बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 2 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 314, कुल 760 में से
संदर्भ में पढ़ें२८६ बृहत्संहिता
अथ तेषामेव त्र्यादिष्वसमेषु द्विकविवर्धितेषु फलमाह—
यात्राप्रसिद्धिर्द्विषतां विनाशो लाभाः प्रभूता वसुधागमश्च।
वृद्धिः पशूनामभिवाञ्छिताप्तिरुयाद्येष्वयुग्मेषु तदीश्वराणाम् ॥६॥
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां चामरलक्षणं
नाम द्वासप्ततितमोऽध्यायः ॥७२॥
दण्डों में तीन पर्व हों तो दण्ड के स्वामियों को यात्रा में विजय, पाँच पर्व हों तो
शत्रुओं का नाश, सात पर्व हों तो बहुत लाभ, नौ पर्व हों तो भूमिलाभ, ग्यारह पर्व हों
तो पशुओं की वृद्धि और तेरह पर्व हों तो दण्ड के स्वामियों को अभीष्ट वस्तु का लाभ
होता है॥७२॥
इति 'विमला' हिन्दीटीकायां चामरलक्षणाध्यायो द्वासप्ततितमः ॥७२॥
तदीश्वराणां दण्डादीनां स्वामिनां त्र्याद्येष्वयुग्मेषु पर्वसु द्विकविवर्धितेष्विमानि फलानि
भवन्ति। तद्यथा—दण्डादिषु त्रिभिः पर्वभिर्यात्रायाः प्रसिद्धिर्विजयो भवति। पञ्चभिर्द्विषतां
शत्रूणां विनाशः। सप्तभिः प्रभूता बहवो लाभा लब्धयः। नवभिर्वसुधागमो भूलाभः। एका-
दशभिः पशूनां चतुष्पदानां वृद्धिः। त्रयोदशभिर्वाञ्छितस्याभीष्टस्य प्राप्तिर्लाभो भवति। द्वादश-
त्रयोदशभ्यः परतः समविषमाणामशुभाशुभमात्रं फलम्। न विशेषफलमिति॥६॥
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ चामरलक्षणं
नाम द्वासप्ततितमोऽध्यायः ॥७२॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA