सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

Brihat Samhita Vol 1 with Vimala Hindi Commentary

आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा

DevanagariHindipublished728 पृष्ठ

४८२ बृहत्संहिता
ततः किं कुर्यादित्याह—
छिन्द्यात् प्रभातसमये वृक्षमुदक् प्राङ्मुखोऽपि वा भूत्वा ।
परशोर्जर्जरशब्दो नेष्टः स्निग्धो घनश्च हितः ॥१९॥
बाद में सूर्योदय के समय उत्तर या पूर्व-मुख होकर वृक्ष को काटे। परशु ( फरसा =
कुल्हार ) का जर्जर शब्द निकलना शुभ नहीं है, किन्तु मधुर और घने शब्द का निकलना
शुभ है ॥१९॥
ततः प्रभातसमये अरुणोदयकाले वृक्षं तरुं छिन्द्यात्। कीदृशो भूत्वा? उदक् प्राङ्-
मुखोऽपि वा भूत्वा, उत्तराभिमुखः पूर्वाभिमुखोऽपि वा स्थित्वा। परशोः कुठारस्य जर्जर-
शब्दो भिन्नशब्दो नेष्टो न शुभः। स्निग्धो मधुरः, घनः सन्ततश्च हितः प्रशस्तः ॥१९॥
अथ पतितस्य शुभाशुभज्ञानमाह—
नृपजयदमविध्वस्तं पतनमनाकुञ्चितं च पूर्वोदक् ।
अविलग्नं चान्यतरौ विपरीतमतस्त्यजेत्पतितम् ॥२०॥
अखण्डित या अवक्र होकर और पूर्व या उत्तर दिशा में वृक्ष का गिरना राजा की
विजय करने वाला होता है। इनसे भिन्न लक्षणयुत होकर ( खण्डित या वक्र होकर
आग्नेय, दक्षिण, नैर्ऋत्य, पश्चिम या वायव्य कोण में ) वृक्ष का गिरना अशुभ है ॥२०॥
वृक्षस्य पतनमविध्वस्तं ध्वंसरहितं नृपजयदम्। अभग्नस्य पतनमित्यर्थः। अनाकुञ्चितं
पतनं नृपजयदमेव। तथा पूर्वोदक् पूर्वस्यामुत्तरस्यां दिशि यदि पतितं तदापि नृपजयदम्।
तथाप्यन्यतरावन्यस्मिन् वृक्षे अविलग्नं पतनं नृपजयदम्। अतोऽस्माद्विपरीतं त्यजेत्
परिहरेदित्यर्थः। एतदुक्तं भवति—वृक्षं कुञ्चितं कुब्जं कृत्वा यत् पतितं तथाग्नेयीदक्षिण-
नैर्ऋत्यपश्चिमवायव्यासु पतितमन्यस्मिंस्तरौ च लग्नं तन्न शुभदमित्यर्थः ॥२०॥
ततः किं कुर्यादित्याह—
छित्त्वाग्रे चतुरङ्गुलमष्टौ मूले जले क्षिपेद्यष्टिम् ।
उद्धृत्य पुरद्वारं शकटेन नयेन्मनुष्यैर्वा ॥२१॥
इस वृक्ष के आगे से चार अङ्गुल और मूल से आठ अङ्गुल काटकर यष्टि ( मध्यभाग )
को जल में डाल देना चाहिये। बाद में जल से निकाल कर गाड़ी या मनुष्यों के द्वारा
पुरद्वार पर उसको लाना चाहिये ॥२१॥
ततस्तस्य वृक्षस्याग्रे चतुरङ्गुलं छित्त्वा तां यष्टिं जले उदकमध्ये क्षिपेत्। ततो
जलादुद्धृत्य शकटेन मनुष्यैर्नैरैर्वा पुरद्वारं नगरगोपुरं नयेत् ॥२१॥
अथ तस्य नीयमानस्य लक्षणमाह—
अरभङ्गे बलभेदो नेम्या नाशो बलस्य विज्ञेयः ।
अर्थक्षयोऽक्षभङ्गे तथानिभङ्गे च वर्द्धकिनः ॥२२॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

लकड़ी लाने के समय गाड़ी का आरा टूट जाय तो सेनाओं में भेद, नेमि ( हाल )
टूट जाय तो सेनाओं का नाश, अक्ष ( धुरा ) टूट जाय तो धन का नाश और अणि
( कुलावा ) टूट जाय तो बढ़ई का नाश होता है।।२२।।
अरं चक्रस्य मध्यवर्ति काष्ठम्। तस्य भङ्गे बलस्य सैन्यस्य भेदो भवति। नेमिश्चक्र-
पर्यन्तम्। तस्या भङ्गे बलस्य नाशः क्षयो भवति। अक्षश्चक्रविवरवर्ति काष्ठम्। तस्य भङ्गे-
ऽर्थक्षयो द्रव्यविनाशः। अणिरक्षाग्रे कीलकः। तस्य भङ्गे वर्द्धकिनस्तक्षणः क्षयः।।२२।।
अथ कस्मिन् काले प्रवेशयेदित्याह श्लोकद्वयेन—
भाद्रपदशुक्लपक्षस्याष्टम्यां नागरैर्वृतो राजा।
दैवज्ञसचिवकञ्चुकिविप्रप्रमुखैः सुवेषधरैः ॥२३॥
अहताम्बरसंवीतां यष्टिं पौरन्दरीं पुरं पौरैः ।
स्रग्गन्धधूपयुक्तां प्रवेशयेच्छङ्खतूर्यरवैः ॥२४॥
भाद्र शुक्ल अष्टमी के दिन नगर में रहने वाले मनुष्य, ज्योतिषी, मन्त्री, कञ्चुकी और
सुन्दर वेषधारी प्रधान ब्राह्मणों के साथ होकर राजा पुरवासियों के द्वारा नवीन वस्त्र से ढकी
हुई, माला, गन्ध और धूपों से युत यष्टि को शङ्ख और तुरही के शब्दों के साथ पुर में प्रवेश
कराना चाहिये।।२३-२४।।
भाद्रपदशुक्लाष्टम्यां तिथौ राजा नृपो नागरैर्नगरवासिभिर्जनैर्वृतः परिवृतस्तथा दैवज्ञेन
सांवत्सरिकेण। सचिवैर्मन्त्रिभिः। कञ्चुकिभिर्महत्तरकैर्विप्रप्रमुखैर्ब्राह्मणप्रवरैः सुवेषधरैः।
पौरैः स पौरन्दरीमैन्द्रीं यष्टिं प्रवेशयेत् पुरं नगरम्। कीदृशीं यष्टिम्? अहताम्बरसंवीताम्,
अहतमक्षतमभिनवमम्बरं वस्त्रं तेन संवीतामावृताम्। तथा स्रग्गन्धधूपयुक्ताम्। स्रग्भिर्मालाभिः,
गन्धैः सुगन्धद्रव्यैः, धूपैश्च संयुक्ताम्। तथा शङ्खरवैः शङ्खशब्दैः, तूर्यरवैः सह प्रवेशयेदिति।
युगलकम्। तथा च गर्गः—
प्रोष्ठपादे सिताष्टम्यां ज्येष्ठायोगे स्वलङ्कृताम्।
यष्टिं पौरन्दरीं राजा नगरं सम्प्रवेशयेत्।। इति।।२३-२४।।
कीदृशं नगरमित्याह श्लोकद्वयेन—
रुचिरपताकातोरणवनमालालङ्कृतं प्रहृष्टजनम्।
सम्मार्जितार्चितपथं सुवेषगणिकाजनाकीर्णम् ॥२५॥
अभ्यर्चितापणगृहं प्रभूतपुण्याहवेदनिर्घोषम्।
नटनर्तकगेयज्ञैराकीर्णचतुष्पथं नगरम् ॥२६॥
मनोहर पताका, तोरण और वनमालाओं से भूषित, हर्षित मनुष्यों से युत, शोधित
और सजाये हुये मार्गों से युत, सुन्दर वेष वाली वेश्याओं से व्याप्त, सजी हुई दुकानों से
युत, अधिक पुण्याह और वेद के शब्दों से युत, नट, नाचने वाले और गान विद्या जानने

४८४ | बृहत्संहिता

वालों से व्याप्त चतुष्पथ ( चौराहे ) वाला नगर होना चाहिये ।। २५-२६ ।।
कीदृशं नगरम्? रुचिरपताकातोरणवनमालालङ्कृतम्, रुचिराभिः शोभनाभिः पताका-
भिर्वैजयन्तीभिः, रुचिरैश्च तोरणैः, तथा वनमालाभिः पत्रलताभिरलङ्कृतम्। प्रहृष्टा हर्षिता
जना लोका यत्र तत्। सम्मार्जितार्चितपथम्, सम्मार्जितः शोधितोऽर्चितः पूजितः पन्था
यत्र तत्। तथा सुवेषगणिकाजनाकीर्णम्, सुवेषेण शोभनवेषेण गणिकाजनेन वेश्या-
समूहेनाकीर्णं व्याप्तम्।
अभ्यर्चितापणगृहम्, अभ्यर्चितानि पूजितानि आपणगृहाणि पण्यविक्रयस्थानानि
यत्र। प्रभूतपुण्याहवेदनिर्घोषम्, प्रभूता बहवः पुण्याहानां वेदानां च निर्घोषाः शब्दा यत्र।
नटनर्तकगेयज्ञैराकीर्णचतुष्पथम्, नटैर्नर्तकैर्गेयज्ञैराकीर्णं संयुक्तं चतुष्पथं यत्र। चत्वारः
पन्थानो यस्य तच्चतुष्पथं नगरम्। युगलकम् ।। २५-२६ ।।
कीदृशीभिः पताकाभिः कार्यमित्याह—
तत्र पताकाः श्वेता भवन्ति विजयाय रोगदाः पीताः।
जयदाश्च चित्ररूपा रक्ताः शस्त्रप्रकोपाय ।। २७ ।।
उस नगर में श्वेत वर्ण की पताका विजय के लिये, पीत वर्ण की रोग देने वाली, अनेक
वर्ण की विजय कराने के लिये और रक्त वर्ण की पताका शस्त्रप्रकोप के लिये होती है।
तत्र तस्मिन्नगरे पताकाः श्वेताः शुक्लवर्णा विजयाय भवन्ति। पीताः पीतवर्णा रोगदा
भवन्ति। चित्ररूपा नानावर्णा जयदा एव। शत्रुविजयं कुर्वन्तीत्यर्थः। रक्ता रक्तवर्णाः पताकाः
शस्त्रप्रकोपाय भवन्ति ।। २७ ।।
तस्यां प्रवेशमानायां शुभाशुभमाह—
यष्टिं प्रवेशयन्तीं निपातयन्तो भयाय नागाद्याः।
बालानां तलशब्दे संग्रामः सत्त्वयुद्धे वा ।। २८ ।।
नगर में प्रवेश कराती हुई यष्टि को यदि हाथी, घोड़ा आदि कोई जीव गिरा दे तो भय
के लिये एवं उस समय बालक तालियाँ बजावें या गायों में परस्पर लड़ाई हो तो युद्ध के
लिये होती है ।। २८ ।।
प्रवेशयन्तीं यष्टिं नागाद्याः। नागा हस्तिनः। आदिग्रहणादश्वमहिषगवादयो गृह्यन्ते।
एते निपातयन्तो भयाय भवन्ति। तथा बालानां शिशूनाम्। तलशब्देन हस्ततलमुच्यते।
तेन करास्फोटेन संग्रामो भवति। सत्त्वानां गवां युद्धे संग्राम एव भवति ।। २८ ।।
ततः किं कुर्यादित्याह श्लोकद्वयेन—
सन्तक्ष्य पुनस्तक्षा विधिवद्यष्टिं प्ररोपयेद्यन्त्रे।
जागरमेकादश्यां नरेश्वरः कारयेच्चास्याम् ।। २९ ।।
सितवस्त्रोष्णीषधरः पुरोहितः शाक्रवैष्णवैर्मन्त्रैः।
जुहुयादग्निं सांवत्सरो निमित्तानि गृह्णीयात् ।। ३० ।।

इन्द्रध्वजसम्पदध्यायः ४८५
फिर बढ़ई विधिपूर्वक यष्टि को छीलकर खराद पर चढ़ावे। राजा आगे आने वाली
एकादशी में जागरण करे। श्वेत वस्त्र और पगड़ी बाँधे हुए पुरोहित इन्द्र दैवत और विष्णु
दैवत मन्त्रों से अग्नि में हवन करे और सांवत्सर ( ज्योतिषी ) अग्नि के शुभाशुभ चिह्नों
को ग्रहण करे।।२९-३०।।
तां यष्टिं पुनर्भूयस्तक्षा वर्द्धकी सन्तक्ष्य तनूकृत्य विधिवद्विधानेन यन्त्रे प्ररोपयेत्।
आसनस्थाने निवेश्य तिर्यक् स्थितां कुत्रचित् सक्तां स्थापयेत्। तथास्थितायामेकादश्यां
नरेश्वरो राजा रात्रिजागरं कारयेत्।
तस्य च राज्ञः पुरोहित आचार्यः शाक्रवैष्णवैर्रिन्द्रदैवतैर्विष्णुदैवतैश्च मन्त्रैरग्निमनलं
जुहुयात्। कीदृशः पुरोहितः? सितवस्त्रोष्णीषधरः, सितानि श्वेतानि वस्त्राणि अम्बराणि,
तथोष्णीषं शिरःपट्टविशेषं यो धारयति। सांवत्सरो ज्योतिषिकः। अग्नेर्निमित्तानि शुभा-
शुभानि चिह्नानि गृह्णीयात्। युगलकम्।।२९-३०।।
अथ शुभाशुभानि चिह्नान्याह—
इष्टद्रव्याकारः सुरभिः स्निग्धो घनोऽनलोऽर्चिष्मान्।
शुभकृदतोऽन्योऽनिष्टो यात्रायां विस्तरोऽभिहितः ।।३१।।
अभिलषित द्रव्यों के समान, सुगन्धयुत, निर्मल, घना और लपटदार अग्नि शुभ
करने वाली और इससे भिन्न लक्षणयुत अग्नि अशुभ करने वाली होती है। इस सम्बन्ध
को लेकर योगयात्रा नामक ग्रन्थ में मैंने विस्तारपूर्वक कहा है।।३१।।
इष्टं द्रव्यं यदभिरुचितं मनसीप्सितमातपत्रादि तदाकारस्तत्सदृशः। सुरभिः सुगन्धः।
स्निग्धोऽरूक्षः। घनः सन्ततः। अर्चिष्मान् ज्वालावान्, एवंविधोऽनलो वह्निः शुभकृत्
शुभं क्षेमं करोति। अतोऽस्मादन्योऽनिष्टो न शुभः। एतदेव विपर्ययेण यदभिहितं तदनिष्टम्।
यथा—अनिष्टद्रव्याकारः, असुरभिः, अस्निग्धः, अघनः, ज्वालारहितः, एतद्विपर्ययम-
शुभमिति। यात्रायां विस्तरोऽभिहितः। योगयात्रायां विस्तर उक्तो मया तदेह न विस्तृतः।
विस्तरेण तदा न कथितः। तथा च योगयात्रायाम्—
कृतेऽपि यत्नेऽपि कृशः कृशानुर्धातव्यकाष्ठाविमुखो नतार्चिः ।
वामे कृतावर्तशिखोऽतिधूमो विच्छिन्नसाकम्पविलीनमूर्तिः ।।
सिमिसिमायति चास्य हविर्हुतं सुरधनुः सदृशः कपिलोऽथवा ।
रुधिरपीतकबभ्रुहरिच्छविः परुषमूर्तिरनिष्टकरोऽनलः ।।
खरकरभकवानरानुरूपो निगडविभीषणशङ्खरूपभृद्वा ।
शवरुधिरवसास्थिमज्जगन्धो हुतभुगनिष्टफलः स्फुलिङ्गकृच्च ।।
चर्मविपाटनतुल्यनिनादो जर्जरदर्दुररूक्षरवो वा।
आकुलयंश्च पुरोहितमर्त्यान् धूमलवैर्न शिवाय हुताशः ।।
हारकुन्दकुमुदेन्दुसन्निभः संहतोऽङ्गसुखदो महोदयः ।
अङ्कुशातपनिवारणाकृतिर्हूयतेऽल्प उपमानहव्यभुक् ।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

४८६ बृहत्संहिता
उत्थाय स्वयमुज्ज्वलाचिरनलः स्वाहावसाने हवि-
र्भुङ्क्ते देहसुखप्रदक्षिणगतिः स्निग्धो महान् संहतः ।
निर्धूमः सुरभिः स्फुलिङ्गरहितो घातानुलोमो मृदु-
र्मुक्तेन्दीवरकाञ्चनद्युतिधरो यातुर्जयं संशति ।।
इष्टद्रव्यघतातपत्रतुरगश्रीवृक्षशैलाकृति-
र्भेर्यब्दोदधिदुन्दुभीतशकटस्निग्धस्वनैः पूजितः ।
नेष्टः प्रोक्तविपर्यये हुतवहः स्निग्धो यथाभीष्टदः
सव्येऽङ्गे नृपतेर्दहन्नतिशुभः शेषं च लोकाद्वदेत् ।। इति ।। ३१ ।।
अथान्यल्लक्षणमाह—
स्वाहावसानसमये स्वयमुज्ज्वलार्चिः
स्निग्धः प्रदक्षिणशिखो हुतभुग् नृपस्य ।
गङ्गादिवाकरसुताजलचारुहारां
धात्रीं समुद्ररशनां वशगां करोति ।। ३२ ।।
यदि स्वाहा के अवसान ( पूर्णाहूति देने के ) समय स्वयं प्रज्वलित शिखा वाली
निर्मल और दक्षिणावर्त्त क्रम से चलती हुई शिखा वाली अग्नि हो तो गङ्गा और यमुना के
जलरूपी सुन्दर हार वाली, समुद्ररूपी मेखला ( तगड़ी ) वाली पृथिवी को राजा अपने वश
में करता है, अर्थात् सम्पूर्ण पृथिवी का राजा होता है ।। ३२ ।।
एवंरूपो हुतभुगग्निर्नृपस्य राज्ञः समुद्ररशनां समुद्रमेखलां धात्रीं भूमिं वशगां करोति ।
कीदृशीं धात्रीम् ? गङ्गादिवाकरसुताजलचारुहाराम्, गङ्गा जाह्नवी, दिवाकरसुता यमुना,
तयोर्यज्जलं सलिलं तदेव चारुदर्शनीयो हारो यस्यास्ताम् । कीदृशोऽग्निः ? स्वाहावसानसमये
पूर्णाहूतिदानकाले स्वयमेवोज्ज्वलार्चिः, स्वयमेवोज्ज्वलोऽर्चिर्यस्याग्नेः । स्निग्धो निर्मलः ।
प्रदक्षिणशिखः, प्रादक्षण्येन शिखा ज्वाला यस्येत्यर्थः ।। ३२ ।।
अन्यदाह—
चामीकराशोककुरण्टकाब्जवैदूर्यनीलोत्पलसन्निभेऽग्नौ ।
न ध्वान्तमन्तर्भवनेऽवकाशं करोति रत्नांशुहतं नृपस्य ।। ३३ ।।
यदि सुवर्ण, अशोक, कुरण्टक, वैदूर्य मणि या नील कमल के समान कान्ति वाली
अग्नि हो तो हवन कराने वाले राजा के भवन में ठहरने के लिये रत्नों की किरणों से नष्ट
होकर अन्धकार अवकाश नहीं पाता है ।। ३३ ।।
एवंविधेऽग्नौ नृपस्य राज्ञो ध्वान्तमन्धकारम् । अन्तर्भवने गृहमध्ये अवकाशं न करोति ।
यतो रत्नांशुहतम्, रत्नानामंशवो रत्नांशवस्तैर्हतं नष्टं रत्नांशुहतम् । रत्नांशुहतमित्यनेन
रत्नलाभ उक्तः । कीदृशेऽग्नौ ? चामीकरं सुवर्णम्, अशोकः पुष्पविशेषः, कुरण्टकश्च, अब्जं
पद्मम्, वैदूर्यो रत्नविशेषः, नीलोत्पलमिन्दीवरम्, एषां सन्निभे अग्नौ शुभः प्रत्यासन्नो भवति ।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

इन्द्रध्वजसम्पदध्यायः ४८७
अन्यदपि लक्षणमाह—
येषां रथौघार्णवमेघदन्तिनां समस्वनोऽग्निर्यदि वापि दुन्दुभेः।
तेषां मदान्धेभघटावघट्टिता भवन्ति याने तिमिरोपमा दिशः॥३४॥
यदि अग्नि में समुद्र, मेघ, हाथी या नगाड़े के समान शब्द हो तो उस राजा के गमन
करने के समय मदमत्त हाथियों से व्याप्त दिशायें अन्धकार की तरह हो जाती हैं अर्थात्
उस राजा के पास हाथियों की अधिकता होती है॥३४॥
येषां राज्ञां रथौघो गोरथसमूहः। अर्णवः समुद्रः। मेघोऽम्बुदः। दन्ती हस्ती। एषां
समस्वनस्तुल्यशब्दोऽग्निर्यदि। वापि दुन्दुभेः, दुन्दुभिर्वाद्यविशेषः तत्समानो वा। तेषां
राज्ञां मदान्धा ये इभा हस्तिनः। तेषां या घटास्ताभिरवघट्टिता रुद्धा दिशो याने गमने तिमि-
रोपमा अन्धकारसदृश्यो भवन्ति। तिमिरोपमा दिश इत्यनेन हस्तिबाहुल्यमुक्तम्॥३४॥
अन्यदपि वह्निलक्षणमाह—
ध्वजकुम्भहयेभभूभृतामनुरूपे वशमेति भूभृताम्।
उदयास्तधराधराऽधरा हिमवद्विन्ध्यपयोधरा धरा ॥३५॥
पताका, घड़ा, घोड़ा या हाथियों के समान अग्नि हो तो उदयाचल और अस्ताचलरूप
ओष्ठ, हिमालय और विन्ध्याचलरूप स्तन वाली पृथ्वी उस राजा के वश में हो जाती है।
ध्वजश्चिह्नं पताकादि। कुम्भो घटः। हयोऽश्वः। इभो हस्ती। भूभृत् पर्वतः। एषामनुरूपे
सदृशेऽग्नौ भूभृतां राज्ञां धरा भूर्वशमेति। कीदृशी धरा? उदयधराधरः अस्तमयधराधर
उदयास्तधराधरौ तावेवाधरावोष्ठौ यस्याः। हिमवद्विन्ध्यौ पयोधरौ स्तनौ यस्याः॥३५॥
अथान्यदपि वह्निलक्षणमाह—
द्विरदमदमहीसरोजलाजाघृतमधुना च हुताशने सगन्धे।
प्रणतनृपशिरोमणिप्रभाभिर्भवति पुरश्छुरितेव भूर्नृपस्य ॥३६॥
यदि अग्नि में हाथियों के मदजल, लाजा ( खीलें = लाई = लावा ), घी या शहद
के समान सुगन्धि हो तो हवन कराने वाले राजा को प्रणाम करते हुये राजाओं के मुकुटों
में जड़ी हुई मणियों की कान्ति से आगे की भूमि रँगी हुई-सी दिखाई देती है॥३६॥
द्विरदो हस्ती तस्य मदो मधुजलम्। मही भूः। सरोजं पद्मम्। लाजाः प्रसिद्धाः। घृत-
माज्यम्। मधु माक्षिकम्। एषां सगन्धे सदृशगन्धे। हुताशने अग्नौ। नृपस्य राज्ञः। भूर्भूमिः।
पुरोऽग्रतः। प्रणतानां प्रह्वाणां नृपाणां राज्ञां शिरोमणयश्चूडारत्नानि। तेषां याः प्रभा दीप्त-
यस्ताभिः छुरिता रञ्जितेव भाति॥३६॥
अत्र यदुक्तमग्निलक्षणं तदन्यत्रापि चिन्त्यमित्याह—
उक्तं यदुत्तिष्ठति शक्रकेतौ शुभाशुभं सप्तमरीचिरूपैः।
तज्जन्मयज्ञग्रहशान्तियात्राविवाहकालेष्वपि चिन्तनीयम् ॥३७॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

४८८ बृहत्संहिता
इन्द्रध्वज उठाने के समय अग्नि के स्वरूप द्वारा जो शुभाशुभ फल कहे गये हैं, उनका
जन्मसमय, यज्ञकाल, ग्रहशान्ति, यात्रा और विवाहकाल में भी विचार करना चाहिये।
शक्रकेताविन्द्रध्वजे उत्तिष्ठति सति यच्छुभाशुभं सदसत्फलं सप्तमरीचिरूपैः,
सप्तमरीचिरग्निस्तस्य रूपैर्यदुक्तं यत्कथितं तत्सर्वं जन्मसमये। यज्ञे यज्ञकाले, ग्रहशान्तौ,
यात्रायाम्, विवाहकाले च। एवमादिष्वपि चिन्तनीयम्॥३७॥
तत्किं कुर्यादित्याह—
गुडपूपपायसाद्यैर्विप्रानभ्यर्च्य दक्षिणाभिश्च।
श्रवणेन द्वादश्यामुत्थाप्योऽन्यत्र वा श्रवणात्॥३८॥
गुड़, पूप ( पिट्ठी ), पायस और दक्षिणाओं से ब्राह्मणों की पूजा करके श्रवण नक्षत्रयुत
द्वादशी तिथि में या श्रवण नक्षत्रयुत अन्य किसी तिथि में ध्वजा को उठाना चाहिये॥३८॥
गुड इक्षुविकारः। पूपो मुद्गकृतो मिश्रितो वा तण्डुलेन सह। पायसं प्रसिद्धम्। आदि-
ग्रहणादोदनमोदकलोपिकाश्च गृह्यन्ते। एतैर्विप्रान् ब्राह्मणानभ्यर्च्य सम्पूज्य। न केवलं गुडपूप-
पायसाद्यैः, दक्षिणाभिश्च पूजयित्वा द्वादश्यां श्रवणेन नक्षत्रेणोत्थाप्य उत्थापनीयः। श्रवणा-
दन्यत्र वा द्वादश्यामुत्थापनीयः। एतदुक्तं भवति—द्वादश्यां श्रवणो भवतु मा वा सर्वत्रोत्थापनं
कार्यम्। तथा च गर्गः—
तत्र श्रवणयोगेन ध्वजोत्थापनं प्रशस्यते।
द्वादश्यां विजये वाश्वमुहूर्ते वा दिनेऽथवा॥ इति॥३८॥
अधुना शक्रकुमारीणां लक्षणं श्लोकद्वयेनाह—
शक्रकुमार्यः कार्याः प्राह मनुः सप्त पञ्च वा तज्ज्ञैः।
नन्दोपनन्दसंज्ञे पादोनाद्धे ध्वजोच्छायात्॥३९॥
षोडशभागाभ्यधिके जयविजये द्वे वसुन्धरे चान्ये।
अधिका शक्रजनित्री मध्येऽष्टांशेन चैतासाम्॥४०॥
ध्वजा के ऊपर पाँच या सात शक्र कुमारी बनाना चाहिये—ऐसा मनु ने कहा है। ध्वजा
की ऊँचाई से चौथाई कम नन्दा, ध्वजा के आधा तुल्य उपनन्दा, ध्वजा से सोलहवाँ भाग
अधिक जय और विजय, जय और विजय से सोलहवाँ भाग अधिक दो वसुन्धरा तथा सबके
बीच में वसुन्धरा से आठवाँ भाग अधिक शक्र जनित्री बनानी चाहिये॥३९-४०॥
मनुरेवं प्राह, एवमुक्तवान्। यथा तज्ज्ञैः शक्रध्वजलक्षणज्ञैः सप्त पञ्च वा शक्रकुमार्यः
कार्याः। तथा च गर्गः—
दृढकाष्ठकृताः पञ्च सप्त वा लक्षणान्विताः।
इन्द्रध्वजस्य शोभाथं कुमारीः कारयेद् द्विजः॥
नन्दोपनन्दसंज्ञे इति। नन्दोपनन्दासंज्ञे द्वे ध्वजोच्छायाद्यथासङ्ख्यं पादोनाद्धे कार्ये।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

नन्दा ध्वजप्रमाणचतुर्भागोना कार्या। उपनन्दा ध्वजार्द्धप्रमाणेनेति।
अत्राचार्येणेन्द्रध्वजप्रमाणं सामान्येनोक्तम्। गर्गादिभिर्विशेषेणोक्तम्। तथा च गर्गः—
अष्टाविंशत्करा यष्टिरष्टहस्ता ततोऽपरा।
विष्कम्भश्चाङ्गुलैस्तस्याः षड्भिर्द्विगुणितैः स्मृतः।।
समग्रमनुलोमं वा तक्षं प्राक् शिखयान्वितम्।
कुर्यादिन्द्रध्वजं शुभ्रं सारदारुमयं शुभम्।।
षोडशभागेति। नन्दोपनन्दसंज्ञाभ्यां यथाक्रमं जयविजये द्वे षोडशभागाधिके कार्ये।
जयविजयाभ्यां सकाशात् षोडशभागाभ्यधिके अन्ये वसुन्धरासंज्ञे ध्वजे कार्ये। एतासां
सर्वासां मध्ये शक्रजनित्री इन्द्रमाताऽष्टांशेनाष्टांशाधिका वसुन्धरात् कार्येति। युगल-
कम्।।३९-४०।।
अथान्यदपि शक्रकेतुलक्षणमाह—
प्रीतैः कृतानि विबुधैर्यानि पुरा भूषणानि सुरकेतोः।
तानि क्रमेण दद्यात् पिटकानि विचित्ररूपाणि ।।४१।।
पूर्व समय में हर्षित देवताओं ने इन्द्रध्वज को जो आभूषण दिये थे, क्रमानुसार उन
विचित्र रूपपिटकों ( आभूषणों ) से इस ध्वज को भूषित करना चाहिये।।४१।।
पुरा पूर्वं सुरकेतोरिन्द्रध्वजस्य प्रीतैः प्रीतिमद्भिर्विबुधैर्देवैर्यानि भूषणानि अलङ्करणानि
कृतानि तानि च क्रमेण परिपाट्या विचित्ररूपाणि पिटकानि दद्यात्।।४१।।
तानि सर्वाण्याहाष्टभिः श्लोकैः—
रक्ताशोकनिकाशं चतुरस्रं विश्वकर्मणा प्रथमम्।
रशना स्वयम्भुवा शङ्करेण चानेकवर्णगा दत्ता।।४२।।
अष्टाश्रि नीलरक्तं तृतीयमिन्द्रेण भूषणं दत्तम्।
असितं यमश्चतुर्थं मसूरकं कान्तिमदयच्छत्।।४३।।
मञ्जिष्ठाभं वरुणः षडश्रि तत्पञ्चमं जलोर्मिनिभम्।
मायूरं केयूरं षष्ठं वायुर्जलदनीलम्।।४४।।
स्कन्दः स्वं केयूरं सप्तममददद् ध्वजाय बहुचित्रम्।
अष्टममनलज्वालासङ्काशं हव्यभुग्वृत्तम्।।४५।।
वैदूर्यसदृशमिन्द्रो नवमं ग्रैवेयकं ददावन्यत्।
रथचक्राभं दशमं सूर्यस्त्वष्टा प्रभायुक्तम्।।४६।।
एकादशमुद्वंशं विश्वेदेवाः सरोजसङ्काशम्।
द्वादशमपि च निवेशमृषयो नीलोत्पलाभासम्।।४७।।

४९० बृहत्संहिता
किञ्चिदध ऊर्ध्वनिर्मितमुपरि विशालं त्रयोदशं केतोः ।
शिरसि बृहस्पतिशुक्रौ लाक्षारससन्निभं ददतुः ॥४८॥
यद्यद्येन विभूषणममरेण विनिर्मितं ध्वजस्यार्थे ।
तत्तत्तद्देवतं विज्ञातव्यं विपश्चिद्भिः ॥४९॥
विश्वकर्मा ने लाल अशोक के समान कान्ति वाला चौकोर प्रथम आभूषण इन्द्रध्वज
को दिया। ब्रह्मा और शंकर ने अनेक रंग वाली दूसरी रशना (तगड़) दी। इन्द्र ने नील
और लाल वर्णयुत आठ कोण वाला तृतीय आभूषण दिया। यमराज ने काला, कान्तियुत
मसूरक नामक चौथा आभूषण दिया। वरुण ने मञ्जीठ के समान कान्ति वाला, जलावर्त्त की
तरह और छः कोण वाला पाँचवाँ आभूषण दिया। वायु ने मयूर के पंख से व्याप्त और
मेघ के समान नील वर्ण वाला छठा आभूषण केयूर दिया। कार्त्तिकेय ने अपना अनेक
वर्ण का केयूर नामक सातवाँ आभूषण दिया। अग्नि ने अग्निशिखा की तरह कान्ति वाला
और गोलाकार आठवाँ आभूषण दिया। इन्द्र ने वैदूर्यमणि के समान कान्ति वाला नवम
कण्ठ का भूषण दिया। त्वष्टा नामक सूर्य ने रथ के पहिये की तरह और कान्तियुत दशवाँ
भूषण दिया। विश्वदेव ने कमल के समान उद्वंशसंज्ञक ग्यारहवाँ भूषण दिया। मुनियों ने
नीलकमल के समान कान्ति वाला निवेश नामक बारहवाँ भूषण दिया। बृहस्पति और
शुक्र ने कुछ नीचे-ऊपर बना हुआ, आगे के भाग में विस्तृत और लाक्षारस के समान लोहित
वर्ण का तेरहवाँ भूषण शिर में दिया। जिस-जिस देवता ने इन्द्रध्वज के लिये जो-जो भूषण
बनाया, वही उस भूषण के देवता हैं, यह पण्डितों को जानना चाहिये।।४२-४९।।
रक्ताशोकनिकाशं रक्ताशोकसदृशप्रभं चतुरस्रं चतस्रोऽश्रयो यस्य तत् तथाभूतं विश्व-
कर्मणा प्रथमं विभूषणमिन्द्रध्वजाय दत्तम्। स्वयम्भुवा ब्रह्मणा। शङ्करेण महेश्वरेण अनेकवर्णगा
नानावर्णा रशना मेखला दत्ता द्वितीया।
अष्टाश्रीति । इन्द्रेण शक्रेण तृतीयं भूषणमलङ्करणम्। अष्टाश्रि, अष्टावश्रयो यस्य
अष्टकोणमित्यर्थः। नीलरक्तं नीलवर्णं रक्तवर्णं च दत्तम्। चतुर्थमसितं कृष्णवर्णं मसूरकं
कान्तिमत् कान्तियुक्तं यमः प्रेताधिपोऽयच्छत् अदात्।
मञ्जिष्ठाभमिति । वरुणोऽपाम्पतिर्मञ्जिष्ठाभं मञ्जिष्ठवर्णं षडश्रि षडश्रयो यस्य षट्कोण-
मित्यर्थः। जलोर्मिनिभं उदकावर्त्तसदृशमदात् तत्पञ्चमम्। षष्ठं मायूरं मयूरपक्षचितं केयूरं
बाहुवर्त्तकं जलदनीलं मेघवत् श्यामं वायुरदात्।
स्कन्दः कुमारः स्वमात्मीयं केयूरं बाहुवर्त्तकं बहुचित्रं नानावर्णं सप्तमं ध्वजायादात्।
अनलज्वालासङ्काशं वह्निशिखासमकान्ति वृत्तं परिवर्त्तुलं हव्यभुगग्निरष्टममदात्।
वैदूर्येति । अन्यदपरं ग्रैवेयकं ग्रीवाभूषणम्। वैदूर्यसदृशम्। वैदूर्यमणितुल्यप्रभं नवम-
मिन्द्रो ददौ। सूर्य आदित्यो रथचक्राभं रथचक्रसदृशं त्वष्टा नामार्कः प्रभावयुक्तं कान्ति-
सहितं दशमं ददौ।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

इन्द्रध्वजसम्पदाध्यायः ४९१
एकादशेति । विश्वदेवः सरोजसङ्काशं पद्मसदृशमुद्रंशसंज्ञमेकादशं ददौ। ऋषयो
मुनयो निवेशं नाम नीलोत्पलाभासमिन्दीवरसदृशकान्ति द्वादशं ददुः।
किञ्चिदिति । किञ्चिदध ऊर्ध्वं निर्मितम् । ईषदधोभागे रचितम्। ईषच्चोर्ध्वभागे रचितमु-
पर्यग्रतो विशालं विस्तीर्णं लाक्षारससदृशं लोहितकान्ति त्रयोदशं केतोरिन्द्रध्वजस्य शिरसि
मूर्ध्नि बृहस्पतिशुक्रौ गुरुभार्गवौ ददतुः।
यद्यद्द्येनेति। ध्वजस्येन्द्रध्वजस्यार्थे येन येन देवेन यद्यद्विभूषणमलङ्करणं विनिर्मितं
रचितं तत्तत्तस्माद्दैवत्यम्। स एव देवता अस्येति विपश्चिद्भिः शास्त्रज्ञैर्विज्ञातव्यम्। कुल-
कम्।।४२-४९।।
अधुना पिटकस्य परिमाणमाह—
ध्वजपरिमाणत्र्यंशः परिधिः प्रथमस्य भवति पिटकस्य ।
परतः प्रथमात् प्रथमादष्टांशाष्टांशहीनानि ॥५०॥
ध्वजा के तृतीयांश प्रथम पिटक की परिधि, द्वितीय आदि बारह पिटक अपने से पूर्व
पिटक से अष्टमांश कम करना चाहिये । जैसे—अष्टमांशोन—प्रथम-द्वितीय, अष्टमांशोन—
द्वितीय-तृतीय, अष्टमांशोन—तृतीय-चतुर्थ, अष्टमांशोन—चतुर्थ-पञ्चम, अष्टमांशोन—
पञ्चम-षष्ठ, अष्टमांशोन—षष्ठ-सप्तम, अष्टमांशोन—सप्तम-अष्टम, अष्टमांशोन—अष्टम-
नवम, अष्टमांशोन—नवम-दशम, अष्टमांशोन—दशम-एकादश, अष्टमांशोन—एकादश-
द्वादश और अष्टमांशोन—द्वादश-त्रयोदश पिटक बनाना चाहिये।।५०।।
ध्वजस्येन्द्रध्वजस्य यत्परिमाणमुक्तं तस्माद्यस्तृतीयोऽशस्तृतीयो भागस्तावत्सूक्ष्मं प्रथमस्य
पिटकस्य परिधिर्भवति। ततः प्रथमात् पिटकात्परतोऽन्यानि यानि द्वादशपिटकानि तानि
सर्वाण्यष्टांशहीनानि कार्याणि। एतदुक्तं भवति—प्रथमात् पिटकाद् द्वितीयस्याष्टांशहीनः
परिधिः कार्यः। द्वितीयात्तृतीयस्याष्टांशोन इत्यनेन क्रमेण यावत्त्रयोदशं पिटकम्।।५०।।
कस्मिन् दिने पिटकैः पूरणं कार्यमित्याह—
कुर्यादहनि चतुर्थे पूरणमिन्द्रध्वजस्य शास्त्रज्ञः ।
मनुना चागमगीतान् मन्त्रानेतान् पठेन्नियतः ॥५१॥
शास्त्रज्ञ ( इन्द्रध्वज-लक्षण को जानने वाले ) चौथे ( पूर्णिमा के ) दिन पिटकों से
इन्द्रध्वज को भूषित करें और नियत होकर मनु राजा द्वारा आगम से प्रतिपादित वक्ष्यमाण
मन्त्रों को पढ़ें।।५१।।
शास्त्रज्ञ इन्द्रध्वजलक्षणवित् चतुर्थेऽहनि पञ्चदश्यामिन्द्रध्वजस्य पिटकैः पूरणं भरणं
कुर्यात्। कीदृशः ? नियतः प्रह्वः । एतान् मन्त्रान् वक्ष्यमाणान् पठेत् कीर्तयेत्। कीदृशान्?
मनुना नृपेण चागमगीतान्, आगमादुक्तान्।।५१।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

४९२ बृहत्संहिता
तानाह श्लोकचतुष्टयेन—
हरार्कवैवस्वतशक्रसोमैर्धनेशवैश्वानरपाशभृद्भिः ।
महर्षिसंघैः सदिगप्सरोभिः शुक्राङ्गिरःस्कन्दमरुद्गणैश्च ॥५२॥
यथा त्वमूर्जस्करर्णैकरूपैः समर्चितस्त्वाभरणैरुदारैः ।
तथैह तान्याभरणानि यागे शुभानि सम्प्रीतमना गृहाण ॥५३॥
अजोऽव्ययः शाश्वत एकरूपो विष्णुर्वराहः पुरुषः पुराणः ।
त्वमन्तकः सर्वहरः कृशानुः सहस्रशीर्षः शतमन्युरीड्यः ॥५४॥
कविं सप्तजिह्वं त्रातारमिन्द्रं स्ववितारं सुरेशम् ।
ह्वयामि शक्रं वृत्रहणं सुषेणमस्माकं वीरा उत्तरा भवन्तु ॥५५॥
महादेव, सूर्य, यम, इन्द्र, चन्द्र, कुबेर, अग्नि, वरुण, महर्षिगण, सब दिशायें,
अप्सरायें, शुक्र, बृहस्पति, कार्तिकेय और वायुओं के समुदायों के द्वारा जिस तरह
प्रकाशमान, अनेक रूप वाले, श्रेष्ठ आभूषणों से पूजित हुये हैं, हे देव! उसी तरह इस यज्ञ
में प्रसन्न मन होकर उन सब आभूषणों को ग्रहण करें। अज, अविनाशी, सर्वदा रहने
वाले, एक रूप, व्यापक, वराह रूप, प्रधान पुरुष, चिरन्तन, यम स्वरूप, सबका संहार
करने वाले, अग्नि, सहस्र शिर वाले, इन्द्र और स्तुति के योग्य तुम हो। विद्वान्, अग्नि,
पालन करने वाले, इन्द्र, अच्छी तरह रक्षा करने वाले देवताओं के स्वामी, शक्र, वृत्रासुर
को मारने वाले और सुषेण ( सुन्दर सेनाओं से युत ) तुमको मैं बुला रहा हूँ। हमारी वीर
सेनायें संग्राम में विजयी हों॥५२-५५॥
हरो महादेवः। अर्क आदित्यः। वैवस्वतो यमः। शक्र इन्द्रः। सोमश्चन्द्रः। तथा
धनेशो वैश्रवणः। वैश्वानरोऽग्निः। पाशभृद्वरुणः। एतैः सुरैर्महर्षिसङ्घैर्महर्षीणां वृन्दैरेतैः
किम्भूतैः। सदिगप्सरोभिर्दिग्भिराशाभिः अप्सरोभिः सहितैः। तथा शुक्रो भार्गवः। अङ्गिरा
बृहस्पतिः। स्कन्दः कुमारः। मरुद्गणो मरुतां सङ्घः। एतैः सर्वैस्त्वम्।
यथा येन प्रकारेण उदारैः श्रेष्ठैराभरणैः। ऊर्जस्करर्णैकरूपैः समर्चितः पूजितः। तथा
तेनैव प्रकारेणेहास्मिन् यागे शुभानि तान्येवाभरणानि सम्प्रीतमनास्तुष्टचित्तो गृहाण।
अजोऽव्यय इति। त्वमजो नाजायत इति अजः। अव्ययो न व्ययं याति। अक्षय
इत्यर्थः। शाश्वतः सार्वदिकः। एकरूपो बहुरूपरहितः। विष्णुर्व्यापकः। वराहो वराहरूपः।
पुरुषः प्रधानाख्यः। पुराणश्चिरन्तनः। एवंविधस्त्वम्। तथा अन्तको यमः। सर्वहरः सर्व-
संहारकः। कृशानुरग्निः। सहस्रशीर्षः सहस्रवक्त्रः। शतमन्युरिन्द्रः। ईड्यः स्तुत्यः।
कविं विद्वांसम्। सप्तजिह्वमग्निम्। त्रातारं पालयितारम्। इन्द्रं परमैश्वर्ययुक्तम्। स्ववितारं
सुष्ठुरक्षितारम्। सुरेशं देवप्रभुम्। ह्वयामि आह्वयामि। शक्रमिन्द्रं वृत्रहणं वृत्रस्य हन्तारम्।
सुषेणं शोभना सेना यस्य। तमस्माकं नः। वीरा बलिनः। उत्तरा भवन्तु। जयिनो भवन्त्वित्यर्थः।
कलापम्॥५२-५५॥

इन्द्रध्वजसम्पदाध्यायः ४९३
कस्मिन् काले एतान्मन्त्रान् पठेदित्याह—
प्रपूरणे चोच्छ्रयणे प्रवेशे स्नाने तथा माल्यविधौ विसर्गे।
पठेदिमान्नृपतिः सोपवासो मन्त्रान् शुभान् पुरुहूतस्य केतोः ॥५६॥
इन्द्रध्वज को पिटकों से भूषित करने के समय, उठाने के समय, नगर में प्रवेश
कराने के समय, स्नान कराने के समय, पुष्पमाला पहनाने के समय और विसर्जन के
समय व्रती होकर राजा पूर्वोक्त मन्त्रों को पढ़े॥५६॥
प्रपूरणे पिटकाभरणे। उच्छ्रयणे उत्थापने। प्रवेशे नगरप्रवेशे। स्नाने स्नानकाले।
तथा माल्यविधौ पुष्पप्रदानकाले। विसर्गे विसर्जने। एतेषु कार्येषु नृपती राजा सोपवास
उपोषितः। पुरुहूतस्य केतोरिन्द्रध्वजस्येमानुक्तान् शुभान् मन्त्रान् पठेत् कीर्तयेत्॥५६॥
कीदृशमिन्द्रध्वजमुत्थापयेदित्याह श्लोकद्वयेन—
छत्रध्वजादर्शफलार्द्धचन्द्रैर्विचित्रमालाकदलीक्षुदण्डैः ।
सव्यालसिंहैः पिटकैर्गवाक्षरैरलङ्कृतं दिक्षु च लोकपालैः ॥५७॥
अच्छिन्नरज्जुं दृढकाष्ठमातृकं सुश्लिष्टयन्त्रार्गलपादतोरणम्।
उत्थापयेल्लक्ष्म सहस्रचक्षुषः सारद्रुमाभग्नकुमारिकान्वितम् ॥५८॥
छत्र, पतका, दर्पण, फल अर्द्धचन्द्र, अनेक प्रकार की मालायें, केले का वक्ष, ईख
और दिक्पालों ( इन्द्र, यम, नैर्ऋत, वरुण, वायु, कुबेर और महादेव ) से युत—
अखण्डित आठ रस्सियों से बँधा हुआ, मजबूत लकड़ी का बना हुआ, दो मातृका वाला,
दृढ बँधा हुआ, यन्त्रार्गल वाला और सारयुत वृक्षों से बनी हुई कुमारिकाओं से युत इन्द्र
के लक्ष्म ( ध्वज ) को उठावे॥५७-५८॥
एवंविधं सहस्रचक्षुषो दशशतनयनस्येन्द्रस्य लक्ष्म ध्वजमुत्थापयेत्। कीदृशं छत्रमात-
पत्रम्। ध्वजः पताका। आदर्शो दर्पणम्। फलं लाङ्गुलम्। अर्द्धचन्द्रः खण्डेन्दुः। विचित्रमाला
नानाविधाः स्रजः। तथा कदली वृक्षविशेषः। इक्षुदण्डः। एतैः सह। तथा दिक्ष्वष्टासु लोक-
पालैरिन्द्राग्नियमनैर्ऋतवरुणवायुकुवेरेशानैरलंकृतं संयुक्तम्।
तथा अच्छिन्नरज्जुम्, अच्छिन्ना रज्जवो यस्य। इन्द्रध्वजबन्धनार्थमष्टासु दिक्षु अष्टौ
रज्जवः कार्याः। तथा च गर्गः—
यथादिशं च रज्ज्यष्टौ मौञ्जीस्रग्दामसंहिताः।
निग्रहार्थं ध्वजे कार्या निबद्धाश्चेन्द्रमण्डले॥
दृढकाष्ठमातृकम्, दृढकाष्ठा मातृका यस्य। इन्द्रध्वजनिष्पीडनार्थं पार्श्वद्वये मातृकाद्वितयं
कार्यम्। सुश्लिष्टयन्त्रार्गलपादतोरणम्, सुश्लिष्टं यन्त्रार्गलं पादमूले तोरणं यस्य। अयमर्थः—
पादमूलध्वजस्य तोरणं कार्यं तत्र या मातृकाः पार्श्वस्थितानि निरन्तराणि काष्ठानि तासां
मातृकाणां तिर्यक्कृत्वा यानि काष्ठानि निक्षिप्यन्ते तान्यर्गलाग्रहणेनोच्यन्ते। ता अर्गलाः
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

४९४ बृहत्संहिता
सुश्लिष्टाः सुयोजिता यत्र। तथा कुमारिकाः शक्रकुमार्यः। सारद्रुमोऽन्तःसारो वृक्षः। तस्माद्या
अभग्नाः कुमारिकास्ताभिरन्वितम्। एतदुक्तं भवति—यास्ताः शक्रकुमार्यः कथितास्ताः
सारवृक्षैः कार्या अभग्नाश्चेति। युगलकम्॥५८॥
कथं केतुमुत्थापयेदित्याह—
अविरतजनरावं मङ्गलाशीःप्रमाणैः
पटुपटहमृदङ्गैः शङ्खभेर्यादिभिश्च।
श्रुतिविहितवचोभिः पापठद्भिश्च विप्रै-
रशुभविहतशब्दं केतुमुत्थापयेच्च ॥५९॥
मंगल आशीर्वाद और प्रणामों के द्वारा लगातार हुये मनुष्य के शब्दों से युत, ढोल,
मृदङ्ग, शङ्ख और भेरी के शब्दों से युत, वेदविहित वाक्यों को बार-बार पढ़ते हुये ब्राह्मणों
से युत तथा मङ्गल शब्दों से युत ध्वज को राजा उठावे॥५९॥
राजा केतुमिन्द्रध्वजमेवमुत्थापयेत्। कीदृशम्? अविरतजनरावम्, मङ्गलैः शब्दैः,
आशीर्भिः प्रणामैर्नमस्कारैरैतैरविरतः अविच्छिन्नो जनानां पुरुषाणां रावः शब्दो यस्य।
तथा पटवश्चतुराः शब्दयुक्ता ये पटहास्तथा मृदङ्गा वादित्रविशेषास्तैः सह। तथा शङ्ख-
भेर्यादिभिः, शङ्खैर्भैरीभिर्ढक्काभिः। आदिग्रहणाद् दुन्दुभिकरटवीणावंशा गृह्यन्ते। एतैरपि
सह। तथा विप्रैर्ब्राह्मणैः। पापठद्भिः। अत्यर्थं पुनः पुनर्वा पठद्भिः। कीदृशैः? श्रुतिविहित-
वचोभिः, श्रुतिर्वेदस्तद्विहितानि वचांसि येषां तैः। अशुभा अनिष्टा विहता विशेषेण नष्टाः
शब्दा यस्य तथाभूतं केतुम्। अथवा परः पाठो यथा। सुशुभसहितशब्दम्, सुष्ठु शुभ-
सहितः शब्दो यत्र मङ्गलपाठे तत्केतुमुत्थापयेदिति॥५९॥
कीदृशो राजा केतुमुत्थापयेदित्याह—
फलदधिघृतलाजाक्षौद्रपुष्पाग्रहस्तैः
प्रणिपतितशिरोभिस्तुष्टवद्भिश्च पौरैः।
वृतमनिमिषभर्तुः केतुमीशः प्रजानाम-
रिनगरनताग्रं कारयेद् द्विङ्बधाय ॥६०॥
फल, दही, घी, लाजा (लाई = खील = लावा), शहद और फूल हाथ में लिये,
नत मस्तक वाले तथा मङ्गल शब्द बोलते हुये पुरवासियों के साथ प्रजाओं का स्वामी
राजा अनिमिषों (देवताओं) के भर्ता (स्वामी) इन्द्र के ध्वज को शत्रुवध के लिये
शत्रु के नगर की तरफ झुकावे॥६०॥
प्रजानामीशो राजा। अनिमिषभर्तुः केतुम्, अनिमिषा देवास्तेषां भर्तुः प्रभोरिन्द्रस्य
केतुं ध्वजं द्विषां शत्रूणां बधाय। अरिनगरनताग्रं कारयेत्, अरिनगरे शत्रुपुरे नतमग्रं प्रान्तं
यस्य। कीदृशं ध्वजम्? एवंविधैः पौरैः पुरजनैर्वृतं परिवृतम्। कीदृशैः? फलानि श्रीफल-
प्रभृतीनि। दधि क्षीरविकारः। घृतमाज्यम्। लाजा प्रसिद्धा। क्षौद्रं माक्षिकम्। पुष्पाणि

इन्द्रध्वजसम्पदध्यायः ४९५
कुसुमानि। एतान्यग्रहस्ते दक्षिणपाणौ येषां तैः। तथा प्रणिपतितं शिरो मूर्धा येषां तैः।
तुष्टवद्भिः। अत्यर्थं स्तुवद्भिः। नागरैः शुभशब्दं वाच्यमानैरिति।।६०।।
कीदृशं शोभनमुत्थानमित्याह—
नातिद्रुतं न च विलम्बितमप्रकम्प-
मध्वस्तमाल्यपिटकादिविभूषणञ्च ।
उत्थानमिष्टमशुभं यदतोऽन्यथा स्या-
तच्छान्तिभिर्नरपतेः शमयेत् पुरोधाः ॥६१॥
अनतिशीघ्र, अविलम्ब, कम्पनरहित, अनष्ट माला और पिटक आदि भूषण वाले
ध्वज का उठना शुभ है। इनसे भिन्न लक्षणयुत ध्वज का उठना अशुभ है। राजपुरोहित को
शान्ति के द्वारा विघ्नों को दूर करना चाहिये।।६१।।
एवंविधमुत्थानमिष्टं शुभमित्यर्थः? कीदृशम्। नातिद्रुतं न त्वरितम्, न च विलम्बितं
नातिध्वस्तम्। अप्रकम्पम्, प्रकम्पश्चलनं येन नोत्पद्यते। तथा अध्वस्तानि माल्यानि पिटका-
दीनि विभूषणानि येन तत्। आदिग्रहणाच्छत्रध्वजादर्शफलाईचन्द्र इत्यादिकानि गृह्यन्ते।
एतेषां ध्वंसो नाशो येन न भवति। अतोऽन्यथा यदुत्थानं तन्नरपते राज्ञोऽशुभमनिष्टं स्याद्भ-
वेत्। तच्च पुरोधाः पुरोहितः शान्तिभिरुपघातप्रतीकारैः शमयेत्। तथा च गर्गः—
अविध्वस्तमनाधूतमद्रुताजिह्यमूर्ध्वगम् ।
इन्द्रध्वजसमुत्थानं क्षेमसौभिक्षकारकम्।।
निर्घातोल्कामहीकम्पा दीप्ताश्च मृगपक्षिणः।
उच्छ्रीयमाणे चण्डा वा वायवः स्युर्भयाय ते।। इति।।६१।।
अथोच्छ्रिते च तस्मिन् शुभाशुभज्ञानमाह श्लोकपञ्चकेन—
क्रव्यादकौशिककपोतककाककङ्कैः
केतुस्थितैर्महदुशन्ति भयं नृपस्य ।
चाषेण चापि युवराजभयं वदन्ति
श्येनो विलोचनभयं निपसन् करोति ॥६२॥
भङ्गेपतने नृपमृत्युस्तस्करान् मधु करोति निलीनम् ।
ह। चाप्यथ पुरोहितमुल्का पार्थिवस्य महिषीमशनिश्च ॥६३॥
राज्ञीः शं पतिता पताकाकरोत्यवृष्टिं पिटकस्य पातः ।
मध्याग्र षु च केतुभङ्गो निहन्ति मन्त्रि क्षितिपालपौरान् ॥६४॥
पावृते शिखिभयं तमसा च मोहो
ह नैश्च भग्नपतितैर्न भवन्त्यमात्याः ।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

४९६ बृहत्संहिता
ग्लायन्त्युदक्प्रभृति च क्रमशो द्विजाद्यान्
भङ्गे तु बन्धकिबधः कथितः कुमार्याः ॥६५॥
रज्जूसङ्गच्छेदने बालपीडा राज्ञो मातुः पीडनं मातृकायाः ।
यद्यत्कुर्युश्चारणा बालका वा तत्तत्तद्द्भावि पापं शुभं वा ॥६६॥
यदि इन्द्रध्वज पर मांस खाने वाला पक्षी, उल्लू, कबूतर, काक या उजली चिल्ह
बैठे तो राजा को अत्यन्त भय, नीलकण्ठ बैठे तो युवराज को भय और बाज बैठे तो
नेत्रभय करता है।
यदि ध्वज का छत्र भङ्ग हो जाय तो राजा की मृत्यु, उस पर मधुमक्खियाँ मुहाल
( छत्ता ) लगावें तो चोरों का उपद्रव, उल्का गिरे तो पुरोहित का नाश और वज्रपात हो
तो राजा की प्रधान रानी का नाश होता है।
ध्वज का पताका गिरे तो रानी का नाश, पिटक गिरे तो अवृष्टि, ध्वज मध्य भाग से
टूट जाय तो मन्त्री का नाश, आगे से टूट जाय तो राजा का नाश एवं मूल से टूट जाय तो
पुरवासियों का नाश करता है।
ध्वज यदि धुआँ से व्याप्त हो जाय तो अग्निभय, अन्धकार से व्याप्त हो जाय तो
विकलता और वहाँ पर सर्प दब कर मर जायँ या गिरें तो मन्त्रियों का नाश होता है।
ध्वज के उत्तर दिशा में कोई उत्पात हो तो ब्राह्मणों को, पूर्व में क्षत्रियों को, दक्षिण
में वैश्यों को और पश्चिम में कोई उत्पात हो तो शूद्रों को पीड़ित करता है तथा यदि शक्र-
कुमारी टूटे तो वेश्याओं का नाश होता है।
यदि इन्द्र-ध्वज उठाने के समय रस्सी कहीं से टूट जाय तो बालकों को और
मातृका ( तोरण का पार्श्ववर्ती काष्ठ ) टूट जाय तो राजमाता को पीड़ा होती है।
इन्द्रध्वज के समीप चारण गण और बालकों की चेष्टा के द्वारा भावी अशुभ या शुभ
फल ज्ञात होता है॥६२-६६॥
क्रव्यादा मांसाशिनो विहगाः। कौशिक उलूकः। कपोतः पारावतः। काको वायसः।
कङ्कः पक्षिविशेषः। गृध्रो वेति पाठः। एतैः केतुस्थितैरिन्द्रध्वजोपविष्टैर्नृपस्य राज्ञो महद्भय-
मुशन्ति कथयन्ति। चाषः पक्षी। तेन ध्वजस्थेन युवराजभयं वदन्ति। श्येनो वाजिको
निपतन्नुपविशन् विलोचनभयं चक्षुर्नाशं करोति।
तथा छत्रस्यातपत्रस्य भङ्गे स्फुटने पतने वा नृपस्य राज्ञो मृत्युर्भवति। मधुशब्देन
मधुमक्षिकोच्चते। मधु निलीनं संश्लिष्टं तस्करान् करोति। उल्काप्यथ पतिता पुरोहितं
हन्ति नाशयति। अशनिः पतिता पार्थिवस्य राज्ञो महिषीं प्रधानां स्त्रियं हन्ति।
पताका पतिता राज्ञ्या विनाशं करोति। पिटकस्य पात: पतनमवृष्टिमवर्षं करोति।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

इन्द्रध्वजसम्पदध्यायः ४९७
तथा केतोर्मध्याद् भङ्गो मन्त्रिणो हन्ति। अग्राद्भङ्गः क्षितिपालं राजानं निहन्ति। मूलाद्भङ्गः
पौरान् पुरजनान्निहन्ति।
तथा केतौ धूमावृते धूमेन व्याप्ते शिखिभयमग्निभयं भवति। तमसा वृते मोहो वैकल्यं
भवति। व्यालैर्व्याडैर्भग्नैः स्फुटितैः पतितैश्चामात्या मन्त्रिणो न भवन्ति। उदक्प्रभृतीत्युत्तरा-
दिदिक्चतुष्टये उत्पातैर्दुष्टैर्द्विजाद्यान् ब्राह्मणाद्यान् ग्लायन्ति पीडयन्तीत्यर्थः। तद्यथा-
उत्तरस्यां ब्राह्मणान्। पूर्वस्यां क्षत्रियान्। दक्षिणस्यां वैश्यान्। पश्चिमायां शूद्रान् इति। कुमार्या
भङ्गे स्फुटन बन्धकीनां वेश्यानां वधः कथित इति।
तथा रज्जूनां यत्र कुत्रचिच्छेदने च बालानां शिशूनां पीडा भवति। तथा मातृका-
यास्तोरणपार्श्वस्थस्य काष्ठस्य पीडने राज्ञो मातूर्णृपजनन्याः पीडनं भवति। चारणा विदग्धा
रङ्गवरा वा, बालकाः शिशवः, एते यद्यत्पापमनिष्टं शुभं वा कुर्युः, तत्तत्तादृग्भावि। तत्तत्तथा-
भूतं शुभमशुभं वा लोके भवतीत्यर्थः। कुलकम्। तथा च गर्गः-
प्रहृष्टमनसः सर्वे क्रीडेयुर्मुदिता यदि।
यदा जलेन गन्धैश्च विन्द्यात् सौभिक्षलक्षणम्।।
अमेध्यै रक्तकैः केशौर्भस्मना क्रन्दनेन च।
दुर्भिक्षपीडा विज्ञेया शस्त्रैश्चापि भयं वदेत्।। इति।।६२-६६।।
अथ विसर्जने विधिमाह-
दिनचतुष्टयमुत्थितमर्चितं समभिपूज्य नृपोऽहनि पञ्चमे।
प्रकृतिभिः सह लक्ष्म विसर्जयेद्वलभिदः स्वबलाभिविवृद्धये ।।६७।।
अपनी बल-वृद्धि के लिये चार दिन (द्वादशी से पूर्णिमा तक) पूजित, खड़े हुये
इन्द्र के ध्वज का मन्त्रियों के साथ होकर राजा पाँचवें दिन (प्रतिपदा के दिन) पूजन
करके विसर्जन करे।।६७।।
बलभिद इन्द्रस्य लक्ष्म चिह्नं स्वबलाभिविवृद्धये आत्मीयबलविवृद्ध्यर्थं नृपो राजा
पञ्चमेऽहनि दिवसे प्रतिपदि समभिपूज्य पूजयित्वा प्रकृतिभिर्मन्त्रिभिः सह विसर्जयेत्।
कीदृशं लक्ष्म? दिनचतुष्टयं द्वादशीप्रभृतिदिनचतुष्टयं पौर्णमास्यां यावदुत्थितम्, समुत्थितम्।
अर्चितं पूजितम्।।६७।।
इन्द्रध्वजविधानकर्तुः प्रभावमाह-
उपरिचरवसुप्रवर्तितं नृपतिभिरप्यनुसन्ततं कृतम्।
विधिमिममनुमन्य पार्थिवो न रिपुकृतं भयमाप्नुयादिति ।।६८।।
इति श्रीवराहमिहिरकृतौ बृहत्संहितायामिन्द्रध्वज-
सम्पदध्यायस्त्रिचत्वारिंशः ।।४३।।
बृ० भ० प्र०-३२

४९८ बृहत्संहिता
उपरिचर वसु द्वारा चलाई हुई और सदा राजाओं से की हुई इस विधि को करके
राजा शत्रुकृत भय को नहीं प्राप्त कर पाता है।।६८।।
इति 'विमला' हिन्दीटीकायामिन्द्रध्वजसम्पदध्यायस्त्रिचत्वारिंशः ॥४३॥
इमं विधिं पार्थिवो राजा अनुमन्य तमिन्द्रध्वजं सम्पूज्य न क्वचिदपि रिपुकृतं शत्रु-
कृतं भयं प्राप्नुयात्। कीदृशं विधिम्? उपरिचरवसुप्रवर्तितम्, उपरिचरेणोर्ध्वगामिना वसुना
राज्ञा प्रवर्तितम्। तथा नृपतिभी राजभिरप्यनुसन्ततमविच्छिन्नं कृतमिति।।६८।।
इति श्रीभट्टोत्पलविरचितायां संहिताविवृत्ताविन्द्रध्वज-
सम्पन्नाम त्रिचत्वारिंशोध्यायः ॥४३॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

अथ नीराजनाध्यायः
अथ नीराजनं व्याख्यायते। तत्रादावेव कालनियमप्रदर्शनार्थमाह—
भगवति जलधरपक्ष्मक्षपाकरार्केक्षणे कमलनाभे।
उन्मीलयति तुरङ्गमकरिनरनीराजनं कुर्यात् ॥१॥
मेघरूप पलक तथा चन्द्र-सूर्यरूप दोनों नेत्र वाले भगवान् कमलनाभ के नेत्र
खोलने पर घोड़ा, हाथी और मनुष्यों को नीराजन ( जल का स्पर्श ) करना चाहिये॥१॥
भगवति परमैश्वर्ययुक्ते। कमलनाभे नारायणे। जलधरपक्ष्मक्षपाकरार्केक्षणे, जलधरा
मेघास्त एव पक्ष्माण्यक्षिरोमाणि ययोस्ते क्षपाकरार्केक्षणे। क्षपाकरश्चन्द्रः। अर्क आदित्य-
स्तावेवेक्षणे नेत्रे। उन्मीलयति विकाशयति सति। तुरङ्गमानामश्वानाम्। करिणां हस्तिनाम्।
नराणां मनुष्याणाम्। नीरेण जलेन अजनं स्पर्शनं कुर्यात्। अनेन नीराजनस्य वर्षासु निषेध
उक्त इति॥१॥
अथ कालसमयमाह—
द्वादश्यामष्टम्यां कार्तिकशुक्लस्य पञ्चदश्यां वा।
आश्वयुजे वा कुर्यान्नीराजनसंज्ञितां शान्तिम् ॥२॥
कार्तिक या आश्विन के शुक्ल पक्ष की द्वादशी, अष्टमी, पूर्णिमा या अमावास्या के
दिन नीराजन नामक शान्ति करनी चाहिये॥२॥
कार्तिकमासशुक्लपक्षद्वादश्यां तिथावष्टम्यां वा पञ्चदश्यां पूर्णिमायाममावास्यायां
वा। आश्वयुजशुक्लपक्षे एतास्वेव तिथिषु प्रोक्तासु वा नीराजनसंज्ञितां नीराजनाख्यां शान्तिं
कुर्यात्॥२॥
अथ तद्विधानमाह—
नगरोत्तरपूर्वदिशि प्रशस्तभूमौ प्रशस्तदारुमयम्।
षोडशहस्तोच्छ्रायं दशविपुलं तोरणं कार्यम् ॥३॥
नगर के ईशान कोण में उत्तम भूमि पर प्रशस्त वृक्ष से सोलह हाथ ऊँचा और दश
हाथ चौड़ा एक तोरण बनाना चाहिये॥३॥
नगरस्य पुरस्योत्तरपूर्वस्यामैशान्यां दिशि, प्रशस्तभूमौ शुभलक्षणसंयुतायां शल्यादि-
दोषवर्जितायामवनौ, प्रशस्तदारुमयं याज्ञिकवृक्षविनिर्मितम्। षोडशहस्तोच्छ्रायमुच्छ्रितं
दशहस्तविपुलं विस्तीर्णं तोरणं कार्यम्॥३॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

५०० बृहत्संहिता
अथ शान्तिगृहलक्षणमाह—
सर्जौदुम्बरककुभशाखामयशान्तिसद्म कुशबहुलम् ।
वंशविनिर्मितमत्स्यध्वजचक्रालङ्कृतद्वारम् ॥४॥
विजयसार, गूलर या अर्जुन वृक्ष की डालियों से युत तथा बाँसों से रचित मत्स्य
ध्वज और चक्रों से अलंकृत शान्तिगृह बनाना चाहिये ॥४॥
सर्जः । उदुम्बरः । ककुभः । एते सर्वे वृक्षविशेषाः । एषां शाखामयं लताविनिर्मितं शान्ति-
सद्म शान्तिगृहं कार्यम् । कुशबहुलं प्रभूतकक्षमयम् । तथा वंशविनिर्मितानि वेणुरचितानि
मत्स्यध्वजचक्राणि, मत्स्यो मीनः, ध्वजश्चिह्नम्, चक्रमायुधम् । एतैरलंकृतं शोभितं द्वारं
यस्य तथाभूतम् ॥४॥
अथाश्वादीनां दीक्षाविधानमाह—
प्रतिसरया तुरगाणां भल्लातकशालिकुष्ठसिद्धार्थान् ।
कण्ठेषु निबध्नीयात् पुष्ट्यर्थं शान्तिगृहगानाम् ॥५॥
भिलावा, शाली धान्य, कूठ और श्वेत सरसों को प्रतिसरा (कुङ्कुमरञ्जित या पीले
सूत्र) से पुष्टि के लिये शान्ति गृह में स्थित घोड़ों के गले में बाँधना चाहिये ॥५॥
तुरगाणामश्वानां प्रतिसरया कुङ्कुमरञ्जितेन सूत्रेणान्येन पीतेन वा कण्ठेषु गलेषु ।
भल्लातकं प्रसिद्धम् । शालयः प्रसिद्धाः । कुष्ठम् । सिद्धार्था गौरसर्षपाः । एतत्पुष्ट्यर्थं
पुष्टिकरणाय । शान्तिगृहगाणां शान्तिसद्मस्थानां निबध्नीयात् । तथा च काश्यपः—
शालिजातकसिद्धार्थान् कुष्ठं भल्लातकं तथा ।
अश्वेषु कण्ठे बध्नीयात् सप्ताहं शान्तिमाचरेत् ॥ इति ॥५॥
अथ शान्तिविधानमाह—
रविवरुणविश्वदेवप्रजेशपुरुहूतवैष्णवैर्मन्त्रैः ।
सप्ताहं शान्तिगृहे कुर्याच्छान्तिं तुरङ्गाणाम् ॥६॥
शान्तिगृह में सूर्य, वरुण, विश्वेदेव, ब्रह्मा, इन्द्र और विष्णु के मन्त्रों से सात दिन
तक घोड़ों की शान्ति करनी चाहिये ॥६॥
रविरादित्यः । वरुणोऽपाम्पतिः । विश्वेदेवा देवविशेषाः । प्रजेशो ब्रह्मा । पुरुहूत
इन्द्रः । विष्णुर्नारायणः । एषां सप्तभिर्मन्त्रैस्तुरङ्गाणामश्वानां शान्तिगृहे स्थितानां सप्ताहं
सप्तदिनानि शान्तिं कुर्यात् । तथा च काश्यपः—
पौष्टिकैर्विविधैर्मन्त्रैः पुरोधा ज्वलनं हुतेत् ।
हुतान्ते भोजयेद्विप्रान् दक्षिणां विपुलां ददेत् ॥ इति ॥६॥
अथाश्वानां किं कुर्यादित्याह—
अभ्यर्चिता न परुषं वक्तव्या नापि ताडनीयास्ते ।
पुण्याहशङ्खतूर्यध्वनिगीतरवैर्विमुक्तभयाः ॥७॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

नीराजनाध्यायः ५०१
पुण्याहवाचन, शङ्खध्वनि, भेरी की ध्वनि तथा गीत के शब्दों से भयरहित, पूजित
घोड़े को डराना और चाबुक आदि से मारना नहीं चाहिये।।७।।
ते अश्वा अभ्यर्थिताः पूजिताः। परुषमप्रियं न वक्तव्याः। नापि ते ताडनीयाः। कषादि-
भिर्न हन्तव्याः। तथा पुण्याहरवैः शुभवाक्यशब्दैः माङ्गलीयैर्कवचनैः शङ्खध्वनिभिः शङ्ख-
शब्दैः। तूर्यध्वनिभिः तूर्यशब्दैः। गीतरवैर्गीतशब्दैश्च। विमुक्तं परित्यक्तं भयं भीतिर्यैस्ते
तथाविधाः कार्याः।।७।।
ततः सप्ताहात् परतः किं कुर्यादित्याह—
प्राप्तेऽष्टमेऽह्नि कुर्यादुदङ्मुखं तोरणस्य दक्षिणतः।
कुशचीरावृतमाश्रममग्निं पुरतोऽस्य वेद्यां च॥८॥
आठवें दिन तोरण के दक्षिण तरफ आगे स्थित वेदी पर कुशा और वृक्षवल्कल से
ढकी हुई अग्नि का स्थापन करना चाहिये।।८।।
प्राप्तेऽष्टम इति। ततोऽष्टमेऽह्नि दिवसे प्राप्ते तोरणस्य प्राङ्निर्दिष्टस्य दक्षिणभागे
आश्रममुदङ्मुखमुत्तराभिमुखं कुशचीरावृतं कुशैर्दर्भैश्चीरैर्वृक्षवल्कलैरावृतं छादितं कुर्यात्।
अस्य पुरतोऽग्रतो वेद्यामग्निं कुर्यात्। वेदीलक्षणमत्राचार्येणोक्तमस्माभिरन्यशास्त्रात् प्रदर्श्यते—
यज्ञे चतुःषष्टिकरा विवाहे वेदी द्विजानां द्विनरप्रमाणा।
कार्या ततोऽष्टांशशमक्रमेण राजन्यवैश्यवृषलान्त्यजानाम्।।
तथा च—
सप्तहस्ता ब्राह्मणानां वेदी यज्ञे प्रकीर्तिता।
षट्करा क्षत्रियाणां तु वैश्यानां पञ्च कीर्तिता।।
चतुर्हस्ता तु शूद्राणां विवाहेऽपि विनिश्चिता।
अलाभे सर्ववर्णानां चतुर्हस्ता प्रकीर्तिता।।
व्यन्तराणामतो न्यूना निर्दिष्टा मुनिभिः सदा।
अतो न्यूनाधिका वेदी यजमानस्य मृत्युदा।।
तथा च—
यज्ञे विवाहे वक्ष्यामि वेदिमानं समासतः।
त्रिःसप्तहस्तविस्तारा ब्राह्मणानां शुभावहा।।
क्षत्रियाणां पञ्चदशी वैश्यानां नवसम्मिता।
सप्तहस्ता तु शूद्राणां शिल्पिनों पञ्च कीर्तिता।।
त्रिहस्ता व्यन्तराणां तु वेदी सर्वत्र कीर्तिता।
भुवोऽपरोधे मर्त्यानां चातुर्वर्ण्यैः प्रकीर्तिता।।
पञ्चहस्ता कृता वेदी सर्वमाङ्गल्यदायिका।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA