सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

Brihat Samhita Vol 1 with Vimala Hindi Commentary

आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा

DevanagariHindipublished728 पृष्ठ

५०२ बृहत्संहिता
एवं प्रमाणं ज्ञात्वा तस्याः शुभाशुभलक्षणमाचार्येणैवोक्तम्—
वेदीशुभाशुभविधानविधौ प्रदिष्टा दिक्स्थानमानाभ्यधिका न हीना।
भ्रष्टा प्रमाणेन करोति भङ्गं दिग्वक्रसंस्था न च सिद्धिदा स्यात्।।
प्राग्भागहीना नगरस्य नेष्टा पुरोधसो दक्षिणभागवक्रा।
नरेन्द्रजायाशुभदा परस्यामुद्गबलेशस्य नृपस्य मध्ये।। इति।
तथा च काश्यपः—
अष्टमेऽह्नि पुरस्कृत्य राजा पौरजनैर्वृतः।
गच्छेच्छान्तिगृहं हृष्टः शङ्खतूर्यरवैः सह।। इति।।८।।
अथ सम्भाराणां लक्षणमाह—
चन्दनकुष्ठसमङ्गाहरितालमनःशिलाप्रियङ्गुवचाः ।
दन्त्यमृताञ्जनरजनीसुवर्णपुष्यग्निमन्थाश्च ।।९।।
श्वेतां सपूर्णकोशां कटम्भरात्रायमाणसहदेवीः ।
नागकुसुमं स्वगुप्तां शतावरीं सोमराजीं च ।।१०।।
कलशेष्वेताः कृत्वा सम्भारानुपहरेद्वलिं सम्यक् ।
भक्ष्यैर्नानाकारैर्मधुपायसयावकप्रचुरैः ।।११।।
चन्दन, कूठ, मञ्जीठ, हरिताल, मैनशिल, कंगनी ( कौन ), वच, गुरुच, अञ्जन,
हलदी, सुवर्णपुष्पी, अग्निमन्था ( अरणी ), श्वेता ( गिरिकर्णी = अपराजिता ), पूर्णकोशा,
महाश्वेता ( उजला गंगा फल ), त्रायमाण ( चिरायते का फल ), सहदेवी, नागपुष्प,
स्वगुप्ता ( क्यवाँच = कवाछ ), शतावरी, सोमवल्ली—इन सब ओषधियों को बराबर-
बराबर लेकर पूर्ण कलश में शहद, पायस देकर यावकों ( कुरथियों ) से युत अनेक
प्रकार के भक्ष्य पदार्थों के साथ बलि देना चाहिये।।९-११।।
चन्दनं मलयजम्। कुष्ठं प्रसिद्धम्। समङ्गा मञ्जिष्ठा। हरितालं प्रसिद्धम्। मनःशिला
प्रसिद्धैव। प्रियङ्गुर्गन्धप्रियङ्गुः। वचा प्रसिद्धैव। दन्ती प्रसिद्धैव। अमृता गुडूची। अञ्जनं
स्रोतोञ्जनं प्रसिद्धं सौभाञ्जनं वा। रजनी हरिद्रा। सुवर्णपुष्पी प्रसिद्धैव। अग्निमन्था तर्कारी।
श्वेता गिरिकर्णिका, तां च सपूर्णकोशां पूर्णकोशया सह। कटम्भरां महाश्वेताम्।
त्रायमाणं प्रसिद्धम्। सहदेवीं सहगन्धाम्। नागकुसुमं नागपुष्पम्। स्वगुप्तामात्मगुप्तां
कपिकच्छुमित्यर्थः। शतावरी प्रसिद्धा। सोमराजी सोमवल्ली।।
एताश्चौषधीः कलशेषु पूर्णघटेष्वभ्यन्तरे कृत्वा संस्थाप्य सम्भारानेतानेव ततः
सम्यग्यथाविधानेन बलिमुपहरेत् ढौकयेत्। भक्ष्यैर्मोदकैर्लोपिकापूपादिभिः। नानाकारैर्बहु-
विधैः। कीदृशैर्मधुपायसयावकप्रचुरैः। मधु माक्षिकम्। पायसं पयोविकारो यत्किञ्चित्क्षीर-
सम्भवम्। यावकं यावप्रकारः। एतैः प्रचुराः प्रभूता येषु तैः।।९-११।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

नीराजनाध्यायः ५०३
अन्यच्च—
खदिरपलाशोदुम्बरकाश्मर्यश्वत्थनिर्मिताः समिधः ।
स्रुक् कनकाद्रजताद्वा कर्तव्या भूतिकामेन ॥१२॥
खैर, ढाक, गूलर, गम्भारी और पीपल की लकड़ी की समिधा बनाकर सम्पत्ति की
इच्छा करने वाले राजा को सोना या चाँदी की स्रुवा बनानी चाहिये॥१२॥
खदिरः। पलाशः। उदुम्बरः। काश्मरी। अश्वत्थः। एते सर्व एव वृक्षविशेषा याज्ञिकाः
सुप्रसिद्धाः। एभ्यो निर्मिताः सम्भूताः समिधः कार्याः। तथा भूतिकामेन समृद्धिरिच्छता
स्रुक् कनकात् सुवर्णात् रजताद्वा कर्तव्या॥१२॥
ततः किं कुर्यादित्याह—
पूर्वाभिमुखः श्रीमान् वैयाघ्रे चर्मणि स्थितो राजा ।
तिष्ठेदनलसमीपे तुरगभिषग्दैववित्सहितः ॥१३॥
ब्याघ्र के चर्म पर पूर्वाभिमुख होकर अग्नि के समीप में वैद्य और ज्योतिषी के
साथ श्रीमान् राजा बैठे॥१३॥
राजा नृपः। श्रीमान् श्रीर्विद्यते यस्य। त्रिवर्गसमाश्रयः। श्रीमानित्यनेन राज्ञो महिमानं
दर्शयति। सकलप्रतिपत्तियुक्तस्तत्रस्थ इत्यर्थः। पूर्वाभिमुखः पूर्वस्यां दिशि निरीक्षमाणो
वैयाघ्रे व्याघ्रस्य चर्मणि स्थित उपविष्टः। अनलसमीपेऽग्निसन्निधौ तुरगभिषग्दैववित्सहितः,
तुरगभिषजा अश्ववैद्येन दैवविदा सांवत्सरिकेण सहितः संयुक्तस्तत्र तिष्ठेत्॥१३॥
अथ दैवविदा तत्र किं कार्यमित्याह—
यात्रायां यदभिहितं ग्रहयज्ञविधौ महेन्द्रकेतौ च ।
वेदीपुरोहितानललक्षणमस्मिंस्तदवधार्यम् ॥१४॥
यात्रा नामक पुस्तक के ग्रहयज्ञविधि में तथा इन्द्रध्वजलक्षणाध्याय में वेदी, पुरोहित
और अग्नि के जो लक्षण कहे हैं, वह इस नीराजनाध्याय में भी समझना चाहिये॥१४॥
वेद्या अग्न्यागारस्य। पुरोहितस्य हेतुः। अनलस्याग्नेः। लक्षणं यात्रायामभिहितं
कथितम्। क्व ग्रहयज्ञविधौ। ग्रहाणां यज्ञविधाने। तथा महेन्द्रकेताविन्द्रध्वजे च यदुक्तं
तदस्मिन्नीराजने अवधार्यं लक्षणीयमिति। तथा च यात्रायां ग्रहयज्ञे—
ग्रहयज्ञमतो वक्ष्ये तत्र निमित्तानि लक्षयेद्धेयाम्।
भङ्गो मानोनायां दिग्भ्रष्टायामसिद्धिborderश्च।।
नगरपुरोहितदेवीसेनापतिपार्थिवक्षयं कुरुते।
प्राग्दक्षिणापरोत्तरमध्यमभागेषु या विकला।।
तथा च पुरोहितस्य—
कम्पोच्छ्वासविजृम्भणप्रचलनस्वेदाश्रुपातक्षुधो-
द्वाराद्यं च पुरोधसः स्मृतिविपच्चानिष्टमन्यच्छुभम्।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

५०४ बृहत्संहिता
आज्यं केशापिपीलकामलयुतं सत्त्वावलीढं च य-
तन्नेष्टं शुभमन्यथोपकरणं द्रव्याण्यनूनानि च ।।
तथा चानललक्षणम्—
उत्थाय स्वयमुज्ज्वलार्चिरनलः स्वाहावसाने हवि-
र्भुङ्क्ते देवसुखप्रदक्षिणगतिः स्निग्धो महान् संहतः ।
निर्धूमः सुरभिः स्फुलिङ्गरहितो यात्रानुलोमो मृदु-
र्मुक्तेन्दीवरकाञ्चनद्युतिधरो वह्निः श्रियं यच्छति ।।
इष्टद्रव्यघतातपत्रतुरगश्रीवृक्षशैलाकृति-
र्भेर्यब्दोदधिदुन्दुभीशकटस्निग्धस्वनैः पूजितः ।
नेष्टः प्रोक्तविपर्यये हुतवहः स्निग्धोऽन्यथापीष्टदः
सव्येऽङ्गे नृपतेर्दहन्नतिहितः शेषं च लोकाद्वदेत् ।।
तथा महेन्द्रकेताविहैवोक्तम्—
स्वाहावसानसमये स्वयमुज्ज्वलार्चिः ।। इति ।। १४ ।।
ततः किं कुर्यादित्याह—
लक्षणयुक्तं तुरगं द्विरदवरं चैव दीक्षितं स्नातम् ।
अहतसिताम्बरगन्धस्रग्धूमाभ्यर्चितं कृत्वा ।। १५ ।।
आश्रमतोरणमूलं समुप नयेत् सान्त्वयन् शनैर्वाचा ।
वादित्रशङ्खपुण्याहनिःस्वनापूरितदिगन्तम् ।। १६ ।।
वक्ष्यमाण लक्षणों से युत घोड़ा और हाथी का अक्षत, श्वेत वस्त्र, माला, धूप आदि से
पूजन कर अनेक प्रकार के वाद्य और पुण्याह शब्दों से युत अपने आश्रम के समीपस्थित तोरण
के पास मधुर वाणियों से सान्त्वना देते हुए धीरे-धीरे लाना चाहिये ।। १५-१६ ।।
तुरगमश्वम् । द्विरदवरं हस्तिप्रधानं च । लक्षणयुक्तं तुरङ्गं वक्ष्यमाणैः शोभनैरश्वलक्षणै-
र्दीर्घग्रीवाक्षिकूट इत्यादिलक्षणैश्च युक्तम् । तथा द्विरदवरैर्हस्तिलक्षणैस्ताम्रोष्ठतालुवदना
इत्यादिकैश्च युक्तम्। दीक्षितं कृतदीक्षं च स्नातम् । अहतेनाक्षतेन सितेन शुक्लेनाम्बरेण
वस्त्रेण स्रग्भिर्मालाभिर्धूपैर्गुग्गुलुप्रभृतिभिरभ्यर्चितं पूजितं कृत्वा ।
तत आश्रमतोरणमूलम् स्वाश्रमसमीपे यत्तोरणं तन्मूलं तत्र वाचा गिरा सान्त्वयन्
शान्तिं कुर्वन् शनैः शनैर्मन्दं मन्दं समुप नयेत् प्रापयेत्। कीदृशं तोरणमूलम्? वादित्रशङ्ख-
पुण्याहनिःस्वनापूरितदिगन्तम्। वादित्राणां पटहमृदङ्गानां पुण्याहानां शुभशब्दानां निःस्वनैः
शब्दैरापूरिता जडीकृता दिगन्ता यत्र तथाभूतम् ।। १५-१६ ।।
अथाश्वगजयोश्चेष्टितमाह—
यद्यानीतस्तिष्ठेद्दक्षिणचरणं हयः समुत्क्षिप्य ।
स जयति तदा नरेन्द्रः शत्रून्नचिराद्विना यत्नात् ।। १७ ।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

नीराजनाध्यायः ५०५
त्रस्यन्नेष्टो राज्ञः परिशेषं चेष्टितं द्विपहयानाम्।
यात्रायां व्याख्यातं तदिह विचिन्त्यं यथायुक्ति ॥१८॥
जिस राजा के द्वारा लाया गया घोड़ा दक्षिण चरण उठाकर खड़ा रहे, वह राजा
शीघ्र ही विना परिश्रम शत्रु को जीत लेता है। यदि घोड़ा डर जाय तो राजा का शुभ नहीं
होता। यहाँ घोड़ा का ग्रहण उपलक्षणमात्र है, अतः घोड़े की जगह हाथी को भी लेना
चाहिये। हाथी और घोड़े की शेष चेष्टाओं का फल 'यात्रा' नामक ग्रन्थ में जिस प्रकार
मैंने कहा है, उसी प्रकार युक्तिपूर्वक यहाँ पर भी विचार करना चाहिये ।।१७-१८।।
यद्यानीत इति । अत्र हयग्रहणमुपलक्षणार्थम्। तेन हयोऽश्वो द्विरदवरो वा हस्ती
यद्यानीतस्तत्र दक्षिणचरणं दक्षिणपादं समुत्क्षिप्य तिष्ठेत्, तदा स नरेन्द्रो राजा शत्रून्
रिपूनचिराच्छीघ्रमेव विना यत्नात् प्रयत्नं विना अनुद्यमेनैव जयति।
त्रस्यन्नुद्विजन् राज्ञो नृपस्य नेष्टो न शुभः। परिशेषमन्यच्चेष्टितं शुभाशुभसूचकं
द्विपहयानां हस्त्यश्वानां यात्रायां व्याख्यातं कथितम्। तथा च—
मुहुर्मुहुर्मूत्रशकृत् करोति न ताड्यमानोऽप्यनुलोमयायी।
अकार्यभीतोऽश्रुविलोचनश्च शिवं न भर्तुस्तुरगोऽभिधत्ते ।।
आरोहति क्षितिपतौ विनयोपपन्नो
यात्रानुगोऽन्यतुरगं प्रति हेषते च।
वक्त्रेण वा स्पृशति दक्षिणमात्मपार्श्वं
योऽश्वः स भर्तुरचिरात् प्रतनोति लक्ष्मीम्।। इत्यादि।
तथा च गजस्य—
स्खलितगतिरकस्मात् त्रस्तकर्णोऽतिदीनः
श्वसिति मृदु सुदीर्घं न्यस्तहस्तः पृथिव्याम्।
द्रुतमुकुलितदृष्टिः स्वप्नशीलो विलोमो
भयकृदहितभक्षी नैकशोऽसृक् शकृच्च।।
वल्मीकस्थाणुगुल्मक्षुपतरुमथनः स्वेच्छया हृष्टदृष्टि-
र्यायाद्यात्रानुलोमं त्वरितपदगतिर्वक्रमुन्नाम्य चोच्चैः।
कक्ष्यासन्नाहकाले जनयति च मुहुः शीकरं बृंहितं वा
तत्कालं वा मदाप्तिर्जयकृदथ रदं वेष्टयन् दक्षिणं वा।।
एवमादिकं यदुक्तं तदिहास्मिन्नीराजने यथायुक्ति यथासम्भवं विचिन्त्यं विचार्यम्।
यत्सम्भवति तच्चिन्तनीयमित्यर्थः।
'प्रद्वेषो यवसाम्भसां प्रपतनम्' इत्यादिकमश्वस्य सम्भवति। तथा गजस्य—
क्षीरवृक्षफलपुष्पपादपेष्वापगातटविघट्टितेन वा।
वाममध्यरदभङ्गखण्डनम्................................................... ।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

५०६ बृहत्संहिता
इत्यादिना सम्भवति।। इति ।।१७-१८।।
ततः किं कुर्यादित्याह—
पिण्डमभिमन्त्र्य दद्यात् पुरोहितो वाजिने स यदि जिघ्रेत् ।
अशनीयाद्वा जयकृद्विपरीतोऽतोऽन्यथाभिहितः ।।१९।।
पुरोहित अन्न के पिण्ड को अभिमन्त्रित करके घोड़े को दे दे। यदि घोड़ा उस अन्न
के पिण्ड को सूँघे या कुछ खा जाय तो राजा की विजय करने वाला, अन्यथा पराजय
करने वाला होता है।।१९।।
पुरोहित आचार्यों वाजिने अश्वाय पिण्डमन्नपिण्डमभिमन्त्र्य दद्यात् प्रयच्छेत्। सोऽश्वो
यदि तत् पिण्डं जिघ्रेत् किञ्चिदशनीयाद् भक्षयेद् वा, तदा जयकृत्, राज्ञां जयं करोति। अतो-
ऽन्यथा यदि न जिघ्रन्नपि भक्षयेत्, तदा विपरीतोऽभिहितः पराजयकृदुक्त इति ।।१९।।
अथ नीराजनमाह—
कलशोदकेषु शाखामाप्लाव्यौदुम्बरीं स्पृशेत् तुरगान् ।
शान्तिकपौष्टिकमन्त्रैरेवं सेनां सनृपनागाम् ।।२०।।
गूलर की एक छोटी-सी डाली को कलशजल में डुबाकर शान्तिक और पौष्टिक
मन्त्रों से घोड़ा, राजा, हाथी और सेनाओं को स्पर्श ( सिक्त ) करे।।२०।।
कलशोदकेषु कलशस्थजलेषु प्राक्स्थापितेष्वोषधिमिश्रितेष्वौदुम्बरीमुदुम्बरवृक्षसम्भवां
शाखां लतामाप्लाव्य मज्जयित्वा तया तुरगान् अश्वान् स्पृशेत्। शान्तिकैः पौष्टिकैश्च
मन्त्रैः सह। एवमनेन प्रकारेण सनृपनागां सेनां स्पृशेत्। नृपो राजा। नागा हस्तिनः। तत्संयुक्तां
चमूं स्पृशेत् ।।२०।।
ततः किं कुर्यादित्याह—
शान्तिं राष्ट्रविवृद्ध्यै कृत्वा भूयोऽभिचारकैर्मन्त्रैः ।
मृण्मयमरिं विभिन्द्याच्छूलेनोरःस्थले विप्रः ।।२१।।
फिर ब्राह्मण राष्ट्र की वृद्धि के लिये शान्ति करके अभिचार कर्म में उक्त आथर्वण
मन्त्रों को पढ़कर मिट्टी की बनाई हुई शत्रु की मूर्ति के वक्षःस्थल को तीक्ष्ण शूल से
फाड़े।।२१।।
भूयः पुना राष्ट्रविवृद्ध्यै राष्ट्रसंवर्धनाय शान्तिं कृत्वा ततोऽभिचारकैर्मन्त्रैः, अभिचार-
कर्मणि ये मन्त्रा आथर्वणा उक्तास्तैर्मन्त्रैर्मृण्मयं मृत्तिकारचितमरिं शत्रुमुरःस्थले वक्षःप्रदेशे
विप्रो ब्राह्मणः शूलेनाग्रतीक्ष्णेन काष्ठेन विभिन्द्याद् विदारयेत् ।।२१।।
ततः किं कुर्यादित्याह—
खलिनं हयाय दद्यादभिमन्त्र्य पुरोहितस्ततो राजा ।
आरुह्योदक्पूर्वां यायान्नीराजितः सबलः ।।२२।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

नीराजनाध्यायः ५०७
बाद में पुरोहित खलीन ( लगाम ) को अभिमन्त्रित करके घोड़े के मुख में दे।
फिर उस पर नीराजन किया हुआ राजा बैठकर सेनाओं के साथ ईशान कोण की ओर
गमन करे।।२२।।
ततोऽनन्तरं पुरोहितः खलिनं कविकामभिमन्त्र्य मन्त्रयित्वा हयायाश्वाय दद्यात् प्रयच्छेत्।
तस्मिन् नृप आरुह्य नीराजितः सबलो बलसहितः सेनासहित उदक्पूर्वामैशानीं यायाद्
गच्छेत्।।२२।।
कथं राजा गच्छेदित्याह—
मृदङ्गशङ्खध्वनिहृष्टकुञ्जरस्रवन्मदामोदसुगन्धमारुतः ।
शिरोमणिप्रान्तचलत्प्रभाचयैर्ज्वलन् विवस्वानिव तोयदात्यये ॥२३॥
हंसपङ्क्तिभिरितस्ततोऽद्रिराट् सम्पतद्भिरिव शुक्लचामरैः ।
मृष्टगन्धपवनानुवाहिभिर्धूयमानरुचिरस्रगम्बरः ॥२४॥
नैकवर्णमणिवज्रभूषितैर्भूषितो मुकुटकुण्डलाङ्गदैः ।
भूरिरत्नकिरणानुरञ्जितः शक्रकार्मुकरुचिं समुद्वहन् ॥२५॥
उत्पतद्भिरिव खं तुरङ्गमैर्दारयद्भिरिव दन्तिभिर्धराम्।
निर्जितारिभिरिवामरैर्नरैः शक्रवत् परिवृतो व्रजेन्नृपः ॥२६॥
मृदङ्ग और शङ्ख की ध्वनि से हर्षित होकर हाथियों के झरते हुये मदजलों की सुगन्धि
से युत वायु वाला ( क्योंकि शरद् ऋतु में सुगन्धित वायु चलती है ) और मुकुट में जड़ी
हुई मणियों के प्रान्त भाग में चलित किरणों से युत शारदीय सूर्य की तरह ( क्योंकि शरद्
ऋतु में सूर्य तेजस्वी होते हैं ) राजा अथवा सुगन्धित वायु को सेवन करने वाले शुक्ल
चामरों से कम्पमान सुन्दर माला और वस्त्र वाले मानों हंसपंक्तियों से व्याप्त और सुगन्धियुत
वायुओं से युत हिमालय की तरह राजा अथवा अनेक वर्ण वाले रत्न तथा हीरों से व्याप्त
मुकुट, कुण्डल और बाजू से भूषित होने के कारण इन्द्रधनु की कान्ति धारण किया हुआ
राजा अथवा उड़ते हुये घोड़े, पृथ्वी को विदारण करते हुये हाथी और शत्रु को जीतने वाले
मनुष्यों के साथ मानो देवताओं से घिरे हुये इन्द्र के समान राजा गमन करे।।२३-२६।।
मृदङ्गेति । नृपो राजा नीराजितस्तोयदात्यये शरदि विवस्वानादित्यो ज्वलन् कान्तिमानिव
व्रजेत् । तोयदा मेघास्तेषामत्ययो विनाशः शरदित्यर्थः । कीदृशः ? मृदङ्गशङ्खध्वनिहृष्टकुञ्ज-
रस्रवन्मदामोदसुगन्धमारुतः, मृदङ्गा वादित्रविशेषाः, शङ्खाः प्रसिद्धाः, मृदङ्गशङ्खानां योऽसौ
ध्वनिः शब्दस्तेन हृष्टा मुदिता ये कुञ्जरा हस्तिनस्तेषां स्रवन्मदं मदजलं तस्यामोदः सौरभ्यं
तेन सुगन्धीकृतो यो मारुतो वायुस्तेन यो युक्तः स तथोक्तः । यतः शरदि किल सुगन्धो
मारुतो वहति । तथा शिरोमणयश्चूडारत्नानि तेषु प्रान्तमग्रं तत्र चलन्तः स्फुरन्तो ये प्रभाचया
रश्मिसमूहास्तैर्ज्वलन् देदीप्यमानः। शरदि किल सूर्यस्तेजस्वी भवति।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

५०८ बृहत्संहिता
अथवा अद्रिराट् पर्वतराजो हिमवानिव व्रजेत्। इतस्ततः सर्वतः शुक्लचामरैः सितै-
र्बालव्यजनैः सम्पतद्भिस्तदभिमुखं गच्छद्भिः। धूयमानाश्चाल्यमाना रुचिरा दीप्तिमत्यः स्रजो
माला अम्बराणि च वस्त्राणि यस्य स तथोक्तः। कीदृशैश्चामरैः? मृष्टगन्धपवनानुवाहिभिः।
मृष्टं गन्धं सुगन्धं पवनं वातं येऽनुवहन्ति सेवन्ते तैस्तथाभूतैः। अत एवोत्प्रेक्षते—हंस-
पंक्तिभिरितस्ततः सर्वतः सम्पतद्भिर्मृष्टगन्धपवनानुवाहिभिः सुगन्धमारुतानुवाहिभिरद्रिराडिव।
अथवा शक्रकार्मुकरुचिमिन्द्रधनुःकान्तिं समुद्वहन् वाहयन् व्रजेत्। मुकुटकुण्ड-
लाङ्गदैर्भूषितः मुकुटं मौलिभूषणम्, कुण्डलं कर्णाभरणम्, अङ्गदाः कटकास्तैर्भूषितो-
ऽलंकृतः। कीदृशैः? नैकवर्णमणिवज्रभूषितैः, नैकवर्णा बहुवर्णा ये मणयो रत्नानि, वज्रं
हीरकम्, तैर्भूषिता अलंकृता ये मुकुटकुण्डलाङ्गदास्तैर्भूषितोऽलंकृतः। तथा भूरिरत्नानां
बहूनां मणीनां ये किरणा रश्मयस्तैरनुरञ्जितो विच्छुरितस्तदा शक्रकार्मुकरुचिं समुद्वहन्।
यतः शक्रकार्मुकस्य कान्तिर्नानावर्णा भवति।
अथवा शक्रवदिन्द्रवत्परिवृतः परिवारयुक्तो व्रजेत्। तुरङ्गमैरश्वैः खमाकाशमुत्पतद्भिरिव।
यत इन्द्र आकाशे गच्छति। तथा दन्तिभिर्हस्तिभिर्धरां भूमिं धारयद्भिरिव। यतो मत्तदन्तिनो
भूमिं विदारयन्ति। नरैर्मनुष्यैर्निर्जितारिभिर्जितशत्रुभिरमरैर्देवैरिव परिवृतः। अतीवोज्ज्वलं
वेषधारित्वात्। अत एवोत्प्रेक्षते—शक्रवदिति।।२३-२६।।
अन्यदप्याह—
सवज्रमुक्ताफलभूषणोऽथवा सितस्रगुष्णीषविलेपनाम्बरः।
धृतातपत्रो गजपृष्ठमाश्रितो घनोपरीवेन्दुतले भृगोः सुतः।।२७।।
अथवा हीरा-मोती से युत श्वेत माला, श्वेत पगड़ी, श्वेत चन्दन तथा श्वेत वस्त्रों से
युत, छत्रधारी और हाथी पर बैठा हुआ राजा मेघ के ऊपर और चन्द्र के नीचे विराजमान
शुक्र की तरह गमन करे। यहाँ मेघ के स्थान पर हाथी, चन्द्र के स्थान पर छत्र और
शुक्र के स्थान पर राजा को समझना चाहिये।।२७।।
अथवैवं व्रजेत्। सवज्रमुक्ताफलभूषणः, वज्रं हीरकम्, सवज्राणि वज्रसहितानि मुक्ता-
फलभूषणानि यस्य। सितस्रगुष्णीषविलेपनाम्बरः, सिताः शुक्ला याः स्रजो मालाः।
सिताश्चोष्णीषाः पट्टविशेषाः। सितानि च विलेपनानि समालम्भनानि। सितान्यम्बराणि वस्त्राणि
च यस्य स तथाभूतः। धृतातपत्रः। धृतमातपत्रं छत्रं यस्य। गजपृष्ठं हस्तिपृष्ठं समाश्रितः।
अत एवोत्प्रेक्षते—भृगोः सुतः शुक्रो घनोपरि मेघपृष्ठे इन्दोश्चन्द्रस्य तले अधोभागे
स्थित इव। मेघस्थानीयो गजः। चन्द्रस्य स्थानीयं छत्रम्। शुक्रसंस्थाने नृप इति।।२७।।
अथ सैन्यचेष्टितमाह—
सम्प्रहृष्टनरवाजिकुञ्जरं निर्मलप्रहरणांशुभासुरम्।
निर्विकारमरिपक्षभीषणं यस्य सैन्यमचिरात् स गां जयेत्।।२८।।
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां नीराजनाध्यायश्चतुश्चत्वारिंशः।।४४।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

नीराजनाध्यायः ५०९
जिस राजा के हर्षित मनुष्य, घोड़े और हाथियों से युत, निर्मल खड्ग आदि से
प्रकाशमान, विकाररहित और शत्रु के लिये भयावह सेनागण हों, वह शीघ्र ही पृथ्वी को
जीत लेता है।।२८।।
इति 'विमला' हिन्दीटीकायां नीराजनाध्यायश्चतुश्चत्वारिंशः ॥४४॥
यस्य राज्ञ ईदृशं सैन्यं स राजा अचिराच्छीघ्रमेव गां भूमिं जयेत् स्वीकरोति। कीदृशम्?
सम्प्रहृष्टजनवाजिकुञ्जरम्, सम्प्रहृष्टाः प्रमुदिता नरा मनुष्याः। वाजिनोऽश्वाः, कुञ्जरा यत्र।
तथा निर्मलानां प्रहरणानां खड्गादीनां ये अंशवो रश्मयस्तैर्भासुरं देदीप्यमानम्। निर्विकारं
विकाररहितम्। निरुत्पातमित्यर्थः। अरिपक्षभीषणं शत्रुपक्षभयावहमिति।।२८।।
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ नीराजन-
विधिर्नाम चतुश्चत्वारिंशोऽध्यायः ॥४४॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

अथ खञ्जनकलक्षणाध्यायः
अथ खञ्जनकलक्षणाध्यायो व्याख्यायते। तत्रादावेवागमप्रदर्शनार्थमाह—
खञ्जनको नामायं यो विहगस्तस्य दर्शने प्रथमे।
प्रोक्तानि यानि मुनिभिः फलानि तानि प्रवक्ष्यामि ॥१॥
खञ्जन नामक पक्षी के प्रथम दर्शन होने पर गर्ग आदि मुनियों ने जो फल कहे हैं,
उनको मैं यहाँ पर कहता हूँ॥१॥
अयं खञ्जनकनामा विहगः पक्षी तस्य प्रथमे दर्शने, आदौ यस्मिन् दिने दृश्यते तत्र
मुनिभिर्गर्गादिभिर्यानि फलानि कथितानि प्रोक्तानि तानि प्रवक्ष्यामि कथयामीति।
खञ्जनकः श्रावणपूर्वकमासचतुष्टयं न दृश्यत इति स्थितिः। अत उक्तं दर्शने प्रथमे
इति॥१॥
तत्र तावच्चत्वारः खञ्जनका भवन्ति, तेषां नामानि फलं चाह—
स्थूलोभ्युन्नतकण्ठः कृष्णगलो भद्रकारको भद्रः।
आकण्ठमुखात् कृष्णः सम्पूर्णः पूरयत्याशाम् ॥२॥
कृष्णो गलेऽस्य बिन्दुः सितकरटान्तः स रिक्तकृद्रिक्तः।
पीतो गोपीत इति क्लेशकरः खञ्जनो दृष्टः ॥३॥
स्थूल शरीर वाला, उन्नत और काले गले वाला खञ्जन पक्षी भद्रसंज्ञक है, यदि यह
दिखाई दे तो शुभ होता है। जिसका मुख से लेकर कण्ठ तक काला हो, वह खञ्जन
पक्षी सम्पूर्णसंज्ञक है, यह सम्पूर्ण इच्छाओं को पूर्ण करता है। जिसके गले में काली
बिन्दी तथा श्वेत कपोल हो वह रिक्तसंज्ञक खञ्जन सब शून्य करता है और पीला खञ्जन
गोपीत संज्ञक है, यदि यह दिखाई दे तो क्लेश करता है॥२-३॥
स्थूलो बृहत्कायः। अभ्युन्नतकण्ठ उच्चग्रीवः। कृष्णगलः असितकण्ठः। स भद्रो
नाम विहगो भद्राख्यः पक्षी। स च दृष्टो भद्रकारकः, भद्रं श्रेयः करोति। भद्रः सम्पूर्णो
रिक्तो गोपीत इत्येता अन्वर्थसंज्ञा। आकण्ठमुखात् कृष्णः, मुखाद् वक्त्रादारभ्य कण्ठं
गलं यावत्कृष्णोऽसितवर्णः सम्पूर्णानामा स चाशामिच्छां पूरयति परिपूर्णं करोति।
कृष्णो गलेऽस्य बिन्दुरिति। अस्य विहगस्य गले कण्ठे कृष्णोऽसितो बिन्दुस्तथा
सितकरटान्तः शुक्लकपोलः स रिक्तसंज्ञः। स च रिक्तकृद्रिक्तफलः शून्यं सर्वं करोति।
यः पीतः पीतवर्णः स च गोपीतनामा खञ्जनको दृष्टः क्लेशकरः क्लेशं करोति। तथा
च काश्यपः—
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

खञ्जनकलक्षणाध्यायः ५११
स्थूलोऽभ्युन्नतकण्ठो यो भद्रः कृष्णगलः स्मृतः।
कृष्णमूर्धा गलान्तं यः स सम्पूर्ण इति स्मृतः।।
करटान्तौ सितौ यस्य कृष्णो बिन्दुर्गले तथा।
स रिक्त इति निर्दिष्टः पीतो गोपीतकः स्मृतः।।
नामानुरूपेण फलं विहगानां विनिर्दिशेत्।। इति।।२-३।।
अथ कस्मिन् स्थाने दृष्टः कीदृक् फलं करोतीत्याह—
अथ मधुरसुरभिफलकुसुमतरुषु सलिलाशयेषु पुण्‍येषु।
करितुरगभुजगमूर्ध्नि प्रासादोद्यानहर्म्येषु ।।४।।
गोगोष्ठसत्समागमयज्ञोत्सवपार्थिवद्विजसमीपे ।
हस्तितुरङ्गमशालाच्छत्रध्वजचामराद्येषु ।।५।।
हेमसमीपसिताम्बरकमलोत्पलपूजितोपलिप्तेषु ।
दधिपात्रधान्यकूटेष्बु च श्रियं खञ्जनः कुरुते ।।६।।
मधुर तथा सुगन्धयुत फल और फूलों से युत वृक्ष पर, पवित्र जलाशय में हाथी,
घोड़ा या सर्पों के मस्तक पर, देवालय, फुलवाड़ी या कोठे पर, गाय, गोठ, सज्जनों के
समागम स्थान, यज्ञ, विवाह आदि उत्सव स्थान, राजा या ब्राह्मणों के समीप, हाथी,
घोड़ा, छत्र, ध्वजा, चामर आदि पर, सुवर्ण के समीप, कमल, नीलकमल, पूजित और
लिपे हुये स्थान पर, दही के पात्र या धान्य के ढेर पर खञ्जन पक्षी दिखाई दे तो देखने
वाले का शुभ होता है।।४-६।।
अथैतेषु स्थानेषु दृष्टः खञ्जनकः श्रियं लक्ष्मीं कुरुते विदधाति। केषु, कथम्?
मधुरेति। अथशब्दः प्रकाराय। मधुराणि स्वादूनि। सुरभीणि सुगन्धीनि फलानि, कुसुमानि
पुष्पाणि येषु तरुषु वृक्षेषु। तथा पुण्येषु सलिलाशयेषु जलाधारेषु। तथा करिणां हस्ति-
नाम्, तुरङ्गाणामश्वानाम्, भुजगानां सर्पाणां मूर्धसु मस्तकेषु। तथामरप्रासादेषु देवगृहेषु।
उद्यानेषूपवनेषु। हर्म्येषु अट्टालिकासु।
तथा गोरुपरि। गोष्ठे गवां स्थाने। सतां साधूनां यत्र समागमः। यज्ञो यागः। उत्सवो
विवाहादि। पार्थिवो राजा। द्विजो ब्राह्मणः। एषां समीपे सन्निधौ। हस्तिशालासु गजशालासु।
अश्वशालासु। छत्रमातपत्रम्। ध्वजश्चिह्नविशेषः प्रसिद्धः। चामरं बालव्यजनम्। आदिग्रहणाद्
भृङ्गारकुम्भतालवृन्तादयः। एतेष्वपि।
तथा हेमसमीपे सुवर्णसन्निधौ। सिताम्बरं श्वेतवस्त्रम्। कमलं पद्मम्। उत्पलं नीलोत्पलम्।
पूजितेष्वर्चितेषु। उपलिप्तेषु संस्कृतेषु स्थानेषु। दधिपात्रे दधिभाजने। धान्यकूटे धान्यराशौ।
एतेष्विति।।४-६।।
अन्येष्वप्याह—
पङ्के स्वाद्वन्नाप्तिर्गोरससम्पच्च गोमयोपगते।
शाद्वलगे वस्त्राप्तिः शकटस्थे देशविभ्रंशः।।७।।
CC-0. JK Sanskrit Academy, Jammu. Digitized by S3 Foundation USA

५१२ बृहत्संहिता
गृहपटलेऽर्थभ्रंशो बघ्रे बन्धोऽशुचौ भवति रोगः ।
पृष्ठे त्वजाविकानां प्रियसङ्गममावहत्याशु ॥८॥
यदि कीचड़ में बैठा हुआ खञ्जन दिखाई दे तो स्वादिष्ट भोजन मिलता है। गोबर
पर दिखाई दे तो दूध, दही, घृत काफी मिलता है। दूब पर दिखाई दे तो वस्त्रलाभ होता
है और गाड़ी पर दिखाई दे तो देश का नाश होता है। घर की छत पर खञ्जन दिखाई दे
तो धन का नाश, चमड़े की बनी हुई छेद वाली वस्तु पर दिखाई दे तो बन्धन, अपवित्र
स्थान पर दिखाई दे तो रोग, छाग या भेड़ के ऊपर दिखाई दे तो बहुत जल्दी
मित्रसमागम होता है॥७-८॥
पङ्कः कर्दमस्तत्र संस्थे खञ्जनके स्वाद्वन्नप्राप्तिः सृष्टभोजनलाभः। तथा गोमयोपगते
गोमयनिचयस्थे गोरससम्पन्मथितबाहुल्यम्। शाद्वलगे दूर्वास्थे वस्त्राप्तिरम्बरलाभः। शकटस्थे
शकटारूढे देशस्य विभ्रंशो नाशः।
गृहपटले गृहच्छादने अर्थस्य वित्तस्य भ्रंशो नाशः। बघ्रे चर्ममये बन्धो बन्धनम्।
अशुचावशुद्धे स्थाने रोगो भवति। अजश्छागः। अविः प्रसिद्धः। अजाविकानां पृष्ठे उपरि
स्थिते आशु क्षिप्रमेव प्रियसङ्गमं वल्लभसमायोगमावहति करोति॥७-८॥
अन्यदप्याह—
महिषोष्ट्रगर्दभास्थिश्मशानगृहकोणशर्कराट्टस्थः ।
प्राकारभस्मकेशेषु चाशुभो मरणरुग्भयदः ॥९॥
भैंस, ऊँट, गदहा, श्मशान, घर का कोना, मिट्टी का ढेला, अटारी, घेरे की दीवाल,
भस्म और केश पर यदि खञ्जन दिखाई दे तो मरण और रोगभयरूप अशुभ फल होता है।
एतेषु स्थानेषु खञ्जनको दृष्टः स चाशुभः प्रागलक्षणो न भवति तदा मरणरुग्भयदः।
द्रष्टुर्मरणं मृत्युं रुग्भयं च ददाति। केषु स्थानेषु? महिषे। उष्ट्रे करभे। गर्दभे खरे। अस्थि-
श्मशाने पितृवने। गृहकोणे वेश्माग्रे। शर्करे मृत्खण्डे। अट्टे अट्टालके। प्राकारभित्तौ।
भस्मनि। केशेषु। एतेषु स्थानेषु॥९॥
अन्यदपि लक्षणमाह—
पक्षौ धुन्वन्नशुभः शुभः पिबन् वारि निम्नगासंस्थः ।
सूर्योदये प्रशस्तो नेष्टफलः खञ्जनोऽस्तमये ॥१०॥
दोनों पंखों को हिलाता हुआ खञ्जन दिखाई दे तो शुभ नहीं है। नदी में (कोई-कोई
‘वारिवाहस्थः = पानी जाने वाले प्रदेश में' ऐसा पाठ मानते हैं) पानी पीता हुआ दिखाई
दे तो शुभ होता है। यदि सूर्योदय काल में खञ्जन दिखाई दे तो शुभ और अस्त काल
में दिखाई दे तो अशुभ फल देने वाला होता है॥१०॥
पक्षावङ्गरूहौ धुन्वन् कम्पयन्नशुभोऽनिष्टफलदः। निम्नगा नदी तत्रस्थो वारि जलं
CC-0. JK Sanskrit Academy, Jammu. Digitized by S3 Foundation USA

खञ्जनकलक्षणाध्यायः ५१३
पिबन् शुभ इष्टफलः। केचिद्वारिवाहस्थ इति पठन्ति। वारिवाहे जलगमनप्रदेशे वारि पिबन्।
सूर्योदये रव्युदयकाले खञ्जनकः प्रशस्तः शुभफलदः। सूर्यास्तमये नेष्टफलोऽशुभ इति।
अन्यदप्याह—
नीराजने निवृत्ते यया दिशा खञ्जनं नृपो यान्तम्।
पश्येत्तया गतस्य क्षिप्रमरातिर्वशमुपैति ॥१९१॥
नीराजन करने के बाद राजा जिस दिशा में जाते हुये खञ्जन को देखे, उस दिशा में
गमन करने से शत्रु शीघ्र ही वश में हो जाता है।।१९१।।
निवृत्ते परिसमाप्ते नीराजने नृपो राजा यया दिशा आशया खञ्जनं यान्तं पश्येदव-
लोकयेत्तया गतस्य राज्ञोऽरातिः शत्रुः। क्षिप्रमाश्वेव वशमुपैति वश्यतां गच्छति।।१९१।।
अथ प्रत्यप्रदर्शनार्थमाह—
तस्मिन्निधिर्भवति मैथुनमेति यस्मिन्
यस्मिंस्तु छर्दयति तत्र तलेऽस्ति काचम्।
अङ्गारमप्युपदिशन्ति पुरीषणेऽस्य
तत्कौतुकापनयनाय खनेद् धरित्रीम् ॥१९२॥
जिस स्थान पर खञ्जन मैथुन करता है, उसके नीचे निधि ( खजाना ), जहाँ पर
वमन करता है उसके नीचे कांच और जहाँ पर टट्टी करता है उसके नीचे कोयला होता
है। इस कौतुक को हटाने के लिये ( परीक्षा के लिए ) वहाँ की पृथ्वी खोदे।।१९२।।
यस्मिन् स्थाने मैथुनमेति गच्छति तत्र तस्मिन् भूमिप्रदेशे निधिर्निधानं भवति। यस्मिंस्तु
छर्दयति वमति तत्र तले काचमस्ति विद्यते। अस्य खञ्जनकस्य पुरीषणे यत्र पुरीषं हदनं
करोति तत्र भूमौ तले अङ्गारमप्युपदिशन्ति कथयन्ति। मुनयः काश्यपादयः। तथा च
काश्यपः—
मैथुनं कुरुते यत्र तत्र वै निधिमादिशेत्।
भुक्तं छर्दयते यत्र तत्र काचमधो भवेत्।।
पुरीषं यत्र कुरुते तत्राङ्गारं विनिर्दिशेत्।
तत्कौतुकापनयनाय खनेद्धरित्रीम्। तस्य कौतुकस्य कुतुकस्यापनयनाय निवारणाय
धरित्रीं भूमिं खनेत्। येन प्रत्यय उत्पद्यते।।१९२।।
अथान्यच्छुभाशुभमाह—
मृतविकलविभिन्नरोगितः स्वतनूसमानफलप्रदः खगः।
धनकृदभिनिलीयमानको वियति च बन्धुसमागमप्रदः॥१९३॥
यदि मरा हुआ खञ्जन दिखाई दे तो देखने वाले की मृत्यु, विकल दिखाई दे तो
देखने वाले को वैकल्य और रुग्ण दिखाई दे तो देखने वाले को रोग होता है। यदि
बृ० सं० प्र०-३५ JK Sanskrit Academy, Jammu. Digitized by S3 Foundation USA

५१४ बृहत्संहिता
सम्मुख में होकर घर में प्रवेश करता हुआ दिखाई दे तो धन करने वाला और आकाश
में उड़ता हुआ दिखाई दे तो बन्धु-समागम होता है।।१३।।
खगः पक्षी खञ्जनको मृतविकलविभिन्नरोगितः स्वतनुसमानमात्मीयशरीरतुल्यं फलं
ददाति। तद्यथा—मृतो यदि दृश्यते तदा द्रष्टुर्मरणमेव ददाति। एवं विकलोऽङ्गवैकल्यम्।
विभिन्नशरीरो भेदनम्। रोगितः सञ्जातरोगो रोगमेव ददाति। धनकृदभिनिलीयमानक
इति। अभिमुख्येन निलीयमान आलयं प्रविशन् धनकृत् धनसंश्लेषं कुरुते। वियत्याकाशे
उड्डीनमाने बन्धुसमागमप्रदो बन्धुभिः सह संयोगं ददाति।।१३।।
अथ खञ्जनदृष्टे विधानमाह—
नृपतिरपि शुभं शुभप्रदेशे खगमवलोक्य महीतले विदध्यात्।
सुरभिकुसुमधूपयुक्तमर्घं शुभमभिनन्दितमेवमेति वृद्धिम् ॥१४॥
राजा शुभ प्रदेश में शुभ लक्षणयुत खञ्जन पक्षी को भी देखकर सुगन्धयुत पुष्प
और धूपयुत अर्घ देवे। इस तरह करने से सम्मानित शुभ फल की वृद्धि होती है।।१४।।
नृपती राजा शुभे प्रदेशे शुभं प्रशस्तलक्षणमपि खगं पक्षिणमवलोक्य दृष्ट्वा महीतले
भूपृष्ठे सुरभिकुसुमधूपयुक्तमर्घम्, सुरभीणि सुगन्धीनि यानि कुसुमानि पुष्पाणि तथा सुगन्धा
ये धूपास्तैः संयुक्तमर्घं विदध्याद् दापयेत्। एवमनेन प्रकारेण शुभं फलमभिनन्दितं सम्मानितं
वृद्धिमेति वृद्धिं गच्छति।।१४।।
अथाशुभे खञ्जनके दृष्टे विधानमाह—
अशुभमपि विलोक्य खञ्जनं द्विजगुरुसाधुसुरार्चने रतः।
न नृपतिरशुभं समाप्नुयान्न यदि दिनानि च सप्त मांसभुक् ॥१५॥
अशुभ फल देने वाले खञ्जन को देख कर भी राजा यदि ब्राह्मण, गुरु, सज्जन और
देवताओं के पूजन में निरत हो जाय एवं सात दिन तक यदि मांस-भक्षण न करे तो उसे
किसी प्रकार का अशुभ फल प्राप्त नहीं होता।।१५।।
नृपती राजा अशुभमपि अनिष्टफलमपि खञ्जनं विलोक्य दृष्ट्वा यदि द्विजानां ब्राह्मणा-
नाम्, गुरूणामुपदेशकर्तॄणाम्, साधूनां सज्जनानाम्, सुराणां देवानाम्, अर्चने रतः सक्तो
भवति, तदा नाशुभमनिष्टफलं समाप्नुयात् प्राप्नोति। यदि सप्त दिनानि सप्ताहं मांस-
भुग् न भवति। मांसं यदि न भुङ्क्ते नाश्नाति।।१५।।
तथा कालप्रदर्शनार्थमाह—
आवर्षात् प्रथमे दर्शने फलं प्रतिदिनं तु दिनशेषात्।
दिक्स्थानमूर्तिलग्नर्क्षशान्तदीप्तादिभिश्चोह्यम् ॥१६॥
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां खञ्जनकलक्षणाध्यायः पञ्चचत्वारिंशः ॥४५॥

खञ्जनकलक्षणाध्यायः ५१५
खञ्जन के प्रथम दर्शन का फल एक वर्ष में होता है। बाद में प्रति दिन दर्शन का
फल उसी दिन प्राप्त होता' है। दिशा, स्थान, शरीराकृति, लग्न, नक्षत्र, शान्त और दीप्त
दिशा आदि के अनुसार शुभाशुभ देखकर अपनी बुद्धि से फल कहना चाहिये '। १६।।
इति 'विमला' हिन्दीटीकायां खञ्जनलक्ष-
णाध्यायः पञ्चचत्वारिंशः ।।४५।।
प्रथमं खञ्जनकस्य दर्शने आदावेव यस्मिन्नहनि दृश्यते तत्र यत्फलं शुभमशुभं वा
तदाऽऽवर्षाद्वर्षं यावत्। वर्षमध्ये भवतीत्यर्थः। प्रतिदिनं तु यद्दर्शनफलं तद्दिनशेषात्तस्मिन्नेव
दिनमध्ये भवति। तथा च काश्यपः—
प्रथमे दर्शने पाकमावर्षात् प्रवदेद् बुधः।
प्रतिदैवसिके वाच्यं दर्शनेऽस्तमये फलम्।। इति।
दिक्स्थानमूर्तिलग्नर्क्षशान्तदीप्तादिभिश्चोह्यम्, दिक् कस्यां दिशि स्थितः शुभायामशुभायां
वा। तत्र पूर्वोत्तरैशान्यः स्वभावादेव शुभाः। शेषा अशुभाः। स्थानं यत्र स्थितः। 'अथ
मधुरसुरभिः' इत्यादिना प्रदर्शितम्। मूर्तिः शरीराकारः—'स्थूलोऽभ्युन्नतकण्ठः' इत्यादि,
'मृतविकलविभिन्नरौगितः' इति च। लग्नं तत्काले कीदृशं शुभराशिशुभग्रहयुतं दृष्टं वा
पापलग्नं पापयुतमवलोकितं वा। ऋक्षं नक्षत्रं ध्रुवमृदुदारुणोग्रक्षिप्रचरसाधारणादि। तत्र
ध्रुवाणि मृदूनि च शस्तानि, क्षिप्रचरसाधारणानि मध्यानि, दारुणोग्राणि अशोभनानीति।
तथा शान्तदीप्तादिभिः। स पक्षी किं शान्तायां दिशि स्थितः शान्तरवश्च, किं वा दीप्तायां
दिशि स्थितो दीप्तरवश्च। आदिग्रहणादङ्गारिताभिधूमिता च दिग् ज्ञेया। एवमादिभिः शुभम-
शुभं व्यामिश्रं वा फलमूह्यम्। स्वबुद्ध्या तर्कणीयम्। एतदाचार्यः सविस्तरं शाकुने वक्ष्यति।
वयमपि तत्रैव विशेषं व्याख्यास्याम इति ।।१६।।
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ खञ्जनकलक्षणं
नाम पञ्चचत्वारिंशोऽध्यायः ।।४५।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

अथोत्पाताध्यायः
अथोत्पाताध्यायो व्याख्यायते। तत्रादावेवागमवस्तुप्रदर्शनार्थमाह—
यानत्रेरुत्पातान् गर्गः प्रोवाच तानहं वक्ष्ये।
तेषां संक्षेपोऽयं प्रकृतेरन्यत्वमुत्पातः ॥१॥
महर्षि गर्ग ने जिन उत्पातों का वर्णन महामुनि अत्रि जी के समक्ष किया था, उन्हीं
का संक्षेप रूप यहाँ है।।१।।
अत्रेर्मुनिप्रधानस्य यानुत्पातानद्भुतान् गर्गः प्रोवाचोक्तवान्, तानहं वक्ष्ये कथयिष्ये।
तेषामुत्पातानामयं संक्षेपः समासः। प्रकृतेरन्यत्वमुत्पात इति। प्रकृतेः स्वभावादन्यत्वं
वैपरीत्यं स एवोत्पात इति। तथा च समाससंहितायाम्—
यः प्रकृतिविपर्यासः सर्वः संक्षेपतः स उत्पातः।
क्षितिगगनदिव्यजातो यथोत्तरं गुरुतरो भवति।। इति।।१।।
कथमुत्पाता उत्पद्यन्त इत्याह—
अपचारेण नराणामुपसर्गः पापसञ्चयाद्भवति।
संसूचयन्ति दिव्यान्तरिक्षभौमास्त उत्पाताः ॥२॥
मनुष्यों के अविनय से पाप इकट्ठे होते हैं, उन पापों से उपद्रव होते हैं। दिव्य,
आन्तरिक्ष और भौम उत्पात उन उपद्रवों को सूचित करते हैं।।२।।
नराणां पुरुषाणामपचारेणाविनयेन पापसञ्चयो भवति, पापसञ्चयादुपसर्गा उपद्रवाः।
तथा च गर्गः—
अतिलोभादसत्याद्वा नास्तिक्याद्वाप्यधर्मतः।
नरापचारान्नियतमुपसर्गः प्रवर्तते।। इति।
ततो दिव्यान्तरिक्षभौमा उत्पाताः तानुपसर्गान् संसूचयन्ति। दिवि आकाशे भवा
दिव्याः। अन्तरिक्षे भवा आन्तरिक्षाः। भूमौ भवा भौमा इति।।२।।
कथमुत्पाता उत्पद्यन्त इत्याह—
मनुजानामपचारादपरक्ता देवताः सृजन्त्येतान्।
तत्प्रतिघाताय नृपः शान्तिं राष्ट्रे प्रयुञ्जीत ॥३॥
मनुष्यों के अविनय से अप्रसन्न देवता गण उन उत्पातों को उत्पन्न करते हैं। उनके
निवारण के लिये राजा को शान्ति करानी चाहिये।।३।।
मनुजानां मनुष्याणामपचारादविनयाद्देवताः सुरा अपरक्ता विरक्ता एतानुत्पातान्
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

उत्पाताध्यायः ५१७
सृजन्त्युत्पादयन्ति । तत्प्रतिघाताय तेषामुत्पातानां प्रतिघाताय निवारणाय नृपो राजा राष्ट्रे
जनपदे शान्तिमुत्पातप्रतीकारं प्रयुञ्जीत कारयेदिति । तथा च गर्गः—
ततोऽपचारो मर्त्यानामपरज्यन्ति देवताः ।
ते सृजन्त्यद्भुतान् भावान् दिव्यभूम्यन्तरिक्षजान् ।।
त एव सर्वलोकानामुत्पाता देवनिर्मिताः ।
विचरन्ति विनाशाय रूपैः सम्बोधयन्ति च ।।
तान् शास्त्रनिर्गमाद्विप्राः पश्यन्ति ज्ञानचक्षुषा ।
प्रवदन्ति तु मर्त्येषु हितार्थं श्रद्धयान्विताः ।
ते तु सम्बोधिता विप्रैः शान्तये मङ्गलानि च ।
श्रद्दधानाः प्रकुर्वन्ति न ते यान्ति पराभवम् ।।
ये तु न प्रतिकुर्वन्ति क्रियामश्रद्धयान्विताः ।
नास्तिक्यादथवा कोपाद्विनश्यन्त्यथवाऽचिरात् ।। इति ।। ३ ।।
अधुना दिव्यान्तरिक्षभौमानामुत्पातानां प्रविभागमाह—
दिव्यं ग्रहर्क्षवैकृतमुल्कानिर्घातपवनपरिवेषाः ।
गन्धर्वपुरपुरन्दरचापादि यदान्तरिक्षं तत् ।। ४ ।।
भौमं चरस्थिरभवं तच्छान्तिभिराहतं शममुपैति ।
नाभसमुपैति मृदुतां शाम्यति नो दिव्यमित्येके ।। ५ ।।
सूर्य आदि ग्रह और नक्षत्रों के विकारयुत होने का नाम दिव्य; उल्का, निर्घात,
विकारयुत वायु, सूर्य-चन्द्र का परिवेष, गन्धर्वनगर, इन्द्रधनुष आदि ( रोहत, ऐरावत,
दण्ड और परिघ ) से हुये उत्पातों का नाम आन्तरिक्ष एवं चलायमान वस्तु के स्थिर
और स्थिर के चलायमान होने का नाम भौम उत्पात है। यह भौम उत्पात शान्ति से
आहत होकर नष्ट हो जाता है, आन्तरिक्ष उत्पात शान्ति से कम हो जाता है और दिव्य
उत्पात शान्ति से भी नष्ट नहीं होता। यह किसी-किसी आचार्य का मत है।। ४-५ ।।
ग्रहाणामादित्यादीनामृक्षाणामश्विन्यादीनां च यद्वैकृतं विकारस्तद्दिव्यमुत्पातम्, यश्चोल्का-
निर्घातः पवनो विकृतो वायुः, परिवेषः सूर्यचन्द्रमसोः, गन्धर्वपुरं गन्धर्वनगरम्, पुरन्दरचाप-
मिन्द्रधनुः, आदिग्रहणाद्रोहितैरावतदण्डपरिघा गृह्यन्ते। एवमादि यत्तदान्तरिक्षमुत्पातम्।
भौमं चरस्थिरभवमिति । चराणां वस्तूनां स्थैर्यं स्थिराणां चरत्वं तदुद्भवं तदुत्पन्नं
यत्तद्भौममुत्पातम्। तथा च गर्गः—
स्वर्भानुकेतुनक्षत्रग्रहतारार्कजेन्द्रजम् ।
दिवि चोत्पद्यते यच्च तद्दिव्यमिति कीर्तितम् ।।
वाय्वभ्रसन्ध्यादिग्दाहपरिवेषतमांसि च।
खपुरं चेन्द्रचापं च तद्विन्द्यादन्तरिक्षजम् ।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

५१८ बृहत्संहिता
भूमावुत्पद्यते यच्च स्थावरं वाथ जङ्गमम्।
तदेकदेशिकं भौममुत्पातं परिकीर्तितम्।। इति।
तथा च समाससंहितायाम्—
दिव्यं ग्रहर्क्षजातं भुवि भौमं स्थिरचरोद्भवं यच्च।
दिग्दाहोल्कापतनं परिवेषाद्यं वियत्प्रभवम्।। इति।
तच्छान्तिभिराहतं शममुपैति। तच्च भौमं शान्तिभिराहतं निवारितं शममुपैति शान्ति-
मुपगच्छति। नाभसमान्तरिक्षं शान्तिभिराहतं मृदुतामुपैति मन्दत्वं गच्छति। शाम्यति नो
दिव्यमित्येके। दिव्यं शान्तिभिराहतं नो शाम्यति न शान्तिं यात्येवमित्येके केचिद्वदन्ति।
तथा च काश्यपः—
भौमं शान्तिहतं नाशमुपगच्छति मार्दवम्।
नाभसं न शमं याति दिव्यमुत्पातदर्शनम्।। इति।।४-५।।
अथात्र स्वमतमाह—
दिव्यमपि शममुपैति प्रभूतकनकान्नगोमहीदानैः ।
रुद्रायतने भूमौ गोदोहात् कोटिहोमाच्च ॥६॥
अधिक सुवर्ण, अन्न, गाय और पृथ्वी का दान करने से दिव्य उत्पात भी शान्त हो
जाता है, फिर आन्तरिक्ष और भौम की तो बात ही क्या? अर्थात् वे दोनों तो शान्त होते
ही हैं। शिवालय में भूमि पर गोदोहन और कोटिसंख्यक हवन से दिव्य उत्पात शान्त हो
जाता है।।६।।
अपिशब्दः सम्भावनायां वर्तते। प्रभूतकनकान्नगोमहीदानैर्दिव्यमपि शममुपैति। कनकं
सुवर्णम्। अन्नं भोज्यम्। गावो धेनवः। मही भूः। एषां प्रभूतैर्बहुभिः प्रदानैर्दिव्यमुत्पातं
शममुपैति। अपि ग्रहणान्नाभसं भौमं च। तथा रुद्रायतने शिवगृहे। भूमाववनौ। गोदोहाद्
गवां दोहनात्। कोटिहोमाच्च दिव्यमपि शममुपैति।।६।।
दैवमुत्पातं नृपतेः कतिविधं परिपाकमायातीत्याह—
आत्मसुतकोशवाहनपुरदारपुरोहितेषु लोके च।
पाकमुपयाति दैवं परिकल्पितमष्टधा नृपतेः ॥७॥
अपना शरीर, पुत्र, खजाना, वाहन, नगर, स्त्री, पुरोहित, जनपद—इन आठों में
राजा दैव-कल्पित उत्पातों का फल प्राप्त करता है।।७।।
दैवमुत्पातं नृपते राज्ञोऽष्टधा परिकल्पितमष्टभिः प्रकारैः पाकमुपयाति फलं ददाति।
तद्यथा—आत्मनि। सुते पुत्रे। कोशे भाण्डागारे। वाहनेऽश्वादिषु। पुरे नगरे। दारेषु भार्यासु।
पुरोहिते आचार्ये। एतेषु तथा लोके जनपदे। एवमष्टप्रकारम्। तथा च गर्गः—
पुरे जनपदे कोशे वाहनेऽथ पुरोहिते।
पुत्रेष्वात्मनि भृत्येषु पश्यते दैवमष्टधा।। इति।।७।।
अधुनोत्पातान् प्रदर्शयितुमाह—
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

उत्पाताध्यायः ५१९
अनिमित्तभङ्गचलनस्वेदाश्रुनिपातजल्पनाद्यानि ।
लिङ्गार्चायतनान्- नाशाय नरेशदेशानाम् ॥८॥
शिवलिङ्ग, देवमूर्ति और देवस्थानों का बिना कारण फटना, कम्पन होना, उनमें
पसीना आना, उनका रोना, गिरना, उनमें शब्द होना आदि ( उनका वमन करना और
खिसकना ) राजा और देश के नाश के लिये होता है॥८॥
लिङ्गं माहेश्वरम्। अर्चा सुरप्रतिमा। आयतनं देवनिर्मितं पुण्यस्थानम्। एषां लिङ्गार्चाय-
तनानामनिमित्तं विना कारणं भङ्गः स्फोटनम्। चलनं कम्पनम्। स्वेदः प्रस्वेदः। अश्रु रोदनम्।
निपातः पातनम्। जल्पनं सम्भाषणम्। आद्यग्रहणाद्वमनं प्रसर्पणं च। तथा च गर्गः—
देवतार्चाः प्रनृत्यन्ति वेपन्ते प्रज्वलन्ति वा।
मुहुर्नृत्यन्ति रोदन्ति प्रस्विद्यन्ति हसन्ति वा॥
उत्तिष्ठन्ति निषीदन्ति प्रधावन्ति पतन्ति वा।
कूजन्ति विक्षिपन्ते च गात्रप्रहरणध्वजान्॥
अवाङ्मुखा वा तिष्ठन्ति स्थानात् स्थानं व्रजन्ति वा।
वमन्त्यग्निं तथा धूमं स्नेहं रक्तं पयो जलम्॥
प्रसर्पन्ति च जल्पन्ति वा चेष्टन्ते श्वसन्ति वा।
समन्ताद्यत्र दृश्यन्ते गात्रैर्वापि विचेष्टितैः॥ इति।
एतानि सर्वाणि यथोक्तानि नरेशदेशानाम्। नरेशस्य राज्ञः। देशस्य जनपदस्य च
नाशाय भवन्ति॥८॥
अथान्यदप्याह—
दैवतयात्राशकटाक्षचक्रयुगकेतुभङ्गपतनानि ।
संपर्य्यसनसादनसङ्गाश्च न देशनृपशुभदाः ॥९॥
देवस्थानों में यात्रा के समय गाड़ी की धुरी, पहिया, युग ( जुआ ) या ध्वजा का
भङ्ग होना, गिरना, उलटना, सादन या कहीं पर चिपट जाना देश और राजा के लिये
शुभकारी नहीं हैं॥९॥
दैवतयात्रायां देवोत्सवे। केचित् सूर्यात्रायामिति पठन्ति। शकटस्याक्षस्य चक्र-
मध्यवर्तिनः काष्ठस्य चक्रस्य युगस्य केतोर्ध्वजस्य चैषां भङ्गः स्फोटनं पतनं वा। एतानि।
तथा एतेषामेव संपर्य्यसनं परिवर्तनम्। सादनं सज्जनम्। सङ्ग आसक्तिः। यत्र कुत्रचिदेते
सर्व एव न देशनृपशुभदाः। देशस्य जनपदस्य। नृपस्य च राज्ञो न शुभप्रदा इति॥९॥
अधुना यद्वैकृतं येष्वशुभदं तत्प्रदर्शयितुमाह—
ऋषिधर्मपितृब्रह्मप्रोत्थं वैकृतं द्विजातीनाम् ।
यद्रुद्रलोकपालोद्भवं पशूनामनिष्टं तत् ॥१०॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

५२० बृहत्संहिता
गुरुसितशनैश्चरोत्थं पुरोधसां विष्णुजं च लोकानाम् ।
स्कन्दविशाखसमुत्थं माण्डलिकानां नरेन्द्रणाम् ।।११।।
वेदव्यासे मन्त्रिणि विनायके वैकृतं चमूनाथे ।
धातरि सविश्वकर्मणि लोकाभावाय निर्दिष्टम् ।।१२।।
देवकुमारकुमारीवनिताप्रेष्येषु वैकृतं यत् स्यात् ।
तन्नरपतेः कुमारककुमारिकास्त्रीपरिजनानाम् ।।१३।।
रक्षः पिशाचगुह्यकनागानामेवमेव निर्दिष्टम् ।
मासैश्चाप्यष्टाभिः सर्वेषामेव फलपाकः ।।१४।।
मुनि, धर्म, पिता और ब्रह्मा में उत्पन्न विकृति ब्राह्मणों को; महादेव और लोकपालों
( इन्द्र आदि ) में उत्पन्न विकृति पशुओं को; बृहस्पति, शुक्र और शनैश्चर में उत्पन्न विकृति
पुरोहितों को; विष्णु में उत्पन्न विकृति मनुष्यों को; कार्तिकेय और विशाख देव में उत्पन्न
विकृति मण्डलाधिप राजाओं को; वेदव्यास में उत्पन्न विकृति मन्त्री को; गणेश में उत्पन्न
विकृति सेनापति को; ब्रह्मा और विश्वकर्मा में उत्पन्न विकृति मनुष्यों को; देवकुमारों में
उत्पन्न विकृति राजकुमारों को; देवकुमारी में उत्पन्न विकृति राजकुमारियों को; देवाङ्गनाओं
में उत्पन्न विकृति राजपत्नियों को एवं देवताओं के दास में उत्पन्न विकृति राजाओं के
सेवकों को अशुभ फल प्रदान करने वाली होती है। इसी प्रकार राक्षसों में उत्पन्न विकृति
राजकुमारों को, पिशाचों में उत्पन्न विकृति राजकुमारियों को, यक्षों में उत्पन्न विकृति
राजपत्नियों को और नागों में उत्पन्न विकृति राजसेवकों को अशुभ फल देने वाली होती
है। इन सभी उत्पातों का फल आठ महीने में घटित होता है।।१०-१४।।
ऋषयो मुनयः । धर्मो देवविशेषः । पितरः प्रसिद्धा भूतजना लेपमयाः कुत्रचित् क्रियन्ते ।
ब्रह्मा पितामहः । एतेषु यत्रोद्भूतमुत्पन्नं वैकृतं विकारस्तद् द्विजातीनां ब्राह्मणानामनिष्ट-
मशुभप्रदमित्यर्थः ।
यच्च रुद्रस्य महादेवस्य वैकृतं लोकपालादीनामिन्द्रादीनां च यद्वैकृतं तदुत्पन्नं तत्पशूनां
चतुष्पदानामनिष्टमशुभम् ।
गुरुर्जीवः । सितः शुक्रः । शनैश्चर आर्किः । तदुत्थं तत्सम्भवमनिष्टं पुरोधसां पुरोहिता-
नाम् । विष्णुजं नारायणोद्भूतं वैकृतं लोकानां जनानामनिष्टम्। स्कन्दः कुमारः । विशाखो
देवविशेषः । तत्समुत्थं तदुद्भूतं माण्डलिकानां मण्डलाधिपानां नरेन्द्राणां राज्ञामनिष्टम्।
वेदव्यासो व्यास एव। वेदव्यासे यद्वैकृतं तन्मन्त्रिणि सचिवे अनिष्टम्। विनायके
गणपतौ वैकृतं तच्चमूनाथे सेनापातावनिष्ठम्। धातरि प्रजापतौ सविश्वकर्मणि विश्वकर्मसहिते
यद्वैकृतं तल्लोकानां जनानामभावाय विनाशाय निर्दिष्टं कथितम्।
देवकुमाराणां यद्वैकृतं तन्नरपतेः कुमाराणामनिष्टम्। एवं देवकुमारीणां यद्वैकृतं
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

उत्पाताध्यायः ५२१
तद्राजकुमारीणामनिष्टम्। देववनितानां सुरस्त्रीणां यद्वैकृतं तन्नृपस्त्रीणामनिष्टम्। देवप्रेष्याणां
देवदासानां यद्वैकृतं भवेत्तद्राजदासानामनिष्टमिति।
रक्षो राक्षसः। पिशाचा देवयोनयः। गुह्यका यक्षाः। नागाः प्रसिद्धाः। एषां वैकृतमेवमेव
वानेन प्रकारेण निर्दिष्टं कथितम्। एतदुक्तं भवति—रक्षःपिशाचगुह्यकनागानां ये
कुमारकुमारीवनिताप्रेष्यास्तेषु यद्वैकृतं तन्नरपतेः कुमारकुमारिकास्त्रीपरिजनानामनिष्टम्।
एषामुक्तानामुत्पातानां सर्वेषामष्टाभिर्मासैरतीतैः फलपाकः।।१०-१४।।
अथैतेषामुत्पातानां शान्त्यर्थमाह—
बुद्ध्वा देवविकारं शुचिः पुरोधास्त्र्यहोषितः स्नातः।
स्नानकुसुमानुलेपनवस्त्रैरभ्यर्चयेत् प्रतिमाम् ।।१५।।
मधुपर्केण पुरोधा भक्ष्यैर्बलिभिश्च विधिवदुपतिष्ठेत्।
स्थालीपाकं जुहुयाद्विधिवन्मन्त्रैश्च तल्लिङ्गैः ।।१६।।
देवता में विकृति को जानकर पवित्र, संयत, स्नान किया हुआ, तीन दिन तक व्रती
पुरोहित को विकारयुक्त देवताओं को स्नान, पुष्प, चन्दन, वस्त्र, दही मिला हुआ भोजन
पदार्थ और बलि आदि से विधिपूर्वक पूजन तथा स्थालीपाक ( चरु ) से तत्तद् देवता का
मन्त्र पढ़ते हुये अग्नि में हवन करना चाहिये।।१५-१६।।
देवविकारं सुरवैकृतं बुद्ध्वा ज्ञात्वा। पुरोहितः। शुचिः शौचयुक्तः। समाहितः संयतः।
स्नातश्च कृतस्नानः। त्र्यहोषितो दिनत्रयं कृतोपवासः। स्नानैः। कुसुमैश्च पुष्पैः। अनुलेपनैः
समालम्भनैः। वस्त्रैरम्बरैः प्रतिमामुत्पन्नविकारामभ्यर्चयेत् पूजयेत्।
पुरोधाः पुरोहितो मधुपर्केण दध्ना संयुक्तेन भक्ष्यैर्मोदकैर्लोपिकापूपादिभिर्बलिभिरुप-
हारैश्च विधिवद्विधानेनोपतिष्ठेत् पूजयेत् स्थालीपाकं चरुं तल्लिङ्गैस्तद्देवत्यैर्मन्त्रैर्विधिवद्विधाने-
नाग्नौ जुहुयात्।।१५-१६।।
अथ कालप्रमाणं शान्तिप्रभावं चाह—
इति विबुधविकारे शान्तयः सप्तरात्रं
द्विजविबुधगणार्चा गीतनृत्योत्सवाश्च।
विधिवदवनिपालैर्यैः प्रयुक्ता न तेषां
भवति दुरितपाको दक्षिणाभिश्च रुद्धः ।।१७।।
पूर्वोक्त देवविकार होने पर राजा सात रात्रि तक ब्राह्मण और देवताओं की पूजा, गीत,
नृत्य, रात्रि-जागरण आदि उत्सव करे। इस प्रकार जिन राजाओं द्वारा किया जाता है,
उनको पूर्वोक्त शान्ति और दक्षिणा से रुद्ध उत्पात का अनिष्ट फल नहीं होता।।१७।।
इत्यनेन विधानेन विबुधविकारे सुरविकृतौ सप्तरात्रं सप्ताहं शान्तयः कर्तव्याः।
द्विजातीनां ब्राह्मणानां विबुधानां देवानां गणानां गजवक्त्रप्रभृतीनाम्। अथवा द्विजगणानां
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA