बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 2 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
१६६ बृहत्संहिता
अथ प्रतिष्ठापनलक्षणमाह—
विष्णोर्भागवतान् भगांश्च सवितुः शम्भोः सभस्मद्विजान्
मातृणामपि मण्डलक्रमविदो विप्रान् विदुर्ब्रह्मणः ।
शाक्यान् सर्वहितस्य शान्तमनसो नग्नान् जिनानां विदु-
र्यं यं देवमुपाश्रिताः स्वविधिना तैस्तस्य कार्या क्रिया ॥१९॥
विष्णु की प्रतिष्ठा वैष्णव, सूर्य की प्रतिष्ठा भगब्राह्मण, शिव की प्रतिष्ठा भस्म लगाने
वाले ब्राह्मण, मातृकाओं की प्रतिष्ठा मण्डलक्रम जानने वाले ब्राह्मण, ब्रह्मा की प्रतिष्ठा
ब्राह्मण, जितेन्द्रिय बुद्ध की प्रतिष्ठा रक्तपटधारी और जिन की प्रतिष्ठा दिगम्बर क्षपणक
को करनी चाहिये। जो मनुष्य जिस देवता का परम उपासक हो, उसे उस देवता की
क्रिया करनी चाहिये॥१९॥
विष्णोर्नारायणस्य भागवतान्, सवितुरादित्यस्य मगांन् मगब्राह्मणान्, शम्भोर्महादेवस्य,
द्विजान् ब्राह्मणान् भस्मसहितान् पाशुपतानित्यर्थः। मातृणां ब्राह्म्यादीनाम्। मण्डलक्रमविदो
ये मण्डलक्रमं पूजाक्रमं विदन्ति जानन्ति, तान् स्थापकान् विदुः। ब्रह्मणः पितामहस्य विप्रान्
ब्राह्मणान् विदुः। सर्वहितस्य बुद्धस्य शान्तमनसो जितेन्द्रियस्य शाक्यान् रक्तपटान् विदुः।
जिनानामर्हतां नग्नान् नग्नक्षपणकान् विदुः। ये नरा यं देवमुपाश्रिताः शरण्यं भक्तिभावेन
प्राप्तास्तैर्नरैस्तस्य देवस्य स्वविधिना आत्मीयदर्शनोक्तेन विधानेन। पञ्चरात्रविधिना विष्णोः।
सौरदर्शनविधानेन सवितुः। वातुलतन्त्रोक्तेनान्यतन्त्रोक्तविधिना वा शम्भोः। मातृणां स्वकल्प-
विहितविधानेन ब्राह्मणैर्वेदविहितकर्मणा बुद्धस्य पारमिताक्रमेण। अर्हतां तद्दर्शनविधिना
क्रिया कार्या इति॥१९॥
अथ प्रतिष्ठाकाललक्षणमाह—
उदगयने सितपक्षे शिशिरगभस्तौ च जीववर्गस्थे।
लग्ने स्थिरे स्थिरांशे सौम्यैर्धीधर्मकेन्द्रगतैः ॥२०॥
पापैरुपचयसंस्थैर्ध्रुवमृदुहरितिष्यवायुदेवेषु ।
विकुजे दिनेऽनुकूले देवानां स्थापनं शस्तम् ॥२१॥
उत्तरायण में, शुक्ल पक्ष में, चन्द्र और गुरु के षड्वर्ग में, स्थिर लग्न में, स्थिर
नवांश में, शुभ ग्रह पञ्चम, नवम, लग्न, चतुर्थ, सप्तम और दशम स्थान में हों, पापग्रह
तृतीय, षष्ठ, दशम और एकादश में हों, तीनों उत्तरा, रोहिणी, मृगशिरा, रेवती, चित्रा,
अनुराधा, श्रवण, पुष्य और स्वाती नक्षत्रों में, मंगल को छोड़कर शेष दिनों में और
प्रतिष्ठा करने वाले के लिये शुभदायक समयों में देवता का स्थापन करना कल्याणकारी
होता है॥२०-२१॥
उदगयने उत्तरायणे मकरादिराशिषट्कस्थे रवौ। सितपक्षे शुक्लपक्षे। तथैवोत्तरायणे
शुक्लपक्षे शिशिरगभस्तौ चन्द्रे। शिशिराः शीतला गभस्तयो रश्मयो यस्य तस्मिन् जीव-
प्रतिमाप्रतिष्ठापनाध्यायः १६७
वर्गस्थे बृहस्पतिवर्गस्थे। वर्गो गृहहोराद्रेष्काणनवांशद्वादशांशत्रिंशद्भागाख्यः। तथा लग्ने
स्थिरे वृषसिंहकुम्भानामन्यतमे, तथाऽन्यस्मिन् मिथुनकर्कटकन्यातुलधन्विमीनानामन्यतमे
स्थिरनवांशकोदये। यतोऽन्यराशयोऽनेनैव प्रकारेणान्तरे निषिद्धाः।
सद्भर्गे स्थिरभोदये च भवनं कार्यं प्रवेशोऽपि वा।। इति।
सौम्यैर्बुधजीवशुक्रैर्धीधर्मकेन्द्रगतैः, धीस्थानं पञ्चमम्, धर्मस्थानं नवमम्; केन्द्राणि
लग्नचतुर्थसप्तमदशमानि, एतेषामन्यतमस्थानस्थैः। पापैरादित्याङ्गारकशनैश्चरैरुपचयसंस्थैः,
त्रिषडेकादशदशमस्थानानामन्यतमस्थानस्थैः। तथा ध्रुवमृदुहरितिष्यवायुदेवेषु नक्षत्रेषु। उत्तरा-
त्रितयं रोहिणी चेति ध्रुवाणि। मृगशिरश्चित्रानुराधा रेवती चेति मृदूनि। हरिः श्रवणः। तिष्यः।
वायुदेवः स्वातिः। एतेषु नक्षत्रेषु। विकुजे अङ्गारकविवर्जिते दिने वासरे। रविशशिबुधगुरु-
सितासितानां दिने। तस्मिंश्चानुकूले कर्तुः शुभकरे देवानां सुराणां स्थापनं प्रतिष्ठापनं शोभन-
मिति शस्तं शोभनमिति।।२०-२१।।
एतत् प्रतिष्ठापनं सर्वदेवानां सामान्यं मया कृतमित्येतदाह—
सामान्यमिदं समासतो लोकानां हितदं मया कृतम्।
अधिवासनसन्निवेशने सावित्रे पृथगेव विस्तरात् ॥२२॥
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां प्रतिमाप्रतिष्ठापनं
नाम षष्टितमोऽध्यायः ॥६०॥
इस प्रकार यह संक्षेप में सामान्य रूप से प्रतिमा का प्रतिष्ठापन-विधान मैंने कहा
है। सूर्य की प्रतिमा का अधिवासन और प्रतिष्ठापन-विधान सौर शास्त्र में अलग से कहा
गया है।।२२।।
इति 'विमला' हिन्दीटीकायां प्रतिमाप्रतिष्ठापनाध्यायः षष्टितमः ॥६०॥
इदं प्रतिष्ठापनं समासतः संक्षेपतः सामान्यमविशेषं वैदिकेन विधानेन सर्वेषां जनानां
हितमनुकूलमनायासकरं मया कृतं रचितम्। सावित्रे शास्त्रे प्रत्येकस्य देवस्याधिवासन-
सन्निवेशने। अधिवासनं प्रतिष्ठापनं निवेशनं च ते पृथक्पृथग्विस्तराद्विस्तारेण तत्र भवतः।
अथवा सावित्रे सवितुरादित्यस्य ये अधिवासनसन्निवेशने पृथगेव विस्तारात् तच्छास्त्रे सौरे
भवत इति।।२२।।
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ प्रतिमाप्रतिष्ठापनं
नाम षष्टितमोऽध्यायः ॥६०॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
अथ गोलक्षणाध्यायः
अथ गोलक्षणं व्याख्यायते। तत्रादावेवागमप्रदर्शनार्थमाह—
पराशरः प्राह बृहद्रथाय गोलक्षणं यत् क्रियते ततोऽयम्।
मया समासः शुभलक्षणास्ताः सर्वास्तथाऽप्यागमतोऽभिधास्ये ॥१॥
पराशर मुनि ने अपने शिष्य बृहद्रथ से जो गोलक्षण कहा है, यहाँ पर मैं उसका
संक्षेप में वर्णन करता हूँ। यद्यपि सभी गौवें शुभ लक्षण वाली होती हैं, तथापि मुनि-
प्रणीत शास्त्र से लेकर उनका शुभाशुभ लक्षण यहाँ कहते हैं॥१॥
पराशराख्यो मुनिर्बृहद्रथाय शार्ङ्गरवनाम्ने स्वशिष्याय यद् गोलक्षणं प्राहोक्तवान्,
ततस्तस्माद् गोलक्षणान्मया आचार्येण समासः संक्षेपः क्रियते। सर्वाः समस्ता गावः शुभ-
लक्षणाः प्रशस्तलक्षणाः। अपिग्रहणादशुभलक्षणाः सर्वा निःशेषास्तथा तेनैव प्रकारेणागमत
आगमाद् मुनिप्रणीताच्छास्त्रादभिधास्ये कथयिष्ये॥१॥
तत्रादावेवाशुभलक्षणान्याह—
सास्त्राविलरूक्षाक्ष्यो मूषकनयनाश्च न शुभदा गावः ।
प्रचलच्चिपिटविषाणाः करटाः खरसदृशवर्णाश्च ॥२॥
दशसप्तचतुर्दन्त्यः प्रलम्बमुण्डानना विनतपृष्ठ्यः ।
ह्रस्वस्थूलग्रीवा यवमध्या दारितखुराश्च ॥३॥
श्यावातिदीर्घजिह्वा गुल्फैरतितनुभिरतिबृहद्भिर्वा ।
अतिककुदाः कृशदेहा नेष्टा हीनाधिकाङ्ग्यश्च ॥४॥
आसुओं से भरी आँखों वाली, गँदली आँखों वाली, रूखी आँखों वाली, चूहे के
समान आँखों वाली, हिलती हुये सींग वाली, चपटे सींग वाली, कृष्ण, लोहित वर्ण
वाली और गदहे के समान वर्ण वाली गौ शुभ देने वाली नहीं होती है। दश, सात या
चार दाँत वाली, लम्बी मुख वाली, विना सींग वाली, झुकी हुई पीठ वाली, छोटी तथा
मोटी गरदन वाली, जौ के समान मध्य भाग से मोटी, फटे हुये खुर वाली, श्याम रंग
की लम्बी जिह्वा वाली, बहुत छोटे, बहुत बड़े या बहुत मोटे गुल्फ वाली, दुबली, कम
अंग वाली या अधिक अंग वाली गौ शुभ देने वाली नहीं होती है॥२-४॥
अक्षिशब्दः प्रत्येकमभिसम्बध्यते। सास्राक्ष्यः सास्रे नित्यमश्रुणा संयुक्ते अक्षिणी
यासां ताः सास्राक्ष्यः। आविले कलुषे अप्रसन्ने अक्षिणी यासां ताः। रूक्षे अस्निग्धे अक्षिणी
यासां ताः। मूषकनयनाः, मूषकसदृशनेत्रास्ता गावो न शुभदा अप्रशस्ताः। तथा प्रचलच्चि-
पिटविषाणाः प्रचलन्ति कम्पमानानि चिपिटानि चर्पटानि विषाणानि शृङ्गाणि यासां ता
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
[Page Header]
गोलक्षणाध्यायः १६९
अप्यशुभाः । याश्च करटकाः, करतो वर्णः कृष्णलोहित इत्यर्थः । खरसदृशवर्णाश्च न शुभदाः ।
या गावो दशदन्त्यः । सप्तदन्त्यः । चतुर्दन्त्यः । दश सप्त चत्वारो वा दन्ता यासां
ताः । प्रलम्बं लम्बमानं मुण्डं शृङ्गरहितमाननं मुखं यासाम् । विनतमस्पष्टं पृष्ठं मध्यं यासाम् ।
ह्रस्वानुच्चा स्थूला बृहती ग्रीवा शिरोधरा यासाम् । यवमध्या यवसदृशं मध्यं यासाम् ।
दारितखुराः प्रभग्नाः खुराः पादा यासाम् ।
श्यावाः श्याववर्णा अतिदीर्घा अत्यायामिनी जिह्वा रसना यासाम् । गुल्फैरतितनुभिरत्य-
ल्पैरतिबृहद्भिरतिस्थूलैर्वा अरूपैः । खुरोपरि गुल्फप्रदेशः । अतिककुदा बृहत्ककुद्युक्ताः ।
ककुदो ग्रीवान्ते पृष्ठभागेऽत्युच्चतरो भागः । कृशदेहा दुर्बलशरीराः । हीनाङ्ग्यः अधिकाङ्ग्यो
वा नेष्टा न शुभाः । तथा च पराशरः—
साश्रुणी लोचने यासां रूक्षाल्पे च न ताः शुभाः ।
चलच्चिपिटशृङ्गश्च करटाः खरसन्निभाः ।।
दशसप्तचतुर्दन्त्योऽलम्बवक्त्रा न ताः शुभाः ।
विषाणवर्जिता ह्रस्वा. पृष्ठमध्यातिसन्नताः ।।
ह्रस्वस्थूलगला याश्च यवमध्याः शुभा न ताः ।
भिन्नपादा बृहद्गुल्फा याश्च स्युस्तनुगुल्फकाः ।।
श्यावातिदीर्घजिह्वाश्च महत्ककुदसंयुताः ।
याश्चातिकृशदेहाश्च हीना अवयवैश्च याः ।।
न ताः शुभप्रदा गावो भर्तुर्यूथस्य नाशना ।। इति ।। २-४ ।।
अथ वृषभलक्षणमाह—
वृषभोऽप्येवं स्थूलातिलम्बवृषणः शिराततक्रोडः ।
स्थूलशिराचितगण्डस्त्रिस्थानं मेहते यश्च ।। ५ ।।
मार्जाराक्षः कपिलः करतो वा न शुभदो द्विजस्यैव ।
कृष्णोष्ठतालुजिह्वः श्वसनो यूथस्य घातकरः ।। ६ ।।
पूर्वकथित लक्षणों से युक्त बैल भी शुभ नहीं होता है। साथ ही मोटे और लम्बे
अण्डकोश वाला, शिराओं से व्याप्त पूर्व पादद्वय वाला, मोटी शिराओं से व्याप्त कपोल
वाला, तीन स्थानों से मेहन करने वाला (जिसके नेत्रों से आँसू एवं शिश्न से मूत्र और
पुरीष एक साथ गिरता हो वह), बिल्ली के समान नेत्र वाला, पीला और कृष्ण-
लोहित वर्ण वाला बैल ब्राह्मण को भी शुभ देने वाला नहीं होता है; फिर अन्य वर्णों की
तो बात ही क्या है? जिसके ओठ, तालु या जीभ काले हों और जो हाँफने वाला हो,
ऐसा बैल अपने यूथ का नाश करता है ।। ५-६ ।।
वृषभो दान्तोऽप्येवं लक्षणसंयुक्तः पूर्वोक्तलक्षणैः सास्त्राविलरूक्षाक्ष्य इत्यादिकैर्युक्तो
न शुभः, किन्तु विशेषणलक्षणानि । स्थूलातिलम्बवृषणः स्थूलावतिप्रमाणौ वृषणौ मुष्कौ
१७० बृहत्संहिता
यस्य। शिराततक्रोडः शिरोभिस्ततं व्याप्तं क्रोडं पूर्वपादद्वयमध्यं यस्य। तथा स्थूला-
भिर्बृहतीभिः शिराभिश्चितौ संयुक्तौ गण्डौ कपोलदेशौ यस्य। यश्च त्रिस्थानं मेहते सिञ्चते
मूत्रपुरीषौ तुल्यकालं करोति। अक्षिभ्यां शिश्नेन च सिञ्चतीति केचित्। नित्यं गलदश्रुणी
चक्षुषी भवत इत्यर्थः।
मार्जाराक्षो विडालनेत्रसदृशे अक्षिणी यस्य। कपिलः कपिलवर्णः। करटः करटवर्णों
वा नीललोहितवर्णः स तथाभूतो द्विजस्य ब्राह्मणस्यैव न शुभः, किन्त्वन्यवर्णानाम्।
यतोऽनिष्टलक्षणसंयुक्तो द्विजस्य देय इति लोकस्थितिः। तस्यापि न शुभः। यश्च कृष्णोष्ठ-
तालुजिह्वः। ओष्ठतालुजिह्वाः कृष्णा यस्य। यः श्वसनश्वासयुक्तश्च यूथस्य वृन्दस्य घातकरो
विनाशकरः क्षयकृदित्यर्थः ॥५-६॥
अन्यदप्याह—
स्थूलशकृन्मणिशृङ्गः सितोदरः कृष्णसारवर्णश्च।
गृहजातोऽपि त्याज्यो यूथविनाशावहो वृषभः ॥७॥
स्थूल गोबर, स्थूल लिंग का अग्र भाग और स्थूल सींग वाला, सफेद पेट वाला
और कृष्ण-लोहित वर्ण वाला बैल यदि अपने घर में भी उत्पन्न हुआ हो तो भी उसका
त्याग कर देना चाहिये; क्योंकि ऐसा बैल भी यूथ का नाश करने वाला होता है॥७॥
यश्च स्थूलशकृत् स्थूलं शकृद् गोमयं यस्य। मणिसदृशे च शृङ्गे विषाणे दृश्येते
यस्य स तथाभूतः। केचित् स्थूलशकृत् स्थूलगोमयः। स्थूलमणिः स्थूललिङ्गप्रान्तः।
स्थूलशृङ्ग इतीच्छन्ति। सितोदरः श्वेतजठरः। कृष्णसारवर्णः कृष्णोऽसितः सारः श्वेतश्च
वर्णो यस्य। क्वचित् कृष्णः क्वचिच्छ्वेत इत्यर्थः। अपिशब्दः सम्भावनायां वर्तते। स
वृषो दान्तो गृहजातो वेश्मसम्भूतोजपि त्याज्यः परिहर्तव्यः। किं पुनस्तथाभूतो मूल्येन गृह्यते।
ततः स यूथस्य विनाशावहः क्षयकरः। यस्मिन् यूथे स वसति तं क्षयं नयतीत्यर्थः ॥७॥
अन्यदप्याह—
श्यामकपुष्पचिताङ्गो भस्मारुणसन्निभो बिडालाक्षः।
विप्राणामपि न शुभं करोति वृषभः परिगृहीतः ॥८॥
जिस बैल के देह में श्याम वर्ण के फूल के समान चिह्न हो, सफेद और लाल
मिश्रित वर्ण हो और बिल्ली के समान जिसके नेत्र हों, ऐसा बैल यदि ब्राह्मणों द्वारा भी
ग्रहण कर लिया जाय तो उनका भी वह बैल शुभ नहीं करता है॥८॥
यो वृषभो दान्तः श्यामकपुष्पचिताङ्गः श्यामकैः श्यामवर्णैः पुष्पैः कुसुमेश्चितानि
संयुक्तान्यङ्गान्यवयवानि यस्य। श्यामकश्चासौ पुष्पचिताङ्गश्चेति केचित्। श्यामकवर्णैः
श्वेतैस्तिलकैः कुसुमाकारैश्चिताङ्गः। भस्मारुणसन्निभो भस्मलोहितमिश्रवर्णः। बिडालाक्षो
मार्जारनेत्रः। स तथाभूतो विप्राणां ब्राह्मणानामपि प्रतिग्रहपरिगृहीतो न शुभं करोति, किन्त्व-
न्येषामिति ॥८॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
गोलक्षणाध्यायः १७१
अन्यदप्याह—
ये चोद्धरन्ति पादान् पङ्कादिव योजिताः कृशग्रीवाः ।
कातरनयना हीनाश्च पृष्ठतस्ते न भारसहाः ॥९॥
गाड़ी आदि में जोड़ा हुआ बैल, कर्दम में गड़े पाँव को उठाने की तरह पाँव उठाने
वाला, दुर्बल ग्रीवा वाला और छोटी या दबी हुई पीठ वाला बैल भार उठाने में समर्थ
नहीं होता है॥९॥
ते न भारसहा भारोद्वहने न समर्था इति। ये च वृषभा योजिता भारादौ नियुक्ताः पङ्कात्
कर्दमादिव पादान् खुरानुद्धरन्ति। कृशग्रीवा दुर्बलकन्धराः। तथा च पराशरः—
आपादक्षारकपिलाः कृष्णपुष्पचिताश्च ये।
मार्जारकपिलाक्षाश्च दुर्बला यूथघातिनः॥
पङ्कादिवार्ताः पादानुद्धरन्तो वृजन्ति ये।
अधूर्वहा भवन्त्येते भाराध्वनि विगर्हिताः॥ इति॥९॥
अधुना शुभलक्षणमाह—
मृदु
१७२ बृहत्संहिता
आताम्रास्ताम्रवर्णाः संहता अविरलाः खुराः पादा येषाम्। व्यूढोरस्काः सुदृढवक्षसः।
बृहत्ककुद्युक्ता महाककुदेन संयुक्ताः। स्निग्धा सस्नेहा श्लक्ष्णा मृद्वी तन्वी चाघना त्वक्
चर्म तथा रोमाणि येषाम्। ताम्रवर्णानि लोहितानि तनून्यघनानि शृङ्गाणि विषाणानि येषाम्।
तनुभुवमघनां भुवं स्पृशन्ति वालधयः पुच्छवाला येषाम्। रक्तान्ते विलोचने नेत्रे
येषाम्। महान्त उच्छ्वासा येषाम्। सिंहस्येव स्कन्धो येषाम्। तनवोऽघना अल्पाश्च कम्बला
येषाम्। सुगताः शोभना गतिर्येषाम्। ते तथाभूता इति।।१०-१२।।
अन्यदप्याह—
वामावर्तैर्वामे दक्षिणपार्श्वे च दक्षिणावर्तैः।
शुभदा भवन्त्यनडुहो जङ्घाभिश्चैणकनिभाभिः ॥१३॥
जिनके वाम पार्श्व वामावर्त और दक्षिण पार्श्व दक्षिणावर्त रोमों से युक्त हों तथा
जिनकी जंघा ऐणक ( मृग ) की जंघा के समान हो, ऐसे बैल शुभ होते हैं।।१३।।
ये अनडुहो दान्ता वामे पार्श्वे वामावर्तै रोमभिर्युक्ता दक्षिणपार्श्वे दक्षिणावर्तैश्च ते च
शुभदाः प्रशस्ता भवन्ति। तथा एणकनिभाभिरेणकसदृशीभिः परिपूर्णमांसाभिर्जङ्घाभिः शुभदा
भवन्ति। एणकः प्राणिविशेषः। अविरिति केचित् ।।१३।।
अन्यदप्याह—
वैदूर्यमल्लिकाबुद्बुदेक्षणाः स्थूलनेत्रपक्ष्मणः।
पार्ष्णिभिरस्फुटिताभिः शस्ताः सर्वे च भारसहाः ॥१४॥
वैदूर्य मणि, मल्लिका ( वेला ) पुष्प या जलबुद्बुद के समान नेत्र वाले, स्थूल
नेत्र और शरीर वाले, जिसके खुर के पिछले भाग फूटे न हों—ऐसे बैल शुभ तथा भार
उठाने में समर्थ होते हैं।।१४।।
वैदूर्यः प्रसिद्धो मणिविशेषः श्यामवर्णः। मल्लिकेक्षणो मल्लिकाक्षस्तल्लक्षणम्।
दृष्ट्मण्डलबाह्ये मल्लिकाकुसुमसदृश्यो राज्यो यस्य भवन्ति स मल्लिकाक्षः। एतल्लक्षण-
मश्वस्य पठ्यते। तथा च गाहा—
उज्जू अकिसणकन्ती तारन्ते ई समल्लिआकुसुमे।
भाविज्जइ अच्छीइं जाणं ते मल्लिआअच्छा।।
तथा च शालिहोत्रः—
शुक्लराजिपरिक्षिप्ते यस्यान्तर्लोचने शुभे।
मल्लिकाक्षो महाधन्यः स महाकृष्णतारकः।। इति।
अनेन लक्षणेन युक्तो मल्लिकाक्षः, तथा बुद्बुदः प्रसिद्ध एव। एवं वैदूर्यमल्लिकाबुद्बु-
देक्षणास्तत्तुल्यनेत्राः। नेत्रपक्ष्मण्यक्षिरोमाणि तानि स्थूलान्यतिघनानि येषाम्। पार्ष्णिभिः
खुरपश्चिमभागैः। अस्फुटिताभिरभग्नाभिः। ते सर्वे निःशेषाः प्रशस्ता भारसहाश्च। भारं सहन्त
इति।।१४।।
CC-0. JK Sanskrit Academy, Jammnu. Digitized by S3 Foundation USA
गोलक्षणाध्यायः १७३
अन्यदप्याह—
घ्राणोद्देशे सवलिर्मार्जारमुखः सितश्च दक्षिणतः।
कमलोत्पललाक्षाभः सुवालधिर्वाजितुल्यजवः ॥१५॥
लम्बैर्वृषणैर्मेषोदरश्च संक्षिप्तवंक्षणक्रोडः।
ज्ञेयो भाराध्वसहो जवेऽश्वतुल्यश्च शस्तफलः ॥१६॥
जिसके नाक के समीप वलि हो, बिल्ली के समान मुख हो, दाहिना भाग सफेद
हो, कमल या लाख के समान कान्ति हो, अच्छी पूँछ हो, घोड़े के समान गति हो, लम्बे
अण्डकोश हों, भेड़ के समान पेट हो, पिछली जङ्घा और अण्डकोश का मध्य भाग
तथा अगली जङ्घाओं का मध्य भाग सङ्कुचित हो—ऐसा बैल भार उठाने में तथा चलने
में समर्थ होता है। साथ ही घोड़े के समान गति वाला बैल शुभ फल प्रदान करने वाला
होता है॥१५-१६॥
यश्च घ्राणोद्देशे नासायां सवलिर्वलियुक्तः। मार्जारमुखो बिडालतुल्यवदनः। दक्षिणतो
दक्षिणभागे सितः शुक्लवर्णः। कमलोत्पललाक्षाभः कमलं पद्मम्, उत्पलं नीलोत्पलम्,
लाक्षा प्रसिद्धा लोहितवर्णा। आसां सदृशी आभा कान्तिर्यस्य। सुवालधिः शोभनपुच्छवालः।
वाजितुल्यजवः, वाजी तुरगः, तत्तुल्यस्तत्सदृशो जवो वेगो यस्य। शीघ्रगतिरित्यर्थः।
लम्बैः प्रलम्बमानैर्वृषणैरण्डैर्युक्तः। मेषोदरश्च मेषोदराकारमुदरं यस्य। संक्षिप्तो वंक्षणः
क्रोडं च यस्य। पश्चिमजङ्घावृषणान्तरं वंक्षणशब्देनोच्यते। अमुमेवार्थं शालिहोत्र आह—
सक्थिजङ्घान्तरे पिण्डौ वंक्षणौ त्वभिनिर्दिशेत्।
अग्रजङ्घान्तरं क्रोड उच्यते वंक्षणाग्रगः।।
वंक्षणौ च क्रोडश्च वंक्षणक्रोडानि संक्षिप्तानि यस्य स वृषभो भारोद्वहनेऽध्वनि पथि
च सहः शक्तो ज्ञेयो ज्ञातव्यः। जवे वेगेऽश्वतुल्यस्तुरगसमः। जवो वेगो गतिरिति पर्यायः।
एवंविधः शस्तफलः शुभफलद इति॥१५-१६॥
अन्यदप्याह—
सितवर्णः पिङ्गाक्षस्ताम्रविषाणेक्षणो महावक्त्रः।
हंसो नाम शुभफलो यूथस्य विवर्धनः प्रोक्तः ॥१७॥
सफेद वर्ण वाला, ताम्र वर्ण के सींग और आँखों वाला तथा बड़े मुख वाला बैल
'हंस' संज्ञक होता है। यह बैल शुभ फल प्रदान करने वाला तथा यूथ को बढ़ाने वाला
होता है॥१७॥
यश्च सितवर्णः श्वेतवर्णः। पिङ्गाक्षः कपिलनेत्रः। ताम्रविषाणेक्षणः, ताम्रवर्णे लोहितवर्णे
विषाणे ईक्षणे नेत्रे च यस्य। महावक्त्रः स्थूलाननः, स हंसो नाम हंसाख्यः। शुभफलः
प्रशस्तफलः। यूथस्य वृन्दस्य विवर्धनो वृद्धिकरः, कथितः प्रोक्तः॥१७॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
१७४ बृहत्संहिता
अन्यदप्याह—
भूस्पृग्वालधिराताम्रविषाणो रक्तदृक् ककुद्मांश्च।
कल्माषश्च स्वामिनमचिरात् कुरुते पतिं लक्ष्म्याः ॥१८॥
जिसकी पूँछ भूमि को छूती हो, ताम्र वर्ण का सींग हो, लाल आँखें हों, थूही से
युक्त हो और कल्माष ( लाल सफेद और पीला मिश्रित ) वर्ण हो, ऐसा बैल शीघ्र ही
अपने स्वामी को धनी बना देता है॥१८॥
यो वृषभो भूस्पृग्वालधिः पुच्छवाला भूस्पृशा यस्य। आताम्रविषाणो लोहितशृङ्गः।
रक्तदृग् लोहितनेत्रः। ककुद्वान् ककुद्युक्तः। कल्माषश्च कल्माषवर्णः सितरक्तपीतव्यामिश्रवर्णः।
स स्वामिनं पतिमचिराच्छीघ्रमेव च लक्ष्म्याः श्रियः पतिं प्रभुं कुरुते ॥१८॥
अन्यदप्याह—
यो वा सितैकचरणैर्यथेष्टवर्णश्च सोऽपि शुभफलकृत्।
मिश्रफलोऽपि ग्राह्यो यदि नैकान्तप्रशस्तोऽस्ति ॥१९॥
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां गोलक्षणं
नामैकषष्टितमोऽध्यायः ॥६१॥
किसी भी रंग के बैल के यदि चारो पाँव सफेद हों तो वह शुभ करने वाला होता
है। यदि सर्वथा शुभ लक्षणयुत बैल न मिले तो मिश्रित फल वाला भी ग्रहण करना
चाहिये; परन्तु उसमें शुभ फल की मात्रा अधिक होनी चाहिये॥१९॥
इति 'विमला'हिन्दीटीकायां गोलक्षणाध्याय एकषष्टितमः ॥६१॥
यो वा वृषभः सितः शुक्लैश्चरणैः पादैर्युक्तः। यथेष्टवर्णो यादृग्वर्णः शुभाशुभवर्णयुक्तोऽपि
स शुभफलकृत्। केचित् 'यो वा सितैकचरणः' इति पठन्ति। एकान्तप्रशस्तः सर्वलक्षण-
सम्पूर्णो यदि नास्ति न विद्यते, तदा मिश्रफलो व्यामिश्रफलोऽपि ग्राह्यः। अपिशब्दः सम्भाव-
नायाम्। केचित् 'यदि नैकान्ते प्रशस्तोऽस्ति' इति पठन्ति। मिश्रफलस्य शुभानामशुभानां
च लक्षणानामन्तरं कृत्वा यद्येकान्तेऽशुभोऽन्तेऽवसाने नास्ति नातिरिच्यते, तदा शुभाशुभ-
लक्षणोऽपि ग्राह्यः। तथा च पराशरः—
मृदुसंहतताम्रोष्ठास्तनुजिह्वास्तनुस्फिजः ।
वैदूर्यमधुवर्णैश्च जलबुद्बुदसन्निभैः ।।
रक्तस्निग्धैश्च नयनैस्तथा रक्तकनीनिकैः।
सिंहस्कन्धा महोरस्का दृढपृष्ठाः ककुद्मिनः ।।
भूमौ कर्षति लाङ्गूलं प्रलम्बस्थूलवालधिः ।
पुरस्तादुन्नता नीचाः पृष्ठतः सुसमाहिताः ।।
CC-0. JK Sanskrit Academy, Jammnu. Digitized by S3 Foundation USA
गोलक्षणाध्यायः १७५
वृत्ताङ्गाः स्थूलगात्राश्च विस्तीर्णजघनाश्च ये।
स्पृष्टाप्रतनुश्लक्ष्णैः शफैरविरलैर्दृढैः ।।
समुद्गवरसंस्थानैः समास्फुटितपाष्णिभिः ।
वृत्तस्थूलोद्धतग्रीवाः ककुदैश्च समुच्छ्रितैः ।।
एते भारसहा ज्ञेया धुरि याने च पूजिताः ।
आवर्तैर्दक्षिणावर्तैर्युक्ता दक्षिणतश्च ये।।
वामावर्तैर्वामतश्च संयुक्तास्तेऽपि पूजिताः ।
प्रलम्बवृषणोऽत्यर्थं संक्षिप्तोदरवंक्षणः ।।
विस्तीर्णवक्षो जघनो भारे याने च पूजितः ।
स्निग्धपिङ्गेक्षणः श्वेतस्ताम्रशृङ्गो महानसः ।।
स तु गौः पद्मको नाम गोसहस्रप्रवर्धनः ।। इति ।। १९ ।।
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ गोलक्षणं
नामैकषष्टितमोऽध्यायः ।। ६१ ।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
अथ श्वलक्षणाध्यायः
अथ श्वलक्षणं व्याख्यायते। तत्रादावेव शुनो लक्षणमाह—
पादाः पञ्चनखास्त्रयोऽग्रचरणः षड्भिर्नखैर्दक्षिण-
स्ताम्रौष्ठाग्रनसो मृगेश्वरगतिर्जिघ्रन् भुवं याति च।
लाङ्गूलं ससटं दृगृक्षसदृशी कर्णौ च लम्बौ मृदू
यस्य स्यात् स करोति पोष्टुरचिरात्पुष्टां श्रियं श्वा गृहे ॥१॥
जिस कुत्ते के तीन पाँवों में पाँच-पाँच नख और शेष आगे के दाहिने एक पाँव में
छः नख हों, साथ ही नाक के आगे का भाग ताम्र वर्ण का हो, सिंह के समान गति हो,
भूमि को सूंघता हुआ चलता हो, जिसकी पूँछ बहुत बालों से युत हो, भालू के समान
आँखें हों तथा जिसके दोनों कान लम्बे और कोमल हों तो ऐसा कुत्ता अपने स्वामी के
घर में परिपूर्ण लक्ष्मी प्रदान करता है॥१॥
यस्य शुनस्त्रयः पादाश्चरणाः पञ्चनखाः पञ्चभिर्नखैः कररुहैर्युक्ताः। चतुर्थो दक्षिणा-
ऽग्रचरणोऽग्रपादः षड्भिर्नखैर्युक्तः। ताम्रौष्ठाग्रनसः, ताम्रवर्णौ लोहितावोष्ठौ तथा नासिकाग्रं
यस्य। मृगेश्वरः सिंहस्तत्सदृशी गतिर्गमनं यस्य स मृगेश्वरगतिः। भुवं भूमिं जिघ्रन् याति
गच्छति। लाङ्गूलं पुच्छं ससटं सटाभिर्युक्तं जटिलमित्यर्थः। दृग्दृष्टिः ऋक्षसदृशी ऋक्षः
प्राणी तत्सदृशी तत्तुल्या दृष्टिरित्यर्थः। कर्णौ श्रोत्रे। लम्बौ प्रलम्बौ। मृदू मार्दवयुक्तौ।
यस्यैवं स्याद् भवेत् स श्वा कुक्कुरः। पोष्टुः पालयितुः। अचिरात् शीघ्रमेव। गृहे वेश्मनि।
पुष्टां परिपूर्णां। श्रियं लक्ष्मीं करोति। तथा च गर्गः—
त्रयः पादाः पञ्चनखा अग्रगो दक्षिणस्तथा।
षण्णखस्ताम्रनासो यस्ताम्रौष्ठः सिंहविक्रमः।।
महीं जिघ्रन् मुदा याति लाङ्गूलं जटिलं तथा।
ऋक्षाभे चक्षुषी कर्णौ मृदू चातिप्रलम्बितौ।।
स श्वा नृपस्य महतीं श्रियं यच्छति पोषितुः।। इति।।१।।
अथ कुक्कुरीलक्षणमाह—
पादे पादे पञ्च पञ्चाग्रपादे वामे यस्याः षण्नखा मल्लिकाक्ष्याः ।
वक्रं पुच्छं पिङ्गलालम्बकर्णा या सा राष्ट्रं कुक्कुरी पाति पुष्टा ॥२॥
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां श्वलक्षणं
नाम द्वाषष्टितमोऽध्यायः ॥६२॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
श्वलक्षणाध्यायः १७७
जिस कुतिया के तीन पाँवों में पाँच-पाँच नख और अगले बाँये पाँव में छः नख
हों, मल्लिका ( बेलापुष्प ) के समान जिसकी आँख हों, टेढ़ी पूँछ हो, पीला वर्ण हो
और लम्बे कान हों तो ऐसी कुतिया अपने स्वामी के राज्य की रक्षा करती है।।२।।
इति 'विमला'हिन्दीटीकायां श्वलक्षणाध्यायो द्वाषष्टितमः ॥६२॥
यस्याः कुक्कुर्याः पादे पादे प्रतिचरणे पञ्च पञ्च नखाः कररुहाः। वामेऽग्रपादे चतुर्थ-
चरणे यस्याः षण्णखा भवन्ति। या च मल्लिकाक्षी। दृङ्मण्डलबाह्ये मल्लिकाकुसुम-
सदृश्यो राज्यो यस्या भवन्ति सा मल्लिकाक्षी। एवंविधाया मल्लिकाक्ष्या यस्याः पुच्छं
लाङ्गूलं वक्रं कुटिलं च। पिङ्गला लम्बकर्णा च या सा पुष्टा परिपोषिता राष्ट्रं पाति रक्षति।।२।।
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ श्वलक्षणं
नाम द्वाषष्टितमोऽध्यायः ॥६२॥
बृ० सं० द्वि०-१३ K Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
अथ कुक्कुटलक्षणाध्यायः
अथ कुक्कुटलक्षणं व्याख्यायते। तत्रादावेव कुक्कुटलक्षणमाह—
कुक्कुटस्त्वृजुतनूरुहाङ्गुलिस्ताम्रावक्त्रनखचूलिकः सितः।
रौति सुस्वरमुषात्यये च यो वृद्धिदः स नृपराष्ट्रवाजिनाम् ॥१॥
जिस मुर्गे के पंख और अंगुलियाँ सीधी हों, ताम्र वर्ण का मुख, नख और चोटी हो,
सफेद वर्ण हो, जो रात्रि के अन्त में अच्छे स्वर से बोलता हो, ऐसा मुर्गा राजा, राज्य
और घोड़ों की वृद्धि करता है॥१॥
यः कुक्कुटः कृकवाकुः। ऋजुतनूरुहाङ्गुलिः, ऋजवः स्पष्टास्तनूरुहाः पक्ष्माणि यस्य;
ऋज्वङ्गुलिः स्पष्टाः करशाखाः। ताम्रवर्णं वक्त्रं मुखं यस्य। ताम्रनखः, ताम्रचूलिकस्ताम्रचूडः।
सितः शुक्लः। उषात्यये रात्र्यवसाने सुस्वरं मधुरं रौति शब्दं करोति। स नृपस्य राज्ञो
राष्ट्रस्य च जनपदस्य वाजिनामश्वानां वृद्धिदो वृद्धिं ददाति। तथा च गर्गः—
श्वेतस्ताम्रनखः शुक्लस्ताम्राक्षस्त्वृजुवालधिः।
अनावृताङ्गुलिः स्वङ्गस्ताम्रचूडः प्रशस्यते॥
अत्यालापी यवग्रीवो दधिवर्णः शुभाननः।
प्रशस्तास्यः स्थूलशिरा हारिद्रचरणो द्विजः॥
अखञ्जस्ताम्रावक्त्राश्च स्निग्धवर्णाश्च पूजिताः।
दीनाश्चैव विवर्णाश्च विस्वराश्च विगर्हिताः॥ इति॥१॥
अथान्यल्लक्षणमाह—
यवग्रीवो यो वा बदरसद्दशो वापि विहगो
बृहन्मूर्धा वर्णैर्भवति बहुभिर्यश्च रुचिरः।
स शस्तः संग्रामे मधुमधुपवर्णश्च जयकृद्
न शस्तो योऽतोऽन्यः कृशतनुरवः खञ्जचरणः ॥२॥
जिस मुर्गे का कण्ठ जौ के समान हो, पके हुये बेर के समान वर्ण हो, बड़ा शिर
हो और सफेद, पीला, लाल, काला आदि अनेक वर्णों से युत हो तो ऐसा मुर्गा युद्ध में
शुभ होता है तथा शहद या भ्रमर के समान वर्ण वाला मुर्गा भी युद्ध में विजय प्राप्त
कराने वाला होता है। इससे भिन्न वर्ण वाला, दुर्बल शरीर वाला, मन्द शब्द करने वाला
और लंगड़ा मुर्गा अशुभ होता है॥२॥
यो विहगः पक्षी यवग्रीवो यवसदृशग्रीवः। यवशिरा इति लोके प्रसिद्धः। यो वा बदर-
सदृशो लोहितवर्णः। सुपक्वबदरफलाभ इत्यर्थः। बृहन्मूर्धा विस्तीर्णशीर्षः। बहुभिर्नानाकारैः
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
कुक्कुटलक्षणाध्यायः १७९
सितरक्तनीलपीतकृष्णैर्वर्णैर्युक्तः । रुचिरो निर्मलः । स कुक्कुटः संग्रामे युद्धे शस्तः प्रशस्तः ।
अथवा मधुवर्णः पीतवर्णो मधुपवर्णो भ्रमरवर्णः कृष्णः सोऽपि जयकृत् । अतोऽस्मा-
दुक्तादन्योऽपरो न शस्तो न शुभः। यः कृशतनुरवः कृशः क्षामस्तनुरल्पो रवः शब्दो
यस्य। खञ्जचरणो विकलपादः सोऽपि न शुभः॥२॥
अथ कुक्कुटीलक्षणमाह—
कुक्कुटी च मृदुचारुभाषिणी स्निग्धमूर्तिरुचिराननेक्षणा ।
सा ददाति सुचिरं महीक्षितां श्रीयशोविजयवीर्यसम्पदः ॥३॥
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां कुक्कुटलक्षणं
नाम त्रिषष्टितमोऽध्यायः ॥६३॥
जो मुर्गी कोमल और सुन्दर शब्द करने वाली हो, स्निग्ध शरीर वाली हो और
सुन्दर हो, वह राजाओं को चिरकालपर्यन्त लक्ष्मी, यश, विजय, बल और सम्पत्ति प्रदान
करती है॥३॥
इति 'विमला' हिन्दीटीकायां कुक्कुटलक्षणाध्यायस्त्रिषष्टितमः ॥६३॥
या च कुक्कुटी मृदु मार्दवयुक्तं चारु शोभनं भाषते। स्निग्धमूर्तिर्निर्मलशरीरा। रुचि-
राननेक्षणा रुचिरं शोभनमाननं मुखं तथैक्षणे यस्या सा महीक्षितां राज्ञां सुचिरं चिरकालं
श्रियं लक्ष्मीं यशः कीर्तिं विजयं विशेषेण जयं वीर्यसम्पदमैश्वर्यं च ददाति॥३॥
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ कुक्कुटलक्षणं
नाम त्रिषष्टितमोऽध्यायः ॥६३॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
अथ कूर्मलक्षणाध्यायः
अथ कूर्मलक्षणं व्याख्यायते। तच्चाह—
स्फटिकरजतवर्णो नीलराजीविविचित्रः
कलशसदृशमूर्तिश्चारुवंशश्च कूर्मः ।
अरुणसमवपुर्वा सर्षपाकारचित्रः
सकलनृपमहत्त्वं मन्दिरस्थः करोति ॥१॥
स्फटिक या चाँदी के समान वर्ण वाला, नीली रेखाओं से चित्रित, कलश के
समान आकृति वाला, सुन्दर पीठ की हड्डी वाला, लाल वर्ण वाला या सरसों के समान
बिन्दुओं से चित्रित कछुआ राजा के महत्त्व को बढ़ाने वाला होता है॥१॥
यः कूर्मः स्फटिकवर्णः स्फटिकोपलाभः। रजतवर्णो रूप्याकृतिः। नीलाभिर्नीलवर्णाभी
राजीभीर्लेखाभिर्विचित्रो विचित्रितः। कलशसदृशमूर्तिः कुम्भतुल्यशरीरः। चारुवंशः, वंशः
पृष्ठास्थि चारु शोभनं यस्य। नात्युच्च इत्यर्थः। अथवारुणसमवपुर्लोहितशरीरः। सर्षपाकारैः
श्वेतैर्बिन्दुभिश्चित्रश्चित्रितः। स मन्दिरस्थो गृहे समवस्थितः सकलनृपाणां समस्तराजानां महत्त्वं
प्रभुत्वं महिमानं करोति। राजाधिराजतां करोतीत्यर्थः ॥१॥
अन्यदप्याह—
अञ्जनभृङ्गश्यामतनुर्वा बिन्दुविचित्रोऽव्यङ्गशरीरः ।
सर्पशिरा वा स्थूलगलो यः सोऽपि नृपाणां राष्ट्रविवृद्ध्यै ॥२॥
अञ्जन या भ्रमर के समान श्याम वर्ण वाला, बिन्दुओं से चित्रित, सम्पूर्ण अंग
वाला और मोटे गले वाला कछुआ राजाओं का राज्य बढ़ाने के लिये होता है॥२॥
अञ्जनं प्रसिद्धं कज्जलम्। भृङ्गो भ्रमरः। अञ्जनभृङ्गवत् श्यामा तनुः शरीरं यस्य।
बिन्दुविचित्रो बिन्दुभिस्तिलकैर्विचित्रितः। अव्यङ्गशरीरः, अव्यङ्गं परिपूर्णावयवं शरीरं देहो
यस्य। सर्पशिरा वा सर्पसदृशमूर्धा वा। यश्च स्थूलगलो विस्तीर्णकण्ठः। सोऽपि कूर्मो
नृपाणां राज्ञां राष्ट्रस्य विवृद्धये वर्धनाय भवति॥२॥
अन्यदप्याह—
वैदूर्यत्विट् स्थूलकण्ठस्त्रिकोणो गूढच्छिद्रश्चोरुवंशश्च शस्तः ।
क्रीडावाप्यां तोयपूर्णे मणौ वा कार्यः कूर्मो मङ्गलार्थं नरेन्द्रैः ॥३॥
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां कूर्मलक्षणं
नाम चतुःषष्टितमोऽध्यायः ॥६४॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
कूर्मलक्षणाध्यायः १८१
वैदूर्य मणि के समान कान्ति वाले, स्थूल कण्ठ वाले, त्रिभुजाकृति वाले, ढके हुये
छिद्र वाले या सुन्दर पृष्ठवंश वाले कछुये को राजा द्वारा मंगल के लिये अपने क्रीडावापी
या जलपूर्ण मटके में रखना चाहिये।।३।।
इति 'विमला'हिन्दीटीकायां कूर्मलक्षणाध्यायश्चतुःषष्टितमः ॥६४॥
वैदूर्यत्विड् वैदूर्यसदृशकान्तिः स्थूलकण्ठः पीनगलः। त्रिकोणः शृङ्गाटकाकृतिः।
गूढच्छिद्रो गूढानि अदृश्यानि छिद्राणि रन्ध्राणि यस्य। चारुवंशः शोभनपृष्ठास्थि। स
शस्तः शोभनः। य एवंविधः कूर्मः स नरेन्द्रै राजभिर्मङ्गलार्थं क्रीडावाप्यां क्रीडापुष्करिण्यां
मणौ वा कूपाधोभागे तोयपूर्णे कार्यः। तथा च गर्गः—
शङ्खदर्भप्रतीकाशश्छत्राभो रजतप्रभः।
तथा वैदूर्यवर्णाभो यो भवेदष्टसर्षपः।।
यश्च वा कोकिलाभासो राजीवभाश्च यो भवेत्।
पीतकाञ्चनवर्णस्तु पुण्डरीकसमप्रभः।।
गोधामुखं त्रिकोणं च तथा मण्डलवर्धनम्।
स्त्रीपुत्रमतिदं विन्द्यात् कूर्मं राष्ट्रविवर्धनम्॥ इति।।३।।
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ कूर्मलक्षणं
नाम चतुःषष्टितमोऽध्यायः ॥६४॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
अथ छागलक्षणाध्यायः
अथातश्छागलक्षणं व्याख्यायते। तच्चाह—
छागशुभाशुभलक्षणमभिधास्ये नवदशाष्टदन्तास्ते।
धन्याः स्थाप्या वेश्मनि सन्त्याज्याः सप्तदन्ता ये ॥१॥
अब बकरे का शुभाशुभ लक्षण कहते हैं। नव, दश या आठ दाँत वाले छाग शुभ
होते हैं; अतः उनको घर में रखने से शुभ होता है तथा सात दाँत वाले छाग अशुभ होते
हैं; अतः उनका बहिष्कार करना चाहिये॥१॥
छागानामजानां शुभाशुभलक्षणमभिधास्ये कथयिष्ये। ये च छागा नवदशाष्टदन्ता
नवदन्ता दशदन्ता अष्टदन्ता वा ते धन्या शोभनाः, वेश्मनि गृहे स्थाप्याः। ये च सप्त-
दन्ताः सप्तरदास्ते सन्त्याज्याः॥१॥
अन्यदप्याह—
दक्षिणपार्श्वे मण्डलमसितं शुक्लस्य शुभफलं भवति।
ऋष्यनिभकृष्णलोहितवर्णानां श्वेतमतिशुभदम् ॥२॥
जिस छाग के दक्षिण पार्श्व में श्वेत वर्ण का मण्डल हो, ऋष्य ( मृगविशेष ) के
समान कृष्ण-लोहित वर्ण हो या काले अथवा लाल वर्ण के होते हुये भी जिसके दक्षिण
पार्श्व में श्वेत वर्ण का मण्डल हो, वह शुभ होता है॥२॥
शुक्लस्य छागस्य दक्षिणपार्श्वे मध्यभागे असितं कृष्णवर्णं मण्डलाकारं शुभफलं
भवति। ऋष्यनिभस्य नीलवर्णस्य, ऋष्यो मृगजातिः, स च नीलवर्णो भवति। तथा कृष्ण-
वर्णस्य लोहितवर्णस्य श्वेतं मण्डलं दक्षिणपार्श्वेऽतिशुभदं भवति॥२॥
अन्यदप्याह—
स्तनवदवलम्बते यः कण्ठेऽजानां मणिः स विज्ञेयः।
एकमणिः शुभफलकृद्धन्यतमा द्वित्रिमणयो ये ॥३॥
छागों के गले में स्तन की तरह जो लटका रहता है, उसको 'मणि' कहते हैं। एक
मणि वाले शुभ और दो या तीन मणि वाले छाग अत्यन्त शुभ होते हैं॥३॥
कण्ठे गले अजानां छागानाम्, स्तनवत् स्तन इव स्तनो यथा योऽवलम्बते स
मणिर्विज्ञेयो ज्ञातव्यः। एकमणिरेकेन मणिना युक्तो यश्छागः स शुभफलकृच्छुभफलं
करोति। ये द्विमणयस्त्रिमणयो वा ते धन्यतमा प्रशस्ततमा इत्यर्थः॥३॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
छागलक्षणाध्यायः १८३
अन्यदप्याह—
मुण्डाः सर्वे शुभदाः सर्वसिताः सर्वकृष्णदेहाश्च।
अर्धासिताः सितार्धा धन्याः कपिलार्धकृष्णाश्च ॥४॥
बिना सींग वाले, सम्पूर्ण कृष्ण या श्वेत शरीर वाले, आधे काले और आधे श्वेत
वर्ण वाले, आधे पीले और आधे काले रंग वाले—ये सभी छाग शुभ होते हैं॥४॥
मुण्डाः शृङ्गरहिताः सर्वे निःशेषाश्छागाः शुभदाः, तथा सर्वसिताः सर्वशुक्लाश्च शुभदा
एव। सर्वकृष्णदेहाश्च समस्तासितशरीराश्च शुभदा एव, तथा अर्धासिता अर्धकृष्णाः सितार्धा
अर्धश्वेतास्ते सर्व एव धन्याः प्रशस्ताः, तथा अर्धकपिलाः कृष्णाश्च धन्या एव॥४॥
अधुना चतुर्णां कुट्टककुटिलजटिलवामनानां लक्षणं करोति। तत्रादावेव कुट्टकस्याह—
विचरति यूथस्याग्रे प्रथमं चाम्भोऽवगाहते योऽजः।
स शुभः सितमूर्धा वा मूर्धनि वा कृत्तिका यस्य ॥५॥
अपने यूथ के आगे चलने वाला, सबसे पहले पानी में घुसने वाला, श्वेत वर्ण के
शिर वाला या कृत्तिका नक्षत्र की तरह छः बिन्दुओं से युक्त मस्तक वाला छाग शुभ
होता है। ऐसे छाग को 'कुट्टक' कहते हैं॥५॥
योऽजश्छागो यूथस्य वृन्दस्याग्रे विचरति गच्छति प्रथममादौ वा योऽम्भो जलमवगाहते
गृह्णाति पिबति स शुभः शस्तः। अथवा सितमूर्धा श्वेतशिरा यः सोऽपि शुभः। अथवा
मूर्धनि मस्तके यस्य कृतिकास्तिलका भवन्ति। कृत्तिकानां षट्त्वात् षट्तिला इत्यर्थः।
एषामन्यतमलक्षणयुक्तः कुट्टकाख्यः। तथा च गर्गः—
यूथाग्रे यश्च चरति यश्चादौ स्पर्शयेज्जलम्।
मूर्ध्नि षट्तिलका यस्य सोऽजो यूथविवर्धनः॥ इति॥५॥
अथ कुटिलस्याह—
सपृषतकण्ठशिरा वा तिलपिष्टनिभश्च ताम्रदृक् शस्तः।
कृष्णचरणः सितो वा कृष्णो वा श्वेतचरणो यः ॥६॥
गले और मस्तक पर भिन्न वर्ण के बिन्दु वाले, तिलपिष्ट के समान श्वेत-पीत वर्ण
वाले, ताम्र के समान लाल नेत्र वाले, श्वेत शरीर और काले पाँव वाले या काले शरीर
और श्वेत पाँव वाले छाग शुभ होते हैं। ऐसे छाग को 'कुटिल' कहते हैं॥६॥
यश्च सपृषतकण्ठः पृषतास्तिलकास्ते कण्ठे गले यस्य। सपृषतशिरा वा तिलमूर्धा
वा। तिलपिष्टनिभस्तिलपिष्टसदृशवर्णः। शुक्लपीतव्यामिश्रवर्ण इत्यर्थः। ताम्रदृग्लोहितनेत्रः
स शस्तः शुभः। अथवा यः कृष्णचरणोऽसितपादः सितवर्णो वा यः सोऽपि शुभः। अथवा
यः कृष्णवर्णः श्वेतचरणः सितपादः सोऽपि शुभः। एषामन्यतमलक्षणयुक्तः कुटिलाख्यः।
तथा च गर्गः—
१८४ बृहत्संहिता
श्वेतो यः कृष्णचरणः कृष्णः श्वेतशफोऽपि वा।
पीतस्ताम्रेक्षणो मूर्ध्नि गले वा पृषतान्वितः।। इति।।६।।
अथ जटिललक्षणमाह—
यः कृष्णाण्डः श्वेतो मध्ये कृष्णेन भवति पट्टेन।
यो वा चरति सशब्दं मन्दं च स शोभनश्छागः ॥७॥
जिसका काला अण्डकोश हो, श्वेत वर्ण हो, मध्य भाग में काला पट्टा हो, जो चुगने
के समय शब्द करता हो या धीरे-धीरे चुगता हो—ऐसा सब छाग शुभ होता है। ऐसे
छाग को ‘जटिल’ कहते हैं।।७।।
यश्छागः कृष्णाण्डोऽसितवृषणः। श्वेतः शुक्लवर्णः। मध्ये मध्यभागे कृष्णेन पट्टेन
पर्याणाकृतिना युक्तो भवति स शुभः। यो वाऽजः सशब्दं शब्दसहितं मन्दमलसं च चरति
गच्छति स छागः शोभनश्च शस्तः। एषां लक्षणानामन्यतमलक्षणयुक्तो जटिलाख्यः। तथा
च गर्गः—
मन्दं सशब्दं चरति श्वेतः कृष्णाण्डसंयुतः।
मध्ये कृष्णेन पट्टेन युक्तो यः सोऽपि वृद्धिदः।। इति।।७।।
अथ वामनलक्षणमाह—
ऋष्यशिरोरुहपादो यो वा प्राक् पाण्डुरोऽपरे नीलः।
स भवति शुभकृच्छागः श्लोकश्चाप्यत्र गर्गोक्तः ॥८॥
जिसके ऋष्य (काला मृग) के समान शिर के बाल और पाँव हों या अगले भाग
में पाण्डुर वर्ण और पिछले भाग में नीला वर्ण हो, वह छाग शुभ होता है। इस छाग को
‘वामन’ कहते हैं। इसी प्रकार से गर्ग मुनि ने भी वामनसंज्ञक छाग का लक्षण स्वप्रणीत
श्लोक में बतलाया है।।८।।
ऋष्यशिरोरुहो नीलवर्णमूर्धा। ऋष्यः प्राणी स च लोके ऋक्ष इत्युच्यते। स च नील-
वर्णो भवति। तथा च व्यासमुनिः—
अश्वानृष्यसवर्णंस्तु हंसवर्णैर्हयोत्तमैः।
व्यामिश्रयद्रणे कर्णः पाण्डवाञ्छादयन् शरैः।।
तथा च—
ते हया बह्वशोभन्त विमिश्रा वातरंहसः।
सितासिता महावर्णा यथा व्योम्नि बलाहकाः।।
तस्मान्नीलशिरा नीलपादश्च सोऽपि शुभकृत्। यो वा प्राक् पूर्वभागे पाण्डुर ईषच्छुक्लः।
अपरे पश्चिमभागे नीलः सोऽपि शुभकृत् छागः। एषामन्यतमलक्षणयुक्तो वामनाख्यः।
तथा च गर्गः—
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
छागललक्षणाध्यायः १८५
ऋष्यमूर्धा नीलपादः प्राग्भागे यश्च पाण्डुरः।
पश्चिमे नीलवर्णः स्यात् सोऽपि भर्तुर्विवृद्धिदः।।
अत्रास्मिन्नर्थे गर्गोक्तोऽयं श्लोको ज्ञापको यं साक्षात् पठति।।८।।
तं चाह—
कुट्टकः कुटिलश्चैव जटिलो वामनस्तथा।
ते चत्वारः श्रियः पुत्रा नालक्ष्मीके वसन्ति ते ॥९॥
कुट्टक, कुटिल, जटिल और वामन—ये चारो प्रकार के छाग लक्ष्मी के पुत्र हैं
और लक्ष्मीरहित देश में ये सभी निवास नहीं करते हैं।।९।।
पूर्वलक्षणोक्तः कुट्टकः कुटिलो वामनश्च तथा तेनैव प्रकारेणैते चत्वारश्छागाः श्रियः
पुत्रा लक्ष्मीसुताः। अलक्ष्मीके लक्ष्मीरहिते स्थाने न वसन्ति न स्थितिं कुर्वन्ति। सलक्ष्मीके
स्थाने निवसन्तीत्यर्थः।।९।।
एवं शुभानां छागानां लक्षणमुक्त्वाऽधुनाऽप्रशस्तानां लक्षणमाह—
अथाप्रशस्ताः खरतुल्यनादाः प्रदीप्तपुच्छाः कुनखा विवर्णाः।
निकृत्तकर्णा द्विपमस्तकाश्च भवन्ति ये चासिततालुजिह्वाः ॥१०॥
गदहे के समान शब्द करने वाले, गर्म या टेढ़ी पूँछ वाले, खराब नख वाले, खराब
वर्ण वाले, फटे कान वाले, हाथी के समान मस्तक वाले तथा काली तालु और जीभ
वाले छाग अशुभ होते हैं।।१०।।
अथानन्तरमप्रशस्ताश्छागा भवन्ति। कीदृशाः? खरतुल्यनादा गर्दभसदृशरवाः। प्रदीप्त-
पुच्छाः प्रदीप्तं पुच्छं लाङ्गूलं वक्रमत्युच्चं वा येषाम्। कुनखाः कुत्सितनखाः। विवर्णा विगत-
वर्णा अशुभवर्णाः। निकृत्तकर्णाः छिन्नश्रोत्राः। छिन्नानुरूपाभ्यां कर्णाभ्यां द्विपमस्तका गजसदृश-
मूर्धानः। ये चासिततालुजिह्वाः। कृष्णतालवः कृष्णरसना ये भवन्ति तेऽप्य-प्रशस्ताः।।१०।।
अथ शुभलक्षणान्याह—
वर्णैः प्रशस्तैर्मणिभिः प्रयुक्ता मुण्डाश्च ये ताम्रविलोचनाश्च।
ते पूजिता वेश्मनि मानवानां सौख्यानि कुर्वन्ति यशः श्रियञ्च ॥११॥
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां छागलक्षणं
नाम पञ्चषष्टितमोऽध्यायः ॥६५॥
उत्तम वर्ण वाले, मणियों से युत गले वाले, विना सींग वाले और लाल आँख
वाले छाग जिनके घर में रहते हैं, उनके सुख, यश और लक्ष्मी को बढ़ाते हैं।।११।।
इति 'विमला'हिन्दीटीकायां छागलक्षणाध्यायः पञ्चषष्टितमः ॥६५॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA