सामग्री पर जाएँ
सर्वकोश
बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

Brihat Samhita Vol 2 with Vimala Hindi Commentary

आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा

DevanagariHindipublished760 पृष्ठ

पृष्ठ 200, कुल 760 में से

संदर्भ में पढ़ें
पृष्ठ 200

१७२ बृहत्संहिता
आताम्रास्ताम्रवर्णाः संहता अविरलाः खुराः पादा येषाम्। व्यूढोरस्काः सुदृढवक्षसः।
बृहत्ककुद्युक्ता महाककुदेन संयुक्ताः। स्निग्धा सस्नेहा श्लक्ष्णा मृद्वी तन्वी चाघना त्वक्
चर्म तथा रोमाणि येषाम्। ताम्रवर्णानि लोहितानि तनून्यघनानि शृङ्गाणि विषाणानि येषाम्।
तनुभुवमघनां भुवं स्पृशन्ति वालधयः पुच्छवाला येषाम्। रक्तान्ते विलोचने नेत्रे
येषाम्। महान्त उच्छ्वासा येषाम्। सिंहस्येव स्कन्धो येषाम्। तनवोऽघना अल्पाश्च कम्बला
येषाम्। सुगताः शोभना गतिर्येषाम्। ते तथाभूता इति।।१०-१२।।
अन्यदप्याह—
वामावर्तैर्वामे दक्षिणपार्श्वे च दक्षिणावर्तैः।
शुभदा भवन्त्यनडुहो जङ्घाभिश्चैणकनिभाभिः ॥१३॥
जिनके वाम पार्श्व वामावर्त और दक्षिण पार्श्व दक्षिणावर्त रोमों से युक्त हों तथा
जिनकी जंघा ऐणक ( मृग ) की जंघा के समान हो, ऐसे बैल शुभ होते हैं।।१३।।
ये अनडुहो दान्ता वामे पार्श्वे वामावर्तै रोमभिर्युक्ता दक्षिणपार्श्वे दक्षिणावर्तैश्च ते च
शुभदाः प्रशस्ता भवन्ति। तथा एणकनिभाभिरेणकसदृशीभिः परिपूर्णमांसाभिर्जङ्घाभिः शुभदा
भवन्ति। एणकः प्राणिविशेषः। अविरिति केचित् ।।१३।।
अन्यदप्याह—
वैदूर्यमल्लिकाबुद्बुदेक्षणाः स्थूलनेत्रपक्ष्मणः।
पार्ष्णिभिरस्फुटिताभिः शस्ताः सर्वे च भारसहाः ॥१४॥
वैदूर्य मणि, मल्लिका ( वेला ) पुष्प या जलबुद्बुद के समान नेत्र वाले, स्थूल
नेत्र और शरीर वाले, जिसके खुर के पिछले भाग फूटे न हों—ऐसे बैल शुभ तथा भार
उठाने में समर्थ होते हैं।।१४।।
वैदूर्यः प्रसिद्धो मणिविशेषः श्यामवर्णः। मल्लिकेक्षणो मल्लिकाक्षस्तल्लक्षणम्।
दृष्ट्मण्डलबाह्ये मल्लिकाकुसुमसदृश्यो राज्यो यस्य भवन्ति स मल्लिकाक्षः। एतल्लक्षण-
मश्वस्य पठ्यते। तथा च गाहा—
उज्जू अकिसणकन्ती तारन्ते ई समल्लिआकुसुमे।
भाविज्जइ अच्छीइं जाणं ते मल्लिआअच्छा।।
तथा च शालिहोत्रः—
शुक्लराजिपरिक्षिप्ते यस्यान्तर्लोचने शुभे।
मल्लिकाक्षो महाधन्यः स महाकृष्णतारकः।। इति।
अनेन लक्षणेन युक्तो मल्लिकाक्षः, तथा बुद्बुदः प्रसिद्ध एव। एवं वैदूर्यमल्लिकाबुद्बु-
देक्षणास्तत्तुल्यनेत्राः। नेत्रपक्ष्मण्यक्षिरोमाणि तानि स्थूलान्यतिघनानि येषाम्। पार्ष्णिभिः
खुरपश्चिमभागैः। अस्फुटिताभिरभग्नाभिः। ते सर्वे निःशेषाः प्रशस्ता भारसहाश्च। भारं सहन्त
इति।।१४।।
CC-0. JK Sanskrit Academy, Jammnu. Digitized by S3 Foundation USA