बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 2 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 305, कुल 760 में से
संदर्भ में पढ़ेंकन्यालक्षणाध्यायः २७७
आयु के प्रथम भाग में शुभ और अशुभ लक्षणों से युत हो तो आयु के प्रथम भाग में
अशुभ फल कहना चाहिये। इसी तरह द्वितीय आदि अंगभाग शुभाशुभ लक्षणों से युत
हो तो आयु के द्वितीय आदि भाग में शुभाशुभ फल कहना चाहिये।।२४-२६।।
इति 'विमला' हिन्दीटीकायां कन्यालक्षणाध्यायः सप्ततितमः ॥७०॥
पादौ सगुल्फाविति। पादौ चरणौ सगुल्फौ गुल्फसहितौ प्रथममाद्यं दशाभागं च
शुभाशुभं च शुभाशुभचिह्नितं प्रदिष्टमुक्तम्। जङ्घे सजानुचक्रे जानुचक्रिकासहिते द्वितीयं
दशाभागमुक्तम्। मेढ्रं लिङ्गमूरू द्वौ मुष्कौ वृषणौ ततोऽनन्तरमेतत् तृतीयं दशाभागम्।
नाभिः कटिश्चेति चतुर्थं दशाभागमाहुः कथयन्ति।
उदरमिति। उदरं पञ्चमं दशाभागं कथयन्ति प्रवदन्ति मुनयः। हृदयं स्तनान्वितं
स्तनसंयुक्तं षष्ठं दशाभागं कथयन्ति। अथानन्तरमंसौ स्कन्धौ जत्रूणी च सप्तमं दशाभागम्।
ओष्ठौ द्वौ कन्धरा ग्रीवा एते ओष्ठकन्धरे अष्टमं दशाभागं कथयन्ति।
नयने नेत्रे सभ्रूणी भ्रूसहिते नवमं दशाभागम्। शिरो मूर्धा सल्ललाटं ललाटसहितं
दशमं दशाभागम्, तथा तेनैव प्रकारेण। अथ यद्यपि सामान्येनोक्तम्, तथापि परमायुः-
प्रमाणेन द्वादशवार्षिकीं दशां परिकल्प्य विचारः कर्तव्यः। ज्ञातायुस्तत्प्रमाणेण एतेषु क्षेत्र-
विभागेषु चरणाद्येषु वातप्रभृतिष्वशुभेष्वशुभमनिष्टं दशाफलं शुभेषु शोभनमिति। एतदुक्तं
भवति—यद्गात्रं रूक्षं मांसविहीनं शिरावनद्धं च तदनिष्टं प्रोक्तम्। विपरीतमतः शुभं सर्व-
मित्यनेन क्रमेण यत्राङ्गेऽशुभलक्षणानि तद्दशाभागमशुभम्, यत्र शुभानि तत् शोभनम्, यत्र
व्यामिश्राणि तन्मध्यमिति।।२४-२६।।
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ कन्यालक्षणं
नाम सप्ततितमोऽध्यायः ॥७०॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA