सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

Brihat Samhita Vol 1 with Vimala Hindi Commentary

आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा

DevanagariHindipublished728 पृष्ठ

५०८ बृहत्संहिता
अथवा अद्रिराट् पर्वतराजो हिमवानिव व्रजेत्। इतस्ततः सर्वतः शुक्लचामरैः सितै-
र्बालव्यजनैः सम्पतद्भिस्तदभिमुखं गच्छद्भिः। धूयमानाश्चाल्यमाना रुचिरा दीप्तिमत्यः स्रजो
माला अम्बराणि च वस्त्राणि यस्य स तथोक्तः। कीदृशैश्चामरैः? मृष्टगन्धपवनानुवाहिभिः।
मृष्टं गन्धं सुगन्धं पवनं वातं येऽनुवहन्ति सेवन्ते तैस्तथाभूतैः। अत एवोत्प्रेक्षते—हंस-
पंक्तिभिरितस्ततः सर्वतः सम्पतद्भिर्मृष्टगन्धपवनानुवाहिभिः सुगन्धमारुतानुवाहिभिरद्रिराडिव।
अथवा शक्रकार्मुकरुचिमिन्द्रधनुःकान्तिं समुद्वहन् वाहयन् व्रजेत्। मुकुटकुण्ड-
लाङ्गदैर्भूषितः मुकुटं मौलिभूषणम्, कुण्डलं कर्णाभरणम्, अङ्गदाः कटकास्तैर्भूषितो-
ऽलंकृतः। कीदृशैः? नैकवर्णमणिवज्रभूषितैः, नैकवर्णा बहुवर्णा ये मणयो रत्नानि, वज्रं
हीरकम्, तैर्भूषिता अलंकृता ये मुकुटकुण्डलाङ्गदास्तैर्भूषितोऽलंकृतः। तथा भूरिरत्नानां
बहूनां मणीनां ये किरणा रश्मयस्तैरनुरञ्जितो विच्छुरितस्तदा शक्रकार्मुकरुचिं समुद्वहन्।
यतः शक्रकार्मुकस्य कान्तिर्नानावर्णा भवति।
अथवा शक्रवदिन्द्रवत्परिवृतः परिवारयुक्तो व्रजेत्। तुरङ्गमैरश्वैः खमाकाशमुत्पतद्भिरिव।
यत इन्द्र आकाशे गच्छति। तथा दन्तिभिर्हस्तिभिर्धरां भूमिं धारयद्भिरिव। यतो मत्तदन्तिनो
भूमिं विदारयन्ति। नरैर्मनुष्यैर्निर्जितारिभिर्जितशत्रुभिरमरैर्देवैरिव परिवृतः। अतीवोज्ज्वलं
वेषधारित्वात्। अत एवोत्प्रेक्षते—शक्रवदिति।।२३-२६।।
अन्यदप्याह—
सवज्रमुक्ताफलभूषणोऽथवा सितस्रगुष्णीषविलेपनाम्बरः।
धृतातपत्रो गजपृष्ठमाश्रितो घनोपरीवेन्दुतले भृगोः सुतः।।२७।।
अथवा हीरा-मोती से युत श्वेत माला, श्वेत पगड़ी, श्वेत चन्दन तथा श्वेत वस्त्रों से
युत, छत्रधारी और हाथी पर बैठा हुआ राजा मेघ के ऊपर और चन्द्र के नीचे विराजमान
शुक्र की तरह गमन करे। यहाँ मेघ के स्थान पर हाथी, चन्द्र के स्थान पर छत्र और
शुक्र के स्थान पर राजा को समझना चाहिये।।२७।।
अथवैवं व्रजेत्। सवज्रमुक्ताफलभूषणः, वज्रं हीरकम्, सवज्राणि वज्रसहितानि मुक्ता-
फलभूषणानि यस्य। सितस्रगुष्णीषविलेपनाम्बरः, सिताः शुक्ला याः स्रजो मालाः।
सिताश्चोष्णीषाः पट्टविशेषाः। सितानि च विलेपनानि समालम्भनानि। सितान्यम्बराणि वस्त्राणि
च यस्य स तथाभूतः। धृतातपत्रः। धृतमातपत्रं छत्रं यस्य। गजपृष्ठं हस्तिपृष्ठं समाश्रितः।
अत एवोत्प्रेक्षते—भृगोः सुतः शुक्रो घनोपरि मेघपृष्ठे इन्दोश्चन्द्रस्य तले अधोभागे
स्थित इव। मेघस्थानीयो गजः। चन्द्रस्य स्थानीयं छत्रम्। शुक्रसंस्थाने नृप इति।।२७।।
अथ सैन्यचेष्टितमाह—
सम्प्रहृष्टनरवाजिकुञ्जरं निर्मलप्रहरणांशुभासुरम्।
निर्विकारमरिपक्षभीषणं यस्य सैन्यमचिरात् स गां जयेत्।।२८।।
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां नीराजनाध्यायश्चतुश्चत्वारिंशः।।४४।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

नीराजनाध्यायः ५०९
जिस राजा के हर्षित मनुष्य, घोड़े और हाथियों से युत, निर्मल खड्ग आदि से
प्रकाशमान, विकाररहित और शत्रु के लिये भयावह सेनागण हों, वह शीघ्र ही पृथ्वी को
जीत लेता है।।२८।।
इति 'विमला' हिन्दीटीकायां नीराजनाध्यायश्चतुश्चत्वारिंशः ॥४४॥
यस्य राज्ञ ईदृशं सैन्यं स राजा अचिराच्छीघ्रमेव गां भूमिं जयेत् स्वीकरोति। कीदृशम्?
सम्प्रहृष्टजनवाजिकुञ्जरम्, सम्प्रहृष्टाः प्रमुदिता नरा मनुष्याः। वाजिनोऽश्वाः, कुञ्जरा यत्र।
तथा निर्मलानां प्रहरणानां खड्गादीनां ये अंशवो रश्मयस्तैर्भासुरं देदीप्यमानम्। निर्विकारं
विकाररहितम्। निरुत्पातमित्यर्थः। अरिपक्षभीषणं शत्रुपक्षभयावहमिति।।२८।।
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ नीराजन-
विधिर्नाम चतुश्चत्वारिंशोऽध्यायः ॥४४॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

अथ खञ्जनकलक्षणाध्यायः
अथ खञ्जनकलक्षणाध्यायो व्याख्यायते। तत्रादावेवागमप्रदर्शनार्थमाह—
खञ्जनको नामायं यो विहगस्तस्य दर्शने प्रथमे।
प्रोक्तानि यानि मुनिभिः फलानि तानि प्रवक्ष्यामि ॥१॥
खञ्जन नामक पक्षी के प्रथम दर्शन होने पर गर्ग आदि मुनियों ने जो फल कहे हैं,
उनको मैं यहाँ पर कहता हूँ॥१॥
अयं खञ्जनकनामा विहगः पक्षी तस्य प्रथमे दर्शने, आदौ यस्मिन् दिने दृश्यते तत्र
मुनिभिर्गर्गादिभिर्यानि फलानि कथितानि प्रोक्तानि तानि प्रवक्ष्यामि कथयामीति।
खञ्जनकः श्रावणपूर्वकमासचतुष्टयं न दृश्यत इति स्थितिः। अत उक्तं दर्शने प्रथमे
इति॥१॥
तत्र तावच्चत्वारः खञ्जनका भवन्ति, तेषां नामानि फलं चाह—
स्थूलोभ्युन्नतकण्ठः कृष्णगलो भद्रकारको भद्रः।
आकण्ठमुखात् कृष्णः सम्पूर्णः पूरयत्याशाम् ॥२॥
कृष्णो गलेऽस्य बिन्दुः सितकरटान्तः स रिक्तकृद्रिक्तः।
पीतो गोपीत इति क्लेशकरः खञ्जनो दृष्टः ॥३॥
स्थूल शरीर वाला, उन्नत और काले गले वाला खञ्जन पक्षी भद्रसंज्ञक है, यदि यह
दिखाई दे तो शुभ होता है। जिसका मुख से लेकर कण्ठ तक काला हो, वह खञ्जन
पक्षी सम्पूर्णसंज्ञक है, यह सम्पूर्ण इच्छाओं को पूर्ण करता है। जिसके गले में काली
बिन्दी तथा श्वेत कपोल हो वह रिक्तसंज्ञक खञ्जन सब शून्य करता है और पीला खञ्जन
गोपीत संज्ञक है, यदि यह दिखाई दे तो क्लेश करता है॥२-३॥
स्थूलो बृहत्कायः। अभ्युन्नतकण्ठ उच्चग्रीवः। कृष्णगलः असितकण्ठः। स भद्रो
नाम विहगो भद्राख्यः पक्षी। स च दृष्टो भद्रकारकः, भद्रं श्रेयः करोति। भद्रः सम्पूर्णो
रिक्तो गोपीत इत्येता अन्वर्थसंज्ञा। आकण्ठमुखात् कृष्णः, मुखाद् वक्त्रादारभ्य कण्ठं
गलं यावत्कृष्णोऽसितवर्णः सम्पूर्णानामा स चाशामिच्छां पूरयति परिपूर्णं करोति।
कृष्णो गलेऽस्य बिन्दुरिति। अस्य विहगस्य गले कण्ठे कृष्णोऽसितो बिन्दुस्तथा
सितकरटान्तः शुक्लकपोलः स रिक्तसंज्ञः। स च रिक्तकृद्रिक्तफलः शून्यं सर्वं करोति।
यः पीतः पीतवर्णः स च गोपीतनामा खञ्जनको दृष्टः क्लेशकरः क्लेशं करोति। तथा
च काश्यपः—
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

खञ्जनकलक्षणाध्यायः ५११
स्थूलोऽभ्युन्नतकण्ठो यो भद्रः कृष्णगलः स्मृतः।
कृष्णमूर्धा गलान्तं यः स सम्पूर्ण इति स्मृतः।।
करटान्तौ सितौ यस्य कृष्णो बिन्दुर्गले तथा।
स रिक्त इति निर्दिष्टः पीतो गोपीतकः स्मृतः।।
नामानुरूपेण फलं विहगानां विनिर्दिशेत्।। इति।।२-३।।
अथ कस्मिन् स्थाने दृष्टः कीदृक् फलं करोतीत्याह—
अथ मधुरसुरभिफलकुसुमतरुषु सलिलाशयेषु पुण्‍येषु।
करितुरगभुजगमूर्ध्नि प्रासादोद्यानहर्म्येषु ।।४।।
गोगोष्ठसत्समागमयज्ञोत्सवपार्थिवद्विजसमीपे ।
हस्तितुरङ्गमशालाच्छत्रध्वजचामराद्येषु ।।५।।
हेमसमीपसिताम्बरकमलोत्पलपूजितोपलिप्तेषु ।
दधिपात्रधान्यकूटेष्बु च श्रियं खञ्जनः कुरुते ।।६।।
मधुर तथा सुगन्धयुत फल और फूलों से युत वृक्ष पर, पवित्र जलाशय में हाथी,
घोड़ा या सर्पों के मस्तक पर, देवालय, फुलवाड़ी या कोठे पर, गाय, गोठ, सज्जनों के
समागम स्थान, यज्ञ, विवाह आदि उत्सव स्थान, राजा या ब्राह्मणों के समीप, हाथी,
घोड़ा, छत्र, ध्वजा, चामर आदि पर, सुवर्ण के समीप, कमल, नीलकमल, पूजित और
लिपे हुये स्थान पर, दही के पात्र या धान्य के ढेर पर खञ्जन पक्षी दिखाई दे तो देखने
वाले का शुभ होता है।।४-६।।
अथैतेषु स्थानेषु दृष्टः खञ्जनकः श्रियं लक्ष्मीं कुरुते विदधाति। केषु, कथम्?
मधुरेति। अथशब्दः प्रकाराय। मधुराणि स्वादूनि। सुरभीणि सुगन्धीनि फलानि, कुसुमानि
पुष्पाणि येषु तरुषु वृक्षेषु। तथा पुण्येषु सलिलाशयेषु जलाधारेषु। तथा करिणां हस्ति-
नाम्, तुरङ्गाणामश्वानाम्, भुजगानां सर्पाणां मूर्धसु मस्तकेषु। तथामरप्रासादेषु देवगृहेषु।
उद्यानेषूपवनेषु। हर्म्येषु अट्टालिकासु।
तथा गोरुपरि। गोष्ठे गवां स्थाने। सतां साधूनां यत्र समागमः। यज्ञो यागः। उत्सवो
विवाहादि। पार्थिवो राजा। द्विजो ब्राह्मणः। एषां समीपे सन्निधौ। हस्तिशालासु गजशालासु।
अश्वशालासु। छत्रमातपत्रम्। ध्वजश्चिह्नविशेषः प्रसिद्धः। चामरं बालव्यजनम्। आदिग्रहणाद्
भृङ्गारकुम्भतालवृन्तादयः। एतेष्वपि।
तथा हेमसमीपे सुवर्णसन्निधौ। सिताम्बरं श्वेतवस्त्रम्। कमलं पद्मम्। उत्पलं नीलोत्पलम्।
पूजितेष्वर्चितेषु। उपलिप्तेषु संस्कृतेषु स्थानेषु। दधिपात्रे दधिभाजने। धान्यकूटे धान्यराशौ।
एतेष्विति।।४-६।।
अन्येष्वप्याह—
पङ्के स्वाद्वन्नाप्तिर्गोरससम्पच्च गोमयोपगते।
शाद्वलगे वस्त्राप्तिः शकटस्थे देशविभ्रंशः।।७।।
CC-0. JK Sanskrit Academy, Jammu. Digitized by S3 Foundation USA

५१२ बृहत्संहिता
गृहपटलेऽर्थभ्रंशो बघ्रे बन्धोऽशुचौ भवति रोगः ।
पृष्ठे त्वजाविकानां प्रियसङ्गममावहत्याशु ॥८॥
यदि कीचड़ में बैठा हुआ खञ्जन दिखाई दे तो स्वादिष्ट भोजन मिलता है। गोबर
पर दिखाई दे तो दूध, दही, घृत काफी मिलता है। दूब पर दिखाई दे तो वस्त्रलाभ होता
है और गाड़ी पर दिखाई दे तो देश का नाश होता है। घर की छत पर खञ्जन दिखाई दे
तो धन का नाश, चमड़े की बनी हुई छेद वाली वस्तु पर दिखाई दे तो बन्धन, अपवित्र
स्थान पर दिखाई दे तो रोग, छाग या भेड़ के ऊपर दिखाई दे तो बहुत जल्दी
मित्रसमागम होता है॥७-८॥
पङ्कः कर्दमस्तत्र संस्थे खञ्जनके स्वाद्वन्नप्राप्तिः सृष्टभोजनलाभः। तथा गोमयोपगते
गोमयनिचयस्थे गोरससम्पन्मथितबाहुल्यम्। शाद्वलगे दूर्वास्थे वस्त्राप्तिरम्बरलाभः। शकटस्थे
शकटारूढे देशस्य विभ्रंशो नाशः।
गृहपटले गृहच्छादने अर्थस्य वित्तस्य भ्रंशो नाशः। बघ्रे चर्ममये बन्धो बन्धनम्।
अशुचावशुद्धे स्थाने रोगो भवति। अजश्छागः। अविः प्रसिद्धः। अजाविकानां पृष्ठे उपरि
स्थिते आशु क्षिप्रमेव प्रियसङ्गमं वल्लभसमायोगमावहति करोति॥७-८॥
अन्यदप्याह—
महिषोष्ट्रगर्दभास्थिश्मशानगृहकोणशर्कराट्टस्थः ।
प्राकारभस्मकेशेषु चाशुभो मरणरुग्भयदः ॥९॥
भैंस, ऊँट, गदहा, श्मशान, घर का कोना, मिट्टी का ढेला, अटारी, घेरे की दीवाल,
भस्म और केश पर यदि खञ्जन दिखाई दे तो मरण और रोगभयरूप अशुभ फल होता है।
एतेषु स्थानेषु खञ्जनको दृष्टः स चाशुभः प्रागलक्षणो न भवति तदा मरणरुग्भयदः।
द्रष्टुर्मरणं मृत्युं रुग्भयं च ददाति। केषु स्थानेषु? महिषे। उष्ट्रे करभे। गर्दभे खरे। अस्थि-
श्मशाने पितृवने। गृहकोणे वेश्माग्रे। शर्करे मृत्खण्डे। अट्टे अट्टालके। प्राकारभित्तौ।
भस्मनि। केशेषु। एतेषु स्थानेषु॥९॥
अन्यदपि लक्षणमाह—
पक्षौ धुन्वन्नशुभः शुभः पिबन् वारि निम्नगासंस्थः ।
सूर्योदये प्रशस्तो नेष्टफलः खञ्जनोऽस्तमये ॥१०॥
दोनों पंखों को हिलाता हुआ खञ्जन दिखाई दे तो शुभ नहीं है। नदी में (कोई-कोई
‘वारिवाहस्थः = पानी जाने वाले प्रदेश में' ऐसा पाठ मानते हैं) पानी पीता हुआ दिखाई
दे तो शुभ होता है। यदि सूर्योदय काल में खञ्जन दिखाई दे तो शुभ और अस्त काल
में दिखाई दे तो अशुभ फल देने वाला होता है॥१०॥
पक्षावङ्गरूहौ धुन्वन् कम्पयन्नशुभोऽनिष्टफलदः। निम्नगा नदी तत्रस्थो वारि जलं
CC-0. JK Sanskrit Academy, Jammu. Digitized by S3 Foundation USA

खञ्जनकलक्षणाध्यायः ५१३
पिबन् शुभ इष्टफलः। केचिद्वारिवाहस्थ इति पठन्ति। वारिवाहे जलगमनप्रदेशे वारि पिबन्।
सूर्योदये रव्युदयकाले खञ्जनकः प्रशस्तः शुभफलदः। सूर्यास्तमये नेष्टफलोऽशुभ इति।
अन्यदप्याह—
नीराजने निवृत्ते यया दिशा खञ्जनं नृपो यान्तम्।
पश्येत्तया गतस्य क्षिप्रमरातिर्वशमुपैति ॥१९१॥
नीराजन करने के बाद राजा जिस दिशा में जाते हुये खञ्जन को देखे, उस दिशा में
गमन करने से शत्रु शीघ्र ही वश में हो जाता है।।१९१।।
निवृत्ते परिसमाप्ते नीराजने नृपो राजा यया दिशा आशया खञ्जनं यान्तं पश्येदव-
लोकयेत्तया गतस्य राज्ञोऽरातिः शत्रुः। क्षिप्रमाश्वेव वशमुपैति वश्यतां गच्छति।।१९१।।
अथ प्रत्यप्रदर्शनार्थमाह—
तस्मिन्निधिर्भवति मैथुनमेति यस्मिन्
यस्मिंस्तु छर्दयति तत्र तलेऽस्ति काचम्।
अङ्गारमप्युपदिशन्ति पुरीषणेऽस्य
तत्कौतुकापनयनाय खनेद् धरित्रीम् ॥१९२॥
जिस स्थान पर खञ्जन मैथुन करता है, उसके नीचे निधि ( खजाना ), जहाँ पर
वमन करता है उसके नीचे कांच और जहाँ पर टट्टी करता है उसके नीचे कोयला होता
है। इस कौतुक को हटाने के लिये ( परीक्षा के लिए ) वहाँ की पृथ्वी खोदे।।१९२।।
यस्मिन् स्थाने मैथुनमेति गच्छति तत्र तस्मिन् भूमिप्रदेशे निधिर्निधानं भवति। यस्मिंस्तु
छर्दयति वमति तत्र तले काचमस्ति विद्यते। अस्य खञ्जनकस्य पुरीषणे यत्र पुरीषं हदनं
करोति तत्र भूमौ तले अङ्गारमप्युपदिशन्ति कथयन्ति। मुनयः काश्यपादयः। तथा च
काश्यपः—
मैथुनं कुरुते यत्र तत्र वै निधिमादिशेत्।
भुक्तं छर्दयते यत्र तत्र काचमधो भवेत्।।
पुरीषं यत्र कुरुते तत्राङ्गारं विनिर्दिशेत्।
तत्कौतुकापनयनाय खनेद्धरित्रीम्। तस्य कौतुकस्य कुतुकस्यापनयनाय निवारणाय
धरित्रीं भूमिं खनेत्। येन प्रत्यय उत्पद्यते।।१९२।।
अथान्यच्छुभाशुभमाह—
मृतविकलविभिन्नरोगितः स्वतनूसमानफलप्रदः खगः।
धनकृदभिनिलीयमानको वियति च बन्धुसमागमप्रदः॥१९३॥
यदि मरा हुआ खञ्जन दिखाई दे तो देखने वाले की मृत्यु, विकल दिखाई दे तो
देखने वाले को वैकल्य और रुग्ण दिखाई दे तो देखने वाले को रोग होता है। यदि
बृ० सं० प्र०-३५ JK Sanskrit Academy, Jammu. Digitized by S3 Foundation USA

५१४ बृहत्संहिता
सम्मुख में होकर घर में प्रवेश करता हुआ दिखाई दे तो धन करने वाला और आकाश
में उड़ता हुआ दिखाई दे तो बन्धु-समागम होता है।।१३।।
खगः पक्षी खञ्जनको मृतविकलविभिन्नरोगितः स्वतनुसमानमात्मीयशरीरतुल्यं फलं
ददाति। तद्यथा—मृतो यदि दृश्यते तदा द्रष्टुर्मरणमेव ददाति। एवं विकलोऽङ्गवैकल्यम्।
विभिन्नशरीरो भेदनम्। रोगितः सञ्जातरोगो रोगमेव ददाति। धनकृदभिनिलीयमानक
इति। अभिमुख्येन निलीयमान आलयं प्रविशन् धनकृत् धनसंश्लेषं कुरुते। वियत्याकाशे
उड्डीनमाने बन्धुसमागमप्रदो बन्धुभिः सह संयोगं ददाति।।१३।।
अथ खञ्जनदृष्टे विधानमाह—
नृपतिरपि शुभं शुभप्रदेशे खगमवलोक्य महीतले विदध्यात्।
सुरभिकुसुमधूपयुक्तमर्घं शुभमभिनन्दितमेवमेति वृद्धिम् ॥१४॥
राजा शुभ प्रदेश में शुभ लक्षणयुत खञ्जन पक्षी को भी देखकर सुगन्धयुत पुष्प
और धूपयुत अर्घ देवे। इस तरह करने से सम्मानित शुभ फल की वृद्धि होती है।।१४।।
नृपती राजा शुभे प्रदेशे शुभं प्रशस्तलक्षणमपि खगं पक्षिणमवलोक्य दृष्ट्वा महीतले
भूपृष्ठे सुरभिकुसुमधूपयुक्तमर्घम्, सुरभीणि सुगन्धीनि यानि कुसुमानि पुष्पाणि तथा सुगन्धा
ये धूपास्तैः संयुक्तमर्घं विदध्याद् दापयेत्। एवमनेन प्रकारेण शुभं फलमभिनन्दितं सम्मानितं
वृद्धिमेति वृद्धिं गच्छति।।१४।।
अथाशुभे खञ्जनके दृष्टे विधानमाह—
अशुभमपि विलोक्य खञ्जनं द्विजगुरुसाधुसुरार्चने रतः।
न नृपतिरशुभं समाप्नुयान्न यदि दिनानि च सप्त मांसभुक् ॥१५॥
अशुभ फल देने वाले खञ्जन को देख कर भी राजा यदि ब्राह्मण, गुरु, सज्जन और
देवताओं के पूजन में निरत हो जाय एवं सात दिन तक यदि मांस-भक्षण न करे तो उसे
किसी प्रकार का अशुभ फल प्राप्त नहीं होता।।१५।।
नृपती राजा अशुभमपि अनिष्टफलमपि खञ्जनं विलोक्य दृष्ट्वा यदि द्विजानां ब्राह्मणा-
नाम्, गुरूणामुपदेशकर्तॄणाम्, साधूनां सज्जनानाम्, सुराणां देवानाम्, अर्चने रतः सक्तो
भवति, तदा नाशुभमनिष्टफलं समाप्नुयात् प्राप्नोति। यदि सप्त दिनानि सप्ताहं मांस-
भुग् न भवति। मांसं यदि न भुङ्क्ते नाश्नाति।।१५।।
तथा कालप्रदर्शनार्थमाह—
आवर्षात् प्रथमे दर्शने फलं प्रतिदिनं तु दिनशेषात्।
दिक्स्थानमूर्तिलग्नर्क्षशान्तदीप्तादिभिश्चोह्यम् ॥१६॥
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां खञ्जनकलक्षणाध्यायः पञ्चचत्वारिंशः ॥४५॥

खञ्जनकलक्षणाध्यायः ५१५
खञ्जन के प्रथम दर्शन का फल एक वर्ष में होता है। बाद में प्रति दिन दर्शन का
फल उसी दिन प्राप्त होता' है। दिशा, स्थान, शरीराकृति, लग्न, नक्षत्र, शान्त और दीप्त
दिशा आदि के अनुसार शुभाशुभ देखकर अपनी बुद्धि से फल कहना चाहिये '। १६।।
इति 'विमला' हिन्दीटीकायां खञ्जनलक्ष-
णाध्यायः पञ्चचत्वारिंशः ।।४५।।
प्रथमं खञ्जनकस्य दर्शने आदावेव यस्मिन्नहनि दृश्यते तत्र यत्फलं शुभमशुभं वा
तदाऽऽवर्षाद्वर्षं यावत्। वर्षमध्ये भवतीत्यर्थः। प्रतिदिनं तु यद्दर्शनफलं तद्दिनशेषात्तस्मिन्नेव
दिनमध्ये भवति। तथा च काश्यपः—
प्रथमे दर्शने पाकमावर्षात् प्रवदेद् बुधः।
प्रतिदैवसिके वाच्यं दर्शनेऽस्तमये फलम्।। इति।
दिक्स्थानमूर्तिलग्नर्क्षशान्तदीप्तादिभिश्चोह्यम्, दिक् कस्यां दिशि स्थितः शुभायामशुभायां
वा। तत्र पूर्वोत्तरैशान्यः स्वभावादेव शुभाः। शेषा अशुभाः। स्थानं यत्र स्थितः। 'अथ
मधुरसुरभिः' इत्यादिना प्रदर्शितम्। मूर्तिः शरीराकारः—'स्थूलोऽभ्युन्नतकण्ठः' इत्यादि,
'मृतविकलविभिन्नरौगितः' इति च। लग्नं तत्काले कीदृशं शुभराशिशुभग्रहयुतं दृष्टं वा
पापलग्नं पापयुतमवलोकितं वा। ऋक्षं नक्षत्रं ध्रुवमृदुदारुणोग्रक्षिप्रचरसाधारणादि। तत्र
ध्रुवाणि मृदूनि च शस्तानि, क्षिप्रचरसाधारणानि मध्यानि, दारुणोग्राणि अशोभनानीति।
तथा शान्तदीप्तादिभिः। स पक्षी किं शान्तायां दिशि स्थितः शान्तरवश्च, किं वा दीप्तायां
दिशि स्थितो दीप्तरवश्च। आदिग्रहणादङ्गारिताभिधूमिता च दिग् ज्ञेया। एवमादिभिः शुभम-
शुभं व्यामिश्रं वा फलमूह्यम्। स्वबुद्ध्या तर्कणीयम्। एतदाचार्यः सविस्तरं शाकुने वक्ष्यति।
वयमपि तत्रैव विशेषं व्याख्यास्याम इति ।।१६।।
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ खञ्जनकलक्षणं
नाम पञ्चचत्वारिंशोऽध्यायः ।।४५।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

अथोत्पाताध्यायः
अथोत्पाताध्यायो व्याख्यायते। तत्रादावेवागमवस्तुप्रदर्शनार्थमाह—
यानत्रेरुत्पातान् गर्गः प्रोवाच तानहं वक्ष्ये।
तेषां संक्षेपोऽयं प्रकृतेरन्यत्वमुत्पातः ॥१॥
महर्षि गर्ग ने जिन उत्पातों का वर्णन महामुनि अत्रि जी के समक्ष किया था, उन्हीं
का संक्षेप रूप यहाँ है।।१।।
अत्रेर्मुनिप्रधानस्य यानुत्पातानद्भुतान् गर्गः प्रोवाचोक्तवान्, तानहं वक्ष्ये कथयिष्ये।
तेषामुत्पातानामयं संक्षेपः समासः। प्रकृतेरन्यत्वमुत्पात इति। प्रकृतेः स्वभावादन्यत्वं
वैपरीत्यं स एवोत्पात इति। तथा च समाससंहितायाम्—
यः प्रकृतिविपर्यासः सर्वः संक्षेपतः स उत्पातः।
क्षितिगगनदिव्यजातो यथोत्तरं गुरुतरो भवति।। इति।।१।।
कथमुत्पाता उत्पद्यन्त इत्याह—
अपचारेण नराणामुपसर्गः पापसञ्चयाद्भवति।
संसूचयन्ति दिव्यान्तरिक्षभौमास्त उत्पाताः ॥२॥
मनुष्यों के अविनय से पाप इकट्ठे होते हैं, उन पापों से उपद्रव होते हैं। दिव्य,
आन्तरिक्ष और भौम उत्पात उन उपद्रवों को सूचित करते हैं।।२।।
नराणां पुरुषाणामपचारेणाविनयेन पापसञ्चयो भवति, पापसञ्चयादुपसर्गा उपद्रवाः।
तथा च गर्गः—
अतिलोभादसत्याद्वा नास्तिक्याद्वाप्यधर्मतः।
नरापचारान्नियतमुपसर्गः प्रवर्तते।। इति।
ततो दिव्यान्तरिक्षभौमा उत्पाताः तानुपसर्गान् संसूचयन्ति। दिवि आकाशे भवा
दिव्याः। अन्तरिक्षे भवा आन्तरिक्षाः। भूमौ भवा भौमा इति।।२।।
कथमुत्पाता उत्पद्यन्त इत्याह—
मनुजानामपचारादपरक्ता देवताः सृजन्त्येतान्।
तत्प्रतिघाताय नृपः शान्तिं राष्ट्रे प्रयुञ्जीत ॥३॥
मनुष्यों के अविनय से अप्रसन्न देवता गण उन उत्पातों को उत्पन्न करते हैं। उनके
निवारण के लिये राजा को शान्ति करानी चाहिये।।३।।
मनुजानां मनुष्याणामपचारादविनयाद्देवताः सुरा अपरक्ता विरक्ता एतानुत्पातान्
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

उत्पाताध्यायः ५१७
सृजन्त्युत्पादयन्ति । तत्प्रतिघाताय तेषामुत्पातानां प्रतिघाताय निवारणाय नृपो राजा राष्ट्रे
जनपदे शान्तिमुत्पातप्रतीकारं प्रयुञ्जीत कारयेदिति । तथा च गर्गः—
ततोऽपचारो मर्त्यानामपरज्यन्ति देवताः ।
ते सृजन्त्यद्भुतान् भावान् दिव्यभूम्यन्तरिक्षजान् ।।
त एव सर्वलोकानामुत्पाता देवनिर्मिताः ।
विचरन्ति विनाशाय रूपैः सम्बोधयन्ति च ।।
तान् शास्त्रनिर्गमाद्विप्राः पश्यन्ति ज्ञानचक्षुषा ।
प्रवदन्ति तु मर्त्येषु हितार्थं श्रद्धयान्विताः ।
ते तु सम्बोधिता विप्रैः शान्तये मङ्गलानि च ।
श्रद्दधानाः प्रकुर्वन्ति न ते यान्ति पराभवम् ।।
ये तु न प्रतिकुर्वन्ति क्रियामश्रद्धयान्विताः ।
नास्तिक्यादथवा कोपाद्विनश्यन्त्यथवाऽचिरात् ।। इति ।। ३ ।।
अधुना दिव्यान्तरिक्षभौमानामुत्पातानां प्रविभागमाह—
दिव्यं ग्रहर्क्षवैकृतमुल्कानिर्घातपवनपरिवेषाः ।
गन्धर्वपुरपुरन्दरचापादि यदान्तरिक्षं तत् ।। ४ ।।
भौमं चरस्थिरभवं तच्छान्तिभिराहतं शममुपैति ।
नाभसमुपैति मृदुतां शाम्यति नो दिव्यमित्येके ।। ५ ।।
सूर्य आदि ग्रह और नक्षत्रों के विकारयुत होने का नाम दिव्य; उल्का, निर्घात,
विकारयुत वायु, सूर्य-चन्द्र का परिवेष, गन्धर्वनगर, इन्द्रधनुष आदि ( रोहत, ऐरावत,
दण्ड और परिघ ) से हुये उत्पातों का नाम आन्तरिक्ष एवं चलायमान वस्तु के स्थिर
और स्थिर के चलायमान होने का नाम भौम उत्पात है। यह भौम उत्पात शान्ति से
आहत होकर नष्ट हो जाता है, आन्तरिक्ष उत्पात शान्ति से कम हो जाता है और दिव्य
उत्पात शान्ति से भी नष्ट नहीं होता। यह किसी-किसी आचार्य का मत है।। ४-५ ।।
ग्रहाणामादित्यादीनामृक्षाणामश्विन्यादीनां च यद्वैकृतं विकारस्तद्दिव्यमुत्पातम्, यश्चोल्का-
निर्घातः पवनो विकृतो वायुः, परिवेषः सूर्यचन्द्रमसोः, गन्धर्वपुरं गन्धर्वनगरम्, पुरन्दरचाप-
मिन्द्रधनुः, आदिग्रहणाद्रोहितैरावतदण्डपरिघा गृह्यन्ते। एवमादि यत्तदान्तरिक्षमुत्पातम्।
भौमं चरस्थिरभवमिति । चराणां वस्तूनां स्थैर्यं स्थिराणां चरत्वं तदुद्भवं तदुत्पन्नं
यत्तद्भौममुत्पातम्। तथा च गर्गः—
स्वर्भानुकेतुनक्षत्रग्रहतारार्कजेन्द्रजम् ।
दिवि चोत्पद्यते यच्च तद्दिव्यमिति कीर्तितम् ।।
वाय्वभ्रसन्ध्यादिग्दाहपरिवेषतमांसि च।
खपुरं चेन्द्रचापं च तद्विन्द्यादन्तरिक्षजम् ।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

५१८ बृहत्संहिता
भूमावुत्पद्यते यच्च स्थावरं वाथ जङ्गमम्।
तदेकदेशिकं भौममुत्पातं परिकीर्तितम्।। इति।
तथा च समाससंहितायाम्—
दिव्यं ग्रहर्क्षजातं भुवि भौमं स्थिरचरोद्भवं यच्च।
दिग्दाहोल्कापतनं परिवेषाद्यं वियत्प्रभवम्।। इति।
तच्छान्तिभिराहतं शममुपैति। तच्च भौमं शान्तिभिराहतं निवारितं शममुपैति शान्ति-
मुपगच्छति। नाभसमान्तरिक्षं शान्तिभिराहतं मृदुतामुपैति मन्दत्वं गच्छति। शाम्यति नो
दिव्यमित्येके। दिव्यं शान्तिभिराहतं नो शाम्यति न शान्तिं यात्येवमित्येके केचिद्वदन्ति।
तथा च काश्यपः—
भौमं शान्तिहतं नाशमुपगच्छति मार्दवम्।
नाभसं न शमं याति दिव्यमुत्पातदर्शनम्।। इति।।४-५।।
अथात्र स्वमतमाह—
दिव्यमपि शममुपैति प्रभूतकनकान्नगोमहीदानैः ।
रुद्रायतने भूमौ गोदोहात् कोटिहोमाच्च ॥६॥
अधिक सुवर्ण, अन्न, गाय और पृथ्वी का दान करने से दिव्य उत्पात भी शान्त हो
जाता है, फिर आन्तरिक्ष और भौम की तो बात ही क्या? अर्थात् वे दोनों तो शान्त होते
ही हैं। शिवालय में भूमि पर गोदोहन और कोटिसंख्यक हवन से दिव्य उत्पात शान्त हो
जाता है।।६।।
अपिशब्दः सम्भावनायां वर्तते। प्रभूतकनकान्नगोमहीदानैर्दिव्यमपि शममुपैति। कनकं
सुवर्णम्। अन्नं भोज्यम्। गावो धेनवः। मही भूः। एषां प्रभूतैर्बहुभिः प्रदानैर्दिव्यमुत्पातं
शममुपैति। अपि ग्रहणान्नाभसं भौमं च। तथा रुद्रायतने शिवगृहे। भूमाववनौ। गोदोहाद्
गवां दोहनात्। कोटिहोमाच्च दिव्यमपि शममुपैति।।६।।
दैवमुत्पातं नृपतेः कतिविधं परिपाकमायातीत्याह—
आत्मसुतकोशवाहनपुरदारपुरोहितेषु लोके च।
पाकमुपयाति दैवं परिकल्पितमष्टधा नृपतेः ॥७॥
अपना शरीर, पुत्र, खजाना, वाहन, नगर, स्त्री, पुरोहित, जनपद—इन आठों में
राजा दैव-कल्पित उत्पातों का फल प्राप्त करता है।।७।।
दैवमुत्पातं नृपते राज्ञोऽष्टधा परिकल्पितमष्टभिः प्रकारैः पाकमुपयाति फलं ददाति।
तद्यथा—आत्मनि। सुते पुत्रे। कोशे भाण्डागारे। वाहनेऽश्वादिषु। पुरे नगरे। दारेषु भार्यासु।
पुरोहिते आचार्ये। एतेषु तथा लोके जनपदे। एवमष्टप्रकारम्। तथा च गर्गः—
पुरे जनपदे कोशे वाहनेऽथ पुरोहिते।
पुत्रेष्वात्मनि भृत्येषु पश्यते दैवमष्टधा।। इति।।७।।
अधुनोत्पातान् प्रदर्शयितुमाह—
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

उत्पाताध्यायः ५१९
अनिमित्तभङ्गचलनस्वेदाश्रुनिपातजल्पनाद्यानि ।
लिङ्गार्चायतनान्- नाशाय नरेशदेशानाम् ॥८॥
शिवलिङ्ग, देवमूर्ति और देवस्थानों का बिना कारण फटना, कम्पन होना, उनमें
पसीना आना, उनका रोना, गिरना, उनमें शब्द होना आदि ( उनका वमन करना और
खिसकना ) राजा और देश के नाश के लिये होता है॥८॥
लिङ्गं माहेश्वरम्। अर्चा सुरप्रतिमा। आयतनं देवनिर्मितं पुण्यस्थानम्। एषां लिङ्गार्चाय-
तनानामनिमित्तं विना कारणं भङ्गः स्फोटनम्। चलनं कम्पनम्। स्वेदः प्रस्वेदः। अश्रु रोदनम्।
निपातः पातनम्। जल्पनं सम्भाषणम्। आद्यग्रहणाद्वमनं प्रसर्पणं च। तथा च गर्गः—
देवतार्चाः प्रनृत्यन्ति वेपन्ते प्रज्वलन्ति वा।
मुहुर्नृत्यन्ति रोदन्ति प्रस्विद्यन्ति हसन्ति वा॥
उत्तिष्ठन्ति निषीदन्ति प्रधावन्ति पतन्ति वा।
कूजन्ति विक्षिपन्ते च गात्रप्रहरणध्वजान्॥
अवाङ्मुखा वा तिष्ठन्ति स्थानात् स्थानं व्रजन्ति वा।
वमन्त्यग्निं तथा धूमं स्नेहं रक्तं पयो जलम्॥
प्रसर्पन्ति च जल्पन्ति वा चेष्टन्ते श्वसन्ति वा।
समन्ताद्यत्र दृश्यन्ते गात्रैर्वापि विचेष्टितैः॥ इति।
एतानि सर्वाणि यथोक्तानि नरेशदेशानाम्। नरेशस्य राज्ञः। देशस्य जनपदस्य च
नाशाय भवन्ति॥८॥
अथान्यदप्याह—
दैवतयात्राशकटाक्षचक्रयुगकेतुभङ्गपतनानि ।
संपर्य्यसनसादनसङ्गाश्च न देशनृपशुभदाः ॥९॥
देवस्थानों में यात्रा के समय गाड़ी की धुरी, पहिया, युग ( जुआ ) या ध्वजा का
भङ्ग होना, गिरना, उलटना, सादन या कहीं पर चिपट जाना देश और राजा के लिये
शुभकारी नहीं हैं॥९॥
दैवतयात्रायां देवोत्सवे। केचित् सूर्यात्रायामिति पठन्ति। शकटस्याक्षस्य चक्र-
मध्यवर्तिनः काष्ठस्य चक्रस्य युगस्य केतोर्ध्वजस्य चैषां भङ्गः स्फोटनं पतनं वा। एतानि।
तथा एतेषामेव संपर्य्यसनं परिवर्तनम्। सादनं सज्जनम्। सङ्ग आसक्तिः। यत्र कुत्रचिदेते
सर्व एव न देशनृपशुभदाः। देशस्य जनपदस्य। नृपस्य च राज्ञो न शुभप्रदा इति॥९॥
अधुना यद्वैकृतं येष्वशुभदं तत्प्रदर्शयितुमाह—
ऋषिधर्मपितृब्रह्मप्रोत्थं वैकृतं द्विजातीनाम् ।
यद्रुद्रलोकपालोद्भवं पशूनामनिष्टं तत् ॥१०॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

५२० बृहत्संहिता
गुरुसितशनैश्चरोत्थं पुरोधसां विष्णुजं च लोकानाम् ।
स्कन्दविशाखसमुत्थं माण्डलिकानां नरेन्द्रणाम् ।।११।।
वेदव्यासे मन्त्रिणि विनायके वैकृतं चमूनाथे ।
धातरि सविश्वकर्मणि लोकाभावाय निर्दिष्टम् ।।१२।।
देवकुमारकुमारीवनिताप्रेष्येषु वैकृतं यत् स्यात् ।
तन्नरपतेः कुमारककुमारिकास्त्रीपरिजनानाम् ।।१३।।
रक्षः पिशाचगुह्यकनागानामेवमेव निर्दिष्टम् ।
मासैश्चाप्यष्टाभिः सर्वेषामेव फलपाकः ।।१४।।
मुनि, धर्म, पिता और ब्रह्मा में उत्पन्न विकृति ब्राह्मणों को; महादेव और लोकपालों
( इन्द्र आदि ) में उत्पन्न विकृति पशुओं को; बृहस्पति, शुक्र और शनैश्चर में उत्पन्न विकृति
पुरोहितों को; विष्णु में उत्पन्न विकृति मनुष्यों को; कार्तिकेय और विशाख देव में उत्पन्न
विकृति मण्डलाधिप राजाओं को; वेदव्यास में उत्पन्न विकृति मन्त्री को; गणेश में उत्पन्न
विकृति सेनापति को; ब्रह्मा और विश्वकर्मा में उत्पन्न विकृति मनुष्यों को; देवकुमारों में
उत्पन्न विकृति राजकुमारों को; देवकुमारी में उत्पन्न विकृति राजकुमारियों को; देवाङ्गनाओं
में उत्पन्न विकृति राजपत्नियों को एवं देवताओं के दास में उत्पन्न विकृति राजाओं के
सेवकों को अशुभ फल प्रदान करने वाली होती है। इसी प्रकार राक्षसों में उत्पन्न विकृति
राजकुमारों को, पिशाचों में उत्पन्न विकृति राजकुमारियों को, यक्षों में उत्पन्न विकृति
राजपत्नियों को और नागों में उत्पन्न विकृति राजसेवकों को अशुभ फल देने वाली होती
है। इन सभी उत्पातों का फल आठ महीने में घटित होता है।।१०-१४।।
ऋषयो मुनयः । धर्मो देवविशेषः । पितरः प्रसिद्धा भूतजना लेपमयाः कुत्रचित् क्रियन्ते ।
ब्रह्मा पितामहः । एतेषु यत्रोद्भूतमुत्पन्नं वैकृतं विकारस्तद् द्विजातीनां ब्राह्मणानामनिष्ट-
मशुभप्रदमित्यर्थः ।
यच्च रुद्रस्य महादेवस्य वैकृतं लोकपालादीनामिन्द्रादीनां च यद्वैकृतं तदुत्पन्नं तत्पशूनां
चतुष्पदानामनिष्टमशुभम् ।
गुरुर्जीवः । सितः शुक्रः । शनैश्चर आर्किः । तदुत्थं तत्सम्भवमनिष्टं पुरोधसां पुरोहिता-
नाम् । विष्णुजं नारायणोद्भूतं वैकृतं लोकानां जनानामनिष्टम्। स्कन्दः कुमारः । विशाखो
देवविशेषः । तत्समुत्थं तदुद्भूतं माण्डलिकानां मण्डलाधिपानां नरेन्द्राणां राज्ञामनिष्टम्।
वेदव्यासो व्यास एव। वेदव्यासे यद्वैकृतं तन्मन्त्रिणि सचिवे अनिष्टम्। विनायके
गणपतौ वैकृतं तच्चमूनाथे सेनापातावनिष्ठम्। धातरि प्रजापतौ सविश्वकर्मणि विश्वकर्मसहिते
यद्वैकृतं तल्लोकानां जनानामभावाय विनाशाय निर्दिष्टं कथितम्।
देवकुमाराणां यद्वैकृतं तन्नरपतेः कुमाराणामनिष्टम्। एवं देवकुमारीणां यद्वैकृतं
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

उत्पाताध्यायः ५२१
तद्राजकुमारीणामनिष्टम्। देववनितानां सुरस्त्रीणां यद्वैकृतं तन्नृपस्त्रीणामनिष्टम्। देवप्रेष्याणां
देवदासानां यद्वैकृतं भवेत्तद्राजदासानामनिष्टमिति।
रक्षो राक्षसः। पिशाचा देवयोनयः। गुह्यका यक्षाः। नागाः प्रसिद्धाः। एषां वैकृतमेवमेव
वानेन प्रकारेण निर्दिष्टं कथितम्। एतदुक्तं भवति—रक्षःपिशाचगुह्यकनागानां ये
कुमारकुमारीवनिताप्रेष्यास्तेषु यद्वैकृतं तन्नरपतेः कुमारकुमारिकास्त्रीपरिजनानामनिष्टम्।
एषामुक्तानामुत्पातानां सर्वेषामष्टाभिर्मासैरतीतैः फलपाकः।।१०-१४।।
अथैतेषामुत्पातानां शान्त्यर्थमाह—
बुद्ध्वा देवविकारं शुचिः पुरोधास्त्र्यहोषितः स्नातः।
स्नानकुसुमानुलेपनवस्त्रैरभ्यर्चयेत् प्रतिमाम् ।।१५।।
मधुपर्केण पुरोधा भक्ष्यैर्बलिभिश्च विधिवदुपतिष्ठेत्।
स्थालीपाकं जुहुयाद्विधिवन्मन्त्रैश्च तल्लिङ्गैः ।।१६।।
देवता में विकृति को जानकर पवित्र, संयत, स्नान किया हुआ, तीन दिन तक व्रती
पुरोहित को विकारयुक्त देवताओं को स्नान, पुष्प, चन्दन, वस्त्र, दही मिला हुआ भोजन
पदार्थ और बलि आदि से विधिपूर्वक पूजन तथा स्थालीपाक ( चरु ) से तत्तद् देवता का
मन्त्र पढ़ते हुये अग्नि में हवन करना चाहिये।।१५-१६।।
देवविकारं सुरवैकृतं बुद्ध्वा ज्ञात्वा। पुरोहितः। शुचिः शौचयुक्तः। समाहितः संयतः।
स्नातश्च कृतस्नानः। त्र्यहोषितो दिनत्रयं कृतोपवासः। स्नानैः। कुसुमैश्च पुष्पैः। अनुलेपनैः
समालम्भनैः। वस्त्रैरम्बरैः प्रतिमामुत्पन्नविकारामभ्यर्चयेत् पूजयेत्।
पुरोधाः पुरोहितो मधुपर्केण दध्ना संयुक्तेन भक्ष्यैर्मोदकैर्लोपिकापूपादिभिर्बलिभिरुप-
हारैश्च विधिवद्विधानेनोपतिष्ठेत् पूजयेत् स्थालीपाकं चरुं तल्लिङ्गैस्तद्देवत्यैर्मन्त्रैर्विधिवद्विधाने-
नाग्नौ जुहुयात्।।१५-१६।।
अथ कालप्रमाणं शान्तिप्रभावं चाह—
इति विबुधविकारे शान्तयः सप्तरात्रं
द्विजविबुधगणार्चा गीतनृत्योत्सवाश्च।
विधिवदवनिपालैर्यैः प्रयुक्ता न तेषां
भवति दुरितपाको दक्षिणाभिश्च रुद्धः ।।१७।।
पूर्वोक्त देवविकार होने पर राजा सात रात्रि तक ब्राह्मण और देवताओं की पूजा, गीत,
नृत्य, रात्रि-जागरण आदि उत्सव करे। इस प्रकार जिन राजाओं द्वारा किया जाता है,
उनको पूर्वोक्त शान्ति और दक्षिणा से रुद्ध उत्पात का अनिष्ट फल नहीं होता।।१७।।
इत्यनेन विधानेन विबुधविकारे सुरविकृतौ सप्तरात्रं सप्ताहं शान्तयः कर्तव्याः।
द्विजातीनां ब्राह्मणानां विबुधानां देवानां गणानां गजवक्त्रप्रभृतीनाम्। अथवा द्विजगणानां
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

५२२ बृहत्संहिता
ब्राह्मणानां समूहानां विबुधगणानां देववृन्दानामर्चा पूजाः तथा गीतं नृत्यमुत्सवाश्च रात्रि-
जागरणं कार्यम्। एते यैरवनिपालै राजभिर्विधिवत्सम्यग्विधानेन प्रयुक्ताः कारिताः तेषां राज्ञां
दुरितपाक उत्पातानिष्टफलं न भवति। यतो दक्षिणाभिश्च रुद्धो निवारित इति।।१७।।
इति लिङ्गवैकृतम्
•
अथान्यानुत्पातानाह—
राष्ट्रे यस्यानग्निः प्रदीप्यते दीप्यते च नेन्धनवान्।
मनुजेश्वरस्य पीडा तस्य च राष्ट्रस्य विज्ञेया ।।१८।।
जिस राजा के राज्य में विना अग्नि की ज्वाला दिखाई दे और काष्ठयुत अग्नि
प्रज्ज्वलित न हो तो उस राजा और देश को पीड़ा होती है।।१८।।
यस्य मनुजेश्वरस्य राज्ञो राष्ट्रे जनपदे अनग्निः प्रदीप्यते विनाग्निना ज्वाला दृश्यते।
तथेन्धनवान् काष्ठयुक्तोऽग्निर्न दीप्यते न ज्वलति। यत्रैवं तत्र मनुजेश्वरस्य राज्ञस्तस्य च
राष्ट्रस्य देशस्य पीडा विज्ञेया ज्ञातव्या।।१८।।
अन्यदाह—
जलमांसार्द्रज्वलने नृपतिवधः प्रहरणे रणो रौद्रः।
सैन्यग्रामपुरेषु च नाशो वह्नेर्भयं कुरुते ॥१९॥
जल, मांस और गीली वस्तु में अकारण जलन उत्पन्न हो तो राजा की मृत्यु, खड्ग
आदि में जलन उत्पन्न हो तो भयंकर युद्ध और सेनाओं या नगर में अग्नि नहीं मिले तो
अग्नि का भय होता है।।१९।।
जलमुदकम्। मांसमामिषम्। आर्द्रमशुष्कं यत्किञ्चित्। एषां ज्वलने नृपतिवधो राज्ञो
मरणम्। प्रहरणे आयुधे खड्गादौ ज्वलिते रौद्रो घोरो रणः सङ्ग्रामः। सैन्ये सेनायाम्।
ग्रामे। पुरे च नगरे। एतेषु वह्नेरग्नेर्नाशोऽनुपलब्धिः। वह्निभयमग्निभीतिं कुरुते।।१९।।
अथान्यत्—
प्रासादभवनतोरणकेत्वादिष्वननलेन दग्धेषु।
तडिता वा षण्मासात् परचक्रस्यागमो नियमात् ॥२०॥
प्रासाद (देवगृह), घर, तोरण या ध्वज अग्नि के विना या बिजली से दग्ध हो
जायें तो छः मास बाद निश्चय ही दूसरे राजा की सेनाओं का आगमन होता है।।२०।।
प्रासादो देवगृहम्। भवनं वेश्म। तोरणं प्रसिद्धम्। केतुर्ध्वजः। आदिग्रहणात् कोष्ठा-
गारकुशूलादयः। एतेष्वननलेन विनाऽग्निना दग्धेषु। तडिता वा विद्युता वा दग्धेषु सत्सु
षण्मासात् षड्भिर्मासैः परतो नियमान्निश्चयात् परचक्रस्यान्यनृपसैन्यस्याऽऽगमो भवति।।२०।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

उत्पाताध्यायः ५२३
अथान्यत्—
धूमोऽनग्निसमुत्थो रजस्तमश्चाह्निजं महाभयदम् ।
व्यभ्रे निश्युडुनाशो दर्शनमपि चाह्नि दोषकरम् ॥२१॥
अग्नि के बिना धूम अथवा दिन में धूली या अन्धकार दिखाई दे तो अधिक भय
होता है तथा रात्रि के समय मेघरहित आकाश में नक्षत्रों का अदर्शन और दिन में दर्शन
हो तो अधिक भयकारी होता है॥२१॥
अनग्निसमुत्थो धूमो विनाग्निना यत्र धूमो दृश्यते। तथा अह्निजं दिनसम्भवं रजो
धूलिस्तमोऽन्धकारश्च तन्महाभयदं महद्भयं ददाति। तथा च गर्गः—
अनिशानि तमांसि स्युर्यदि वा पांशवो रजः।
धूमश्चानग्निना यत्र तत्र विन्द्यान्महद्भयम्॥ इति।
व्यभ्रे निश्युडुनाशः। निशायां रात्रौ व्यभ्रे विगतमेघे उडूनां नक्षत्राणां नाशोऽदर्शनम् तथा
सत्यादित्ये दिने नक्षत्राणां दर्शनम्। एतद्दोषकरम्। दोषान् करोति महाभयमित्यर्थः॥२१॥
अथान्यदाह—
नगरचतुष्पादण्डजमनुजानां भयकरं ज्वलनमाहुः ।
धूमाग्निविस्फुलिङ्गैः शय्याम्बरकेशगैर्मृत्युः ॥२२॥
नगर, पशु, पक्षी या मनुष्यों में अग्नि के बिना जलन पैदा हो तो अधिक भय-
कारी होता है। शय्या, वस्त्र या केशों में धूम, अग्नि की ज्वाला या अग्नि
की चिनगारियाँ दिखाई दें तो स्वामी की मृत्यु होती है।।२२।।
नगराणां पुराणाम्। चतुष्पदानां गवादीनाम्। अण्डजानां पक्षिणाम्। मनुष्याणां मनुजा-
नाम्। ज्वलनं सज्ज्वलत्वं महाभयकरमित्याहुरुक्तवन्तो मुनयः। शय्या आस्तरणम्।
अम्बरं वस्त्रम्। केशा मूर्धजाः। शय्याम्बरकेशगैर्धूमाग्निविस्फुलिङ्गैः, धूमः प्रसिद्धः। अग्नि-
र्ज्वलारूपः, विस्फुलिङ्गा अग्निकणाः, एतैर्दृष्टैस्तत्स्वामिनो मृत्युर्भवति। तथा च गर्गः—
शयनासनयानेषु केशप्रावरणेषु च।
दृश्यन्ते विस्फुलिङ्गा वा धूमो वा मरणाय तत्॥ इति॥२२॥
यथान्यत्—
आयुधज्वलनसर्पणस्वनाः कोशनिर्गमनवेपनानि वा ।
वैकृतानि यदि वायुधेऽपराण्याशु रौद्ररणसङ्कुलं वदेत् ॥२३॥
खड्ग आदियों में जलन उत्पन्न होना, उनका चलायमान होना, उनमें शब्द होना,
उनका म्यान से निकल आना अथवा शस्त्र में अन्य किसी प्रकार का विकार उत्पन्न
होना—ये सब शीघ्र ही राज्य में भयङ्कर संग्राम कराते हैं।।२३।।
आयुधानां खड्गादीनां ज्वलनम्। सर्पणं गमनम्। स्वनाः शब्दाः। एते यदि भवन्ति।
CC-0. JK Sanskrit Academy, Jammnu. Digitized by S3 Foundation USA

कोशः परिधारकस्तस्मान्निर्गमनं निष्क्रमणम्। वेपनं कम्पनम्। एतानि वा भवन्ति। अथवायुधे-
ऽपराण्यन्यानि वैकृतानि विकाराणि जल्पितहसितरुदितानि भवन्ति। तदाऽऽशु क्षिप्रमेव रौद्रं
रणसङ्कुलं क्रूरं युद्धं निकटवर्ति वदेद् ब्रूयात्। भयावहः सङ्ग्रामो भवतीत्यर्थः। ननु—
‘जलमांसाईज्वलने नृपतिबधः प्रहरणे रौद्रः’ इत्यस्य निदेशस्य—
आयुधज्वलनसर्पणस्वनाः केशनिर्गमनवेपनानि वा।
वैकृतानि यदि वायुधेऽपराण्याशु रौद्ररणसङ्कुलं वदेत्।।
इत्यनेन सह केचिद् द्विरुक्तिं चोदयन्ति, यथा यत्प्रहरणज्वलने फलमुक्तं तदेवायुध-
ज्वलने, न च प्रहरणानामायुधानां च भेदोऽस्तीति।
अत्रोच्यते, नग्नजिता चित्रलक्षणे आयुधानां त्रयो भेदा अभिहिताः—प्रहरणानि, पाणि-
मुक्तानि, यन्त्रमुक्तानि चेति। तत्र प्रहरणानि खड्गादीनि, पाणिमुक्तानि चक्रादीनि, यन्त्र-
मुक्तानि अश्मशराखण्डण्डाश्चेति। योऽयमायुध इति संज्ञा सर्वव्यापिनी। यस्मादायुधानामेते
प्रहरणादयो भेदाः। यद्यायुधनिर्देशेन प्राक् फलमभिधाय पश्चात् प्रहरणनिर्देशेन तदेव
फलनिर्देशं करोति तदा गतार्थत्वाद् द्विरुक्तिदोषः स्यात्। अथ पुनः प्राक् प्रहरणनिर्देशेन फलमुक्तं
पश्चादायुधनिर्देशेन प्रहरणनिर्देशेन च खड्गादीनामेव ग्रहणं

उत्पादताध्यायः ५२५
अथान्यानुत्पातानाह—
शाखाभङ्गेऽकस्माद्वृक्षाणां निर्दिशेद्रणोद्योगम्।
हसने देशभ्रंशं रुदिते च व्याधिबाहुल्यम्॥२५॥
अचानक वृक्ष की शाखा टूट जाने से युद्ध की तैयारियाँ, वृक्षों के हँसने से देश का
नाश और वृक्षों के रोने से व्याधि की अधिकता होती है॥२५॥
अकस्माद्वृक्षाणां शाखाभङ्गे शाखास्फोटने रणोद्योगं सङ्ग्रामविभ्रमं निर्दिशेद्वदेत्।
तथा वृक्षाणामेव हसने देशभ्रंशं देशविनाशम्। रुदिते च रोदने वृक्षाणामेव व्याधिबाहुल्यं
रोगप्राचुर्यम्॥२५॥
अथान्यदप्याह—
राष्ट्रविभेदस्त्वनृतौ बालवधोऽतीव कुसुमिते बाले।
वृक्षात् क्षीरस्रावे सर्वद्रव्यक्षयो भवति॥२६॥
ऋतुवर्जित काल में वृक्षों में पुष्प और फलों की उत्पत्ति होने से राज्य में विभेद,
छोटे वृक्ष में बहुत पुष्प आने से बालकों का नाश और वृक्षों से दूध निकलने पर द्रव्यों
का नाश होता है॥२६॥
वृक्षाणामनृतावृतुवर्जिते काले पुष्पफलोद्गमे सम्भवे राष्ट्रस्य विभेदो भवति। बाले
बालवृक्षे अतीव कुसुमिते सजातपुष्पे बालानां शिशूनां वधो मरणम्। तथा च गर्गः—
स्वराष्ट्रभेदं कुरुते फलपुष्पमनार्तवम्।
बालानां मरणं कुर्याद्द्वालानां फलपुष्पजम्॥ इति।
तथा वृक्षात् द्रुमात्क्षीरस्रावे दुग्धे स्रुते सर्वद्रव्याणां क्षयो विनाशो भवति॥२६॥
अन्यदप्याह—
मद्ये वाहननाशः संग्रामः शोणिते मधुनि रोगः।
स्नेहे दुर्भिक्षभयं महद्भयं निःस्रुते सलिले॥२७॥
वृक्ष से मद्य निकलने पर वाहनों ( अश्वादिकों ) का नाश, रक्त निकलने पर युद्ध,
शहद निकलने पर रोग, तेल निकलने पर दुर्भिक्ष का भय और वृक्ष से जल निकलने पर
अधिक भय होता है॥२७॥
वृक्षान्मद्ये निःस्रुते निर्गते वाहनानामश्वादीनां नाशः क्षयः। शोणिते रक्ते निःस्रुते
संग्रामो युद्धं भवति। मधुनि माक्षिके निःस्रुते रोगो भवति। स्नेहे तैलादिके निःस्रुते दुर्भिक्ष-
भयं भवति। सलिले जले निःस्रुते महदतुलं भयं भवति॥२७॥
अन्यदप्याह—
शुष्कविरोहे वीर्यग्निसंक्षयः शोषणे च विरुजानाम्।
पतितानामुत्थाने स्वयं भयं दैवजनितं च॥२८॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

५२६ बृहत्संहिता
सूखे हुये वृक्षों में विरोह (पुनः अङ्कुर) होने से बल और अन्न का नाश तथा गिरे
हुये वृक्षों के अपने-आप उठने से दैवजनित भय होता है।।२८।।
शुष्कविरोहे शुष्काणां नीरसानां वृक्षाणां विरोहे वीर्यान्नसंक्षय एव। पतितानां वृक्षाणां
स्वयमात्मनैवोत्थाने ऊर्ध्वस्थितौ दैवजनितं दैवोत्पन्नं भयं भवति। चशब्दः समुच्चये।
अन्यदप्याह—
पूजितवृक्षे ह्यनृतौ कुसुमफलं नृपवधाय निर्दिष्टम् ।
धूमस्तस्मिन् ज्वालाऽथवा भवेन्नृपवधायैव ॥२९॥
प्रधान वृक्ष में पुष्प और फलों की उत्पत्ति राजा के नाश के लिए और उस (प्रधान
वृक्ष) पर धूप या अग्नि की ज्वाला भी राजा के नाश के लिये ही होती है।।२९।।
पूजितवृक्षे प्रधानतरौ अनृतौ कुसुमफलं कुसुमानां फलानां चोद्गमो नृपस्य राज्ञो
वधाय नाशाय निर्दिष्टं कथितम्। अथवा तस्मिन् वृक्षे धूमो ज्वाला अथवा भवेत्तदा नृपवधा-
यैव राजमृत्यवे भवति।।२९।।
अन्यदप्याह—
सर्पत्सु तरुषु जल्पत्सु वापि जनसंक्षयो विनिर्दिष्टः ।
वृक्षाणां वैकृत्ये दशाभिर्मासैः फलविपाकः ।।३०।।
वृक्षों के चलने या उनसे किसी प्रकार के शब्द निकलने पर मनुष्यों का नाश होता
है। सभी वृक्षों के विकारजन्य फल दश मास में घटित होते हैं।।३०।।
तरुषु वृक्षेषु सर्पत्सु गच्छत्सु जल्पत्सु व्याहरत्सु वा जनानां लोकानां क्षयो विनाशो
विनिर्दिष्टः कथितः। वृक्षाणां सर्वेषां वैकृत्ये विकारे दशाभिर्मासैर्गतैः फलस्य विपाको
भवति।।३०।।
अत्र शान्तिमाह—
स्रग्गन्धधूपाम्बरपूजितस्य छत्रं विधायोपरि पादपस्य ।
कृत्वा शिवं रुद्रजपोऽत्र कार्यो रुद्रेभ्य इत्यत्र षडेव होमाः ॥३१॥
पायसेन मधुनापि भोजयेद् ब्राह्मणान् घृतयुतेन भूपतिः ।
मेदिनी निगदितात्र दक्षिणा वैकृते तरुकृते हितार्थिभिः ॥३२॥
इस उत्पात में सुगन्ध द्रव्य, धूप और वस्त्रों से पूजित विकारयुत वृक्ष के ऊपर छत्र
रखकर एकादश रुद्रों के मन्त्रों का जप करे। 'रुद्रेभ्यः स्वाहा' इस मन्त्र से केवल छः बार
हवन करे, घृतयुत पायस से ब्राह्मणों को भोजन करावे; साथ ही इस वृक्षविकारजन्य उत्पात
में प्राणियों के हितचिन्तक मुनियों ने दक्षिणा में पृथ्वी देने को कहा है।।३१-३२।।
पादपस्य वृक्षस्य स्रग्भिर्मालाभिः। गन्धैः सुगन्धद्रव्यैः। धूपैर्गुग्गुलप्रभृतिभिः। अम्बरै-
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

उत्पाताध्यायः ५२७

गन्धैः पूजितस्यार्चितस्योपरि मूर्ध्नि छत्रमातपत्रं विधाय दत्वा अत्रास्मिन्नुत्पातविषये रुद्राणां
मन्त्राणामेकादशरुद्राणामनुवाकानां जपः कार्यः। रुद्रेभ्यः स्वाहा इत्यत्र षडेव होमाः कार्याः।
एवं कृत्वा शिवं श्रेयो भवति। भूपती राजा पायसेन क्षीरिण्या आज्यमिश्रेण ब्राह्मणान्
द्विजान् भोजयेत्। अत्रास्मिंस्तरुकृते वृक्षजे वैकृते विकारे मधुना माक्षिकेण च घृतयुतेन
हितार्थिभिर्मुनिभिर्मेदिनी भूर्दक्षिणा निगदिता उक्ता।।३१-३२।।
इति वृक्षवैकृतम्
अथाव्यानप्युत्पातानाह—
नालेऽब्जयवादीनामेकस्मिन् द्वित्रिसम्भवो मरणम्।
कथयति तदधिपतीनां यमलं जातं च कुसुमफलम् ॥३३॥
कमल, जौ आदि ( गेहूँ और कौनी ) के एक नाल में दो या तीन बाल की उत्पत्ति
हो तो क्षेत्र के अधिपति का मरण होता है तथा यमल पुष्प या फलों की उत्पत्ति हो तो भी
उसके अधिपति का मरण होता है।।३३।।
अब्जानि पद्मादीनि। यवाः प्रसिद्धाः। आदिग्रहणाद् गोधूमप्रियङ्गुधान्यानि। एतेषामन्य-
तमस्यैकस्मिन्नाले द्वित्रिसम्भवो द्वौ त्रयो वा भवन्ति, तदा तदधिपतीनां तेषां यवादीनाम-
धिपतयः स्वामिनस्तेषां मरणं कथयत्याचष्टे। तथा यमलं द्विगुणितम्। द्विपुटादिवर्जं पद्मं
कुसुमं पुष्पं फलं च जातम् तदा तदधिपतीनां मरणमेव कथयति।।३३।।
अन्यदप्याह—
अतिवृद्धिः सस्यानां नानाफलकुसुमसम्भवो वृक्षे।
भवति हि यद्येकस्मिन् परचक्रस्यागमो नियमात् ॥३४॥
यदि धान्यों की अधिक वृद्धि तथा एक वृक्ष में अनेक प्रकार के फल और पुष्पों की
उत्पत्ति हो तो निश्चय ही परचक्र का आगम होता है।।३४।।
सस्यानामतीवात्यर्थं वृद्धिर्बाहुल्यम्। एकस्मिन् वृक्षे तरौ नानाविधानां बहुप्रकाराणां
फलानां कुसुमानां पुष्पाणां च सम्भव उत्पत्तिर्यद्येवं भवति, तदा नियमान्निश्चयात् परचक्रस्या-
ऽऽगमो भवति।।३४।।
अन्यदप्याह—
अर्धेन यदा तैलं भवति तिलानामतैलता वा स्यात्।
अन्नस्य च वैरस्यं तदा तु विन्द्याद् भयं सुमहत् ॥३५॥
यदि तिल के परिमाण से आधे तेल का परिमाण हो या तिल से बिलकुल तेल नहीं
निकलता हो और अन्न में विरसता मालूम हो तो अति भय होता है।।३५।।
तिलानामर्धेन यदा तैलं भवति यावत्प्रमाणं तैलं प्राप्तं तदर्धं भवतीत्यर्थः। अथवा

CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA