बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 1 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 569, कुल 728 में से
संदर्भ में पढ़ेंउत्पाताध्यायः ५२७
गन्धैः पूजितस्यार्चितस्योपरि मूर्ध्नि छत्रमातपत्रं विधाय दत्वा अत्रास्मिन्नुत्पातविषये रुद्राणां
मन्त्राणामेकादशरुद्राणामनुवाकानां जपः कार्यः। रुद्रेभ्यः स्वाहा इत्यत्र षडेव होमाः कार्याः।
एवं कृत्वा शिवं श्रेयो भवति। भूपती राजा पायसेन क्षीरिण्या आज्यमिश्रेण ब्राह्मणान्
द्विजान् भोजयेत्। अत्रास्मिंस्तरुकृते वृक्षजे वैकृते विकारे मधुना माक्षिकेण च घृतयुतेन
हितार्थिभिर्मुनिभिर्मेदिनी भूर्दक्षिणा निगदिता उक्ता।।३१-३२।।
इति वृक्षवैकृतम्
अथाव्यानप्युत्पातानाह—
नालेऽब्जयवादीनामेकस्मिन् द्वित्रिसम्भवो मरणम्।
कथयति तदधिपतीनां यमलं जातं च कुसुमफलम् ॥३३॥
कमल, जौ आदि ( गेहूँ और कौनी ) के एक नाल में दो या तीन बाल की उत्पत्ति
हो तो क्षेत्र के अधिपति का मरण होता है तथा यमल पुष्प या फलों की उत्पत्ति हो तो भी
उसके अधिपति का मरण होता है।।३३।।
अब्जानि पद्मादीनि। यवाः प्रसिद्धाः। आदिग्रहणाद् गोधूमप्रियङ्गुधान्यानि। एतेषामन्य-
तमस्यैकस्मिन्नाले द्वित्रिसम्भवो द्वौ त्रयो वा भवन्ति, तदा तदधिपतीनां तेषां यवादीनाम-
धिपतयः स्वामिनस्तेषां मरणं कथयत्याचष्टे। तथा यमलं द्विगुणितम्। द्विपुटादिवर्जं पद्मं
कुसुमं पुष्पं फलं च जातम् तदा तदधिपतीनां मरणमेव कथयति।।३३।।
अन्यदप्याह—
अतिवृद्धिः सस्यानां नानाफलकुसुमसम्भवो वृक्षे।
भवति हि यद्येकस्मिन् परचक्रस्यागमो नियमात् ॥३४॥
यदि धान्यों की अधिक वृद्धि तथा एक वृक्ष में अनेक प्रकार के फल और पुष्पों की
उत्पत्ति हो तो निश्चय ही परचक्र का आगम होता है।।३४।।
सस्यानामतीवात्यर्थं वृद्धिर्बाहुल्यम्। एकस्मिन् वृक्षे तरौ नानाविधानां बहुप्रकाराणां
फलानां कुसुमानां पुष्पाणां च सम्भव उत्पत्तिर्यद्येवं भवति, तदा नियमान्निश्चयात् परचक्रस्या-
ऽऽगमो भवति।।३४।।
अन्यदप्याह—
अर्धेन यदा तैलं भवति तिलानामतैलता वा स्यात्।
अन्नस्य च वैरस्यं तदा तु विन्द्याद् भयं सुमहत् ॥३५॥
यदि तिल के परिमाण से आधे तेल का परिमाण हो या तिल से बिलकुल तेल नहीं
निकलता हो और अन्न में विरसता मालूम हो तो अति भय होता है।।३५।।
तिलानामर्धेन यदा तैलं भवति यावत्प्रमाणं तैलं प्राप्तं तदर्धं भवतीत्यर्थः। अथवा
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA