बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 2 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 203, कुल 760 में से
संदर्भ में पढ़ेंगोलक्षणाध्यायः १७५
वृत्ताङ्गाः स्थूलगात्राश्च विस्तीर्णजघनाश्च ये।
स्पृष्टाप्रतनुश्लक्ष्णैः शफैरविरलैर्दृढैः ।।
समुद्गवरसंस्थानैः समास्फुटितपाष्णिभिः ।
वृत्तस्थूलोद्धतग्रीवाः ककुदैश्च समुच्छ्रितैः ।।
एते भारसहा ज्ञेया धुरि याने च पूजिताः ।
आवर्तैर्दक्षिणावर्तैर्युक्ता दक्षिणतश्च ये।।
वामावर्तैर्वामतश्च संयुक्तास्तेऽपि पूजिताः ।
प्रलम्बवृषणोऽत्यर्थं संक्षिप्तोदरवंक्षणः ।।
विस्तीर्णवक्षो जघनो भारे याने च पूजितः ।
स्निग्धपिङ्गेक्षणः श्वेतस्ताम्रशृङ्गो महानसः ।।
स तु गौः पद्मको नाम गोसहस्रप्रवर्धनः ।। इति ।। १९ ।।
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ गोलक्षणं
नामैकषष्टितमोऽध्यायः ।। ६१ ।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA