बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 1 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 553, कुल 728 में से
संदर्भ में पढ़ेंखञ्जनकलक्षणाध्यायः ५११
स्थूलोऽभ्युन्नतकण्ठो यो भद्रः कृष्णगलः स्मृतः।
कृष्णमूर्धा गलान्तं यः स सम्पूर्ण इति स्मृतः।।
करटान्तौ सितौ यस्य कृष्णो बिन्दुर्गले तथा।
स रिक्त इति निर्दिष्टः पीतो गोपीतकः स्मृतः।।
नामानुरूपेण फलं विहगानां विनिर्दिशेत्।। इति।।२-३।।
अथ कस्मिन् स्थाने दृष्टः कीदृक् फलं करोतीत्याह—
अथ मधुरसुरभिफलकुसुमतरुषु सलिलाशयेषु पुण्येषु।
करितुरगभुजगमूर्ध्नि प्रासादोद्यानहर्म्येषु ।।४।।
गोगोष्ठसत्समागमयज्ञोत्सवपार्थिवद्विजसमीपे ।
हस्तितुरङ्गमशालाच्छत्रध्वजचामराद्येषु ।।५।।
हेमसमीपसिताम्बरकमलोत्पलपूजितोपलिप्तेषु ।
दधिपात्रधान्यकूटेष्बु च श्रियं खञ्जनः कुरुते ।।६।।
मधुर तथा सुगन्धयुत फल और फूलों से युत वृक्ष पर, पवित्र जलाशय में हाथी,
घोड़ा या सर्पों के मस्तक पर, देवालय, फुलवाड़ी या कोठे पर, गाय, गोठ, सज्जनों के
समागम स्थान, यज्ञ, विवाह आदि उत्सव स्थान, राजा या ब्राह्मणों के समीप, हाथी,
घोड़ा, छत्र, ध्वजा, चामर आदि पर, सुवर्ण के समीप, कमल, नीलकमल, पूजित और
लिपे हुये स्थान पर, दही के पात्र या धान्य के ढेर पर खञ्जन पक्षी दिखाई दे तो देखने
वाले का शुभ होता है।।४-६।।
अथैतेषु स्थानेषु दृष्टः खञ्जनकः श्रियं लक्ष्मीं कुरुते विदधाति। केषु, कथम्?
मधुरेति। अथशब्दः प्रकाराय। मधुराणि स्वादूनि। सुरभीणि सुगन्धीनि फलानि, कुसुमानि
पुष्पाणि येषु तरुषु वृक्षेषु। तथा पुण्येषु सलिलाशयेषु जलाधारेषु। तथा करिणां हस्ति-
नाम्, तुरङ्गाणामश्वानाम्, भुजगानां सर्पाणां मूर्धसु मस्तकेषु। तथामरप्रासादेषु देवगृहेषु।
उद्यानेषूपवनेषु। हर्म्येषु अट्टालिकासु।
तथा गोरुपरि। गोष्ठे गवां स्थाने। सतां साधूनां यत्र समागमः। यज्ञो यागः। उत्सवो
विवाहादि। पार्थिवो राजा। द्विजो ब्राह्मणः। एषां समीपे सन्निधौ। हस्तिशालासु गजशालासु।
अश्वशालासु। छत्रमातपत्रम्। ध्वजश्चिह्नविशेषः प्रसिद्धः। चामरं बालव्यजनम्। आदिग्रहणाद्
भृङ्गारकुम्भतालवृन्तादयः। एतेष्वपि।
तथा हेमसमीपे सुवर्णसन्निधौ। सिताम्बरं श्वेतवस्त्रम्। कमलं पद्मम्। उत्पलं नीलोत्पलम्।
पूजितेष्वर्चितेषु। उपलिप्तेषु संस्कृतेषु स्थानेषु। दधिपात्रे दधिभाजने। धान्यकूटे धान्यराशौ।
एतेष्विति।।४-६।।
अन्येष्वप्याह—
पङ्के स्वाद्वन्नाप्तिर्गोरससम्पच्च गोमयोपगते।
शाद्वलगे वस्त्राप्तिः शकटस्थे देशविभ्रंशः।।७।।
CC-0. JK Sanskrit Academy, Jammu. Digitized by S3 Foundation USA