बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 1 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 545, कुल 728 में से
संदर्भ में पढ़ेंनीराजनाध्यायः ५०३
अन्यच्च—
खदिरपलाशोदुम्बरकाश्मर्यश्वत्थनिर्मिताः समिधः ।
स्रुक् कनकाद्रजताद्वा कर्तव्या भूतिकामेन ॥१२॥
खैर, ढाक, गूलर, गम्भारी और पीपल की लकड़ी की समिधा बनाकर सम्पत्ति की
इच्छा करने वाले राजा को सोना या चाँदी की स्रुवा बनानी चाहिये॥१२॥
खदिरः। पलाशः। उदुम्बरः। काश्मरी। अश्वत्थः। एते सर्व एव वृक्षविशेषा याज्ञिकाः
सुप्रसिद्धाः। एभ्यो निर्मिताः सम्भूताः समिधः कार्याः। तथा भूतिकामेन समृद्धिरिच्छता
स्रुक् कनकात् सुवर्णात् रजताद्वा कर्तव्या॥१२॥
ततः किं कुर्यादित्याह—
पूर्वाभिमुखः श्रीमान् वैयाघ्रे चर्मणि स्थितो राजा ।
तिष्ठेदनलसमीपे तुरगभिषग्दैववित्सहितः ॥१३॥
ब्याघ्र के चर्म पर पूर्वाभिमुख होकर अग्नि के समीप में वैद्य और ज्योतिषी के
साथ श्रीमान् राजा बैठे॥१३॥
राजा नृपः। श्रीमान् श्रीर्विद्यते यस्य। त्रिवर्गसमाश्रयः। श्रीमानित्यनेन राज्ञो महिमानं
दर्शयति। सकलप्रतिपत्तियुक्तस्तत्रस्थ इत्यर्थः। पूर्वाभिमुखः पूर्वस्यां दिशि निरीक्षमाणो
वैयाघ्रे व्याघ्रस्य चर्मणि स्थित उपविष्टः। अनलसमीपेऽग्निसन्निधौ तुरगभिषग्दैववित्सहितः,
तुरगभिषजा अश्ववैद्येन दैवविदा सांवत्सरिकेण सहितः संयुक्तस्तत्र तिष्ठेत्॥१३॥
अथ दैवविदा तत्र किं कार्यमित्याह—
यात्रायां यदभिहितं ग्रहयज्ञविधौ महेन्द्रकेतौ च ।
वेदीपुरोहितानललक्षणमस्मिंस्तदवधार्यम् ॥१४॥
यात्रा नामक पुस्तक के ग्रहयज्ञविधि में तथा इन्द्रध्वजलक्षणाध्याय में वेदी, पुरोहित
और अग्नि के जो लक्षण कहे हैं, वह इस नीराजनाध्याय में भी समझना चाहिये॥१४॥
वेद्या अग्न्यागारस्य। पुरोहितस्य हेतुः। अनलस्याग्नेः। लक्षणं यात्रायामभिहितं
कथितम्। क्व ग्रहयज्ञविधौ। ग्रहाणां यज्ञविधाने। तथा महेन्द्रकेताविन्द्रध्वजे च यदुक्तं
तदस्मिन्नीराजने अवधार्यं लक्षणीयमिति। तथा च यात्रायां ग्रहयज्ञे—
ग्रहयज्ञमतो वक्ष्ये तत्र निमित्तानि लक्षयेद्धेयाम्।
भङ्गो मानोनायां दिग्भ्रष्टायामसिद्धिborderश्च।।
नगरपुरोहितदेवीसेनापतिपार्थिवक्षयं कुरुते।
प्राग्दक्षिणापरोत्तरमध्यमभागेषु या विकला।।
तथा च पुरोहितस्य—
कम्पोच्छ्वासविजृम्भणप्रचलनस्वेदाश्रुपातक्षुधो-
द्वाराद्यं च पुरोधसः स्मृतिविपच्चानिष्टमन्यच्छुभम्।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA