सामग्री पर जाएँ
सर्वकोश
बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

Brihat Samhita Vol 2 with Vimala Hindi Commentary

आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा

DevanagariHindipublished760 पृष्ठ

पृष्ठ 198, कुल 760 में से

संदर्भ में पढ़ें
पृष्ठ 198

१७० बृहत्संहिता
यस्य। शिराततक्रोडः शिरोभिस्ततं व्याप्तं क्रोडं पूर्वपादद्वयमध्यं यस्य। तथा स्थूला-
भिर्बृहतीभिः शिराभिश्चितौ संयुक्तौ गण्डौ कपोलदेशौ यस्य। यश्च त्रिस्थानं मेहते सिञ्चते
मूत्रपुरीषौ तुल्यकालं करोति। अक्षिभ्यां शिश्नेन च सिञ्चतीति केचित्। नित्यं गलदश्रुणी
चक्षुषी भवत इत्यर्थः।
मार्जाराक्षो विडालनेत्रसदृशे अक्षिणी यस्य। कपिलः कपिलवर्णः। करटः करटवर्णों
वा नीललोहितवर्णः स तथाभूतो द्विजस्य ब्राह्मणस्यैव न शुभः, किन्त्वन्यवर्णानाम्।
यतोऽनिष्टलक्षणसंयुक्तो द्विजस्य देय इति लोकस्थितिः। तस्यापि न शुभः। यश्च कृष्णोष्ठ-
तालुजिह्वः। ओष्ठतालुजिह्वाः कृष्णा यस्य। यः श्वसनश्वासयुक्तश्च यूथस्य वृन्दस्य घातकरो
विनाशकरः क्षयकृदित्यर्थः ॥५-६॥
अन्यदप्याह—
स्थूलशकृन्मणिशृङ्गः सितोदरः कृष्णसारवर्णश्च।
गृहजातोऽपि त्याज्यो यूथविनाशावहो वृषभः ॥७॥
स्थूल गोबर, स्थूल लिंग का अग्र भाग और स्थूल सींग वाला, सफेद पेट वाला
और कृष्ण-लोहित वर्ण वाला बैल यदि अपने घर में भी उत्पन्न हुआ हो तो भी उसका
त्याग कर देना चाहिये; क्योंकि ऐसा बैल भी यूथ का नाश करने वाला होता है॥७॥
यश्च स्थूलशकृत् स्थूलं शकृद् गोमयं यस्य। मणिसदृशे च शृङ्गे विषाणे दृश्येते
यस्य स तथाभूतः। केचित् स्थूलशकृत् स्थूलगोमयः। स्थूलमणिः स्थूललिङ्गप्रान्तः।
स्थूलशृङ्ग इतीच्छन्ति। सितोदरः श्वेतजठरः। कृष्णसारवर्णः कृष्णोऽसितः सारः श्वेतश्च
वर्णो यस्य। क्वचित् कृष्णः क्वचिच्छ्वेत इत्यर्थः। अपिशब्दः सम्भावनायां वर्तते। स
वृषो दान्तो गृहजातो वेश्मसम्भूतोजपि त्याज्यः परिहर्तव्यः। किं पुनस्तथाभूतो मूल्येन गृह्यते।
ततः स यूथस्य विनाशावहः क्षयकरः। यस्मिन् यूथे स वसति तं क्षयं नयतीत्यर्थः ॥७॥
अन्यदप्याह—
श्यामकपुष्पचिताङ्गो भस्मारुणसन्निभो बिडालाक्षः।
विप्राणामपि न शुभं करोति वृषभः परिगृहीतः ॥८॥
जिस बैल के देह में श्याम वर्ण के फूल के समान चिह्न हो, सफेद और लाल
मिश्रित वर्ण हो और बिल्ली के समान जिसके नेत्र हों, ऐसा बैल यदि ब्राह्मणों द्वारा भी
ग्रहण कर लिया जाय तो उनका भी वह बैल शुभ नहीं करता है॥८॥
यो वृषभो दान्तः श्यामकपुष्पचिताङ्गः श्यामकैः श्यामवर्णैः पुष्पैः कुसुमेश्चितानि
संयुक्तान्यङ्गान्यवयवानि यस्य। श्यामकश्चासौ पुष्पचिताङ्गश्चेति केचित्। श्यामकवर्णैः
श्वेतैस्तिलकैः कुसुमाकारैश्चिताङ्गः। भस्मारुणसन्निभो भस्मलोहितमिश्रवर्णः। बिडालाक्षो
मार्जारनेत्रः। स तथाभूतो विप्राणां ब्राह्मणानामपि प्रतिग्रहपरिगृहीतो न शुभं करोति, किन्त्व-
न्येषामिति ॥८॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA