बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 2 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 207, कुल 760 में से
संदर्भ में पढ़ेंकुक्कुटलक्षणाध्यायः १७९
सितरक्तनीलपीतकृष्णैर्वर्णैर्युक्तः । रुचिरो निर्मलः । स कुक्कुटः संग्रामे युद्धे शस्तः प्रशस्तः ।
अथवा मधुवर्णः पीतवर्णो मधुपवर्णो भ्रमरवर्णः कृष्णः सोऽपि जयकृत् । अतोऽस्मा-
दुक्तादन्योऽपरो न शस्तो न शुभः। यः कृशतनुरवः कृशः क्षामस्तनुरल्पो रवः शब्दो
यस्य। खञ्जचरणो विकलपादः सोऽपि न शुभः॥२॥
अथ कुक्कुटीलक्षणमाह—
कुक्कुटी च मृदुचारुभाषिणी स्निग्धमूर्तिरुचिराननेक्षणा ।
सा ददाति सुचिरं महीक्षितां श्रीयशोविजयवीर्यसम्पदः ॥३॥
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां कुक्कुटलक्षणं
नाम त्रिषष्टितमोऽध्यायः ॥६३॥
जो मुर्गी कोमल और सुन्दर शब्द करने वाली हो, स्निग्ध शरीर वाली हो और
सुन्दर हो, वह राजाओं को चिरकालपर्यन्त लक्ष्मी, यश, विजय, बल और सम्पत्ति प्रदान
करती है॥३॥
इति 'विमला' हिन्दीटीकायां कुक्कुटलक्षणाध्यायस्त्रिषष्टितमः ॥६३॥
या च कुक्कुटी मृदु मार्दवयुक्तं चारु शोभनं भाषते। स्निग्धमूर्तिर्निर्मलशरीरा। रुचि-
राननेक्षणा रुचिरं शोभनमाननं मुखं तथैक्षणे यस्या सा महीक्षितां राज्ञां सुचिरं चिरकालं
श्रियं लक्ष्मीं यशः कीर्तिं विजयं विशेषेण जयं वीर्यसम्पदमैश्वर्यं च ददाति॥३॥
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ कुक्कुटलक्षणं
नाम त्रिषष्टितमोऽध्यायः ॥६३॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA