सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

Brihat Samhita Vol 1 with Vimala Hindi Commentary

आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा

DevanagariHindipublished728 पृष्ठ

भौम-बुध-गुरु-शुक्र-शनि चाराध्याय एवं राहुचार (अध्याय ६-१२)

१०६ बृहत्संहिता
योऽसावसुर इति। योऽसावसुरः सैंहिकेयाख्यो राहुस्तस्य राहोर्ब्रह्मणा पितामहेन
वरोऽयमाज्ञप्तो दत्तः। यथापरागे ग्रहणेऽर्कचन्द्रयोर्दत्तहुतांशेन ग्रहणकाले यद्दानं दीयते यच्च
वह्नौ हूयते ततोऽसावंशो भागस्तेन दत्तहुतांशेन ते तव चाप्यायनं तर्पणं भविता भविष्यतीति।
तस्मिन् काले ग्रहणसमयेऽस्य राहोः सान्निध्यं सन्निहितत्वं कमलजवरप्रदानाद्भवति
तेन कारणेन लोके राहुरित्युपचर्यते कथ्यते। तेन भूच्छायाचन्द्रगोलौ द्वे स्थाने तस्य निवासार्थं
परिकल्पिते। तत्र स्थितत्वात् स एवाऽऽच्छादक इति सर्वत्र प्रसिद्धिः। गणिते तु पुनः
शशिगतिर्याम्योत्तरा दक्षिणसौम्यविक्षेपवशात्। स च दक्षिणसौम्यविक्षेप उत्पद्यते पातवशात्।
यतश्चन्द्रपात एव लोके राहुरिति प्रसिद्धः। भौमादीनां ताराग्रहाणामपि पाता विद्यन्ते। तेषा-
मपि तद्वशात्तद्विक्षेपो भवति। तेन याम्योत्तरा गतिर्ज्ञायते। किमयं ग्रहः क्रान्त्यग्रादुत्तरेण
विक्षिप्तः किं वा दक्षिणेनेति। एवं चन्द्रस्य याऽसौ दक्षिणोत्तरा गतिः पातवशात् सिध्यति,
सैवापि लोके राह्वर्थेनोपचर्यते व्यवस्थाप्यते। अपिशब्दो निश्चयार्थे। एतदुक्तं भवति—
चन्द्रविक्षेपज्ञानार्थं यश्चन्द्रपातः परिकल्पितः स एव लोके राहुरित्युच्यते। तथा च ब्रह्मसिद्धान्ते—
श्रुतिसंहितास्मृतीनां भवति यथैक्यं तदुक्तिरतः।
राहुस्तच्छादयति प्रविशति यच्छुक्लपञ्चदश्यन्ते।।
भूच्छायातमसीन्दुं वरप्रदानात् कमलजस्य।
चन्द्रोऽम्बुमयोऽधःस्थो यदग्निमयभास्करस्य मासान्ते।।
छादयति शमिततापं राहुश्छादयति तत्सवितुः।
भूच्छायाव्याससमः शशिकक्षायां स्थितः शशिग्रहणे।।
राहुश्छादयतीन्दुं सूर्यग्रहणेऽर्कमिन्दुसमः।
यत्तदधिकं तमोमयराहुव्यासस्य सूर्यदृष्टं तत्।।
नश्यति भूच्छायेन्दुव्याससमोऽस्माद्भवति राहुः।।
भूच्छाया नेन्दुमती ग्रहणे छादयति नार्कमिन्दुर्वा।
तत्स्थस्तद्व्याससमो राहुश्छादयति शशिसूर्यौ।। इति।। १४-१५।।
गर्गादिभिरुत्पातैर्ग्रहणज्ञाननिमित्तान्युक्तानि, तैर्

तद्वशेन यद्ग्रहणज्ञानमुक्तं तन्न शोभनम्। निमित्तानि ग्रहणकाल एव न सम्भवन्ति। अन्य-
स्मिन्नपि काले सम्भवन्ति। तत्र च तान्युत्पातरूपाणि गण्यन्ते, न ग्रहणकारणानीति। तथा
च पराशरः—
'तद्यथा—ग्रहणनिमित्तानि। चन्द्रमसस्तावत्प्रस्पन्दनं सव्यावृत्तिर्दैन्यं पाण्डुत्वं सतत-
परिवेषणं चिरोत्पादितज्योत्स्नाप्रभाभङ्गः क्षीणता क्षामता दक्षिणशृङ्गतैमिर्यैरितरस्यात्यर्थं
तुङ्गताविर्भावश्च।
आदित्यस्यापि वेपनं परिवेषणं दीनमन्दरश्मिता कृष्णकल्माषता। उभयोरपि सन्ध्य-
योश्चोल्कापातदिग्दाहभूमिकम्पाशनिवज्रनिर्घातस्तनयित्नुपांशुवृष्टिविषवातशीतोष्णविकृतानि।
वज्रकनकरजतमणीनां प्रभाभङ्गः। अभ्रलेखासन्दर्शनम्। अर्कमण्डलोत्थितायाः कृष्णराज्याः
सोमानुप्रवेशश्च। शिवाखगगणरुतविकृतनीचैरभ्रपरिसर्पणरश्मिजालव्याकुलत्वम्। तप्ताम्भसां
शीतता क्षीरिणां क्षीरक्षयः। अकस्मान्माल्यग्लानिः। पञ्चताराग्रहादिभी रोहिणीपीडनमिति
चन्द्रग्रहणेऽर्कविकृतिः।
'अर्कग्रहणे चन्द्रमसो बलवन्मध्यतनुनिमित्तहेतुकानि सर्वार्धाकिञ्चिद्ग्रहणेऽप्यानुपूर्व्या।
यतो निमित्तोत्पातस्ततः प्रग्रहणम्। यत एषामपसरणं ततो मोक्ष' इति।।१६।।
अथान्यद् दूषणमाह—
पञ्चग्रहसंयोगान्न किल ग्रहणस्य सम्भवो भवति ।
तैलं च जलेऽष्टम्यां न विचिन्त्यमिदं विपश्चिद्भिः ॥१७॥
किसी का मत है कि जिस अमा या पूर्णिमा में पाँच ग्रहों की संयुति हो, उसमें ग्रहण
का होना सम्भव नहीं कहना चाहिये तथा ग्रहण से पूर्व अष्टमी के दिन जल में तेल डालकर
स्पर्श-मोक्ष की दिशा का ज्ञान करना चाहिये अर्थात् ग्रहण से पूर्व अष्टमी के दिन जल में
तेल डालने पर वह तेल जिस तरफ फैले, उस तरफ स्पर्श और उसके दूसरी तरफ
मोक्षकाल समझना चाहिये।
परन्तु यह मत ठीक नहीं है; अतः पण्डितों को इसे अङ्गीकार नहीं करना चाहिये।।१७।।
किलेत्यागमसूचने शास्त्रान्तरेष्वेवमुक्तम्। यथा पञ्चानां ग्रहाणां संयोगात् समागमाद्
ग्रहणस्य सम्भवो न भवति। एतदुक्तं भवति—पौर्णमास्याममावास्यायां वा पञ्चग्रहसंयोगो यदि
भवति तदा ग्रहणाभाव इति। तथा च वृद्धगर्गः—
ग्रहपञ्चकसंयोगं दृष्ट्वा न ग्रहणं वदेत्।
यदि न स्याद् बुधस्तत्र तं दृष्ट्वा ग्रहणं वदेत्।।
एतदसत्। अत्रापि दिक्परिज्ञानार्थमाह—तैलं च जलेऽष्टम्यामिति सोमग्रहणं सूर्यग्रहणं
वा यदा भावि तदाष्टम्यां समीपवर्त्तिन्यां तिथौ जलमध्ये तैलं क्षिप्तं यस्यां दिशि तत्प्रस-
रति तस्यामेव दिशि ग्रहणं वक्तव्यम्। पुनरपि मोक्षार्थं भूयो जलमध्ये तैलं क्षिप्तं यस्या-
मेव दिशि न प्रसरति तस्यामेव मोक्षो वक्तव्यः। तथा च वृद्धगर्गः—

१०८ बृहत्संहिता
अष्टम्यां परिवेषः स्यात्तैले जलगते यदा।
प्रसारिते विजानीयाद्यतः खण्डस्ततस्तमः।। इति।
एतदप्यसत्। यतोऽन्यस्मिन् भाण्डगते जले तैलं क्षिप्तं किमन्यस्यां दिशि न प्रसरति।
अन्यत्र सर्वत्र प्रसरति तस्मात् सर्वमेव तदसत्। तथा च गर्गः—
दिग्दाहोल्कामहीकम्पतमोधूमरजांसि च।
सूचयन्त्यागमं राहोः पुनः पर्वण्युपस्थिते।।
तत्राष्टम्यां जले तैलं क्षिप्त्वा स्थानं विनिर्दिशेत्।
परिवेषो यतः खण्डस्तत्र ज्ञेयौ समागमौ।।
पञ्चग्रहसमायोगं दृष्ट्वा सौम्यविवर्जितम्।
ग्रहणं नु वदेत्तत्र सबुधं न ग्रहं वदेत्।।
तस्माद्विपश्चिद्भिः पण्डितैरिदं न विचिन्त्यं नाङ्गीकार्यं पञ्चग्रहसंयोगात्तैलं च जले-
ऽष्टम्यामिति।।१७।।
अथ ग्रहणे ग्रासप्रमाणं दिग्ज्ञानं वेलाज्ञानं चाह—
अवनत्याऽर्के ग्रासो दिग्ज्ञेया वलनयाऽवनत्या च।
तिथ्यवसानाद्वेला करणे कथितानि तानि मया ।।१८।।
अवनति (स्पष्ट शर) के द्वारा सूर्य का ग्रास, वलन और स्पष्ट शर के द्वारा परलेख
से दिशा और तिथि (अमावास्या) के अन्त से ग्रहणकाल का निश्चय करना चाहिये।।१८।।
अवनतिरिति स्फुटविक्षेपस्य नाम। तयाऽवनत्या तेन स्फुटविक्षेपेणार्के सूर्ये ग्रासो ज्ञेयः।
अत्यल्पे विक्षेपे महाग्रहणं महति विक्षेपेऽल्पमिति। चन्द्रार्कमानयोगादर्द्धादवनतिमपास्य शेषे
रविमानादधिके सर्वग्रहणमूने खण्डग्रहणमशुद्धे ग्रहणाभावः। एवमवनत्याऽर्के ग्रासो ज्ञेयः।
दिग् ज्ञेया वलनयाऽवनत्या च, अवनत्या तत्कालोत्पन्नयाऽवनत्या स्फुटविक्षेपेण च
परिलेखकरणेन प्रग्रहणादीनां दिग् ज्ञेया।
तिथ्यवसानाद्वेला, तिथेरमावास्याया योऽवसानोऽस्य हरिजसंस्कारेण मध्याह्नमप्राप्य
निवृत्तिमध्याह्नादूर्ध्वं वा तत्र मध्यग्रहणम्। तस्मिन्नेव प्राग्रहणीकं स्फुटस्थित्यर्द्धं संशोध्य
प्रग्रहणकालो भवति। तत्रैव मोक्षस्फुटस्थित्यर्द्धं संयोज्य मोक्षकालो भवति। एवं तिथ्य-
वसानाद्वेला। अत्रार्कग्रहणमुपलक्षणार्थम्। चन्द्रग्रहणेऽपि स्वोपकरणैः।
एतान्युपकरणानि करणे पञ्चसिद्धान्तिकायां मया कथितान्युक्तानीति। तथा च पञ्चसिद्धा-
न्तिकायाम्—
दिनमध्यमसम्प्राप्ता यावत्यो नाडिका व्यतीता वा।
ताभ्यः षड्गुणिताभ्यो ज्यात्रिंशांशस्तिथेर्नमम्।।
उदयात् प्रभृति च नाड्यो याः स्युः प्राग्लग्नमानयेत्ताभिः।
तस्मातु नवसमेतादपक्रमांशान् विनिश्चित्य।।

राहुचाराध्यायः १०८
लग्नत्र्यगुविवरज्यां द्विगुणां खरशांशसम्मतामपमात्।
जह्याद्दिग्व्यत्यासे विक्षेपैक्ये तयोर्योगः॥
उत्तरमक्षाच्छुद्धं याम्यं साक्षं च दक्षिणं विन्द्यात्।
उत्तरमक्षाद्यदधिकमुत्तरमेवं विजानीयात्॥
तज्ज्याघ्नीं शशिभुक्तिं हृत्वा धृतिभिः शतैः स्फुटाऽवनतिः।
मध्यममानं त्रिंशद्भानोः शशिनश्चतुस्त्रिंशत्॥
समलिप्तराहुविवरज्याभ्यस्ता मूर्च्छना नवहताश्च।
अवनत्या युतविश्लेषिता च दिक्षाम्यवैलोम्ये॥
मध्यममानाभ्यस्ता स्फुटभुक्तिर्मध्यभुक्तिभक्ता च।
भवति कलापरिमाणं तत्कालीनं रविहिमांश्वोः॥
अवनतिवर्गं जह्याद्रवीन्दुपरिमाणयोगदलवर्गात्।
तन्मूलात्तु द्विगुणात्तिथिभुक्तवदादिशेत् कालम्॥
रविशशिमानयुतिदलादवनतिहीनाद्भवन्ति या लिप्ताः।
तान्यङ्गुलानि विन्द्याद्भानोश्छन्नानि चन्द्रमसा॥
अर्द्धेनाऽऽलिख्य रविं दत्वावनतिं यथादिशं मध्यात्।
अवनत्यन्ताच्चन्द्रं विलिखेदग्रासार्थमर्द्धेन॥ इति।
एवमेव चन्द्रस्य स्वोपकरणैरुदाहार्यम्। तथा च—
तिथ्यन्ते ग्रहमध्यं प्राक्परतः स्थितिदलेन चाद्यन्तौ।
रक्तकपिलौ च वर्णावुच्चाधःस्थे परे नितराम्॥
सर्वग्रासिन्येवं वर्णविशेषं वदेन्निशानाथे।
उदयास्तमये धूम्रं खण्डग्रहणे सलिलदाभम्॥ इति।
एवं पञ्चग्रहसंयोगादित्यादि यदुक्तं तत्सर्वमसदिति॥१८॥
इदानीं कल्पादेः षण्मासोत्तरया वृद्ध्या सप्त पर्वाणि ब्रह्मादीनां भवन्ति। तेषां देवानां
नामानि चाह—
षण्मासोत्तरवृद्ध्या पर्वेशाः सप्त देवताः क्रमशः।
ब्रह्मशशीन्द्रकुबेरा वरुणाग्नियमाश्च विज्ञेयाः॥१९॥
कल्पादि से छः-छः मास की वृद्धि करके सात पर्वों के क्रमशः ब्रह्मा, चन्द्र, इन्द्र,
कुबेर, वरुण, अग्नि और यम—ये सात देवता होते हैं॥१९॥
कल्पादारभ्य षण्मासोत्तरया वृद्ध्या षड्भिः षड्भिर्मासैर्गतैः पर्व भवति। तानि च सप्त
पर्वाणि। तेषां पर्वाणां क्रमशः क्रमेण सप्तदेवता ब्रह्माद्याः। तद्यथा—ब्रह्मा कमलजः, शशी
चन्द्रः, इन्द्रः शक्रः, कुबेरो वैश्रवणः, वरुणो यादसाम्पतिः, अग्निर्वैश्वानरः, यमः पितृ-
पतिः—एते सप्त यथासंख्यं सप्तानां पर्वणामधिपतयो विज्ञेया विज्ञातव्याः। एतेषामा Cecयनं
गणितसिद्धम्। तथा च खण्डखाद्यके करणेऽस्मदीयं वचनम्—
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

११० बृहत्संहिता
दिनवृन्दात्खशर५०घ्नात् षण्णवरविभि१२९६र्भाजितादाप्तम्।
रामर्तुखेन्दु१०६३सहितं क्षिपेद् द्युवृन्दे भजेत्खधृतिभि१८०स्तत्॥
लब्धः कमलजपूर्वः पर्वगणः सप्तभाजितः शेषः।
गतगम्ये ते शून्यधृत्यूने चन्द्रसूर्यपर्व स्यात्॥
अत्र यल्लब्धं तदतीतं स्यात्ततः परं वर्तमानं भवति इति॥१९॥
अथ तेषां फलान्याह—
ब्राह्मे द्विजपशुवृद्धिः क्षेमारोग्याणि सस्यसम्पच्च।
तद्वत्सौम्ये तस्मिन् पीडा विदुषामवृष्टिश्च॥२०॥
ऐन्द्रे भूपविरोधः शारदसस्यक्षयो न च क्षेमम्।
कौबेरेऽर्थपतीनामर्थविनाशः सुभिक्षं च॥२१॥
वारुणमवनीशाशुभमन्येषां क्षेमसस्यवृद्धिकरम्।
आग्नेयं मित्राख्यं सस्यारोग्याभयाम्बुकरम्॥२२॥
याम्यं करोत्यवृष्टिं दुर्भिक्षं संक्षयं च सस्यानाम्।
यदतः परं तदशुभं क्षुन्मारावृष्टिदं पर्व॥२३॥
यदि ब्राह्मपर्व में ग्रहण हो तो ब्राह्मण और पशुओं की उन्नति, कुशल, आरोग्य तथा
धान्यों की वृद्धि होती है। चान्द्रपर्व में भी इसी तरह ब्राह्मण और पशुओं की उन्नति, कुशल,
आरोग्य, धान्यों की वृद्धि, पण्डितों को पीड़ा तथा अनावृष्टि होती है। ऐन्द्रपर्व में राजाओं
में विरोध, शारदीय धान्य का नाश और लोगों में अकुशल होता है। कौबेरपर्व में धनपतियों
के धन की क्षति और सुभिक्ष होता है। वारुणपर्व में राजाओं का अशुभ, दूसरे लोगों का
कुशल और धान्यों की वृद्धि होती है। आग्नेयपर्व को 'मित्र' भी कहते हैं; इसमें धान्य की
वृद्धि, आरोग्य, अभय और वृष्टि होती है। याम्यपर्व में वर्षा का अभाव, दुर्भिक्ष और धान्यों
का नाश होता है। इन सात पर्वों से भिन्न पर्व अशुभ फल देने वाले होते हैं। जैसे कि छः-
छः मास वृद्धि करके सात पर्वेश कहे गये हैं; इनमें किसी समय उत्पातवश पाँच, साढे
पाँच, साढे छः या सात मास आदि पर ही पर्व की उपस्थिति हो जाती है। ऐसी स्थिति में
पूर्वकथित ब्रह्मा आदि सात पर्व नहीं होते। इनसे अतिरिक्त पर्वों में दुर्भिक्ष, मरकी और
अनावृष्टि होती है॥२०-२३॥
ब्राह्मे द्विजपशुवृद्धिः क्षेमारोग्याणीति। ब्राह्मे पर्वणि द्विजानां ब्राह्मणादीनां पशूनां
चतुष्पदानां वृद्धिवर्द्धनम्, तथा क्षेमं लब्धपालनम्, आरोग्यं नीरोगत्वम्, एतानि भवन्ति।
सस्यानां च सम्पद्वृद्धिर्भवति।
तद्वत्सौम्य इति। सौम्ये पर्वणि चान्द्रे तद्वद् द्विजपशुवृद्धिक्षेमारोग्याणि भवन्ति। सस्य-
सम्पच्च भवति। तस्मिन् सौम्ये तु पुनर्विदुषां पण्डितानां पीडा। अवृष्टिरवर्षणं भवति।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

राहुचाराध्यायः १११
ऐन्द्रे भूपविरोध इति । ऐन्द्रे पर्वणि भूपानां राज्ञां परस्परं विरोधः कलहम्, तथा
शारदानां सस्यानां धान्यानां क्षयो विनाशः, लोके क्षेमं न च भवति। कौबेरे पर्वण्यर्थपतीना-
मीश्वराणामर्थविनाशो वित्तक्षयः सुभिक्षं च भवति।
वारुणमवनीशाशुभमिति। वारुणं नाम यत्पर्व तदवनीशानां राज्ञामशुभमश्रेयस्क-
रमन्येषां सर्वजनानां क्षेमकरं तथा सस्यानां वृद्धिकरं भवति।
आग्नेयं मित्राख्यमिति। आग्नेयस्य पर्वणो मित्राख्यमित्यपरं नाम तत्पर्व सस्यारोग्यकरं
सस्यानि करोति निष्पादयति, आरोग्यं च करोति। तथा अम्बु जलमभयं भयरहितं नाति-
बहुलं नात्यल्पं मध्यमं यथाकालोपयोगयं च करोति।
याम्यमिति । याम्यं पर्वावृष्टिमवर्षणं दुर्भिक्षं क्षुद्भयं सस्यानां च संक्षयं विनाशं करोति।
यदतः परमिति । अतोऽस्मात् पर्वसप्तकाद्यत्परमन्यत्पर्व तदशुभमनिष्टदम्।
षण्मासोत्तरवृद्ध्या पर्वेशा उक्ताः। तत्र कदाचिदुत्पातवशात् पञ्चभिर्मासैः सार्द्धैः
पञ्चभिर्वा षड्भिः सार्द्धैः सप्तभिर्वा पर्व भवति। तत्पर्व ब्राह्मादि न भवति। तच्च क्षुन्मारा-
वृष्टिदम्, क्षुद् दुर्भिक्षम्, मारं मरणम् अवृष्टिमवर्षणं च ददाति। तथा च पराशरः—
'शुक्लकृष्णाष्टमीपञ्चदश्योरन्तराद् ग्रहणनिमित्तानीन्दुभान्वोः प्रबलानि भवन्ति। तानि
च निशामय। षण्मासात् चन्द्रमसस्ततोऽर्द्धषष्ठेत्यादि चादित्यस्यापि पूजितमाहुराचार्याः।
सप्तदशत्रयोदशपञ्चत्रिंशन्मासिकानि चेन्दोस्त्रीणि विसन्धिग्रहणानि क्षुद्भयाधिमरकदुर्भिक्षोप-
द्रवाय वेदितव्यानि। एवमेवैतानि प्राकृतवैकृतग्रहणानि। अतः परं सप्तविधेः पर्वेशान् कथ-
यिष्यामः। ब्राह्मसौम्येन्द्रकौबेरवारुणाऽऽग्नेययाम्यनि षण्मासान्तरितानि सप्त भवन्ति।
तत्र ब्राह्मं सस्यजननं तद्वत्सौम्यम्। ऐन्द्रं भूपालविरोधाक्षेमदुर्भिक्षकरम्। कौबेरमीश्वराणा-
मैश्वर्यविनाशकरं क्षेमसस्यकृच्च। वारुणं वृष्टिसस्यक्षेमारोग्यकरम्। आग्नेयमन्नक्षयदम्।
दुर्भिक्षायाल्पवृष्टये याम्यं चे'ति। तथा च गर्गः—
चन्द्रात् पञ्चममासे तु मासे त्वेकादशे तथा।
सप्तादशे वा सूर्यस्य ग्रहणं क्षुद्भयाय तत्।। इति।।२०-२३।।
अथ वेलाहीनेऽतिवेले च पर्वणि फलमाह—
वेलाहीने पर्वणि गर्भविपत्तिश्च शस्त्रकोपश्च ।
अतिवेले कुसुमफलक्षयो भयं सस्यनाशश्च ॥२४॥
गणितागत ग्रहणकाल से पूर्व में या बाद में ग्रहण दिखलाई पड़े तो उसको क्रम से
वेलाहीन एवं अतिवेल ग्रहण कहते हैं। वेलाहीन पर्व में गर्भ ( गर्भलक्षण आगे कहेंगे )
का नाश, शस्त्रकोप (युद्ध ) और अतिवेल पर्व में पुष्प-फल का नाश, भय एवं धान्यों का
नाश होता है।।२४।।
गणिताऽऽगतप्रग्रहणात् पूर्वं यदि दृक्प्रग्रहणं दृश्यते तदा तत्पर्व वेलाहीनम्। अथ
गणिताऽऽगतप्रग्रहणकालात् पश्चाद् दृक्प्रग्रहणं भवति तदा तत्पर्वाऽतिवेलम्। वेलाहीने
CC-0. JK Sanskrit Academy, Jammmmu. Digitized by S3 Foundation USA

११२ बृहत्संहिता
पर्वणि गर्भाणां विपत्तिर्नाशो भवति। गर्भगर्भलक्षणमग्रतो वक्ष्यति। ते तत्र विज्ञेयाः। तथा
शस्त्रकोपे युद्धं च भवति।
अतिवेले पर्वणि कुसुमानां पुष्पाणां फलानां च क्षयो विनाशः। लोके भयं सस्यानां
नाशश्च भवति। तथा च गर्गः—
वेलाहीने शस्त्रभयं गर्भाणां स्रावणं तथा।
अतिवेलफलानां तु सस्यानां क्षयमादिशेत्।
दृक्समे पर्वणि नृपा निर्वैरा विगतज्वराः।
प्रजाश्च सुखिताः सर्वा भयरोगविवर्जिताः।
तथा च काश्यपः—
अनागतमतीतं वा ग्रहणे पर्व दृश्यते।
गर्भस्रावमनावृष्टिं फलं पुष्पं विनश्यति।। इति।।२४।।
एतन्मया पूर्वशास्त्राणि निरीक्ष्योक्तं न स्वमतेनेत्याह—
हीनातिरिक्तकाले फलमुक्तं पूर्वशास्त्रदृष्टत्वात्।
स्फुटगणितविदः कालः कथञ्चिदपि नान्यथा भवति॥२५॥
गणितागत ग्रहणकाल से भिन्नकालिक पर्व में जो फल मैंने कहे हैं, वे पूर्वशास्त्रानुसार
हैं; क्योंकि स्पष्ट गणित को जानने वाले दैवज्ञों के द्वारा साधित ग्रहणकाल अन्यथा नहीं हो
सकता। यतः देशान्तर कर्म के विना तिथिचलन नहीं होता—यह गणित को जानने वाले
ज्योतिषी लोग ही जान सकते हैं॥२५॥
हीनातिरिक्तकाले पर्वणि यन्मया फलमुक्तं कथितं तत्पूर्वशास्त्रदृष्टत्वात्। पूर्वशास्त्रेषु
भगवद्गर्गादिप्रणीतेषु दृष्टम्। यतः स्फुटगणितविदः स्फुटं गणितं वेत्ति जानातीति स्फुट-
गणितज्ञस्य कालः प्रग्रहणादीनां समयः कथञ्चिदप्यन्यथा न भवति। यतो देशान्तरकर्मणा
विना तिथिचलनं न भवति। तच्च गणितज्ञ एव जानाति। उक्तं च—
गणितप्रग्रहात् पश्चाद्यदि दृक्प्रग्रहो भवेत्।
स प्राग्देशोऽन्यथा पश्चाद्रेखायाः स च मेरुतः।।
उज्जयिन्यां गता यावल्लङ्कातो दक्षिणोत्तरा।
तदन्तर्घटिका भुक्तिवधात् षष्ट्या हृतात् फलम्।।
मध्ये धनमृणं पश्चात्प्राग्घटिका द्युगुणेऽथवा।
एवं संस्कृता ग्रहा दृक्समा भवन्तीत्यर्थः। पूर्वागमतः परीक्ष्योक्तम्। यथा—
ज्यौतिषमागमशास्त्रं विप्रतिपत्तौ न योग्यमस्माकम्।
स्वयमेव विकल्पयितुं किं तु बहूनां मतं वक्ष्ये।। इति।।२५।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

राहुचाराध्यायः ११३
अधुनैकमासे चन्द्रसूर्यग्रहणयोः फलमाह—
यद्येकस्मिन् मासे ग्रहणं रविसोमयोस्तदा क्षितिपाः ।
स्वबलक्षोभैः संक्षयमायान्त्यतिशस्त्रकोपश्च ॥२६॥
यदि एक ही मास में सूर्य-चन्द्र दोनों का ग्रहण हो तो अपनी-अपनी सेनाओं में
हलचली मच जाने से या शस्त्रप्रहार से राजाओं का नाश होता है।।२६।।
एकस्मिन् मासे रविसोमयोः सूर्याचन्द्रमसोर्यदि ग्रहणमुपरागो भवति, तदा क्षितिपा
राजानः स्वबलक्षोभैरात्मीयसैन्यानां क्षोभणैः संक्षयं विनाशामायान्ति प्राप्नुवन्ति। अति-
शस्त्रकोपोद्योगः संग्रामाश्च भवन्ति। तथा च काश्यपः—
चन्द्रार्कयोरेकमासे ग्रहणं न प्रशस्यते।
परस्परं वधं कुर्युः स्वबलक्षुभिता नृपाः।। इति।
नन्वत्रोक्तं यद्येकस्मिन् मासे ग्रहणं रविसोमयोरिति। तदत्र वक्ष्यमाणेन—
सोमग्रहे निवृत्ते पक्षान्ते यदि भवेद् ग्रहोऽर्कस्य।
तत्रामयः प्रजानां दम्पत्योर्वैरमन्योन्यम्।।
इत्यनेनैव सह पुनरुक्ततादोषः स्यात्। यस्माज्ज्योतिःशास्त्रे मासः शुक्लादिरुक्तः।
प्रथमपक्षान्ते सोमग्रहो द्वितीयपक्षान्तेऽमावास्यायामर्कग्रहात् तथैकमासः सञ्जायते तस्मादयं
महान् दोषः।
अन्य एवं व्याचक्षते—यथाधिकमास एवैतत्सम्भवति। यदि समाने मासाह्वये सूर्येन्द्वो-
र्ग्रहणं भवति तदैकमासोक्तफलमन्यत्र पक्षान्तरितग्रहणफलमर्केन्द्वोर्वक्तव्यम्। एतत् सत्य-
मौत्पातिकं भवति। यस्मादाचार्येणाऽऽदित्यचारे सूर्यस्योपरक्तस्यापर्वणि फलमुक्तम्—
सतमस्कं पर्व विना त्वष्टा नामार्कमण्डलं कुरुते।
स निहन्ति सप्त भूपान् जनांश्च शस्त्राग्निदुर्भिक्षैः।। इति।
तथा च व्यास आह—
ततो ववौ महाराज मारुतो लोमहर्षणः।
राहुरग्रसताऽऽदित्यं युगपत् सोममेव च।।
यद्येकस्मिन् मासे ग्रहणं रविसोमयोरित्यस्यामायामौत्पातिकं पर्व विना रविसोमयो-
रप्येकस्मिन्नेव मासे ग्रहणफलमुक्तम्। कुत एतल्लभ्यते। तथा च भगवान् व्यासः—
चन्द्रसूर्यावुभौ ग्रस्तावेकमासे त्रयोदशे।
अपर्वणि ग्रहावेतौ प्रजाः संक्षपयिष्यतः।। इति।
तथा च पराशरः—
अपर्वणि शशाङ्कार्कौ त्वष्टा नाम महाग्रहः।
आवृणोति तमःश्यामः सर्वलोकविपत्तये।।
बृ० सं० १५-A CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

११४ बृहत्संहिता
तथा च वृद्धगर्गः—
मासि त्रयोदशे दृश्यौ सोमार्कौ ग्रहणं गतौ।
छत्राण्यनेकानि तदा मृज्यन्ते भूमिपक्षये।।
सपुत्रदारा गच्छन्ति संग्रामे लोमहर्षणे।
अनेन वनितायाः स वैधव्यान्तरकरोऽधिकम्।।
कालशोकावहः पुंसां देशानेकविनाशनः।
स्वचक्रपरचक्रैश्च विनश्यन्ति बहुप्रजाः।। इति।
सोमग्रहे निवृत्ते पक्षान्ते यदि भवेद् ग्रहोऽर्कस्येत्यत्र पक्षान्ते मासान्ते पर्वनियममाह—
तस्मात् पुनरुक्ततादोषोऽन्यत्रावगम्यत इति।
अन्य एवं व्याचक्षते। यथा—कथमेकस्मिन् मासे रविसोमयोर्ग्रहणं स्याद् यावच्चैत्र-
सिताद्या मासा इति शास्त्रस्थितिः। अत्रोच्यते—यदि पञ्चदश्यां ग्रहणं भवति ततः पुरस्ता-
दमावास्यायामर्कग्रहणं भवति, तत्रागलम्बनमृणगतं भवति तदैको मासो भवति। अथवा
लम्बनं धनगतं भवति, ततः पुरस्तात् पौर्णमास्यां चन्द्रग्रहणं भवति। तत्राप्येको मासो
युज्यते नान्यथेति।
एवमत्राधिकमासके यदुक्तं तदेव शोभनमृषिवचनादेकमासे त्रयोदश इति।।२६।।
अथ ग्रस्तोदितयोर्ग्रस्तास्तयोश्चार्कचन्द्रयोः फलमाह—
ग्रस्तावुदितास्तमितौ शारदधान्यावनीश्वरक्षयदौ।
सर्वग्रस्तौ दुर्भिक्षमरकदौ पापसन्दृष्टौ ॥२७॥
यदि ग्रस्त चन्द्र-सूर्य का उदय या अस्त हो तो क्रम से शारदीय धान्य और राजा का
नाश करता है। आशय यह है कि ग्रस्त चन्द्र का उदय या अस्त हो तो शारदीय धान्य का
और ग्रस्त सूर्य का उदय या अस्त हो तो राजा का नाश होता है। सर्वग्रस्त चन्द्र-सूर्य यदि
पापग्रह से देखे जाते हों तो दुर्भिक्ष और मरकी देते हैं।।२७।।
ग्रस्तावुदितास्तमितावित्यत्र शशिरव्योः प्रत्येकस्य फलेन सह सम्बन्धः। चन्द्रो यदा
ग्रस्तोदितो ग्रस्तास्तमितो वा भवति तदा शारदधान्यस्य क्षयदो विनाशकर्ता भवति।
एवमर्को ग्रस्तोदितो ग्रस्तास्तमितश्चावनीश्वरस्य राज्ञः क्षयदो भवति। ननु सूर्येन्द्वोर्यथासंख्येन
कस्मात् फलं न सम्बध्यते। ग्रस्तोदितौ सूर्येन्दू शारदधान्यक्षयदौ ग्रस्तास्तमिताववनीश्वरक्षयदौ
भवत इति। अत्रोच्यते नैतद्युक्तम्। यस्माद्वृद्धगर्गः—
उद्गच्छति गृहीतश्चेदस्तं वा यदि गच्छति।
शारदं तु तदा सस्यं जातं जातं विपद्यते।।
ग्रैष्मेण तत्र जीवन्ति नरा मूलफलेन वा।
भयदुर्भिक्षरोगैश्च तदा सम्पिड्यते जगत्।। इति।

राहुचाराध्यायः ११५
तथा च ऋषिपुत्रः—
यावतोंऽशान् ग्रसित्वेन्दोरुदयत्यस्तमेति वा।
तावतोंऽशान् पृथिव्यास्तु तम एव विनाशयेत्।।
उदयेऽस्तमये वापि सूर्यस्य ग्रहणं भवेत्।
तदा नृपभयं विन्द्यात् परचक्रस्य चागमम्।।
तथा च—
चिरं गृह्णाति सोमार्को सर्वं वा ग्रसतं यदा।
हन्यात् स्फीतान् जनपदान् वरिष्ठांश्च जनाधिपान्।।
ग्रैष्मेण तत्र जीवन्ति नराश्चाम्बुफलेन वा।
भयदुर्भिक्षरोगैश्च सम्पीड्यन्ते प्रजास्तथा।। इति।
सर्वग्रस्ताविति। सूर्येन्दू सर्वग्रस्तौ निःशेषाच्छादितौ तावेव यदि पापसन्दृष्टौ
पापग्रहयोरङ्गारकसौरयोरन्यतरेण दृष्टौ भवतस्तदा दुर्भिक्षं मरकं च ददाते इति।।२७।।
अथोदयात् प्रभृत्यस्तमयं यावद् ग्रस्तयोश्चन्द्रार्कयोः सप्तस्वाकाशभागेषु फलं श्लोक-
चतुष्टयेनाह—
अर्द्धोदितोपरक्तो नैकृतिकान् हन्ति सर्वयज्ञांश्च।
अग्न्युपजीविगुणाधिकविप्राश्रमिणो युगेऽभ्युदितः ।।२८।।
कर्षकपाखण्डिवणिक्क्षत्रियबलनायकान् द्वितीयांशे।
कारूकशूद्रम्लेच्छान् खतृतीयांशे समन्त्रिजनान् ।।२९।।
मध्याह्ने नरपतिमध्यदेशहा शोभनश्च धान्यार्घः।
तृणभुगमात्यान्तःपुरवैश्यघ्नः पञ्चमे खांशे ।।३०।।
स्त्रीशूद्रान् षष्ठेऽंशे दस्युप्रत्यन्तहाऽस्तमयकाले।
यस्मिन् खांशे मोक्षस्तत्रोक्तानां शिवं भवति ।।३१।।
यदि अर्द्धोदित चन्द्र और सूर्य ग्रस्त होता हो तो निषाद जाति का और समस्त यज्ञों का
नाश करता है। दिनमान या रात्रिमान को सात जगह विभक्त करने पर युग का प्रथम आदि
खांश मान होता है।
इनमें प्रत्येक खांश मान में स्पर्श और मोक्ष होने पर फल यह होता है कि यदि युग
के प्रथम खांश में उदित चन्द्र या सूर्य ग्रस्त होता हो तो अग्नि से जीविका चलाने वाले,
गुणी, ब्राह्मण और आश्रमवासियों का नाश करता है। द्वितीय खांश में किसान, पाखण्डी,
व्यापारी, क्षत्रिय और सेनापति का नाश करता है। तृतीय खांश में चित्र बनाने वाले, शूद्र,
म्लेच्छ जाति और मन्त्रियों का नाश करता है। चतुर्थ खांश में राजा और मध्य देश का
नाश करता है तथा अन्नों के मूल्य में समानता करता है। पञ्चम खांश में चतुष्पद, मन्त्री,
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

११६ बृहत्संहिता
अन्तःपुर और वैश्यों का नाश करता है। षष्ठ खांश में स्त्री और शूद्रों का नाश करता है।
सप्तम खांश में (अस्तकाल में) चोर और गुहा में निवास करने वालों का नाश करता है।
जिस खांश में मोक्ष होता है, उस खांश में तत्तद्व्यक्तियों के लिये कथित अशुभ फल नहीं
होकर शुभ फल होता है॥२८-३१॥
चन्द्रोऽर्को वाऽर्द्धोदितो यद्युपरक्तो भवति ग्रस्त इत्यर्थः। तदा नैकृतिकान्त्रिषादान् सर्व-
यज्ञान् निःशेषान् यागांश्च हन्ति नाशयति। ग्राह्यादिनप्रमाणस्य सप्तभिर्भागमपहृत्य यल्लभ्यते
तच्छाखप्रमाणम्। अनेनाऽऽकाशमपि सप्तधाकृतं भवति—
स्पार्शिकं मौक्षिकं वान्यं कालं सप्तगुणं हरेत्।
दिनमानेन यल्लब्धं खांशमानं युगस्य तत्॥
एवं कृत्वा विचारयेत्। कस्मिन्नाकाशभागे प्रग्रहणं मोक्षो वा। तत्र यदाभ्युदित उद्गत
एव चन्द्रः सूर्यो वा युगे प्रथमभागे। प्रथमदिनसप्तभागे यद्यर्कस्य चन्द्रस्य ग्रहणं भवति
वा तदा स एवाकाशभागः प्रथम इत्यर्थः। तत्र ग्रस्तो दृश्यते तदाग्न्युपजीविनः सुवर्ण-
कारप्रभृतयः। गुणाधिका गुणिनः। विप्रा ब्राह्मणाः। आश्रमिरण आश्रमवासिनश्चैतान् हन्ति।
कर्षकाः कृषिकराः। पाखण्डिनो वेदबाह्याः। वणिजः क्रयविक्रयकारकाः। क्षत्रिया
राजन्याः। बलनायकाः सेनापतयः। एतान् द्वितीयांशे द्वितीयभागे निहन्ति।
कारुकाः शिल्पिनः। शूद्राः शूद्रजातयः। म्लेच्छा म्लेच्छजातयः। एतान् समन्त्रिजनान्
मन्त्रिजनैः सह तृतीयेंऽशे तृतीय आकाशविभागे निहन्ति।
तथा मध्याह्ने चतुर्थे खांशे नरपतिमध्यदेशहा नरपतिं राजानं मध्यदेशं च निहन्ति
मध्यदेशे यो राजा तमेव हन्ति। धान्यस्यार्घः शोभनो भवति सममर्घं धान्यं भवतीत्यर्थः।
तृणभुजश्चतुष्पदान्। अमात्यान् मन्त्रिणः। अन्तःपुराणि राजदारान्। वैश्यान् वैश्यजातीयांश्च
पञ्चमे खांशे आकाशभागे निहन्ति।
स्त्रीशूद्रानिति। स्त्रियो योषितः। शूद्राः शूद्रजातयः। एतान् षष्ठेंऽशे आकाशभागे
निहन्ति। दस्यवश्चौराः। प्रत्यन्ता गह्वरवासिनः। एतानस्तमयकाले निहन्ति। यस्मिन् खांशे
आकाशभागे मोक्षो भवति तत्रोक्तानामग्न्युपजीविप्रभृतीनां शिवं श्रेयो भवति। अथ यस्मि-
न्नंशे प्रग्रहस्तस्मिन् मोक्षस्तदा यदुक्तं फलं तन्न भवति शुभाशुभं समं स्यात्। तथा च
काश्यपः—
उदितास्तमितौ ग्रस्तौ सर्वसस्यक्षयङ्करौ।
सर्वं ग्रस्तौ यदा पश्येद्दुर्भिक्षं तत्र जायते॥
प्रथमांशे विप्रपीडा क्षत्रियाणां द्वितीयेके।
शूद्राणां च तृतीयेंऽशे चतुर्थे मध्यदेशिनाम्॥
वैश्यानां पञ्चमे खांशे षष्ठांशे प्रमदाभयम्।
दस्युप्रत्यन्तकम्लेच्छविनाशः सप्तमांशके॥
येषामंशे भवेन्मोक्षस्तज्जातानां शुभं भवेत्।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

राहूचाराध्यायः ११७
तथा च वृद्धगर्गः—
येषां सोमो युगे ग्रस्तो विमर्दो यत्र वा भवेत्।
तेषां पीडां विजानीयात् मोक्षे शुभमथादिशेत्।। इति।।२८-३१।।
अथायनफलं दिक्फलं चाह श्लोकत्रयेण—
द्विजनृपतीनुदगयने विट्शूद्रान् दक्षिणायने हन्ति।
राहुरुदगादिदृष्टः प्रदक्षिणं हन्ति विप्रादीन्॥३२॥
म्लेच्छान् विदिक्स्थितो यायिनश्च हन्याद्धुताशसक्तांश्च।
सलिलचरदन्तिघाती याम्येनोदग्गवामशुभः ॥३३॥
पूर्वेण सलिलपूर्णां करोति वसुधां समागतो दैत्यः।
पश्चात् कर्षकसेवकबीजविनाशाय निर्दिष्टः ॥३४॥
यदि उत्तरायण में चन्द्र या सूर्य का ग्रहण हो तो ब्राह्मण और क्षत्रियों का नाश करता
है। दक्षिणायन में वैश्य और शूद्रों का नाश करता है। प्रदक्षिणक्रम से उत्तर आदि दिशाओं
(उत्तर, पूर्व, दक्षिण और पश्चिम) में राहु दिखाई दे तो क्रम से ब्राह्मण आदि का नाश
करता है। जैसे—उत्तर में ब्राह्मण, पूर्व में क्षत्रिय, दक्षिण में वैश्य और पश्चिम में शूद्र का
नाश करता है। विदिशा (ईशान, आग्नेय, नैर्ऋत्य और वायव्य कोण) में स्थित राहु
म्लेच्छ जाति, यायी और अग्नि से जीविका चलाने वाले (अग्निहोत्री आदि) का नाश
करता है। दक्षिण, उत्तर, पूर्व और पश्चिम दिशाओं के लिये पुनः विशेष फल कह रहे हैं।
यदि दक्षिण में राहु दिखाई दे तो जलचर और हस्तियों का नाश करता है। उत्तर में दिखाई
दे तो गाय-बैलों का नाश करता है। पूर्व में दिखाई दे तो भूमि को जल से पूर्ण करता है
तथा पश्चिम में दिखाई दे तो किसान, भृत्य और बीजों का नाश करता है।३२-३४।।
मकरादिराशिशट्कस्थेऽर्के उत्तरमयनम्। कर्कटादिराशिशट्कस्थेऽर्के दक्षिणमयनमिति।
उदगयने उत्तरायणे राहुर्दृष्टो द्विजान् ब्राह्मणान् नृपतीन् क्षत्रियांश्च निहन्ति। तथा विट्शूद्रान्
वैश्यान् शूद्रांश्च दक्षिणायने हन्ति घातयति। तथा च गर्गः—
उत्तरायणसन्दृष्टो ब्रह्मक्षत्रविनाशनः।
दक्षिणायनगो राहुर्वैश्यशूद्रविनाशनः।।
राहुरुदगादिदृष्ट इति। उदगादिषूत्तराद्यासु चतसृषु दिक्षु प्रदक्षिणेन राहुर्दृष्टो विप्रादीन्
ब्राह्मणादीन् हन्ति। एतदुक्तं भवति—सूर्ये चन्द्रे वा यद्युत्तरस्यां दिशि राहुः प्रग्रहणं करोति
तदा ब्राह्मणान् हन्ति। पूर्वस्यां दृष्टः क्षत्रियान् निहन्ति। दक्षिणस्यां दृष्टो वैश्यान् हन्ति।
पश्चिमायां दृष्टः शूद्रान्निहन्ति। अत्र यद्यप्यर्कचन्द्रयोर्दक्षिणोत्तरदिग्भागात् प्रग्रहणं न सम्भवति,
तथाप्याचार्येण पूर्वशास्त्रदृष्टत्वात् कृतम्। तथा च काश्यपः—
सौम्यायामागतो विप्रान् पूर्वस्यां क्षत्रजातयः।
वैश्यान् दक्षिणतो राहुर्हन्ति पश्चिमतोऽपरान्।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

११८ बृहत्संहिता
तथा च पराशरः—'उदक्प्राग्दक्षिणप्रत्यग्ब्राह्मणक्षत्रियविट्शूद्रोच्छेदनायाऽऽनुपूर्व्या-
डपि च।'
म्लेच्छान् विदिकिस्थित इति । विदिकिस्थितो राहुः। ऐशान्याग्नेयनैर्ऋत्यवायव्येषु
स्थित इत्यर्थः। म्लेच्छान् म्लेच्छजनांस्तथा यायिनः प्रोद्यतान्। हुताशसक्तानग्निरतानग्नि-
होत्रिणो हन्यात्। दक्षिणोत्तरयोः पुनरपि विशेषमाह—सलिलचरेति। याम्येन दक्षिणेन दृष्टः
सलिलचरान् जलचरान् तथा दन्तिनो हस्तिनो घातयति हन्ति। उदगुत्तरेण दृष्टो गवामशुभः
क्षयकृत्।
अथ पूर्वपश्चिमयोर्दिशोः पुनरपि विशेषफलमाह— पूर्वेणेति । दैत्यो राहुः पूर्वेण पूर्व-
स्यां दिशि समागतो दृष्टो वसुधां भूमिं सलिलपूर्णां तोयपूर्णां करोति। पश्चादागतः कर्ष-
काणां कृषिकराणां सेवकानां पराऽऽराधनरतानां बीजानां च विनाशाय निर्दिष्ट उक्तः।
उप्यन्ते यानि तानि बीजानि। तथा च काश्यपः—
पूर्वे सलिलघाती स्यात् पश्चाद्धान्यकृषीवलान्।
याम्ये जलचरान् हन्ति सौम्ये गोनाशकः स्मृतः।।
म्लेच्छान् यायिनृपान् हन्ति विदिकस्थः सिंहिकासुतः।। इति।
तथा च समाससंहितायाम्—
उदगादिषु दिक्ष्वशुभो विप्रादीनां सितादिवर्णस्य।
विदिगादिगतो हन्याद्राहुम्लेंच्छान् सविजिगीषून्।।
द्विजराजन्यान् हन्यादुदगयने दक्षिणे तु विट्शूद्रान्।
समरामयाय राहूर्यदि पक्षान्ते पुनर्द्दश्यः।। इति।।३२-३४।।
अथ चन्द्रार्कयोर्मेषादिषु राशिषु ग्रस्तयोः फलान्याह—
पाञ्चालकलिङ्गशूरसेनाः काम्बोजोडूकिरातशस्त्रवार्ताः ।
जीवन्ति च ये हुताशवृत्त्या ते पीडामुपयान्ति मेषसंस्थे ।। ३५ ।।
मेष राशि में स्थित सूर्य या चन्द्र का ग्रहण होने पर पञ्जाब, कलिङ्ग, शूरसेन, कम्बोज,
औड्रदेश, किरात, शस्त्र से जीवनयात्रा चलाने वाले और अग्नि से जीविका चलाने वालों
को पीड़ित करता है।। ३५ ।।
पाञ्चालाः पाञ्चालजनाः, कलिङ्गाः, शूरसेनाः, काम्बोजाः, उड्राः, किराता—एते सर्वे
जनाः। तथा शस्त्रवार्ताः शस्त्रवृत्तयः शस्त्रं वर्तनं येषाम्। ये च हुताशवृत्त्या अग्निवृत्त्या
च जीवन्ति सुवर्णकारादयः । ते सर्वे पीडामुपयान्ति प्राप्नुवन्ति मेषसंस्थितेऽर्के चन्द्रे वा
ग्रस्ते।।३५।।
अथ वृष आह—
गोपाः पशवोऽथ गोमिनो मनुजा ये च महत्त्वमागताः ।
पीडामुपयान्ति भास्करे ग्रस्ते शीतकरेऽथवा वृषे ।।३६ ।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

राहुचाराध्यायः ११९
यदि वृष राशि में स्थित सूर्य या चन्द्र का ग्रहण हो तो वह गौ को पालन करने वालों
( अहीर आदियों ) , चतुष्पदों और पूजनीय मनुष्यों को पीड़ित करता है।।३६।।
गाः पान्ति रक्षन्तीति गोपाः। पशवश्चतुष्पदाः। गोमिनो गोमन्तो गावो विद्यन्ते येषां
ते। ज्योत्स्नातमिस्त्रेति गोमिन्शब्दः। ये च मनुजा मनुष्या महत्त्वमागताः पूज्यतां प्राप्तास्ते
सर्व एव भास्करे सूर्ये शीतकरे चन्द्रे वा वृषस्थे ग्रस्ते पीडामुपयान्ति प्राप्नुवन्ति।।३६।।
मिथुन आह—
मिथुने प्रवराङ्गना नृपा नृपमात्रा बलिनः कलाविदः ।
यमुनातटजाः सबाह्लिका मत्स्याः सुह्मजनैः समन्विताः ।।३७।।
यदि मिथुन राशि में स्थित सूर्य या चन्द्र या ग्रहण हो तो उत्तम स्त्री, राजा, नृपमात्र
( राजा के समान मन्त्री आदि ), प्राणधारी अन्य जीव, कलाओं ( चित्र, गीत, नृत्य और
वाद्य ) को जानने वाले, यमुना नदी के तट पर निवास करने वाले, बाह्लिक ( धीर मनुष्य,
‘बाह्लीकं वाह्लीकं धीरहिङ्गुनो’रिति मेदिनी ), मध्यदेश ( साकेता मिथिला चम्पा कौशाम्बी
कौशिकी तथा। अहिक्षेत्रं गया विन्ध्या मध्यदेशो हि कीर्तितः।। ) और सुह्म देश में निवास
करने वाले मनुष्यों को पीड़ित करता है।।३७।।
प्रवराङ्गनाः प्रधानस्त्रियः। नृपा राजानः। नृपमात्रा नृपसदृशा अमात्याः। बलिनः
प्राणिनः। कलाविदश्चित्रगीतनृत्यवाद्याभिज्ञाः। यमुना नदी तस्यास्तटे तीरे ये जातास्ते च
सबाह्लिका बाह्लिकैर्जनैः सहिताः। तथा मत्स्या जनास्ते च सुह्मजनैः समन्विताः सहिता
एते सर्व एव मिथुनस्थे सूर्ये चन्द्रे वा ग्रस्ते पीडामुपयान्ति।।३७।।
कर्कटक आह—
आभीराञ्छबरान् सपह्नवान् मल्लान् मत्स्यकुरूञ्छकानपि ।
पाञ्चालान् विकलांश्च पीडयत्यन्नं चापि निहन्ति कर्कटे ।।३८।।
यदि कर्क राशि में स्थित सूर्य का चन्द्र का ग्रहण हो तो आभीर ( अहीर, 'गोपे
गोपालगोसंख्यगोधुगाहीरबल्लवाः' इत्यमरः ) शबर ( म्लेच्छ जाति, 'भेदाः किरात-शबर-
पुलिन्दा म्लेच्छजातयः' इत्यमरः ), पह्नव ( दक्षिण देश का राजवंश ), बाहुयुद्ध जानने
वाले, मत्स्य, कुरु, शक, पञ्जाब—इन देशों में निवास करने वाले और अङ्गहीन मनुष्यों
को पीड़ित करता है।।३८।।
आभीरान् जनान्, शबरानपि जनांश्च, सपह्न गन् पह्नवैर्जनैः सहितान्, मल्लान् बाहु-
युद्धज्ञान्, मत्स्यान्, कुरूंश्च, शकानपि, पाञ्चालानपि, विकलानङ्गहीनान् एतान् सर्वानिव
जनान् पीडयत्युपतापयति तथाऽन्नं च निहन्ति धान्यमहर्घ्याधिक्यं भवतीति कर्कटे यद्यर्क-
चन्द्रौ ग्रस्तौ भवतः।।३८।।
सिंहकन्ययोराह—
सिंहे पुलिन्दगणमेकलसत्त्वयुक्तान्
राजोपमान्नरपतीन् वनगोचरांश्च ।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

१२० बृहत्संहिता
षष्ठे तु सस्यकविलेखकगेयसक्तान्
हन्त्यश्मकत्रिपुरशालियुतांश्च देशान् ॥३९॥
यदि सिंह राशि में स्थित सूर्य या चन्द्र का ग्रहण हो तो पुलिन्दों (म्लेच्छ जातियों)
का समूह, मेकल ( पर्वतविशेष ) में निवास करने वाले, बलवान जन्तु, राजा और राजा के
समान तथा वन में निवास करने वाले मनुष्य पीड़ित होते हैं। यदि कन्या राशि में स्थित
सूर्य या चन्द्र का ग्रहण हो तो धान्य, कवि, लेखक, गानविद्या जानने वाले, पत्थर से आजीविका
चलाने वाले, त्रिपुर नामक देश और धान्ययुत प्रदेश—इन सबों का नाश करता है।।३९।।
पुलिन्दा निषादा जनाः, गणाः समूहाः, मेकला जनाः, सत्त्वयुक्ताः सत्त्वप्रधानाः,
राजोपमा राजन्यतुल्या वित्तप्रतिपत्तियुक्ताः, नरपतयो राजानः, वनगोचरा वनमरण्यं
गोचरो विषयो येषां ते वनगोचरा वनवासिन इत्यर्थः। एतान् सिंहे हन्ति।
षष्ठ इति। सस्यानि प्रसिद्धानि, कवयः पण्डिताः, लेखका लेखज्ञाः, गेयसक्ता
गेयरताः, अश्मका जनाः, त्रिपुरा देशाः, शालियुता देशा येषु शालयो धान्यानि बहूनि
भवन्ति, एतान् सर्वान् षष्ठे कन्यायां हन्ति।।३९।।
अथ तुलावृश्चिकयोराह—
तुलाधरेऽवन्त्यपरान्त्यसाधूँन् वणिग्दशार्णान् मरुकच्छपांश्च।
अलिन्यथोदुम्बरमद्रचोलान् द्रुमान् सयौधेयविषायुधीयान् ॥४०॥
यदि तुला राशि में स्थित सूर्य या चन्द्र का ग्रहण हो तो अवन्तिदेश में निवास करने
वाले, पश्चिम समुद्र के निकट रहने वाले, सज्जन तथा व्यापारी, दशार्ण, मरु और कच्छ
देश में रहने वाले—इन सबों का नाश करता है। यदि वृश्चिक राशि में स्थित सूर्य या चन्द्र
का ग्रहण हो तो उदुम्बर, मद्र और चोल देश में निवास करने वाले मनुष्य, वृक्ष, युद्ध करने
वाले मनुष्य, कठोर शस्त्र धारण करने वाले—इन सबों का नाश करता है।।४०।।
अवन्ती आवन्त्या जनाः, अपरान्त्या जना एव, साधवः सज्जनाः, वणिजः किराटाः,
दशार्णा जना एतान् मरुकच्छपांश्च—एतान् सर्वान् तुलाधरे तुले हन्ति।
अलिन्यथेति। उदुम्बरा जनाः, मद्राः, चोला—एतानपि जनान्, द्रुमान् वृक्षान्, यौधे-
यान् जनान्, विषायुधीयान् विषमायुधं येषां तान् सह यौधेयैर्विषायुधीयान्—एतानलिनि
वृश्चिके हन्ति।।४०।।
अथ धनुर्मकरयोराह—
धन्विन्यमात्यवरवाजिविदेहमल्लान्
पाञ्चालवैद्यवणिजो विषमायुधज्ञान्।
हन्त्यान्मृगे तु झषमन्त्रिकुलानि नीचान्
मन्त्रौषधीषु कुशलान् स्थविरायुधीयान् ॥४१॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

राहुचाराध्यायः १२१
यदि धनु राशि में स्थित सूर्य या चन्द्र का ग्रहण हो तो मन्त्री, प्रधान मनुष्य, घोड़ा,
विदेह देश (मिथिला) में निवास करने वाले मनुष्य, बाहुयुद्ध करने वाले मनुष्य, पञ्जाब
देश में निवास करने वाले मनुष्य, वैद्य, व्यापारी, कठोर अस्त्र को चलाने वाले—इन सबों
का नाश करता है। यदि मकर राशि में स्थित सूर्य या चन्द्र का ग्रहण हो तो मछली,
मन्त्रियों का कुल, नीच कर्म करने वाले मनुष्य, मन्त्र और औषध को जानने वाले, वृद्ध,
शस्त्र से आजीविका चलाने वाले—इन सबों का नाश करता है।।४१।।
अमात्या मन्त्रिणः, वराः प्रधानाः, अथवाऽमात्यवराः प्रधानाः, वाजिनोऽश्वाः, विदेहा
जनाः, मल्ला बाहुयुद्धज्ञाः, पाञ्चाला जनाः, वैद्याः कायचिकित्सकाः, वणिजः क्रयविक्रयिणः,
विषमाः क्रूराः, आयुधज्ञा आयुधवेत्तार—एतान् धन्विनि हन्यात्।
हन्यान्मृगे त्विति। झषा मत्स्याः, मन्त्रिणश्चाणक्यविदः सचिवाः, कुलानि वंशाः
अथवा मन्त्रिणां सचिवानां कुलानि, नीचा अधमकर्मकराः—एतान् तथा मन्त्रौषधीषु च
कुशलान् मन्त्रेषु शैववैष्णवसौरैषु औषधीषु च कुशलान् शक्तान्, स्थविरान् वृद्धान्,
आयुधीयानायुधजीविन—एतान् मृगे मकरे हन्यात्।।४१।।
अथ कुम्भमीनयोराह—
कुम्भेऽन्तर्गिरिजान् सपश्चिमजनान् भारोद्वहांस्तस्करा-
नाभीरान् दरदाऽऽर्यसिंहपुरकान् हन्यात्तथा बर्बरान्।
मीने सागरकूलसागरजलद्रव्याणि वन्यान् जनान्
प्राज्ञान् वार्युपजीविनश्च भफलं कूर्मोपदेशाद्वदेत् ॥४२॥
यदि कुम्भ राशि में स्थित सूर्य या चन्द्र का ग्रहण हो तो पहाड़ी मनुष्य, पाश्चात्य देश
में रहने वाले मनुष्य, बोझा ढोने वाले, चोर, अहीर, दरद देश में रहने वाले, प्रधान मनुष्य,
सिंह नगर, बर्बर देश में रहने वाले मनुष्य—इन सबों का नाश करता है। यदि मीन राशि
में स्थित सूर्य या चन्द्र का ग्रहण हो तो समुद्र के तीर और जल में उत्पन्न हुये द्रव्य, जंगली
मनुष्य, बुद्धिमान, जल के विक्रय से जीवन-यात्रा चलाने वाले मनुष्य—इन सबों का नाश
करता है। नक्षत्र-फल कूर्म-विभाग के द्वारा कहना चाहिये, जैसे कि जिस नक्षत्र में सूर्य
या चन्द्र का ग्रहण हो, वह नक्षत्र कूर्म-विभाग से जिस देश में पड़े, उस देश में स्थित
मनुष्यों को पीड़ा होती है।।४२।।
अन्तर्मध्ये गिरौ पर्वते जाता अन्तर्गिरिजास्तान् पर्वतमध्यजातान् जनान् सपश्चिमजनान्
पश्चिमदिग्वासिभिर्जनैः सह। केचिदन्तर्गिरिजान् स पश्चिमानिति पठन्ति। गिरेरन्तरे जातान्
जनान् पश्चिमजनान् पश्चिमदिग्वासिनः। प्राक्पाठोऽत्र शोभनः। भारोद्वहान् भारवाहिनः, तस्क-
रान् चौरान्, आभीरान् जनान्, दरदान् जनानेव, आर्यान् प्रधानजनान्, सिंहपुरकान्, बर्बरान्
तथा तेनैव प्रकारेण एतान् सर्वान् कुम्भे हन्यात्।
सागरकूलं समुद्रतटम्। सागरजलद्रव्याणि समुद्रोत्पन्नानि द्रव्याणि रत्नादीनि। वन्यान्
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

१२२ बृहत्संहिता
वनभवान् जनान्, प्रज्ञान् बुद्धियुक्तान्, वायुपजीविनो जलोपजीविनः, उदकविक्रयेण जीवन्ति
ये एतान् मीने हन्यात्। भफलं नक्षत्रफलं कूर्मोपदेशात् कूर्मविभागकथितात् वदेद् ब्रूयात्।
यन्नक्षत्रस्थावर्कचन्द्रौ ग्रहणसमये भवतस्तन्नक्षत्रं कूर्मविभागेन यस्मिन् देशे उक्तं तज्जनानां
पीडा भवति। तच्च वक्ष्यति—
नक्षत्रत्रयवर्गैराग्नेयाद्यैर्व्यवस्थितैर्नवधा ।
भारतवर्षे मध्यात् प्रागादिविभाजिता देशाः।। इति।
तथा च पराशरः—
‘अथ कृत्तिकासु कलिङ्गानामधिपतीन् पीडयति। रोहिण्यां हृच्छस्त्रकोपैः प्रजानाम्,
मृगशिरसि सालनिषदकैकयान्, आर्द्रायां शुकान् कुकुरान् पल्वलोपजीविनश्च। पुनर्वसौ
पण्यान् रुरुकर्पासं च। पुष्ये गोमतिसिन्धुसौवीरकुरुपाञ्चालान्। सार्पे काशिकलिङ्गसिंह-
लकराजन्यान्। पित्र्ये दण्डकनिवासिनः पितृधान्यं च। भाग्ये सुभगान् काम्बोजान् सुराष्ट्रा-
धिपतींश्च। अर्यम्णे मगधान् यवनान्। हस्ते दशार्णान्। त्वाष्ट्रे मद्रान् कुरुक्षेत्रं च। वायव्ये
काश्मीरोशीनरान् वाजिनश्च। विशाखायां वृक्षाश्मकान्। मैत्रे काशिकोशलान्। ज्येष्ठायां
ज्येष्ठनृपतीन् दरदांश्च। मूले क्षुद्रमालवकयौधेयान्। आप्ये पञ्चनदान् सुवीरा

राहुचाराध्यायः १२३
होकर गमन करे तो राजा और चोरों को पीड़ित करते हुये प्रजा का नाश करता है।।४४।।
तमसि राहौ सव्यगते चन्द्रस्यार्कस्य वा दक्षिणभागगते जगज्जलप्लुतं वारिणा
प्लावितं मुदितं हृष्टमभयं भयरहितं च भवति। अपसव्ये वामभागगते राहौ नरपते
राज्ञस्तस्कराणां चौराणामवमर्दैः पीडनैः प्रजानाशः संक्षयो भवति।
अथ चन्द्रग्रहणे आग्नेय्यां राहोरगमनं सव्यः। ऐशान्यामपसव्यः। अर्कग्रहणे वायव्ये
सव्यो नैर्ऋत्यामपसव्य इति।।४४।।
अथ लेहस्याह—
जिह्वोपलेढि परितस्तिमिरनुदो मण्डलं यदि स लेहः।
प्रमुदितसमस्तभूता प्रभूततोया च तत्र मही॥४५॥
यदि सूर्य या चन्द्रबिम्ब को जिह्वा के समान राहु चाटता हो तो 'लेह' नाम का ग्रास
होता है। इसमें पृथ्वी हर्षित, सम्पूर्ण प्राणियों से युत और जलपूर्ण होती है॥४५॥
तिमिरनुदः। चन्द्रस्यार्कस्य वा तिमिरमन्धकारं नुदति प्रेरयतीति तिमिरनुदस्तस्य
परितः समन्ततो मण्डलं जिह्वोपलेढि, जिह्वया रसनयोपलीढमिव दृश्यते तथा स ग्रासो
लेह इति। तत्र तस्मिन् ग्रासे मही भूः प्रमुदितसमस्तभूता प्रकर्षेण मुदिता हर्षिताः समस्ता
भूता जना यस्यां तथा प्रभूततोया वारिबहुला च भवति॥४५॥
अथ ग्रसनस्याह—
ग्रसनमिति यदा त्र्यंशः पादो वा गृह्यतेऽथवाऽप्यर्द्धम्।
स्फीतनृपवित्तहानिः पीडा च स्फीतदेशानाम्॥४६॥
यदि सूर्य या चन्द्र के बिम्ब के तृतीयांश, चतुर्थांश या अर्द्धांश राहु से ग्रसित होता हो
तो 'ग्रसन' नामक ग्रास होता है। इसमें स्फीत ( बहुत ऐश्वर्यशाली ) नृप का धननाश होता
है तथा स्फीत देश में रहने वालों को पीड़ा होती है॥४६॥
त्र्यंशस्त्रिभागः। पादश्चतुर्भागः। अर्द्धं वा बिम्बार्द्धं गृह्यते तमसाऽऽच्छाद्यते तदा स
ग्रासो ग्रसनमिति। तस्मिन् ग्रासे स्फीतानामतिविभवयुक्तानां नृपाणां राज्ञां वित्तहानिर्धननाशो
भवति। तथा स्फीतानां सधनानां च देशानां पीडा भवति॥४६॥
अथ निरोधस्याह—
पर्यन्तेषु गृहीत्वा मध्ये पिण्डीकृतं तमस्तिष्ठेत्।
स निरोधो विज्ञेयः प्रमोदकृत् सर्वभूतानाम्॥४७॥
यदि सूर्य या चन्द्रमण्डल को चारो तरफ से ग्रसित कर राहु मध्य-प्रदेश में पिण्डाकार
होकर स्थित हो तो 'निरोध' नामक ग्रास होता है। यह भूमिस्थ सभी प्राणियों को आनन्द
देने वाला होता है॥४७॥
तमो राहुः पर्यन्तेषु गृहीत्वा समन्ततः सञ्छाद्य मध्ये मध्यभागे पिण्डीकृतं घनतरं
CC-0. JK Sanskrit Academy, Jammmu. Digitized, by S3 Foundation USA

१२४ बृहत्संहिता
भूत्वा यदि तिष्ठेत्तदा स ग्रासो निरोधसंज्ञो विज्ञेयो ज्ञातव्यः। स च सर्वभूतानां निःशेषप्राणिनां
प्रमोदकृत् हर्षकृत् ।।४७।।
अथावमर्दनमाह—
अवमर्दनमिति निःशेषमेव सञ्छाद्य यदि चिरं तिष्ठेत् ।
हन्यात् प्रधानभूपान् प्रधानदेशांश्च तिमिरमयः ।।४८।।
यदि सूर्य या चन्द्रमण्डल के सम्पूर्ण बिम्ब को ढककर राहु बहुत काल तक स्थिर रहे
तो ‘अवमर्द’ नामक ग्रास होता है। यह प्रधान राजा और देश का नाश करता है।।४८।।
तिमिरमयो राहुर्निःशेषं समग्रमेव मण्डलं सञ्छाद्य स्थगयित्वा यदि चिरं बहुकालं
तिष्ठेत् तदाऽवमर्दनं नाम ग्रासस्तेन ग्रासेन प्रधानभूपान् प्रधानानृपान् प्रधानांश्च देशान्
हन्याद् घातयेत्।।४८।।
अथाऽऽरोहणस्याह—
वृत्ते ग्रहे यदि तमस्तत्क्षणमावृत्य दृश्यते भूयः ।
आरोहणमित्यन्योऽन्यमर्दनैर्भयकरं राज्ञाम् ।।४९।।
यदि सूर्य या चन्द्र के ग्रहण के बाद उसी क्षण में पुनः राहु ( ग्रहण ) दिखाई दे तो
‘आरोहण’ नामक ग्रास होता है। यह राजाओं में परस्पर संघर्ष उत्पन्न कर भयंकर स्थिति
लाता है।
विशेष—यह आरोहण नामक ग्रास गणित से नहीं आ सकता। जब कभी अचानक
ऐसी स्थिति दृष्टिगोचर हो तो उसको उत्पातरूप ही समझना चाहिये। आचार्य ने पूर्व-
शास्त्रानुसार यह लक्षण यहाँ पर बताया है।।४९।।
ग्रहे ग्रहणे वृत्ते निवृत्तेऽतिक्रान्ते भूयः पुनर्यदि चेत्तमो राहुस्तत्क्षणमावृत्य पुनश्छादयन्
तिष्ठेत् तदाऽऽरोहणं नाम ग्रासः। तच्च राज्ञां नृपाणामन्योऽन्यमर्दनैः परस्परावमर्दनैर्भयं भीतिं
करोति। इतिशब्दः प्रकारार्थे। एतदौत्पातिकम्। यतो नोत्पद्यते गणितगोलवासनया। आचार्येण
पूर्वशास्त्रानुसारेणोक्तम् ।।४९।।
अथाऽऽघ्रातस्याह—
दर्पण इवैकदेशे सबाष्पनिःश्वासमारुतोपहतः ।
दृश्येताऽऽघ्रातं तत् सुवृष्टिवृद्ध्यावहं जगतः ।।५०।।
यदि वाष्पयुत निःश्वासवायु से मलिन दर्पण की तरह सूर्य या चन्द्रमण्डल का एक देश
दिखाई दे तो ‘आघ्रात’ नामक ग्रास होता है। यह वृष्टि और प्राणियों की वृद्धि करता है।।५०।।
दर्पण आदर्श इवैकदेशे एकस्मिन् स्थाने सबाष्पेण सोष्मणा निःश्वासमारुतेन श्वास-
वायुना चोपहतो दृश्येताऽवलोक्येत तदाऽऽघ्रातं नाम ग्रासः। तच्च जगतः सुवृष्टिवृद्ध्यावहं
शोभनां वृष्टिं वृद्धिं च वहति जगतो जनपदस्य।।५०।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

राहुचाराध्यायः १२५
अथ मध्यतमस आह—
मध्ये तमःप्रविष्टं वितमस्कं मण्डलं च यदि परितः ।
तन्मध्यदेशनाशं करोति कुक्ष्यामयभयं च ॥५१॥
यदि छाद्य बिम्ब का मध्य भाग राहु से ढका हो और चारो तरफ निर्मल हो तो
'मध्यतम' नामक ग्रास होता है। यह मध्यदेश का नाश और पेट की बीमारी उत्पन्न करता है।
विशेष—छाद्य ( सूर्य ) बिम्ब से छादक ( चन्द्र ) बिम्ब के अल्प होने के कारण
यह ग्रास सूर्यग्रहण में ही हो सकता है; जबकि छाद्य ( चन्द्र ) बिम्ब से छादक ( भूमा )
बिम्ब के अत्यधिक होने के कारण चन्द्रग्रहण में ऐसी स्थिति कभी नहीं हो सकती। अतः
सूर्यग्रहण वलयग्रहण और चन्द्रग्रहण खग्रास होता है॥५१॥
तमो राहुर्मध्येऽन्तर्यदि प्रविष्टो दृश्यते परितः समन्ततो मण्डलं वितमस्कं तमोरहितं
निर्मलं भवति तदा ग्रासो मध्यतमो नाम। तच्च मध्यदेशस्य नाशं विघातं करोति तथा
कुक्ष्यामयभयं कुक्षिरोगभयं च।
अस्य ग्रासस्य संस्थानमर्कग्रहण एव सम्भवति छादकस्येन्दोरल्पत्वात्। चन्द्रग्रहणे
छाद्यस्याल्पत्वाच्छादकस्य च भूच्छायाया महत्त्वात्र सम्भवति॥५१॥
अथ तमोऽन्त्याख्यस्याह—
पर्यन्तेष्वतिबहुलं स्वल्पं मध्ये तमस्तमोऽन्त्याख्ये ।
सस्यानामीतिभयं भयमस्मिंस्तस्कराणां च ॥५२॥
यदि सूर्य या चन्द्रमण्डल के प्रान्त भाग में अधिक और मध्य भाग में थोड़ा राहु
दृष्टिगोचर हो तो 'तमोऽन्त्य' नामक ग्रास होता है। इसमें धान्यों को ईति का और प्राणियों
को चोर का भय होता है॥५२॥
तमः पर्यन्तेषु बिम्बपरिध्यन्तर्भागेषु। अतिबहुलमतिघनं मध्ये मध्यभागे स्वल्पमत्यल्पं
दृश्यते तदा स ग्रासस्तमोऽन्त्याख्यो नाम। अस्मिंस्तमोऽन्त्याख्ये ग्रासे सस्यानामीतिभयं
भवति। ईतयः सस्योपद्रवाः। तथा च—
अतिवृष्टिरनावृष्टिर्मूषकाः शलभाः शुकाः।
अत्यासन्नाश्च राजानः षडेता ईतयः स्मृताः॥
आभ्यः सस्यानां भयं तथा तस्कराणां चौराणां भयं भवति। चौरकृता भीतिर्भवतीत्यर्थः।
तथा च पराशरः—
'तद्यथा—देशोपप्लवा ग्रसनारोहणोपघातोन्मर्दननिरोधपरिलेहनापसव्यसव्यान्तर्मध्यतम
उपप्लवाश्च। तत्रार्धत्रिभागग्रहणं ग्रसनं प्रख्यातनृपतिविप्रच्युताय। मण्डलमध्ये ग्रहावर्त-
नमारोहणं नरपतिक्षोभकरं प्रजानाशनम्। ईषद् ग्रहणमुपघातं जगद्धिताय। उन्मर्दनं चिरमर्केन्दु-
सकलमण्डलाक्रमणं प्रजाविद्रवकरम्। सर्वमण्डलधूमावरणं निरोधस्तदरोगक्षेमसुभिक्ष-
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA