सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

Brihat Samhita Vol 2 with Vimala Hindi Commentary

आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा

DevanagariHindipublished760 पृष्ठ

कन्यालक्षणाध्यायः २७७
आयु के प्रथम भाग में शुभ और अशुभ लक्षणों से युत हो तो आयु के प्रथम भाग में
अशुभ फल कहना चाहिये। इसी तरह द्वितीय आदि अंगभाग शुभाशुभ लक्षणों से युत
हो तो आयु के द्वितीय आदि भाग में शुभाशुभ फल कहना चाहिये।।२४-२६।।
इति 'विमला' हिन्दीटीकायां कन्यालक्षणाध्यायः सप्ततितमः ॥७०॥
पादौ सगुल्फाविति। पादौ चरणौ सगुल्फौ गुल्फसहितौ प्रथममाद्यं दशाभागं च
शुभाशुभं च शुभाशुभचिह्नितं प्रदिष्टमुक्तम्। जङ्घे सजानुचक्रे जानुचक्रिकासहिते द्वितीयं
दशाभागमुक्तम्। मेढ्रं लिङ्गमूरू द्वौ मुष्कौ वृषणौ ततोऽनन्तरमेतत् तृतीयं दशाभागम्।
नाभिः कटिश्चेति चतुर्थं दशाभागमाहुः कथयन्ति।
उदरमिति। उदरं पञ्चमं दशाभागं कथयन्ति प्रवदन्ति मुनयः। हृदयं स्तनान्वितं
स्तनसंयुक्तं षष्ठं दशाभागं कथयन्ति। अथानन्तरमंसौ स्कन्धौ जत्रूणी च सप्तमं दशाभागम्।
ओष्ठौ द्वौ कन्धरा ग्रीवा एते ओष्ठकन्धरे अष्टमं दशाभागं कथयन्ति।
नयने नेत्रे सभ्रूणी भ्रूसहिते नवमं दशाभागम्। शिरो मूर्धा सल्ललाटं ललाटसहितं
दशमं दशाभागम्, तथा तेनैव प्रकारेण। अथ यद्यपि सामान्येनोक्तम्, तथापि परमायुः-
प्रमाणेन द्वादशवार्षिकीं दशां परिकल्प्य विचारः कर्तव्यः। ज्ञातायुस्तत्प्रमाणेण एतेषु क्षेत्र-
विभागेषु चरणाद्येषु वातप्रभृतिष्वशुभेष्वशुभमनिष्टं दशाफलं शुभेषु शोभनमिति। एतदुक्तं
भवति—यद्गात्रं रूक्षं मांसविहीनं शिरावनद्धं च तदनिष्टं प्रोक्तम्। विपरीतमतः शुभं सर्व-
मित्यनेन क्रमेण यत्राङ्गेऽशुभलक्षणानि तद्दशाभागमशुभम्, यत्र शुभानि तत् शोभनम्, यत्र
व्यामिश्राणि तन्मध्यमिति।।२४-२६।।
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ कन्यालक्षणं
नाम सप्ततितमोऽध्यायः ॥७०॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

अथ वस्त्रच्छेदलक्षणाध्यायः
अथ वस्त्रच्छेदलक्षणं व्याख्यायते। तत्रादावेवाश्विन्यादीनां नक्षत्राणामभिनववस्त्रोपभोगे
फलमाह—
प्रभूतवस्त्रदाश्विनी भरण्यथापहारिणी ।
प्रदह्यतेऽग्निदैवते प्रजेश्वरेऽर्थसिद्धयः ॥१॥
मृगे तु मूषकाद्भयं व्यसुत्वमेव शाङ्करे ।
पुनर्वसौ शुभागमस्तदग्रभे धनैर्युतिः ॥२॥
भुजङ्गभे विलुप्यते मघासु मृत्युमादिशेत् ।
भगाह्वये नृपाद्भयं धनागमाय चोत्तरा ॥३॥
करेण कर्मसिद्धयः शुभागमस्तु चित्रया ।
शुभं च भोज्यमानिले द्विदैवते जनप्रियः ॥४॥
सुहृद्युतिश्च मित्रभे तदग्रभेऽम्बरक्षयः ।
जलप्लुतिश्च नैर्ऋते रुजो जलाधिदैवते ॥५॥
मिष्टमन्नमपि वैश्वदैवते वैष्णवे भवति नेत्ररोगता ।
धान्यलब्धिरपि वासवे विदुर्वारुणे विषकृतं महद्भयम् ॥६॥
भद्रपदासु भयं सलिलोत्थं तत्परतश्च भवेत् सुतलब्धिः ।
रत्नयुतिं कथयन्ति च पौष्णे योऽभिनवाम्बरमिच्छति भोक्तुम् ॥७॥
यदि अश्विनी नक्षत्र में नवीन वस्त्र धारण करे तो बहुत वस्त्र का लाभ, भरणी में
वस्त्रों की हानि, कृत्तिका में अग्नि से वस्त्र का जलन, रोहिणी में धन-प्राप्ति, मृगशिरा में
वस्त्र को चूहे का भय, आर्द्रा में मृत्यु, पुनर्वसु में शुभ की प्राप्ति, पुष्य में धन का लाभ,
आश्लेषा में वस्त्रनाश, मघा में मृत्यु, पूर्वफाल्गुनी में राजा से भय, उत्तरफाल्गुनी में धन
का लाभ, हस्त में कर्मों की सिद्धि, चित्रा में शुभ की प्राप्ति, स्वाती में उत्तम भोजन का
लाभ, विशाखा में जनों का प्रिय, अनुराधा में मित्रों का समागम, ज्येष्ठा में वस्त्र का
क्षय, मूल में जल में डूबने का भय, पूर्वाषाढा में रोग, उत्तराषाढा में मिष्टान्न का लाभ,
श्रवण में नेत्ररोग, धनिष्ठा में अन्न का लाभ, शतभिषा में विष का अधिक भय, पूर्व
भाद्रपद में जल का भय, उत्तरभाद्रपद में पुत्र का लाभ और रेवती नक्षत्र में नवीन वस्त्र
धरण करे तो रत्नलाभ होता है।।१-७।।
प्रभूतवस्त्रदाश्विनीति । अश्विनीनक्षत्रे यदभिनवं वस्त्रमुपभुज्यते, तदा साऽश्विनी प्रभूत-
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

वस्त्रच्छेदलक्षणाध्यायः २७९
वस्त्रदा भवति। प्रभूतानि बहूनि वस्त्राणि अम्बराणि ददाति। अथानन्तरमेवं भरणी वस्त्रा-
पहारिणी भवति। अग्निदैवते कृत्तिकानक्षत्रे वस्त्रं सन्दह्यतेऽग्निना। प्रजेश्वरे रोहिण्यामर्थानां
सिद्धयः प्राप्तयो भवन्ति।
मृगे इति । मृगे मृगशिरसि मूषकाद्वस्त्रभयं भवति। तेन छिद्यते। शाङ्करे आर्द्रायां
व्यसुत्वं विगतप्राणता भवति, म्रियत इत्यर्थः। पुनर्वसौ शुभस्यार्थस्य धर्मादेरागमः प्राप्ति-
र्भवति। तदग्रभे तस्य पुनर्वसोरग्रतः पुरतः स्थिते भे नक्षत्रे तिष्ये धनैर्वित्तैर्युतिः संयोगो भवति।
भुजङ्गभे इति । भुजङ्गभे श्लेषायां वस्त्रं विलुप्यते छिद्यते। मघासु मृत्युं मरणमादिशेद्
वदेत्। भगाह्वये पूर्वफल्गुन्यां नृपाद् राज्ञो भयं भवति। उत्तरफल्गुनी धनागमाय धनप्राप्तये
भवति।
करेणेति । करेण हस्तेन कर्मणां सिद्धयो भवन्ति। चित्रायां शुभागमः शुभस्यार्थस्य
धर्मादेरागमः प्राप्तिर्भवति। अनिले स्वातौ शुभं शोभनं भोज्यमाहारं भवति। द्विदैवते विशाखायां
जनप्रियो जनवल्लभो भवति।
सुहृद्युतिश्चेति । मित्रभेऽनुराधायां सुहृद्युतिर्मित्रसंयोगः। तदग्रभे तस्या अनुराधाया
अग्रतः पुरतः स्थिते भे नक्षत्रे ज्येष्ठायामम्बरस्य वस्त्रस्य क्षयो विनाशो भवति। नैर्ऋते मूले
जलप्लुतिर्वस्त्रं जलमध्ये प्लवति। यातीत्यर्थः। जलाधिदैवते पूर्वाषाढायां रुजो रोगा भवन्ति।
मिष्टमन्नमिति । वैश्वदेवे उत्तराषाढायां मिष्टमन्नं भोजनं भवति। वैष्णवे श्रवणे नेत्र-
रोगता चक्षुषीपीडा। वासवे धनिष्ठायां धान्यानां लब्धिं लाभम्। विदुर्जानते। वारुणे शतभिषजि
महदतीव भयं विषकृतं विषोत्पन्नं भवति।
भद्रपदास्विति । भद्रपदासु पूर्वभद्रपदासु सलिलोत्थं जलादुत्पन्नं भयं भवति। तत्परत
उत्तरभद्रपदायां सुतलब्धिः पुत्रलाभो भवति। पौष्णे रेवत्यां रत्नयुतिं रत्नसंयोगं कथयन्ति
मुनयः। तस्यैतानि फलानीत्याह। योऽभिनवाम्बरमिच्छति भोक्तुम्, यः पुरुषोऽभिनवाम्ब-
रमभिनवं वस्त्रं भोक्तुमिच्छति तस्येति।।१-७।।
अथ सर्वनक्षत्राणां कर्मयोगितामाह—
भोक्तुं नवाम्बरं शस्तमृक्षेऽपि गुणवर्जिते।
विवाहे राजसम्माने ब्राह्मणानां च सम्मते ॥८॥
विवाह में, राजसम्मान में और ब्राह्मणों की आज्ञा मिलने पर अविहित नक्षत्र में भी
वस्त्र धारण करना शुभ होता है।।८।।
विवाहे पाणिग्रहणकाले। राजसम्माने राजपूजायाम्। ब्राह्मणानां च सम्मते द्विजव-
चनेनेत्यर्थः। एतेषु कालेषु गुणवर्जितेऽपि ऋक्षे नक्षत्रे नवाम्बरमभिनवं वस्त्रं भोक्तुमुपभोक्तुं
शस्तं प्रशस्तमिति।।८।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

२८० बृहत्संहिता
अधुना वस्त्रादीनां दैवत्यप्रविभागेन शुभाशुभफलमाह—
वस्त्रस्य कोणेषु वसन्ति देवा नराश्च पाशान्तदशान्तमध्ये ।
शेषास्त्रयश्चात्र निशाचरांशास्तथैव शय्यासनपादुकासु ॥९॥
नवधा विभक्त वस्त्र के चारो कोनों में देवता, पाशान्त मध्य ( वस्त्र के मूल ) और
दशान्त मध्य ( वस्त्र के अग्र ) में मनुष्य तथा मध्यस्थित तीन भागों में राक्षस की कल्पना
करनी चाहिये। इसी प्रकार शय्या, आसन और पादुका में भी विचार करना चाहिये ।।९।।
वस्त्रस्याम्बरस्य कोष्ठकनवकविभागेन प्रविभक्तस्य कोणेषु चतुर्षु देवाः सुरा वसन्ति।
वस्त्रस्य मूलं पाशान्तः। अग्रं दशान्तः। पाशान्तमध्यभागे दशान्तमध्यभागे च नरा देव-
विशेषा वसन्ति। शेषास्त्रयः कोष्ठकाः सममध्यवर्तिनोऽत्रास्मिन् वस्त्रे निशाचरांशा राक्षस-
भागाः। न केवलं वस्त्रस्यायं प्रविभागो यावच्छय्यायामास्तरणे, आसने, पादुकासु चेति,
वस्त्रस्य मूलाग्रे यथोक्ते तथासने पादुकासु च। आसनस्य वृक्षवशान्मूलाग्रकल्पना। पादुका-
सूपानत्सु पादवन्मूलाग्रे।
नवकोष्ठविभक्तस्य वस्त्रस्य न्यासः—
| देवाः | राक्षसाः | देवाः |
| नराः | राक्षसाः | नराः |
| देवाः | राक्षसाः | देवा |
तथा च गर्गः—
वस्त्रमुत्तरलोमं तु प्राग्देशं नवधा भवेत्।
त्रिधा दशान्तपाशान्ते त्रिधा मध्यं पृथक् पृथक्।।
चतुर्षु कोणेषु सुराः पाशान्ते मध्यमे नराः।
दशान्ते च नरा भूयो मध्यभागे निशाचराः।।
राक्षसान् विनिवृत्त्यैवं शय्यादिष्वप्ययं विधिः।। इति।।९।।
प्रयोजनमाह—
लिप्ते मषीगोमयकर्दमाद्यैश्छिन्ने प्रदग्धे स्फुटिते च विन्द्यात् ।
पुष्टं नवेऽल्पल्पतरं च भुक्ते पापं शुभं चाधिकमुत्तरीये ॥१०॥
यदि नवीन वस्त्र स्याही, गोबर, कीचड़ आदि से लिप्त हो जाय, जल जाय या फट
जाय तो सम्पूर्ण अशुभ या शुभ फल जानना चाहिये। यदि मध्यम वस्त्र हो तो थोड़ा
और बिल्कुल पुराना वस्त्र हो तो बहुत थोड़ा अशुभ या शुभ फल जानना चाहिये; किन्तु
ओढ़ने के वस्त्र हों तो अधिक अशुभ या शुभ फल होता है।।१०।।
वस्त्रं मष्या कज्जलेन गोमयेन कर्दमेन चालिप्ते। आदिग्रहणाद्येन केनचिद् वर्णकेन
लिप्ते। तथा छिन्ने प्रकल्पिते। प्रदग्धेऽग्निना प्लुष्टे। स्फुटिते पाटिते च विन्द्याद् जानीयात्
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

वस्त्रच्छेदलक्षणाध्यायः २८१
पापमशुभं फलं शुभं वा! नववस्त्रादिकेषु पुष्टं परिपूर्णं मध्यमेऽल्पं भुक्ते शीर्णेऽल्पतरम्।
यद्यप्युक्तं तथैव शय्यासनपादुकास्विति, तथाप्युत्तरीये वस्त्रेऽधिकतरं पापमशुभं शुभं शुभ-
फलं भवति ।।१०।।
अधुना विशेषेणाह—
रुग्राक्षसांशेष्वथवाऽपि मृत्युः पुत्रजन्म तेजश्च मनुष्यभागे ।
भागेऽमराणामथ भोगवृद्धिः प्रान्तेषु सर्वत्र वदन्त्यनिष्टम् ॥११॥
यदि राक्षसों के भाग में स्याही लग जाय तो रोग या मृत्यु, मनुष्यों के भाग में
पुत्रजन्म और तेज का लाभ, देवताओं के भाग में भोग की वृद्धि तथा समस्त भागों के
प्रान्त में स्याही आदि लग जाय तो अनिष्ट फल प्राप्त होता है; ऐसा मुनियों द्वारा कहा
गया है।।११।।
राक्षसांशेषु राक्षसभागेष्वशुभेषु छेदादिषूत्पन्नेष्वस्य स्वामिनो रुग्रोगोऽथवा मृत्युर्भवति।
मनुष्यभागेऽशुभे छेदादिके दृष्टे पुत्रजन्म पुत्रजन्म तेजः कान्तिश्च भवति। अमराणां देवानां
भागेऽशुभे छेदादिके दृष्टे भोगवृद्धिर्भवति। सर्वत्र सर्वभागेषु प्रान्तेषु पर्यन्तेष्वनिष्टमशुभं
वदन्ति कथयन्ति मुनयः ।।११।।
अन्यदप्याह—
कङ्कप्लवोलूककपोतकाकक्रव्यादगोमायुखरोष्ट्रसर्पैः ।
छेदाकृतिर्दैवतभागगापि पुंसां भयं मृत्युसमं करोति ॥१२॥
यदि देवताओं के भाग में भी कङ्क, मेढ़क, उल्लू, कबूतर, कौआ, मांसाहारी ( गिद्ध
आदि ), सियार, गदहा, ऊँट या साँप के समान वस्त्र के छेद आदि का आकार हो तो
मृत्यु के समान भय उपस्थित करता है।।१२।।
कङ्कः, प्लवः, उलूकः, कपोतः, काकः, क्रव्यादा मांसाशिनः। एते सर्व एव पक्षि-
विशेषाः। गोमायुः शृगालः, खरो गर्दभः, उष्ट्रः करभः, सर्प उरगः, एतैः सदृशी छेदस्या-
कृतिर्दैवतभागगाऽपि सुरभागप्राप्ताऽपि पुंसां नराणां मृत्युसमं मरणतुल्यं भयं करोति ।।१२।।
अन्यदप्याह—
छत्रध्वजस्वस्तिकवर्धमानश्रीवृक्षकुम्भाम्बुजतोरणाद्यैः ।
छेदाकृतिर्नैर्ऋतभागगाऽपि पुंसां विधत्ते नचिरेण लक्ष्मीम् ॥१३॥
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां वस्त्रच्छेदलक्षणं
नामैकसप्ततितमोऽध्यायः ॥७१॥
यदि राक्षसों के भाग में भी छत्र, ध्वज, स्वस्तिक, वर्धमान ( चिह्नविशेष ), बिल्व-
वृक्ष, कलश, कमल, तोरण आदि ( स्रुव, कुण्ड, शृङ्गार, हाथी और घोड़े ) के समान
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

, let's be extremely careful.
Wait, let me look at the ङ्:
Is it ङ्गा?
Yes, ङ् then गा! So it is कङ्गाल or कङ्काल. Let's look at the right side of the vertical stem: it's completely straight! There is no curve to the right. So it is definitely कङ्गाल!

Wait, let's check line 30:
"हयगजकर्णभगतुलाचटकाकारैरुद्धारः प्राग्वत्कुटुम्बविनाशाय।"
Look at the word after "प्राग्वत्":
"कुटुम्बविनाशाय।" (for the destruction of the family, as before).
Then:
"पूर्वदक्षिणे नारीणाम्।" (in South-East, of women).
"दक्षिणे सुहृदाम्।" (in South, of friends).
Line 31:
"दक्षिणापरे पशूनाम्।" (in South-West, of animals).
"पश्चिमे प्रेष्याणाम्।" (in West, of servants).
"पश्चिमोत्तरे ज्ञातेः।" (in North-West, of kinsmen).
"बन्धोश्चोत्तरे।" (and in North, of relatives).
"पूर्वोत्तरे मध्यमस्य पूर्वे सर्वसम्पदाम्।" (in North-East... in the center... in the East, of all wealth).
"अपि च—"

वस्त्रच्छेदलक्षणाध्यायः २८३
विवर्णितं तु यद्वस्त्रं विनश्येच्छेदमङ्गलम्।
विवर्णितं तु यच्च स्यादनर्थाय विनिर्दिशेत्।।
नवे वस्त्रे यथोक्तं स्यात् फलं जीर्णे तु नेष्यते।
न रक्ते न पुनर्धौते न स्वयं दग्धपाटिते।।
विलक्षणं त्यजेद्वस्त्रं समच्छेदमसङ्कुलम्।
विवर्णितं तु यद्वस्त्रं कुर्याद्देवद्विजार्चनम्।।
जपहोमोपवासांश्चैत् तथा नाप्नोति किल्विषम्।। इति।।१३।।
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ वस्त्रच्छेदलक्षणं
नामैकसप्ततितमोऽध्यायः ।।७१।।
( विप्रमतादथ भूपतिदत्तं यच्च विवाहविधावभिलब्धम्।
तेषु गुणै रहितेष्वपि भोक्तुं नूतनमम्बरमिष्टफलं स्यात् ।।
बुरे नक्षत्रों में भी ब्राह्मणों की आज्ञा से, राजा का दिया हुआ वस्त्र या विवाह में
प्राप्त वस्त्र धारण करना शुभ फल देने वाला होता है। )
इति 'विमला'हिन्दीटीकायां वस्त्रच्छेदलक्षणाध्याय एकसप्ततितमः ।।७१।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

अथ चामरलक्षणाध्यायः
अथ चामरलक्षणं व्याख्यायते। तत्रादावेव प्रयोजनप्रदर्शनार्थमाह—
देवैश्चमर्यः किल वालहेतोः सृष्टा हिमक्ष्माधरकन्दरेषु ।
आपीतवर्णाश्च भवन्ति तासां कृष्णाश्च लाङ्गूलभवाः सिताश्च ॥१॥
देवताओं ने बाल के लिये हिमालय की कन्दराओं में चमरी की उत्पत्ति की है।
उनकी पूँछ के बाल पीले, काले और सफेद होते हैं।।१।।
किलेत्यागमसूचने। देवैः सुरैर्वालहेतोर्वाहननिमित्तं हिमक्ष्माधरकन्दरेषु हिमवद्गिरिगुहासु
चमर्यः प्राणिविशेषाः सृष्टा उत्पादिताः। तासां चमरीणामापीतवर्णा वाला भवन्ति। कृष्णा
असिताश्च भवन्ति। तथा लाङ्गूलभवाः पुच्छसम्भूताः सिताः श्वेतवर्णाश्च भवन्ति॥१॥
अथ तासां गुणमाह—
स्नेहो मृदुत्वं बहुवालता वा वैशद्यमल्पास्थिनिबन्धनत्वम्।
शौक्ल्यं च तासां गुणसम्पदुक्ता विद्धाल्पलुप्तानि न शोभनानि ॥२॥
स्निग्ध, कोमल, अधिक निर्मल, परस्पर विना मिले, छोटी, मध्य की हड्डी वाले,
सफेद—ये सब बालों के गुणों की सम्पत्तियाँ हैं अर्थात् ऐसे बाल शुभ होते हैं तथा
टूटे, फटे, छोटे और उखड़े बाल शुभ नहीं होते हैं।।२।।
तासां चमरीणामियं गुणानां सम्पदुक्ता कथिता। तद्यथा—स्नेहोऽरूक्षता। मृदुत्वं
मार्दवम्। बहुवालता प्रभूतवालत्वम्। वैशद्यं निर्मलता परस्परमश्लेषश्च। अल्पास्थिनिबन्धनत्वं
निबध्यन्तेऽस्मिन्निति निबन्धनम्। यत्रास्थिमालाः संलग्नास्तस्याल्पत्वम्। शौक्ल्यं शुक्लता
चैतानि यानि च विद्धानि निबन्धनस्य विद्धत्वात् तानि च विद्धानि खण्डतास्फोटनं वा
तेषां विद्धत्वम्। अल्पानि ह्रस्वानि। लुप्तानि विच्छिन्नानि। एतानि न शोभनान्यशोभनानि।
अशुभानीति।।२।।
अथ चामरदण्डलक्षणान्याह—
अध्यर्धहस्तप्रमितोऽस्य दण्डो हस्तोऽथवाऽरत्निसमोऽथवाऽन्यः।
काष्ठाच्छुभात् काञ्चनरूप्यगुप्ताद् रत्नैश्च सर्वैश्च हिताय राज्ञाम् ॥३॥
चामर का दण्ड डेढ़ हाथ, एक हाथ या अरत्नि (मुट्ठी बाँधे हुये हाथ) के तुल्य
बनाना चाहिये। सोना, चाँदी और सभी रत्नों से युत श्रेष्ठ काष्ठ का बना हुआ दण्ड
राजाओं के हित के लिये होता है।।३।।
अस्य चामरस्याध्यर्धहस्तप्रमितः सार्धहस्तमितो दण्डः कार्यः। हस्तोऽथवा हस्तप्रमाणः।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

चामरलक्षणाध्यायः २८५
अन्योऽपरोऽरत्निसमः कार्यः। अरत्निः कृतमुष्टिहस्तः। कनिष्ठासम इति केचित्। स च
दण्डः काष्ठाच्छुभात् प्रशस्तलक्षणयुक्तः कार्यः। किम्भूतात्? काञ्चनरूप्यगुप्तात् काञ्चनेन
सुवर्णेन रूप्येण रजतेन वा सुगुप्तादाच्छादितात्। रत्नैश्च मणिविशेषैर्विचित्रैर्नानावर्णैश्च
सहिताद् राज्ञां नृपाणां हिताय भवति।।३।।
अथ वर्णक्रमेण दण्डलक्षणमाह—
यष्ट्यातपत्राङ्कुशवेत्रचापवितानकुन्तध्वजचामराणाम् ।
व्यापीततन्त्रीमधुकृष्णवर्णा वर्णक्रमेणैव हिताय दण्डाः ॥४॥
यष्टि, छत्र, अंकुश, वेत्र, धनुष, वितान, भाला, ध्वज और चामर के दण्ड के वर्ण
ब्राह्मण आदि वर्णों के लिये क्रम से पीत, पीत-लोहित, शहद के समान और काला
होना चाहिये। इस तरह वह यष्टि आदि हित के लिये होते हैं।।४।।
यष्टिः प्रसिद्धा नित्यकालं हस्ते उह्यते। आतपत्रं छत्रम्। अङ्कुशः प्रसिद्धो गजदम-
नायोपयुज्यते। वेत्रो दण्डः प्रसिद्ध एव। चापं धनुः। वितानं कनकमिति लोके प्रसिद्धम्।
कुन्तमायुधम्। ध्वजश्चिह्नम्। चामरं वालव्यजनम्। एतेषां दण्डवर्णाः क्रमेण व्यापीत-
तन्त्रीमधुकृष्णवर्णा हिताय भवन्ति। तद्यथा—ब्राह्मणानां यष्ट्यः पीतवर्णा हिताय प्रशस्ताय।
एवं तन्त्रीवर्णाः पीतलोहिताः क्षत्रियाणाम्। मधुवर्णा ईषत्पीता वैश्यानाम्। कृष्णवर्णाः
शूद्राणामिति। तथा च गर्गः—
विप्राणां पीतवर्णः स्यात् क्षत्रियाणां तु लोहितः।
वैश्यानां पीतवर्णश्च शूद्राणामसतिप्रभः।।
दण्डः शुभप्रदो ज्ञेयो यष्टिच्छत्राङ्कुशादिषु। इति।।४।।
दण्डादेः समपर्वणः फलमाह—
मातृभूधनकुलक्षयावहा रोगमृत्युजननाश्र्व पर्वभिः।
द्वयादिभिर्द्विकविवर्धितैः क्रमात् द्वादशान्तविरतैः समैः फलम् ॥५॥
पूर्वोक्त दण्डों के दो पर्व लेकर दो-दो की वृद्धि करके बारह पर्व तक का क्रम से
मातृक्षय आदि फल जानना चाहिये। जैसे दो पर्व का दण्ड मातृक्षय, चार पर्व का भूमिक्षय,
छः पर्व का धनक्षय, आठ पर्व का कुलक्षय, दश पर्व का रोग और बारह पर्व का दण्ड
मृत्यु करता है।।५।।
एतैर्दण्डैर्द्वयादिभिः पर्वभिर्द्विकविवर्धितैर्द्वाभ्यां द्वाभ्यामधिकैः समैः समसङ्ख्यैर्द्वा-
दशान्तविरतैर्द्वादशान्ते विरतो विरामो येषां तैः फलानि क्रमेण। मातृभूधनेति। तद्यथा—
द्वाभ्यां पर्वभ्यां दण्डादयो युक्ता मातृक्षयावहाः, जनन्याः क्षयं कुर्वन्ति। मातृमरणमित्यर्थः।
चतुर्भिर्भूमिक्षयावहाः। षड्भिर्धनक्षयावहाः। अष्टभिः कुलक्षयावहाः। दशभी रोगजनना रोग-
प्रदाः। द्वादशभिर्मृत्युजनना मृत्युप्रदाः।।५।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

२८६ बृहत्संहिता
अथ तेषामेव त्र्यादिष्वसमेषु द्विकविवर्धितेषु फलमाह—
यात्राप्रसिद्धिर्द्विषतां विनाशो लाभाः प्रभूता वसुधागमश्च।
वृद्धिः पशूनामभिवाञ्छिताप्तिरुयाद्येष्वयुग्मेषु तदीश्वराणाम् ॥६॥
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां चामरलक्षणं
नाम द्वासप्ततितमोऽध्यायः ॥७२॥
दण्डों में तीन पर्व हों तो दण्ड के स्वामियों को यात्रा में विजय, पाँच पर्व हों तो
शत्रुओं का नाश, सात पर्व हों तो बहुत लाभ, नौ पर्व हों तो भूमिलाभ, ग्यारह पर्व हों
तो पशुओं की वृद्धि और तेरह पर्व हों तो दण्ड के स्वामियों को अभीष्ट वस्तु का लाभ
होता है॥७२॥
इति 'विमला' हिन्दीटीकायां चामरलक्षणाध्यायो द्वासप्ततितमः ॥७२॥
तदीश्वराणां दण्डादीनां स्वामिनां त्र्याद्येष्वयुग्मेषु पर्वसु द्विकविवर्धितेष्विमानि फलानि
भवन्ति। तद्यथा—दण्डादिषु त्रिभिः पर्वभिर्यात्रायाः प्रसिद्धिर्विजयो भवति। पञ्चभिर्द्विषतां
शत्रूणां विनाशः। सप्तभिः प्रभूता बहवो लाभा लब्धयः। नवभिर्वसुधागमो भूलाभः। एका-
दशभिः पशूनां चतुष्पदानां वृद्धिः। त्रयोदशभिर्वाञ्छितस्याभीष्टस्य प्राप्तिर्लाभो भवति। द्वादश-
त्रयोदशभ्यः परतः समविषमाणामशुभाशुभमात्रं फलम्। न विशेषफलमिति॥६॥
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ चामरलक्षणं
नाम द्वासप्ततितमोऽध्यायः ॥७२॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

अथ छत्रलक्षणाध्यायः
अथ छत्रलक्षणं व्याख्यायते। तत्रादावेव प्रयोजनप्रदर्शनार्थमाह—
निचितं तु हंसपक्षैः कृकवाकुमयूरसारसानां वा।
दौकूल्येन नवेन तु समन्ततश्छादितं शुक्लम् ॥१॥
मुक्ताफलैरुपचितं प्रलम्बमालाविलं स्फटिकमूलम्।
षड्ढस्तशुद्धहैमं नवपर्वनगैकदण्डं तु ॥२॥
दण्डार्धविस्तृतं तत् समावृतं रत्नभूषितमुदग्रम्।
नृपतेस्तदातपत्रं कल्याणपरं विजयदं च ॥३॥
हंस, मुर्गा, मयूर, सारस—इनके पंखों से निर्मित नवीन, विशिष्ट, श्वेत वस्त्र से
आच्छादित, लटकती हुई मोतियों की मालाओं से युक्त और स्फटिक से युक्त मूल
( मूठ ) वाला छत्र बनाकर उसमें छः हाथ लम्बा सोने से मढ़ा हुआ, नौ या सात पर्वों
से युत एक काष्ठ का दण्ड लगाना चाहिये। दण्डार्ध ( तीन हाथ ) तुल्य छत्र का व्यास
रखना चाहिये एवं उसे चारो तरफ से आवृत और रत्नों से भूषित करना चाहिये। इस
तरह राजा का श्रेष्ठ छत्र कल्याण और विजय को देने वाला होता है॥१-३॥
निचितमिति। नृपते राज्ञः। तदातपत्रमेवंविधं कल्याणपरं श्रेयस्करम्। विजयदं च
भवति विजयं च ददाति। कीदृशम्? निचितं तु हंसपक्षैः। हंसः पक्षी तत्पक्षैस्तदङ्गरुहैर्निचितं
रचितम्। कृकवाकुः कुक्कुटः। मयूरसारसौ प्रसिद्धौ। कृकवाकुमयूरसारसानां वा पक्षैर्निचितम्।
दौकूल्येन श्वेतपट्टविशेषेण नवेनाहतेन समन्ततः समन्ताच्छादितं शुक्लं श्वेतवर्णम्।
मुक्ताफलैरिति। मुक्ताफलैर्मुक्तामणिभिरुपचितं संयुक्तम्। प्रलम्बाभिर्लम्बमानाभिर्मुक्ता-
मालाभिराविलं समन्ततो युक्तम्। स्फटिकमूलम्। मूले स्फटिकोपलो यस्य। एकदण्डं
षड्ढस्तप्रमाणम्। शुद्धहैमं श्रेष्ठसुवर्णेनाच्छादितम्। नवभिः पर्वभिर्नगैः सप्तभिर्वा युक्तम्।
एकदण्डमित्यनेनैतज्ज्ञापयति। यथैकवृक्षोद्भवो दण्डः कार्यः। न विजातीयैः खण्डखण्डैः
कार्य इत्यर्थः।
तच्छत्रं दण्डार्धविस्तृतं कार्यम्। दण्डं षड्ढस्तप्रमाणं तदर्धविस्तृतं हस्तत्रयविस्तीर्णं
विष्कम्भप्रमाणमेतदित्यर्थः। समावृतं समन्तादावृतं सुश्लिष्टसन्धिरिति यावत्। रत्नैर्मणिभि-
र्भूषितमलङ्कृतं दण्डमुदग्रं श्रेष्ठमिति। तथा च गर्गः—
हंसकुक्कुटपक्षैश्च मायूरैः सारसैस्तथा।
निचितं पटसञ्छत्रं शुक्लं मुक्ताफलान्वितम्॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

२८८ बृहत्संहिता
छत्रं स्फटिकमूलं यत्तत्र दण्डं तु षट्करम्।
कारयेद्धेमसञ्छत्रं नवपर्वणगान्वितम्।।
हस्तत्रितयविस्तीर्णं रत्नमालाभिरन्वितम्।
तदातपत्रं नृपतेः कल्याणविजयावहम्।। इति।।१-४।।
अथ युवराजनृपतिपत्निसेनापतिदण्डनायकानां छत्रलक्षणमाह—
युवराजनृपतिपत्न्योः सेनापतिदण्डनायकानां च।
दण्डोऽर्धपञ्चहस्तः समपञ्चकृतोऽर्धविस्तारः ॥४॥
युवराज, रानी, सेनापति और दण्डनायक के छत्र का दण्ड साढ़े चार हाथ लम्बा
और ढ़ाई हाथ व्यास वाला होता है।।४।।
युवराजः प्रसिद्धोऽर्धराज्यभाक्। नृपती राजा तस्य पत्नी राजभार्या, तयोः। तथा सेना-
पतेश्चमूनाथस्य। दण्डनायकस्य दण्डाधिपतेः। एतेषां सर्वेषां दण्डोऽर्धपञ्चहस्तः, अर्द्धः पञ्चमो
हस्तो यत्र। हस्तचतुष्टयं सार्द्धमित्यर्थः। समपञ्चकृतोऽर्द्धविस्तारः, समानां पञ्चानामर्धकृतो
विस्तारो यस्य। हस्तद्वयं सार्धं विस्तीर्णमित्यर्थः।।४।।
अन्येषां राजपुरुषाणां छत्रलक्षणमाह—
अन्येषामुष्णाघ्नं प्रसादपट्टैर्विभूषितशिरस्कम् ।
व्यालम्बिरत्नमालं छत्रं कार्यं तु मायूरम् ॥५॥
युवराज को छोड़कर शेष राजपुत्रों के लिये मयूरपक्षों का बना हुआ, प्रसादपट्टों से
शोभित शिर वाला और लटकती हुई रत्नमालाओं से युक्त छत्र धूपनिवृत्ति के लिये
बनाना चाहिये।।५।।
अन्येषां युवराजविवर्जितानां मायूरं मयूरपक्षनिचितमुष्णाघ्नमातपनिवारणं छत्रं कार्यम्।
प्रसादपट्टैर्विभूषितशिरस्कम्। प्रसादपट्टैः पट्टलक्षणोक्तैर्विभूषितमलङ्कृतं शिरो यस्मिन् छत्रे
तत् तथाभूतम्। व्यालम्बमाना रत्नमाला यत्र तत्।।५।।
अथ राजपुरुषवर्जितानामन्येषां नराणां ब्राह्मणानां च छत्रलक्षणमाह—
अन्येषां तु नराणां शीतातपवारणं तु चतुरस्रम् ।
समवृत्तदण्डयुक्तं छत्रं कार्यं तु विप्राणाम् ॥६॥
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां छत्रलक्षणं
नाम त्रिसप्ततितमोऽध्यायः ॥७३॥
अन्य पुरुषों के लिये शीत और धूप की निवृत्ति करने वाला चतुर्भुजाकार छत्र तथा
ब्राह्मण के लिये गोल दण्डयुक्त छत्र बनाना चाहिये।।६।।
इति 'विमला'हिन्दीटीकायां छत्रलक्षणाध्यायस्त्रिसप्ततितमः ॥७३॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

छत्रलक्षणाध्यायः २८९
अन्येषां सामान्यानां नराणां पुरुषाणां शितातपवारणं शीतमातपं यद्वारयति रक्षति
तच्छत्रं चतुरस्रं चतुष्कोणं कार्यम्। विप्राणां ब्राह्मणानां समवृत्तं समन्ततः परिवर्तुलं दण्ड-
युक्तं छत्रं कार्यमिति॥६॥
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ छत्रलक्षणं
नाम त्रिसप्ततितमोऽध्यायः ॥७३॥
बृ० भ० द्वि०-१९
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

अथ स्त्रीप्रशंसाध्यायः
अथ स्त्रीप्रशंसा व्याख्यायते। तत्रादावेव प्रयोजनप्रदर्शनार्थमाह—
जये धरित्र्याः पुरमेव सारं पुरे गृहं सद्मनि चैकदेशः।
तत्रापि शय्या शयने वरा स्त्री रत्नोज्ज्वला राज्यसुखस्य सारः ॥१॥
सम्पूर्ण पृथ्वी जीतने पर भी उसमें केवल अपनी राजधानी ही सार है तथा उस
राजधानी में भी अपना घर, अपने घर में भी अपने रहने का स्थान, अपने रहने के स्थान
में भी शय्या और शय्या पर भी रत्नों से भूषित स्त्री राज्यसुख का सार है ॥१॥
धरित्र्या भूमेर्जये विजये सति पुरमेव सारं समस्तवसुधां जित्वा ततः पुरमात्रसारः।
तत्र च पुरे गृहं वेश्म एकमेव सारः। तस्मिन् सद्मनि गृहे च एकदेशः कश्चित् सारः
श्रेष्ठः। तत्रापि तस्मिन्नपि गृहैकदेशे शय्या आस्तरणं सारः। तस्मिन् शयने वरा स्त्री
प्रधाना युवतिः, सा च रत्नोज्ज्वला मणिकनकभूषिता। एतन्मात्रं राज्यसुखस्य सार इति।
अन्यत् सर्वमसारमित्यर्थः ॥१॥
अथ स्त्रीप्रशंसार्थमाह—
रत्नानि विभूषयन्ति योषा भूष्यन्ते वनिता न रत्नकान्त्या।
चेतो वनिता हरन्त्यरत्ना नो रत्नानि विनाङ्गनाङ्गसङ्गम् ॥२॥
स्त्री रत्नों को भूषित करती है; किन्तु रत्नकान्ति से स्त्री नहीं भूषित होती; क्योंकि
रत्नरहित स्त्री भी चित्त को हर लेती है, किन्तु स्त्री के अंग-संग के बिना रत्न चित्त को
नहीं हर सकता है॥२॥
रत्नान्येतत् कर्मपदम्। योषाः स्त्रियो रत्नानि विभूषयन्ति शोभयन्ते। वनिताः स्त्रियः
पुनर्न रत्नकान्त्या मणिदीप्त्या भूष्यन्ते। यतो वनिता अरत्ना रत्नविवर्जिताश्चेतो मनो हरन्ति।
रत्नानि पुनरङ्गनाङ्गसङ्गं विना चेतो न हरन्ति। यावत् स्त्रिया अङ्गे न श्लिष्टानि तावच्चित्तहराणि
न भवन्ति ॥२॥
अन्यदप्याह—
आकारं विनिगूहतां रिपुबलं जेतुं समुत्तिष्ठतां
तन्त्रं चिन्तयतां कृताकृतशतव्यापारशाखाकुलम्।
मन्त्रिप्रोक्तनिषेविणां क्षितिभुजामाशाङ्किनां सर्वतो
दुःखाम्भोधिवर्तिनां सुखलवः कान्तासमालिङ्गनम् ॥३॥
सुख, भय, हर्ष आदि आकार को छिपाते हुये, शत्रु की सेना को जीतने के लिये
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

स्त्रीप्रशंसाध्यायः २९१
प्रयत्न करते हुये, किये न किये सैकड़ों व्यापारों की शाखाओं से व्याकुल तन्त्रों को
विचार करते हुये, मन्त्रियों द्वारा कथित नीति का सेवन करते हुये, पुत्र आदि से भी
शङ्कित रहते हुये, दुःखार्णव में निमग्न राजाओं के लिये स्त्री का आलिङ्गन मात्र थोड़ा-
सा ही सुख होता है॥३॥
कान्तासमालिङ्गनं वल्लभापरिष्वजनं सुखलवः सुखलेशः। केषाम्? राज्ञाम्। कीदृशा-
नाम्? आकारं विनिगूहताम्, आकारोऽन्तश्चेतसि सुखभयहर्षादिरूपविकारः। तथाभूतमाकारं
विनिगूहतां प्रच्छादयताम्। तथा रिपुबलं शत्रुबलं जेतुमभिभवितुं समुत्तिष्ठतां प्रयत्नं कुर्वताम्।
तन्त्रं चिन्तयतां ध्यायताम्। कीदृशं तन्त्रम्? कृताकृतशतव्यापारशाखाकुलम्, व्यापाराणां
कर्मणां याः शाखाः विस्तारः, कृताश्च अकृताश्च कृताकृताः। कृताकृताश्च शतशो व्यापाराः
कर्माणि त एव शाखाः। ताभिराकुलं व्याप्तम्। किलानायकन्त्रं शतशाखाकुलं भवति।
मन्त्रिप्रोक्तनिषेविणाम्, मन्त्रिभिः सचिवैर्यत् प्रोक्तं कथितं नीतिशास्त्रविहितं नियमं तन्निषेविणां
तत् कुर्वतां मन्त्रिमतानुसारेण व्यवहरताम्। सर्वतः सर्वस्मात् पुत्रादप्याशङ्किनामाशाङ्कमानानां
दुःखाम्भोनिधिवर्तिनां कान्तासमालिङ्गनं सुखलव इति॥३॥
अन्यदप्याह—
श्रुतं दृष्टं स्पृष्टं स्मृतमपि नृणां ह्लादजननं
न रत्नं स्त्रीभ्योऽन्यत् क्वचिदपि कृतं लोकपतिना।
तदर्थं धर्मार्थौ सुतविषयसौख्यानि च ततो
गृहे लक्ष्म्यो मान्याः सततमबला मानविभवैः ॥४॥
संसार में कहीं पर भी ब्रह्मा ने स्त्रियों के अतिरिक्त ऐसा कोई रत्न नहीं बनाया,
जिसके सुनने, स्पर्श करने, देखने या स्मरण करने से ही आनन्द प्राप्त हो सके। लोग
स्त्री के लिये धर्म और अर्थ की सेवा करते हैं। स्त्री के द्वारा पुत्रसुख तथा विषयसुख
मिलता है तथा स्त्री ही गृह में लक्ष्मी होती है; अतः मान तथा विभवों के द्वारा स्त्री का
सदा आदर करना चाहिये॥४॥
लोकपतिना प्रजापतिना स्त्रीभ्यो योषिद्भ्योऽन्यत् परं द्वितीयं न क्वचिदपि रत्नं कृतम्।
केवलमेव स्त्रीरत्नमित्यर्थः। स्त्रीरत्नं कीदृशम्? श्रुतं नाममात्रेण श्रुतमप्याह्लादकरम्। दृष्टम-
वलोकितम्। स्पृष्टमवयवैकदेशेन। स्मृतं चिन्तितमपि नृणां पुंसामाह्लादजननं सुखकरम्।
आह्लादं करोतीत्यर्थः। तदर्थं धर्मार्थौ धर्मश्चार्थश्च तौ धर्मार्थौ तदर्थं क्रियेते। ततस्तस्मात्
सकाशात् सुतविषयसौख्यानि भवन्ति। सुताः पुत्राः। विषयसौख्यानि इन्द्रियसौख्यानि च
भवन्ति। अबलाः स्त्रियो गृहे वेश्मनि लक्ष्म्यः श्रियः। अतो मानविभवैः, मानेन पूजया,
विभवेनैश्वर्येण। एतैर्बहुविधैः सततं सर्वकालं मान्याः पूज्याः॥४॥
अन्यदप्याह—
येऽप्यङ्गनानां प्रवदन्ति दोषान् वैराग्यमार्गेण गुणान् विहाय।
ते दुर्जना मे मनसो वितर्कः सद्भाववाक्यानि न तानि तेषाम् ॥५॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

२९२ बृहत्संहिता
जो कोई भी (व्यक्ति) वैराग्य मार्ग के द्वारा स्त्रियों में गुणों को छोड़कर दोषों का
वर्णन करते हैं, वे दुर्जन हैं, ऐसा मेरा अनुमान है। इसलिये उन दुर्जनों के वचन प्रामाणिक
नहीं हो सकते हैं॥५॥
ये नरा अङ्गनानां स्त्रीणां गुणान् विहाय गुणान् विद्यमानान् त्यक्त्वा वैराग्यमार्गेण
विरागद्वारेण दोषान् प्रवदन्ति कथयन्ति, ते दुर्जना इति मे मनसश्चित्तस्य वितर्को निश्चयः।
तेषां दुर्जनानां न तानि सद्भाववाक्यानि परमार्थवचांसि भवन्ति॥५॥
अन्यदपि प्रशंसार्थमाह—
प्रब्रूत सत्यं कतरोऽङ्गनानां दोषोऽस्ति यो नाचरितो मनुष्यैः।
धाष्ट्र्येन पुम्भिः प्रमदा निरस्ता गुणाधिकास्ता मनुनात्र चोक्तम् ॥६॥
स्त्रियों में ऐसा कौन दोष है, जिसको पुरुषों ने पहले नहीं किया अर्थात् पहले पुरुषों
ने सभी दोष किये, तत्पश्चात् उन्हीं से स्त्रियों ने सीखे। पुरुषों ने अपनी धृष्टता से स्त्रियों
को जीत लिया; क्योंकि पुरुषों से स्त्रियों में अधिक गुण होते हैं। ऐसा ही मनु द्वारा भी
कहा गया है॥६॥
अङ्गनानां स्त्रीणां कतरो दोषोऽस्ति? कः प्रधानो दोषो विद्यते? य आदावेव मनुष्यैः
पुरुषैर्नाचरितो नानुष्ठितः। एतत् सत्यं परमार्थं यूयं विरक्ता अपि प्रब्रूत कथयत। असौ
दोषः परदारागमनादिकः प्रथमं पुरुषैराचरितः पश्चात् तास्तेभ्यः सकाशाच्छिक्षिताः। पुम्भि-
र्मनुष्यैर्धाष्ट्र्येन धृष्टत्वेन निर्लज्जतया प्रमदाः स्त्रियो निरस्ता दोषमार्गेण क्षिप्ताः। यतस्ताश्च
स्त्रियः पुरुषाणां सकाशाद् गुणाधिकाः। अत्रास्मिन्नर्थे मनुना शास्त्रकर्त्रा तासामेव प्राधान्यं
चोक्तं कथितम्॥६॥
ततश्चाह—
सोमस्तासामदाच्छौचं गन्धर्वः शिक्षितां गिरम्।
अग्निश्च सर्वभक्षित्त्वं तस्मान्निष्कसमाः स्त्रियः ॥७॥
चन्द्रमा ने पवित्रता, गन्धर्वों ने शिक्षित वचन और अग्नि ने सर्वभक्षित्त्व स्त्रियों को
दिया है, इसलिये स्त्रियाँ सुवर्णतुल्य होती हैं॥७॥
तासां स्त्रीणां सोमश्चन्द्रमाः शौचं शुद्धिमदादयच्छत्। गन्धर्वो देवयोनिः, शिक्षितां
श्रेष्ठामाह्लादकरीं गिरं वाचमदात्। अग्निर्हुताशनः सर्वभक्षित्त्वं सर्वाशित्वमदात्। तस्माद्धेतोः
स्त्रियो निष्कसमाः सुवर्णतुल्याः। सर्ववर्णगामिन्योऽपि शुद्धा भवन्तीत्यर्थः॥७॥
अन्यत् प्राधान्यमाह—
ब्राह्मणाः पादतो मेध्या गावो मेध्याश्च पृष्ठतः।
अजाश्वा मुखतो मेध्याः स्त्रियो मेध्यास्तु सर्वतः ॥८॥
ब्राह्मण पाँव से, गौ पृष्ठ से और बकरा तथा घोड़ा मुख से पवित्र होता है, किन्तु
स्त्रियाँ अपने समस्त अंगों से पवित्र होती हैं॥८॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

स्त्रीप्रशंसाध्यायः २९३
ब्राह्मणा द्विजाः पादतो मेध्याः पादाभ्यां शुद्धाः पवित्राः। गावः सुरभयः पृष्ठभागान्मेध्याः।
अजाश्छागाः। अश्वास्तुरगाः। एतेऽजाश्वा मुखतो मुखाद् वक्त्राद् मेध्याः। स्त्रियो योषितः
सर्वतः सर्वाङ्गेभ्यो मेध्याः पवित्राः॥८॥
अन्यदप्याह—
स्त्रियः पवित्रमतुलं नैता दुष्यन्ति कर्हिचित्।
मासि मासि रजो ह्यासाम दुष्कृतान्यपकर्षति ॥९॥
स्त्रियों के समान कोई अन्य वस्तु पवित्र नहीं है, कभी भी वे दोषयुक्त नहीं होती;
क्योंकि प्रत्येक मास में स्रवित होने वाला उनका रज उनके पापों का हरण कर लेता
है॥९॥
स्त्रियो योषितः। अतुलमसमं परं पवित्रं पावनम्। एताः स्त्रियो न कर्हिचिन्न कदाचिद्
दुष्यन्ति दुष्टतां यान्ति। स्त्रीणां मासि मासि प्रतिमासं रजो रक्तं समुद्भूतं दुष्कृतानि दुष्टक-
र्माणि। अपकर्षति विनाशयति॥९॥
अन्यदप्याह—
जामयो यानि गेहानि शपन्त्यप्रतिपूजिताः ।
तानि कृत्याहतानीव विनश्यन्ति समन्ततः ॥१०॥
असम्मानित कुलस्त्रियाँ जिन गृहों को शाप देती हैं, कृत्या से हत की तरह चारो
तरफ से वे गृह नष्ट हो जाते हैं॥१०॥
जामयो भर्तृभगिन्यः कुलस्त्रियश्च ताश्चाप्रतिपूजिता असम्मानिता यानि गेहानि वेश्मानि
शपन्ति। अतिशमं याताः क्रोशन्ते तानि च कृत्याहतानीव कृत्यया हतानि विनाशितानि
यथा तथा समन्ततः समन्ताद्विनश्यन्ति विनाशं यान्ति॥१०॥
अन्यदप्याह—
जाया वा स्याज्जनित्री वा सम्भवः स्त्रीकृतो नृणाम् ।
हे कृतघ्नास्तयोर्निन्दां कुर्वतां वः कुतः शुभम् ॥११॥
मनुष्यों की उत्पत्ति स्त्री से ही होती है अर्थात् माता से साक्षात् और भार्या से
पुत्ररूप धारण करके मनुष्य की उत्पत्ति होती है। इसलिये जाया हो या जनित्री (माता)
हो, हे कृतघ्न! उन दोनों (जाया और जनित्री) की निन्दा करने से तुम्हारा मंगल कहाँ
से हो सकता है?॥११॥
जाया भार्या। तज्जाया भवति यस्यां जायते पुनरिति श्रुतिः। जाया स्त्री माता। स्त्रीकृतः
सम्भवः। अङ्गात् सम्भवति हृदयादभिजायते। आत्मा वै पुत्रनामासि त्वं जीव शरदां
शतमिति श्रुतिः। पुत्ररूपेणात्मन एवोत्पत्तिः। जाया वा स्याद् भवेत्। जनित्री माता वा
भवेत्। नृणां सर्वथा स्त्रीकृतः सम्भव उत्पत्तिः। हे कृतघ्ना इति। हे दुर्जनानामामन्त्रणम्।
CC-0. JK Sanskrit Academy, Jammmụ. Digitized by S3 Foundation USA

२९४ बृहत्संहिता
तयोर्जायाजनित्र्योर्निन्दां कुर्वतां वो युष्माकं कुतः कस्माच्छुभं श्रेयो भवति।।११।।
अन्यदप्याह—
दम्पत्योर्व्युत्क्रमे दोषः समः शास्त्रे प्रतिष्ठितः।
नरा न तमवेक्षन्ते तेनात्र वरमङ्गनाः ॥१२॥
स्त्री-पुरुष दोनों को व्युत्क्रम में ( परस्त्री-गमन में पुरुष को तथा परपुरुष-गमन में
स्त्री को ) समान दोष धर्मशास्त्र में कहा गया है; परन्तु पुरुष उस दोष को नहीं देखते
तथा स्त्री देखती है। इसलिये पुरुषों से स्त्रियाँ श्रेष्ठ हैं।।१२।।
दम्पत्योर्जायापत्योर्व्युत्क्रमे सति। व्युत्क्रमोऽनियमः। नरस्य परस्त्रीगमनं स्त्रियाः पर-
पुरुषगमनं व्युत्क्रमः। तस्मिन् यो दोषो दुष्टता स शास्त्रे धर्मशास्त्रादौ समस्तुल्यः प्रतिष्ठित
उक्तः। यथा—न हीदृशमनायुष्यं यथा परस्त्रीनिषेवणमित्यादि। सामान्यमुभयोरपि। नराः
पुनः स्वतं दोषं परस्त्रीगमनादिकं न समवेक्षन्ते विचारयन्ति, स्त्रियः पुनरवेक्षन्ते। तेन
कारणेनात्रास्मिन् निर्धारणेऽङ्गनाः स्त्रियो वरं श्रेष्ठं प्रधानाङ्गमित्यर्थः।।१२।।
अथ दारातिक्रमणे प्रायश्चित्तमाह—
बहिलोंम्ना तु षण्मासान् वेष्टितः खरचर्मणा।
दारातिक्रमणे भिक्षां देहीत्युक्त्वा विशुध्यति ॥१३॥
जो पुरुष अपनी स्त्री को छोड़कर परस्त्री-गमन करता है, वह बाहर की तरफ किये
हुये रोम वाले गदहे के चमड़े से अपने शरीर को ढ़क कर छः मास तक 'भिक्षां देहि'
यह कहकर भीख माँगने से शुद्ध होता है।।१३।।
दाराणामतिक्रमणं दारातिक्रमणमन्यस्त्रीनिषेवणम्, तस्मिन् दारातिक्रमणे बहिलोंम्ना
खरचर्मणा गर्दभत्वचा बाह्ये लोमानि कृतानि यस्मिन् तेन षण्मासान् वेष्टितः प्रावृतशरीरः
प्रतिगृहं भिक्षां देहीति भिक्षां मे प्रयच्छेत्युक्त्वा सम्भाष्य ततो विशुध्यति शुद्धिमायाति।।१३।।
अन्यदपि स्त्रीप्रशंसार्थमाह—
न शतेनापि वर्षाणामपैति मदनाशयः।
तत्र शक्त्या निवर्तन्ते नरा धैर्येण योषितः ॥१४॥
सौ वर्ष व्यतीत होने पर भी मनुष्य की विषय-वासना नष्ट नहीं होती; किन्तु शारीरिक
शक्ति कम हो जाने पर ही पुरुष उससे निवृत्त होता है; लेकिन स्त्री धैर्य से निवृत्त होती
है।।१४।।
मदनः कामश्चेति। तस्मिन्निति। तत्र मदनाशयः कामवासनाभिः संस्कारोऽभिलाषः
पुरुषाणां शतेनापि वर्षाणामब्दानां नापैति हृदयान्नापसर्पति। यथा स्त्रिया सह संयोगः
पूर्वमासीत् तथा साम्प्रतं यदि न भवति, तदा पुरुषाणां वर्षशतेनापि मदनाशयो नापैति,
किन्तु तत्र तस्मिन् कामोपभोगविषये नराः पुरुषा अशक्त्या असामर्थ्येन निवर्तन्ते निवृत्तिं
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

स्त्रीप्रशंसाध्यायः २९५
कुर्वन्ति। योषितः स्त्रियः पुनर्धैर्येण धृष्टत्वेनैनं निवर्तन्ते। अनेन स्त्रीणामभिलाषशीलताप्राधान्यं
प्रदर्शितं भवति।।१४।।
अन्यदप्याह—
अहो धाष्ट्र्यमसाधूनां निन्दतामनघाः स्त्रियः।
मुष्णतामिव चौराणां तिष्ठ चौरेति जल्पताम् ।।१५।।
पवित्र स्त्रियों की निन्दा करते हुये दुर्जनों की धृष्टता, चोरी करते हुये चोर का 'चोर
ठहर' ऐसा कहने की तरह ही है।।१५।।
असाधूनां दुर्जनानामनघा अपापाः स्त्रियो योषितः। निन्दां कुत्सां कुर्वतामहो धाष्ट्र्यमहो
धीरता। अहो आश्चर्यम्। धाष्ट्र्यं निर्लज्जता इव सा दृश्यते। यथा चौराणां तस्कराणां
मुष्णतां दोषं कुर्वतां यस्यैव मुष्णन्ति तस्यैव पलायमानस्य तिष्ठ चौरेति जल्पतां भाष्यतां
धाष्ट्र्यं तद्वदिति।।१५।।
एवं धर्मशास्त्रोक्तां प्रशंस

२९६ बृहत्संहिता
यस्यास्ति विद्यते। पुरुषो निःस्वोऽपि निर्धनोऽपि साम्प्रत्यवनीश्वरोऽसौ, अहमेव मन्ये यथाऽसौ
राजा। केचित् सम्प्रत्यवनीश्वरोऽसाविति पठन्ति। यथा सम्प्रति तस्मिन्नेव काले स राजा।
अपिशब्दः सम्भावनायाम्। ईश्वरस्य का गणना। यस्माद्राज्यस्यैतावत् सारः श्रेष्ठम्। अशनं
भोजनमङ्गनाश्च स्त्रियः शेषमन्यद्वस्त्रादिकं तृष्णानलस्य तृष्णाग्नेरुद्दीपने ज्वलने दारु काष्ठ-
निचयः। यतस्तेनाग्निरधिकतरं प्रज्वलति।।१७।।
अन्यत् प्रशंसार्थमाह—
कामिनीं प्रथमयौवनान्वितां मन्दवल्गुमृदुपीडितस्वनाम्।
उत्स्तनीं समवलम्ब्य या रतिः सा न धातृभवनेऽस्ति मे मतिः ॥१८॥
मन्द, सुन्दर, कोमल और पीड़ित शब्द करती हुई, ऊँचे स्तनों से युत नवयौवना
स्त्री को आलिङ्गन करने से जो सुख प्राप्त होता है, वह ब्रह्मलोक में भी प्राप्त नहीं
होता—ऐसा मेरा मत है।।१८।।
कामिनीं समुद्गतमन्मथां तां च प्रथमयौवनान्वितामभिनवयौवनोपेताम्। मन्दमल्पं
वल्गु रम्यं मृदु मधुरं पीडितं स्तब्धम्। शनैरालिङ्गिता सती मन्दवल्गुमृदुपीडितं स्वनं
शब्दं कुर्वतीम्। उत्स्तनीमुद्गतस्तनीमुद्भिद्यमानकुचाम्। एवंविधां स्त्रियं योषितं समवलम्ब्य
परिष्वज्य या रतिर्भवति सुखं यादृशं सञ्जायते सा धातृभवने प्रजापतिगृहे ब्रह्मलोके
नास्ति न विद्यत इति मम मतिर्बुद्धिः। एवमहं मन्ये इति। महता क्लेशेन तपसा ज्ञानेन
योगादिना वा ब्रह्मलोकमासाद्य तत्र किमनुभूयते।।१८।।
इत्येतदाह—
तत्र देवमुनिसिद्धचारणैर्मान्यमानपितृसेव्यसेवनात्।
ब्रूत धातृभवनेऽस्ति किं सुखं यद्रहः समवलम्ब्य न स्त्रियम् ॥१९॥
देवता, मुनि, सिद्ध और चारण (नट, नर्तक, गीतज्ञ और वाद्यज्ञ) के द्वारा पूजनीय,
पूजक और सेव्यों की उपासना के अतिरिक्त ब्रह्मलोक में और कौन-सा सुख है, जो
एकान्त में स्त्री को आलिङ्गन करने से नहीं प्राप्त होता है।।१९।।
तत्र तस्मिन् धातृभवने ब्रह्मलोके। देवैः सुरैः। मुनिभिः। सिद्धैर्विद्याराधनेन ये सिद्धदेव-
योनयः सम्पन्नास्तैः। तथा चारणैर्नटनर्तकगेयवाद्यज्ञैर्गन्धर्वाप्सरोभिर्मान्यानां पूजनीयानां मान-
पितॄणां पूजकानां सेव्यानां च सेवनादुपासनात् परतोऽन्यत् किं सुखमस्त्येतद् ब्रूत कथयत।
तत्र सेवकैः सेव्या आराध्यन्ते। मान्या मानपितृभिः पूज्यन्ते। एतावानेव। यद्रहो निर्जने
सुरतसमये स्त्रियं योषितमवलम्ब्य परिष्वज्य किं नास्ति किं न सुखं विद्यते, अपि तु सर्वं
ब्रह्मलोकादप्यधिकं तत्र विद्यत इत्यद्यतनैर्लोकैर्गणना कार्या।।१९।।
इत्येतदाह—
आब्रह्मकीटान्तमिदं निबद्धं
पुंस्त्रीप्रयोगेण जगत् समस्तम्।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA