सामग्री पर जाएँ
सर्वकोश
बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

Brihat Samhita Vol 2 with Vimala Hindi Commentary

आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा

DevanagariHindipublished760 पृष्ठ

पृष्ठ 307, कुल 760 में से

संदर्भ में पढ़ें
पृष्ठ 307

वस्त्रच्छेदलक्षणाध्यायः २७९
वस्त्रदा भवति। प्रभूतानि बहूनि वस्त्राणि अम्बराणि ददाति। अथानन्तरमेवं भरणी वस्त्रा-
पहारिणी भवति। अग्निदैवते कृत्तिकानक्षत्रे वस्त्रं सन्दह्यतेऽग्निना। प्रजेश्वरे रोहिण्यामर्थानां
सिद्धयः प्राप्तयो भवन्ति।
मृगे इति । मृगे मृगशिरसि मूषकाद्वस्त्रभयं भवति। तेन छिद्यते। शाङ्करे आर्द्रायां
व्यसुत्वं विगतप्राणता भवति, म्रियत इत्यर्थः। पुनर्वसौ शुभस्यार्थस्य धर्मादेरागमः प्राप्ति-
र्भवति। तदग्रभे तस्य पुनर्वसोरग्रतः पुरतः स्थिते भे नक्षत्रे तिष्ये धनैर्वित्तैर्युतिः संयोगो भवति।
भुजङ्गभे इति । भुजङ्गभे श्लेषायां वस्त्रं विलुप्यते छिद्यते। मघासु मृत्युं मरणमादिशेद्
वदेत्। भगाह्वये पूर्वफल्गुन्यां नृपाद् राज्ञो भयं भवति। उत्तरफल्गुनी धनागमाय धनप्राप्तये
भवति।
करेणेति । करेण हस्तेन कर्मणां सिद्धयो भवन्ति। चित्रायां शुभागमः शुभस्यार्थस्य
धर्मादेरागमः प्राप्तिर्भवति। अनिले स्वातौ शुभं शोभनं भोज्यमाहारं भवति। द्विदैवते विशाखायां
जनप्रियो जनवल्लभो भवति।
सुहृद्युतिश्चेति । मित्रभेऽनुराधायां सुहृद्युतिर्मित्रसंयोगः। तदग्रभे तस्या अनुराधाया
अग्रतः पुरतः स्थिते भे नक्षत्रे ज्येष्ठायामम्बरस्य वस्त्रस्य क्षयो विनाशो भवति। नैर्ऋते मूले
जलप्लुतिर्वस्त्रं जलमध्ये प्लवति। यातीत्यर्थः। जलाधिदैवते पूर्वाषाढायां रुजो रोगा भवन्ति।
मिष्टमन्नमिति । वैश्वदेवे उत्तराषाढायां मिष्टमन्नं भोजनं भवति। वैष्णवे श्रवणे नेत्र-
रोगता चक्षुषीपीडा। वासवे धनिष्ठायां धान्यानां लब्धिं लाभम्। विदुर्जानते। वारुणे शतभिषजि
महदतीव भयं विषकृतं विषोत्पन्नं भवति।
भद्रपदास्विति । भद्रपदासु पूर्वभद्रपदासु सलिलोत्थं जलादुत्पन्नं भयं भवति। तत्परत
उत्तरभद्रपदायां सुतलब्धिः पुत्रलाभो भवति। पौष्णे रेवत्यां रत्नयुतिं रत्नसंयोगं कथयन्ति
मुनयः। तस्यैतानि फलानीत्याह। योऽभिनवाम्बरमिच्छति भोक्तुम्, यः पुरुषोऽभिनवाम्ब-
रमभिनवं वस्त्रं भोक्तुमिच्छति तस्येति।।१-७।।
अथ सर्वनक्षत्राणां कर्मयोगितामाह—
भोक्तुं नवाम्बरं शस्तमृक्षेऽपि गुणवर्जिते।
विवाहे राजसम्माने ब्राह्मणानां च सम्मते ॥८॥
विवाह में, राजसम्मान में और ब्राह्मणों की आज्ञा मिलने पर अविहित नक्षत्र में भी
वस्त्र धारण करना शुभ होता है।।८।।
विवाहे पाणिग्रहणकाले। राजसम्माने राजपूजायाम्। ब्राह्मणानां च सम्मते द्विजव-
चनेनेत्यर्थः। एतेषु कालेषु गुणवर्जितेऽपि ऋक्षे नक्षत्रे नवाम्बरमभिनवं वस्त्रं भोक्तुमुपभोक्तुं
शस्तं प्रशस्तमिति।।८।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA