बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 1 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 546, कुल 728 में से
संदर्भ में पढ़ें५०४ बृहत्संहिता
आज्यं केशापिपीलकामलयुतं सत्त्वावलीढं च य-
तन्नेष्टं शुभमन्यथोपकरणं द्रव्याण्यनूनानि च ।।
तथा चानललक्षणम्—
उत्थाय स्वयमुज्ज्वलार्चिरनलः स्वाहावसाने हवि-
र्भुङ्क्ते देवसुखप्रदक्षिणगतिः स्निग्धो महान् संहतः ।
निर्धूमः सुरभिः स्फुलिङ्गरहितो यात्रानुलोमो मृदु-
र्मुक्तेन्दीवरकाञ्चनद्युतिधरो वह्निः श्रियं यच्छति ।।
इष्टद्रव्यघतातपत्रतुरगश्रीवृक्षशैलाकृति-
र्भेर्यब्दोदधिदुन्दुभीशकटस्निग्धस्वनैः पूजितः ।
नेष्टः प्रोक्तविपर्यये हुतवहः स्निग्धोऽन्यथापीष्टदः
सव्येऽङ्गे नृपतेर्दहन्नतिहितः शेषं च लोकाद्वदेत् ।।
तथा महेन्द्रकेताविहैवोक्तम्—
स्वाहावसानसमये स्वयमुज्ज्वलार्चिः ।। इति ।। १४ ।।
ततः किं कुर्यादित्याह—
लक्षणयुक्तं तुरगं द्विरदवरं चैव दीक्षितं स्नातम् ।
अहतसिताम्बरगन्धस्रग्धूमाभ्यर्चितं कृत्वा ।। १५ ।।
आश्रमतोरणमूलं समुप नयेत् सान्त्वयन् शनैर्वाचा ।
वादित्रशङ्खपुण्याहनिःस्वनापूरितदिगन्तम् ।। १६ ।।
वक्ष्यमाण लक्षणों से युत घोड़ा और हाथी का अक्षत, श्वेत वस्त्र, माला, धूप आदि से
पूजन कर अनेक प्रकार के वाद्य और पुण्याह शब्दों से युत अपने आश्रम के समीपस्थित तोरण
के पास मधुर वाणियों से सान्त्वना देते हुए धीरे-धीरे लाना चाहिये ।। १५-१६ ।।
तुरगमश्वम् । द्विरदवरं हस्तिप्रधानं च । लक्षणयुक्तं तुरङ्गं वक्ष्यमाणैः शोभनैरश्वलक्षणै-
र्दीर्घग्रीवाक्षिकूट इत्यादिलक्षणैश्च युक्तम् । तथा द्विरदवरैर्हस्तिलक्षणैस्ताम्रोष्ठतालुवदना
इत्यादिकैश्च युक्तम्। दीक्षितं कृतदीक्षं च स्नातम् । अहतेनाक्षतेन सितेन शुक्लेनाम्बरेण
वस्त्रेण स्रग्भिर्मालाभिर्धूपैर्गुग्गुलुप्रभृतिभिरभ्यर्चितं पूजितं कृत्वा ।
तत आश्रमतोरणमूलम् स्वाश्रमसमीपे यत्तोरणं तन्मूलं तत्र वाचा गिरा सान्त्वयन्
शान्तिं कुर्वन् शनैः शनैर्मन्दं मन्दं समुप नयेत् प्रापयेत्। कीदृशं तोरणमूलम्? वादित्रशङ्ख-
पुण्याहनिःस्वनापूरितदिगन्तम्। वादित्राणां पटहमृदङ्गानां पुण्याहानां शुभशब्दानां निःस्वनैः
शब्दैरापूरिता जडीकृता दिगन्ता यत्र तथाभूतम् ।। १५-१६ ।।
अथाश्वगजयोश्चेष्टितमाह—
यद्यानीतस्तिष्ठेद्दक्षिणचरणं हयः समुत्क्षिप्य ।
स जयति तदा नरेन्द्रः शत्रून्नचिराद्विना यत्नात् ।। १७ ।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA