बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 2 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 360, कुल 760 में से
संदर्भ में पढ़ें३३२ बृहत्संहिता
इष्टानां भावानां प्राप्तावभिमानगर्भसम्भूतः।
स्त्रीणामनादरकृतो विब्बोको नाम विज्ञेयः।।
हस्तपादादिविन्यासे भ्रूनेत्रौष्ठे प्रयोजिते।
सौकुमार्यं भवेद् येन ललितं तत्प्रकीर्तितम्।।
वाच्यानां प्रीतियुक्तानां प्राप्तानां यदभाषणम्।
व्याजात् स्वभावतो वापि विहृतं नाम तद्भवेत्।। इति।। १२।।
अथान्यान् स्त्रीगुणानाह—
स्त्रीणां गुणा यौवनरूपवेषदाक्षिण्यविज्ञानविलासपूर्वाः ।
स्त्री रत्नसंज्ञा च गुणान्वितासु स्त्रीव्याधयोऽन्याश्चतुरस्य पुंसः ।। १३ ।।
स्त्रियों के यौवन, रूप, वेष, चतुरता, कामशास्त्रोक्त कलाओं में कुशलता, विलास
(मधुर वचन, कटाक्ष-निक्षेपण आदि)—ये गुण हैं। चतुर पुरुष के लिये गुणों से युक्त
स्त्री रत्नस्वरूपा तथा गुणरहित स्त्री व्याधिरूपा होती है।। १३।।
स्त्रीणां योषितामेते गुणाः। के ते? यौवनं तारुण्यम्। रूपं स्वकान्तत्वम्। वेषः शरीरा-
लङ्कारः। दाक्षिण्यमानुकूल्यम्। विज्ञानं कामशास्त्रोक्तानां कलानां पुरुषचित्तग्रहणे च कौशलम्।
विलासः स्थिरं मधुरवचनं कटाक्षनिरीक्षणम्। अथवा विलासः, यस्य लक्षणमुक्तम्—
‘स्थानासनगमनानाम्’ इति। विलासपूर्वाः विलासः पूर्वं प्रथमो येषाम्। लीला विलासो
विच्छित्तिरित्याद्याः। एतावन्तः स्त्रीणां गुणाः। गुणान्वितासु च स्त्री रत्नसंज्ञाऽस्ति। तथा
च वक्ष्यति—‘द्विपहयवनितादीनां स्वगुणविशेषेण रत्नशब्दोऽस्ति।’ तदुक्तम्—
जातौ जातौ यदुत्कृष्टं तद्रत्नमभिधीयते।
स्त्रीव्याधयोऽन्या इति। अन्याः परलक्षणा गुणरहिताश्च पुंसः पुरुषस्य चतुरस्य
नागरस्य स्त्रीव्याधयश्चित्तखेदकारिण्य इत्यर्थः। तथा च भगवान् व्यासः—
यस्य भार्या शुचिर्दक्षा मिष्ठान्नप्रियवादिनी।
आत्मगुप्ता भर्तृभक्ता सा श्रीरित्युच्यते बुधैः।।
या च भार्या विरूपाक्षी कश्मला कलहप्रिया।
उत्तरोत्तरवक्त्री च सा जरा न जरा जरा।।
निर्विण्णे निर्विण्णा मुदिते मुदिता समाकुलाऽऽकुलिते।
प्रतिबिम्बसमा कान्ता संक्रुद्धे केवलं भीता।। इति।।१३।।
अथात्र वर्ज्याः स्त्रीराह—
न ग्राम्यवर्णैर्मलदिग्धकाया निन्द्याङ्गसम्बन्धिकथां च कुर्यात् ।
न चान्यकार्यस्मरणं रहःस्था मनो हि मूलं हरदग्धमूर्तेः ।।१४।।
गँवारी बोली बोलने वाली और मलिन स्त्रियों के साथ निन्द्य अंगों के सम्बन्ध
( रति ) की बातचीत नहीं करनी चाहिये। रति के लिये एकान्त में बैठी स्त्री अन्य कार्य
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA