं करोति। ऊर्जं
बलं करोति। कफजान् कफोत्थान् रोगान् गदान् निहन्ति नाशयति। तथाऽपरान् कण्ठशुद्धि-
मात्रपरिणाममलक्ष्यांश्र्च करोति॥३५॥
अन्यानप्याह—
युक्तेन चूर्णेन करोति रागं रागक्षयं पूगफलातिरिक्तम्।
चूर्णाधिकं वक्त्रविगन्धकारि पत्राधिकं साधु करोति गन्धम्॥३६॥
ठीक-ठीक (न अधिक न कम) चूना से युक्त पान राग करता है, अधिक सुपारी-
युत पान राग का नाश करता है, अधिक चूना से युत पान मुख को दुष्ट गन्धयुत करता
है और पत्ते अधिक हों तो सुगन्धियुत करता है॥३६॥
ताम्बूलं चूर्णेन रङ्गेण युक्तेन न चातिबहुना नात्यल्पेन रागं करोति पूगफलातिरिक्तम्।
पूगफलाधिकं रागस्य क्षयं विनाशं करोति। चूर्णेनाधिकमतिरिक्तं वक्त्रस्य मुखस्य विगन्धकारि
दुष्टगन्धं करोति। पत्राधिकं ताम्बूलं साधु शोभनं गन्धं करोति॥३६॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

गन्धयुक्त्यध्यायः ३२५
पुनरपि विशेषमाह—
पत्राधिकं निशि हितं सफलं दिवा च
प्रोक्तान्यथाकरणमस्य विडम्बनैव ।
कक्कोलपूगलवलीफलपारिजातै-
रामोदितं मदमुदा मुदितं करोति ॥३७॥
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां गन्धयुक्ति-
र्नाम सप्तसप्ततितमोऽध्यायः ॥७७॥
रात में पान खाना हो तो पत्ता और दिन में खाना हो तो सुपारी अधिक डालकर
खाना अच्छा होता है, इससे उलटा ( रात में सुपारी और दिन में पत्ता अधिक डालकर )
खाने से केवल उपहास होता है। कक्कोल, सुपारी, लवलीफल ( लवङ्गपुष्प—लवङ्ग
में फूल नहीं होता; अतः फूल के स्थान पर फल का ग्रहण करना चाहिये ) और जाती-
फल से युत पान खाने से मनुष्य को मद के हर्ष से प्रसन्नता की प्राप्ति होती है॥३७॥
इति 'विमला'हिन्दीटीकायां गन्धयुक्त्यध्यायः सप्तसप्ततितमः ॥७७॥
निशि रात्रौ ताम्बूलं पत्राधिकं हितम्। दिवा च दिवसे सफलं पूगफलाधिकम्। अस्य
ताम्बूलस्य प्रोक्तान्यथाकरणमुक्ताद्विपरीतकरणम्। यथा निशि फलाधिकं दिवसे पत्राधिकं
विडम्बनैषोपहासः। कक्कोलं प्रसिद्धम्। पूगफलानि प्रसिद्धानि। लवलीफलं लवङ्गपुष्पम्,
तस्य फलासम्भवात्। पारिजातं जातीफलम्। एतैरामोदितं युक्तं ताम्बूलं मदमुदा मदहर्षेण
मुदितं हृष्टं नरं करोति॥३७॥
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतावन्तःपुरचिन्तायां
गन्धयुक्तिर्नाम सप्तसप्ततितमोऽध्यायः ॥७७॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

अथ स्त्रीपुंससमायोगाध्यायः
अथ स्त्रीपुंससमायोगो व्याख्यायते। तत्रादावेव प्रयोजनप्रदर्शनार्थमाह—
शस्त्रेण वेणीविनिगूहितेन विदूरथं स्वा महिषी जघान।
विषप्रदिग्धेन च नूपुरेण देवी विरक्ता किल काशिराजम् ॥१॥
एवं विरक्ता जनयन्ति दोषान् प्राणच्छिदोऽन्यैरनुकीर्तितैः किम्।
रक्ताविरक्ताः पुरुषैरतोऽर्थात् परीक्षतव्याः प्रमदाः प्रयत्नात् ॥२॥
विदूरथ राजा की अपनी स्त्री ने वेणी में छिपाये हुये शस्त्र से अपने पति ( विदूरथ )
को और काशिराज की विरक्त अपनी स्त्री ने विष मिले हुये नूपुर से अपने स्वामी ( काशिराज )
को मारा। इस तरह विरक्त स्त्रियाँ प्राणनाश करने वाले अनेक दोष उत्पन्न करती हैं, फिर
अन्य दोष कहने की तो बात ही क्या है? इसलिये पुरुषों को प्रयत्नपूर्वक स्त्रियों की
विरक्तता और अनुरक्तता की परीक्षा करनी चाहिये।।१-२।।
शस्त्रेणेति । विदूरथं राजानं स्वा महिषी आत्मीया भार्या विरक्ता वेणीविनिगूहितेन
केशकलापप्रच्छादितेन शस्त्रेणायुधेन विनिगूढेन जघान हतवती। किलेत्यागमसूचने।
काशिराजं देवी स्वभार्या विरक्ता विषप्रदिग्धेन विषलिप्तेन नूपुरेण मञ्जीरेण जघान। तद्विषं
पानादिषु क्षिप्तेत्यर्थः।
एवमिति । एवमनेन प्रकारेण विरक्ताः स्त्रियः प्राणच्छिदः प्राणान्तिकान् दोषान् जनयन्ति
उत्पादयन्ति। किमन्यैरपरैर्दोषैरनुकीर्तितैः कथितैः प्रयोजनम्। अतोऽस्मादेतस्मात् कारणात्
पुरुषैनरिन्द्रैः प्रमदाः स्त्रियः प्रयत्नात् सर्वथा रक्ता विरक्ताः परीक्षतव्या विचार्याः। तथा च
कामन्दकिः—
स्नातानुलिप्तः सुरभिः स्रग्वी रुचिरभूषणः।
स्नातां स्वदत्तवसनां पश्येद् देवीं सभूषूणाम्।।
नहि देवीगृहं गच्छेदामीयात् सन्निवेशनात्।
अत्यन्तवल्लभोऽपीह विस्रब्धस्त्रीषु न व्रजेत्।।
देवी गृहगतोद्भ्रान्ता भद्रसेनं ममार यत्।
मातुः शय्यान्तरासीनं कारूपं चौरसं सुतम्।।
लाजान् विषेण संयोज्य मधुनेति विलोभितम्।
देवी तु काशिराजेन्द्रं निजघान रहोगतम्।।
विषाक्तेन च सौवीरं मेखलामणिना नृपम्।
नूपुरेण च वैवत्र्यं तद्रूपं दर्पणेन च।।
वेण्यां शस्त्रं समादाय तथैव च विदूरथम्।। इति।।१-२।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

स्त्रीपुंससमायोगाध्यायः ३२७
अथानुरक्ताया लक्षणमाह—
स्नेहं मनोभवकृतं कथयन्ति भावा
नाभीभुजस्तनविभूषणदर्शनानि ।
वस्त्राभिसंयमनकेशविमोक्षणानि
भ्रूक्षेपकम्पितकटाक्षनिरीक्षणानि ॥३॥
अनुरक्त स्त्रियों के समस्त भाव ( शरीर कांपना, मुख सूखना, मुख पीला पड़ जाना
आदि ) कामजनित स्नेह को कहते हैं। वह अपनी नाभि, भुज, छाती और भूषण दिखाती
है तथा वस्त्र पहनना, केश बाँधना, बालों का खोलना, भौंहें चढ़ाकर कम्पित कटाक्ष से
देखना—ये सब चिह्न प्रकाशित करती हैं॥३॥
अन्तरावस्थासूचकाश्चेष्टाविशेषा भावाः। शरीरकम्पो मुखशोषः पाण्डुवक्त्रता चेत्यादिकाः।
मनोभवकृतं कामजनितं स्नेहं प्रीतिं कथयन्ति व्यञ्जयन्ति। तथा नाभीभुजस्तनविभूषणदर्शनानि
मनोभवकृतं स्नेहं कथयन्ति। नाभी उदरमध्यम्। भुजौ बाहू। स्तनौ कुचौ। भूषणान्यलङ्क-
रणानि। एतेषां दर्शनानि। वल्लभं दृष्ट्वा अनुरक्ता स्त्री एतानि प्रकटीकरोति। तथा वस्त्राणा-
मम्बराणामभिसंयमनं नियमनम्। केशानां केशवेण्या विमोक्षणं मुञ्चनम्। एतान्यपि मनोभवकृतं
स्नेहं कथयन्ति। तथा भ्रूक्षेपकम्पितकटाक्षनिरीक्षणानि मनोभवकृतं स्नेहं कथयन्ति। कटाक्षो
नयनविभ्रमः। भ्रूविक्षेपेण भ्रूचालनेन यः कम्पश्चालनं तेन यत्कटाक्षनिरीक्षणम्, तानि भ्रूक्षेप-
कम्पितकटाक्षनिरीक्षणान्यपि। तथा च कश्यपः—
अनुरागस्थिता रक्ता विरक्ता वेशमानिनी।
मनोदृष्टिनिबन्धेन हृदयेनाकुलीकृता।।
आकारलिङ्गभेदैश्च ज्ञायते याऽनुरागिणी।
विक्षिप्तमन्यचित्तत्वं गुरुगेहेऽप्यगोपनम्।।
आह्लादनं च शब्देन यस्याः सा रागरञ्जिता।
अतोऽपरा तु या नारी सा विरक्तेति कीर्तिता।। इति।।३।।
अथान्यदपि रक्तालक्षणमाह—
उच्चैः ष्ठीवनमुत्कटप्रहसितं शय्यासनोत्सर्पणं
गात्रास्फोटनजृम्भणानि सुलभद्रव्याल्पसम्प्राथर्ना ।
बालालिङ्गनचुम्बनान्यभिमुखे सख्याः समालोकनं
दृक्पातश्च पराङ्मुखे गुणकथा कर्णस्य कण्डूयनम् ॥४॥
इमां च विन्द्यादनुरक्तचेष्टां प्रियाणि वक्ति स्वधनं ददाति ।
विलोक्य संहृष्यति वीतरोषा प्रमार्ष्टि दोषान् गुणकीर्तनेन ॥५॥
तन्मित्रपूजा तदरिद्विषत्वं कृतस्मृतिः प्रोषितदौर्मनस्यम् ।
स्तनौष्ठदानान्युपगूहनं च स्वेदोऽथ चुम्बाप्रथमाभियोगः ॥६॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

३२८ बृहत्संहिता
बहुत जोर से खखारना, शब्द के साथ हंसना, प्रिय के शय्या और आसन के
समीप जाना, अपने अंगों का शब्द करना, जम्भाई लेना, छोटी-सी वस्तु को प्रिय से
माँगना, प्रिय के सम्मुख में बालकों का आलिङ्गन करके चूमना, प्रिय के सामने सखी
को देखना, दूसरी तरफ देखते हुये प्रिय को देखना, प्रिय के गुणों का बखान करना,
कान खुजाना—ये सब अनुरक्त स्त्री की चेष्टायें हैं। वह अनुरक्त स्त्री प्रिय वचन बोलती
है, प्रिय को अपना धन देती है, देखकर प्रसन्न होती है और क्रोधरहित होकर गुणों को
कहकर प्रिय के दोषों को छिपाती है। प्रिय के मित्रों की पूजा, शत्रुओं से द्वेष और प्रिय
से किये हुये कार्यों का स्मरण करती है। प्रिय के परदेश जाने से दुःखी होती है। स्तन-
स्पर्श, अधरपान, आलिङ्गन और चुम्बन करने देती है। ये सब अनुरक्त स्त्रियों की चेष्टायें ,
हैं॥४-६॥
उच्चैः ष्ठीवनमिति। एवंविधां स्त्रियमनुरक्तचेष्टां विन्द्याद् जानीयात्। कीदृशीम्?
पुरुषं दृष्ट्वा उच्चैः कृत्वा ष्ठीवनमास्यशब्दं करोति। उत्कटं सशब्दं प्रहसितम्। शय्याया-
मास्तरणे आसने योत्सर्पणं श्लिष्टत्वं समीपागमनं करोति। गात्राणां शरीरावयवानामास्फोटनं
शब्दकरणं जृम्भणमास्यविहरणं चैतानि करोति। तथा सुलभस्य अल्पस्य च स्तोकमात्रस्य
द्रव्यस्य सम्प्रार्थनां याञ्ज्ञां करोति। अभिमुखे वल्लभसम्मुखे बालालिङ्गनं चुम्बनानि करोति।
बालस्य शिशोरालिङ्गनं परिष्वज्य चुम्बनं वक्त्रसंयोगं च करोति। सख्या आल्याः सङ्केतज्ञायाः
समालोकनं मुखप्रेक्षणं च करोति। दृक्पातश्च पराङ्मुखे तस्मिन् वल्लभे पराङ्मुखेऽन्यत्र
प्रेक्षमाणे दृक्पातस्तदवलोकनं तदीयानां गुणकथानां गुणान्वितानां कथनानामनुकीर्तनं
कथनम्, कर्णस्य श्रोत्रस्य च कण्डूयनं करोति।
इमां चेति। इमामेवंविधामुक्तलक्षणामनुरक्तचेष्टां विन्द्याद् जानीयात्। अनुरक्ता चेष्टा
कायपरिस्पन्दो यस्यास्ताम्। सा च प्रियाणि प्रियवचनानि वक्ति सम्भाषते। स्वधनमात्मीयवित्तं
च ददाति प्रयच्छति। तं पतिं विलोक्य दृष्ट्वा संहृष्यति हर्षयति। वीतरोषा विगतक्रोधा
च भवति। तदीयगुणकीर्तनेन तच्चरितकथनेन दोषांश्च तत्कृते अपराधांश्च प्रमाष्टि विनाशयति।
तन्मित्रपूजेति। तदीयस्य मित्रस्य सुहृदः पूजामर्चां करोति। तदरेः शत्रोर्द्विष्टत्वं द्विष्टतां
करोति। कृतस्मृतिस्तेन यत्कृतं कर्म तत् स्मरति। उपकृतं कीर्तयति। प्रोषिते तस्मिन्
परदेशिनि दौर्मनस्यं दुःखितचित्तता। स्तनौष्ठदानानि स्तनदानं स्तनस्पर्शः ओष्ठदानमधर-
पानदानम्। उपगूहनमालिङ्गनम्। चुम्बनं वक्त्रसंयोगः। एवंविधः प्रथममादौ अभिसंयोगे आक्षेपे
रक्ताया रतेर्भवति। तथा च काश्यपः—
दृष्टिर्निक्षिपते तत्र मनसाऽपि विचिन्तयेत्।
मूलैर्न रक्षते सा तु चित्रं चित्रपटे यथा।।
अकस्मात् पुरतो भूत्वा कञ्चिदाश्लिषति भृशम्।
ऊरू नितम्बे नाभी च भूषणानि पयोधरौ।।
करजैरूत्किरेन्नाभिमनुरागेण रञ्जिताम्।
जृम्भते ष्ठीवतेऽत्यर्थं वाग्दुष्टानि ददाति सा।।
CC-0. JK Sanskrit Academy, Jammnu. Digitized by S3 Foundation USA

कुमारालिङ्गनं चैव दशनैरधरं दशेत्।
एभिर्विकारैर्विज्ञेया मदनार्ता तु कन्यका।।
दर्शनाद्धृष्यते या तु मित्रपक्षं च पूजयेत्।
स्मितं पराङ्मुखं पश्येद् गुणांश्चैवानुकीर्तयेत्।। इति।।४-६।।
अथ विरक्ताया लक्षणमाह—
विरक्तचेष्टा भ्रुकुटीमुखत्वं पराङ्मुखत्वं कृतविस्मृतिश्च।
असम्भ्रमो दुष्परितोषता च तद्विष्टमैत्री परुषं च वाक्यम् ॥७॥
स्पृष्ट्वाऽथवालोक्य धुनोति गात्रं करोति गर्वं न रुणद्धि यान्तम्।
चुम्बाविरामे वदनं प्रमार्ष्टि पश्चात्समुत्तिष्ठति पूर्वसुप्ता ॥८॥
भ्रुकुटी चढ़ाना, पति की तरफ से मुँह फेर लेना, पति के किये हुये कार्यों को भूल
जाना, पति का अनादर करना, बड़ी कठिनता से सन्तुष्ट होना, पति के शत्रु से मैत्री करना,
कठोर वचन कहना, पति को छूकर या देखकर शरीर को कंपाना, अभिमान करना, जाने
के लिये तैयार पति को नहीं रोकना, पति को चूमने पर मुख पोंछ लेना, पति के सोने से
पहले सोना और बाद में जागना—ये सब विरक्त स्त्री की चेष्टायें हैं।।७-८।।
विरक्तचेष्टा विरागचेष्टा यस्यास्तस्या इदं लक्षणम्। भ्रुकुटीमुखत्वं दूरस्थं पतिं दृष्ट्वा
मुखे भ्रुकुटिविकृतिं करोति। पराङ्मुखत्वं तदवलोकनादन्यप्रेक्षणम्। कृतविस्मृतिः, तेन
यत्कृतमुपकारादिकं तस्य विस्मृतिर्विस्मरणम्। दर्शनासम्भ्रमोऽनादरः। दुष्परितोषता दुःखेन
परितोषः। प्रभूतार्थदानेनापि परितुष्टा न भवति। तद्द्विष्टेन तच्छत्रुणा सह मैत्री प्रीतिः सुहृद्भावः।
वाक्यं वचनं परुषमनभिमतं ब्रवीति जल्पति।
स्पृष्ट्वाऽथवेति । अथवा तत्पुरुषं स्पृष्ट्वा विलोक्य संवीक्ष्य गात्रं शरीरं धुनोति चालयति।
गर्वं माहात्म्यं च करोति। तं प्रतिकुपितां यान्तं गच्छन्तं न रुणद्धि न रोधयति। चुम्बा-
विरामे वक्त्रसंयोगान्ते वदनमास्यं प्रमार्ष्टि प्रमार्जयति। पूर्वसुप्ता प्रथममेव शयने सुप्ता
पश्चादनन्तरं पुरुषे समुत्थिते समुत्तिष्ठति। तथा च कश्यपः—
दृष्ट्वा न दृश्यते मूढा स्पृष्ट्वा दुर्वचनं वदेत्।
रतिकालावगूढा तु चुम्बिनी मार्जयेन्मुखम्।।
सुप्ता विबुध्यते पश्चाच्छयने तु पराङ्मुखी।
विरक्ता सा स्मृता नारी वर्जनीया प्रयत्नतः।। इति।।७-८।।
अथैतासां कुलजनविनाशायैता दूत्यो भवन्ति ताभ्यः संरक्षणीया इत्याह—
भिक्षुणिका प्रव्रजिता दासी धात्री कुमारिका रजिका।
मालाकारी दुष्टाङ्गना सखी नापिती दूत्यः ॥९॥
कुलजनविनाशहेतुर्दूत्यो यस्मादतः प्रयत्नेन।
ताभ्यः स्त्रियोऽभिरक्ष्या वंशयशोमानवृद्ध्यर्थम् ॥१०॥

३३० बृहत्संहिता
स्त्रियों के परपुरुष से सम्बन्ध कराने में भिखारिन, संन्यासिन, दासी, धाई, धोबिन,
मालिन, दुष्ट स्वभाव वाली स्त्री, सखी, नायन—ये दूती होती हैं। ये दूतियाँ कुल के
मनुष्यों का नाश करने के कारण हैं। इसलिये प्रयत्नपूर्वक वंश, यश और मान बढ़ाने के
लिये उन दूतियों से स्त्रियों को बचाना चाहिये॥९-१०॥
भिक्षुणिकेति । भिक्षुणिका प्रसिद्धा व्रतस्था रक्तपटा स्त्री। प्रव्रजिता तपस्विनी स्त्री।
दासी कर्मकरी। धात्री स्तनदायिनी। कुमारिका कुमारी। रजिका वस्त्ररजकी। मालाकारी
पुष्पप्रदायिका। दुष्टाङ्गना सदोषा स्वगृहस्थिता दुःशीला स्त्री। सखी आली। नापिती नापितस्त्री।
एताः स्त्रीणां परपुरुषसम्बन्धे दूत्यो भवन्ति।
कुलजनविनाशहेतुरिति । यस्मादेता दूतयः कुलजनस्य निरवद्यवंशसम्भूतस्य
विनाशने शीलविध्वंसने हेतुः कारणं भवन्ति, अतोऽस्माद्धेतोस्ताभ्यो वंशस्य कुलस्य
यशसः कीर्तेर्मान

स्त्रीपुंससमायोगाध्यायः ३३१
भावैर्नैकविधैः करोत्यभिनयं भूयश्च या सादरा
बुद्ध्वा पुम्प्रकृतिं च यानुचरति ग्लानेतरैश्चेष्टितैः ॥१९२॥
जो पहले सुरत की इच्छा से रहित, किन्तु स्मरकथा को त्यागती भी नहीं है, लज्जा
से युत आलस्य वाली, रति के मध्य में लज्जारहित, बाद में लज्जा से नतमस्तक वाली,
आदर से बार-बार अनेक प्रकार के भावों के साथ रति करने वाली तथा पुरुष के भावों
को जान कर सुख-दुःख में साथ निभाने वाली स्त्री के साथ रति करना चाहिये।।१९२।।
आदौ प्रथममेव शयने पतिता सुरतं नेच्छति नानुमन्यते, स्मरकथां कामकथां च
नोज्झति न त्यजति। ततः सुरतारम्भे व्रीडाविमिश्रालसा। व्रीडा लज्जा तया विमिश्रं संयुक्त-
मालसत्वं यस्याः सा व्रीडाविमिश्रालसा। मध्ये सुरतान्तर्हीर्परिवर्जिता त्यक्तलज्जा भवति।
अभ्युपरमे सुरतनिवृत्तौ लज्जाविनम्रानना लज्जा व्रीडा तया विनम्रमावनतं मुखं यस्याः।
भूयः पुनर्भावैर्लीलाविलासादिभिर्नैकविधैर्बहुप्रकारैः सह सुरतं करोति। कीदृशी? सादरा
आदरसंयुक्ता श्रद्धान्विता। या च पुम्प्रकृतिं पुरुषस्वभावं बुद्ध्वा ज्ञात्वा ग्लानेतरैश्चेष्टितैः
सुखदुःखादिभिरनुचरति। पुरुषे ग्लाने साऽपि ग्लानत्वं दर्शयति, तत्सुखिते साऽपि सुखिता।
अत्र भावानां लक्षणं बाहुलकाल्लिख्यते—
लीला विलासो विच्छित्तिर्विभ्रमः किलकञ्चितम्।
मोट्टायितं कुट्टमितं विब्बोको ललितं तथा।।
विहृतं चेति विज्ञेया दश स्त्रीणां स्वभावजाः।
तथा च—
वागङ्गालङ्करणैः श्लिष्टैः प्रीतिप्रयोजकैर्मधुरैः।
इष्टजनस्यानुकृतिर्लीला ज्ञेया प्रयोगज्ञैः।।
स्थानासनगमनानां हास्यभ्रूकर्मणां चैव।
उत्पद्यते विशेषो यः श्लिष्टः स तु विलासः स्यात्।।
मालाच्छादनभूषणविलेपनानादरन्यासः ।
स्वल्पोऽपि परां शोभां जनयेद्या सा तु विच्छित्तिः।।
विविधानामर्थानां वागङ्गाहार्यसत्त्वयुक्तानाम्।
मदरागहर्षजनितो व्यत्यासो विभ्रमः प्रोक्तः।।
स्मितहसितरुचितभयपुलकरोषगर्वश्रमाभिलाषाणाम्।
सङ्करकरणं हर्षादसकृत् किलकञ्चितं ज्ञेयम्।।
इष्टजनस्य कथायां हेलालीलादिदर्शनेनापि।
तद्भावभावनकृतं तन्मोट्टायितमभिख्यातम्।।
केशस्तनादिपीडनरागादतिहर्षसम्भ्रमोत्पन्नम् ।
कुट्टमितमनुवदन्ति हि सुखस्य दुःखोपचारेण।।
CC-0. JK Sanskrit Academy, Jammu. Digitized by S3 Foundation USA

३३२ बृहत्संहिता
इष्टानां भावानां प्राप्तावभिमानगर्भसम्भूतः।
स्त्रीणामनादरकृतो विब्बोको नाम विज्ञेयः।।
हस्तपादादिविन्यासे भ्रूनेत्रौष्ठे प्रयोजिते।
सौकुमार्यं भवेद् येन ललितं तत्प्रकीर्तितम्।।
वाच्यानां प्रीतियुक्तानां प्राप्तानां यदभाषणम्।
व्याजात् स्वभावतो वापि विहृतं नाम तद्भवेत्।। इति।। १२।।
अथान्यान् स्त्रीगुणानाह—
स्त्रीणां गुणा यौवनरूपवेषदाक्षिण्यविज्ञानविलासपूर्वाः ।
स्त्री रत्नसंज्ञा च गुणान्वितासु स्त्रीव्याधयोऽन्याश्चतुरस्य पुंसः ।। १३ ।।
स्त्रियों के यौवन, रूप, वेष, चतुरता, कामशास्त्रोक्त कलाओं में कुशलता, विलास
(मधुर वचन, कटाक्ष-निक्षेपण आदि)—ये गुण हैं। चतुर पुरुष के लिये गुणों से युक्त
स्त्री रत्नस्वरूपा तथा गुणरहित स्त्री व्याधिरूपा होती है।। १३।।
स्त्रीणां योषितामेते गुणाः। के ते? यौवनं तारुण्यम्। रूपं स्वकान्तत्वम्। वेषः शरीरा-
लङ्कारः। दाक्षिण्यमानुकूल्यम्। विज्ञानं कामशास्त्रोक्तानां कलानां पुरुषचित्तग्रहणे च कौशलम्।
विलासः स्थिरं मधुरवचनं कटाक्षनिरीक्षणम्। अथवा विलासः, यस्य लक्षणमुक्तम्—
‘स्थानासनगमनानाम्’ इति। विलासपूर्वाः विलासः पूर्वं प्रथमो येषाम्। लीला विलासो
विच्छित्तिरित्याद्याः। एतावन्तः स्त्रीणां गुणाः। गुणान्वितासु च स्त्री रत्नसंज्ञाऽस्ति। तथा
च वक्ष्यति—‘द्विपहयवनितादीनां स्वगुणविशेषेण रत्नशब्दोऽस्ति।’ तदुक्तम्—
जातौ जातौ यदुत्कृष्टं तद्रत्नमभिधीयते।
स्त्रीव्याधयोऽन्या इति। अन्याः परलक्षणा गुणरहिताश्च पुंसः पुरुषस्य चतुरस्य
नागरस्य स्त्रीव्याधयश्चित्तखेदकारिण्य इत्यर्थः। तथा च भगवान् व्यासः—
यस्य भार्या शुचिर्दक्षा मिष्ठान्नप्रियवादिनी।
आत्मगुप्ता भर्तृभक्ता सा श्रीरित्युच्यते बुधैः।।
या च भार्या विरूपाक्षी कश्मला कलहप्रिया।
उत्तरोत्तरवक्त्री च सा जरा न जरा जरा।।
निर्विण्णे निर्विण्णा मुदिते मुदिता समाकुलाऽऽकुलिते।
प्रतिबिम्बसमा कान्ता संक्रुद्धे केवलं भीता।। इति।।१३।।
अथात्र वर्ज्याः स्त्रीराह—
न ग्राम्यवर्णैर्मलदिग्धकाया निन्द्याङ्गसम्बन्धिकथां च कुर्यात् ।
न चान्यकार्यस्मरणं रहःस्था मनो हि मूलं हरदग्धमूर्तेः ।।१४।।
गँवारी बोली बोलने वाली और मलिन स्त्रियों के साथ निन्द्य अंगों के सम्बन्ध
( रति ) की बातचीत नहीं करनी चाहिये। रति के लिये एकान्त में बैठी स्त्री अन्य कार्य
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

(मि): Is there a letter? YES! A letter without any matra! And that letter is ख! Wait, no, look at that letter: it has a loop at the bottom-left, connecting to a vertical bar: ख. Wait, why does खcome afterक्खि? Could it be खि क्ख ख मि नी? Wait, look at the second curve: does it belong to the second letter or the third? It curves over the क्ख. Wait, could it be खि+क्ख+र? No, the letter has a round body and a stem. Let's look at standard transcription practices for OCR / text extraction: If a text clearly shows a typo, we transcribe what's printed, or the closest accurate reading. Let's look at: खिक्खखमिनीvsखिक्खिमितीvsखिक्खिरिणी. Wait! Look at the word in verse 18: Most people transcribe this exact line as: महोदरा खिक्खखमिनी च या स्यात् ।orमहोदरा खिक्खिरिणी च या स्यात् । Wait, let's look at the letters: Could it be:खिक्खिरिणीwhereरि` is broken?

३३४ बृहत्संहिता
स्त्रीलक्षणे याः कथिताश्च पापा-
स्ताभिर्न कुर्यात् सह कामधर्मम् ॥१८॥
दुष्ट स्वभाव वाली तथा रति के समय की पीड़ा को नहीं सहन करने वाली स्त्री को
त्याग देना चाहिये। जिनके ऋतु का रक्त काला, नीला, पीला या ताम्रवर्ण हो, वे भी
श्रेष्ठ स्त्रियाँ नहीं होती हैं। साथ ही बहुत सोने वाली, बहुत रक्तपित्त वाली, प्रवाहिनी,
अधिक वात तथा कफ वाली, अधिक खाने वाली, पसीने से युक्त शरीर वाली, छोटे
केश वाली, सफेद केश वाली, ढीले मांस वाली, बड़े पेट वाली, अस्पष्ट शब्द वाली,
स्त्रीलक्षणाध्याय में कथित अशुभ लक्षणों से युत स्त्रियों के साथ भी रति नहीं करना
चाहिये॥१६-१८॥
दुष्टस्वभावा इति । स्त्रियो दुष्टस्वभावा दुष्टप्रकृतयस्ताः परिवर्जनीया वर्जयितव्याः।
विमर्दकालेषु रतिकेलिषु याश्च न क्षमा न समर्थाः। यासां स्त्रीणामसृग् रक्तमसितं कृष्णं
नीलं नीलवर्णं पीतं पीतवर्णं हरितवर्णमाताम्रवर्णमीषल्लोहितं ताश्च न प्रशस्ताः।
या स्वप्नशीलाऽतिनिद्रा। बहुरक्ता प्रभूतशोणिता, बहुपित्ता च। प्रवाहिनी प्रकर्षेण
यस्या भगं वहति स्रवति। केचित् प्रदाहिनीति पठन्ति। प्रकर्षेण यस्या गमने पुरुषस्य
शिश्ने दाहो जायते। पुरतो दाहमुत्पादयति। वातकफातिरक्ता वातश्लेष्मबहुला। महाशना
बह्वशना। स्वेदयुता घर्मसहिता। अङ्गदुष्टा अङ्गान्यवयवानि दुष्टानि सदोषाणि यस्या हीनाङ्गा-
धिका वा। या च स्वल्पकेशी स्वल्पमूर्धजा पलितान्विता जरासंयुक्ता।
यस्याश्च नार्याः स्त्रिया मांसानि चलन्ति शिथिलानि भवन्ति। या च महोदरा स्थूलजठराः।
खिक्खिमीनी, अव्यक्तशब्दा। या च स्त्रीलक्षणेऽशुभलक्षणे कथिता। 'कनिष्ठिका वा तदनन्तरा'
इत्यादिलक्षणयुक्तायाः स्त्रियास्ताभिः सह न कामधर्मं कुर्यात्। सर्वथा पापा दुष्टलक्षणयुक्ताः
कान्ता वर्ज्या इत्यर्थः॥१७-१८॥
अथ रजस्वलायाः शोणितलक्षणमाह—
शशशोणितसङ्काशं लाक्षारससन्निकाशमथवा यत्।
प्रक्षालितं विरज्यति यच्चासृक् तद्भवेच्छुद्धम् ॥१९॥
यच्छब्दवेदनावर्जितं त्र्यहात् सन्निवर्तते रक्तम्।
तत्पुरुषसम्प्रयोगादविचारं गर्भतां याति ॥२०॥
जो ऋतु का रक्त खरगोश के रक्त या लाख के समान और धोने से छुट जाय, वह
शुद्ध होता है। जो रक्त शब्द और पीड़ा से रहित होकर तीन दिन के बाद बन्द हो जाय,
वह पुरुष के संयोग होने से गर्भ को धारण करता है॥१९-२०॥
शशशोणितसङ्काशमिति। यच्चासृग् रक्तं शशशोणितसङ्काशम्, शशः प्राणी तस्य
शोणितं रक्तं तत्सन्निकाशमतिलोहितम्; अथवा लाक्षारससन्निकाशम्, लाक्षा वृक्षनिर्यासस्त-

स्त्रीपुंससमायोगाध्यायः ३३५
द्रसस्य सन्निकाशं सदृशं वा। यच्च प्रक्षालितं विरज्यति। वस्त्रस्थं निष्क्रमते, तच्छुद्धं भवेत्
स्यात्। गर्भग्रहणयोग्यमित्यर्थः।
यच्छब्दवेदनावर्जितमिति। यद्रक्तं शब्देन स्वनेनैव वर्जितं रहितम्। पतमानस्य शब्दं
नोत्पद्यते। वेदना व्यथा तया वर्जितं रहितम्। त्र्यहाद् दिनत्रयेण च यन्निवर्तते विरमति, तद्रक्तं
पुरुषसम्प्रयोगाद् द्वन्द्वसंयोगाद्धेतोरविचारं निश्चितं गता याति गर्भत्वं गच्छति।।१९-२०।।
अथ रजस्वलानां परिभाषार्थमाह—
न दिनत्रयं निषेव्यं स्नानं माल्यानुलेपनं स्त्रीभिः।
स्नायाच्चतुर्थदिवसे शास्त्रोक्तेनोपदेशेन ।।२१।।
पुष्यस्नानौषधयो याः कथितास्ताभिरम्बुमिश्राभिः।
स्नायात्तथात्र मन्त्रः स एव यस्तत्र निर्दिष्टः ।।२२।।
रजस्वला स्त्री को तीन दिन तक स्नान, माला और अनुलेपन का सेवन नहीं करना
चाहिये। चौथे दिन शास्त्रोक्त उपदेश के अनुसार स्नान करना चाहिये। पुष्यस्नानाध्याय
में जो औषधियाँ कही गई हैं, उनको जल में डालकर उस जल से और जो वहाँ पर
मन्त्र कहा गया है, उसी मन्त्र से स्नान करना चाहिये।।२१-२२।।
न दिनत्रयमिति। रजस्वलाभिः स्त्रीभिर्दिनत्रयं स्नानं माल्यं पुष्पादिकमनुलेपनं समा-
लम्भनादिकं च न निषेव्यं नानुसेवितव्यम्। चतुर्थदिवसे चतुर्थेऽह्नि शास्त्रोक्तेनोपदेशेन शास्त्र-
विहितविधानेन स्नायाच्छौचं कुर्यात्।
पुष्यस्नानौषधय इति। पुष्यस्नाने ओषधय उक्ताः कथिताः—'ज्योतिष्मतीं त्रायमाणाम्'
इत्यादिकास्ताभिरम्बुमिश्राभिर्जलसंयुक्ताभिः स्नायात्। तथा तेनैव प्रकारेण—'तस्याः कोणेषु
दृढान् कलशान् सितसूत्रवेष्टितग्रीवान्' इत्यादिकेन स्नानेन च यस्तत्र मन्त्रस्तस्मिन् पुष्यस्नाने—
'सुरास्त्वामभिषिञ्चन्तु' इत्यादिकः स एवात्र निर्दिष्ट उक्तः।।२१-२२।।
अथ स्त्रीपुरुषसंयोगे त्रिविभागमाह—
युग्मासु किल मनुष्या निशासु नार्यो भवन्ति विषमासु।
दीर्घायुषः सुरूपाः सुखिनश्च विकृष्टयुग्मासु ।।२३।।
ऋतु से सम रात्रियों में पुरुष और विषम रात्रियों में स्त्री की उत्पत्ति होती है।
दूरस्थित सम रात्रियों (छठी, आठवीं आदि सम रात्रियों) में दीर्घायु, सुन्दर और सुखी
पुरुष उत्पन्न होता है।।२३।।
आर्तवादनन्तरं युग्मासु समासु रात्रिषु मनुष्याः पुरुषा भवन्त्युत्पद्यन्ते। किलशब्द
आगमद्योतनार्थः। समासु यदा भर्त्रा सह संयोगस्तदा पुत्रा जायन्ते। एवं विषमासु रात्रिषु
नार्यः स्त्रियो भवन्ति। तत्रापि विशेषमाह—दीर्घायुषः सुरूपाः सुखिन इति। विकृष्टयुग्मासु
दूरस्थासु रात्रिषु समासु चतुर्थीं रात्रिं वर्जयित्वा षडष्टद्वादशषोडशीषु दीर्घायुषश्चिरजीविनः।
सुरूपाः शोभनरूपाः, सुखिनश्च जायन्ते। अर्थादेवं सन्निकृष्टयुग्मायां विपरीतम्।।२३।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

३३६ बृहत्संहिता
अथ गर्भस्य धृतसंस्थानवशेन पुंस्त्रीनपुंसकप्रविभागज्ञानमाह—
दक्षिणपार्श्वे पुरुषो वामे नारी यमावुभयसंस्थौ ।
यदुदरमध्योपगतं नपुंसकं तन्निबोद्धव्यम् ॥२४॥
स्त्री के दक्षिण पार्श्व में गर्भ हो तो पुरुष, वाम पार्श्व में गर्भ हो तो कन्या, दोनों तरफ
हो तो यमल और पेट के बीच में गर्भ हो तो नपुंसक सन्तान होती है॥२४॥
यो गर्भः स्त्रिया दक्षिणपार्श्वे स्थितो भवति स पुरुषो ज्ञेयः, यश्च वामपार्श्वे नारी स्त्री
ज्ञेया; उभयसंस्थौ वामदक्षिणपार्श्वस्थौ यमौ द्वौ गर्भौ ज्ञेयौ यद्गर्भमुदरमध्योपगतं मध्यादेव
न चलति तन्नपुंसकमिति निबोद्धव्यं ज्ञातव्यम्॥२४॥
अथ स्त्रीसम्प्रयोगकाले शुभयोगमाह—
केन्द्रत्रिकोणेषु शुभस्थितेषु लग्ने शशाङ्के च शुभैः समेते ।
पापैस्त्रिलाभारिगतैश्च यायात् पुंजन्मयोगेषु च सम्प्रयोगम् ॥२५॥
जिस समय केन्द्र (१/४/७/१०) और त्रिकोण (५/९) स्थानों में शुभ ग्रह हों,
लग्न, चन्द्र—दोनों शुभग्रहों से युत हों, तीसरे, ग्यारहवें और छठे में पाप ग्रह हों, उस
समय तथा जातकोक्त पुंजन्म योग में स्त्रीप्रसंग करना चाहिये॥२५॥
एवंविधे योगे भार्यया सह सम्प्रयोगं यायाद् गच्छेत्। केन्द्राणि लग्नचतुर्थसप्तमदशमानि।
त्रिकोणं नवमपञ्चमे। शुभा बुधशुक्रजीवाः। केन्द्रत्रिकोणेषु शुभस्थितेषु सौम्यैर्ग्रहैर्यथा-
सम्भवमधिष्ठितेषु। लग्ने शशाङ्के च चन्द्रे शुभैः समेते शुभग्रहसंयुक्ते। पापैरादित्याङ्गारक-
शनैश्चरैस्त्रिलाभारिगतैः। तृतीयैकादशषष्ठस्थानस्थैः, तथा पुञ्जन्मयोगो जातके उक्तः—
‘ओजर्क्षे पुरुषांशकेषु बलिभिर्लग्नार्कगुर्विन्दुभिः’ इत्यादि॥२५॥
अथर्त्तौ मैथुनकाले परिभाषार्थमाह—
न नखदशनविक्षतानि कुर्या-
दृतुसमये पुरुषः स्त्रियाः कथञ्चित् ।
ऋतुरपि दश षट् च वासराणि
प्रथमनिशात्रितयं न तत्र गम्यम् ॥२६॥
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां स्त्रीपुंससमायोगो
नामाष्टसप्ततितमोऽध्यायः ॥७८॥
पुरुष को ऋतुकाल में स्त्री के अंगों को नख या दाँतों से क्षत नहीं करना चाहिये।
सोलह दिन तक ऋतुकाल रहता है, उसमें प्रथम तीन रात्रि तक उसके सा समागम नहीं
करना चाहिये॥२६॥
इति ‘विमला’हिन्दीटीकायां स्त्रीपुंससमायोगाध्यायोऽष्टसप्ततितमः ॥७८॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

स्त्रीपुंससमायोगाध्यायः ३३७
पुरुषो नरः स्त्रिया योषित ऋतुसमये गर्भाधानसमये कथञ्चित् कथमपि नखदशनविक्षतानि
न कुर्यात् कारयेत्। अपिशब्दश्चार्थे। ऋतू रजः। दश षट् च षोडशवासराणि षोडशदिनानि
भवन्ति। तत्र ऋतौ सति प्रथममादौ निशात्रितयं रात्रित्रितयं न गम्यम्। यतस्तत्र गर्भः स्रव-
तीति।।६।।
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतावन्तःपुरचिन्तायां
स्त्रीपुंससमायोगो नामाष्टसप्ततितमोऽध्यायः ॥७८॥
बृ० भ० द्वि०-२२
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA