सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

Brihat Samhita Vol 1 with Vimala Hindi Commentary

आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा

DevanagariHindipublished728 पृष्ठ

८४ बृहत्संहिता
तेजसां गोलकः सूर्यो ग्रहर्क्षाण्यम्बुगोलकाः।
प्रभावन्तो हि दृश्यन्ते सूर्यरश्मिविदीपिताः॥
तथा चाऽऽर्यभटः—
भूग्रहभानां गोलार्द्धानि स्वच्छायया विवर्णानि।
अर्द्धानि यथा सार्द्धं सूर्याभिमुखानि दीप्यन्ते।। इति।।२।।
अथ शशिनः पश्चिमदिग्भागात्सितवृद्धिः किमुपलभ्यते? तदर्थमाह—
त्यजतोऽर्कतलं शशिनः पश्चादवलम्बते यथा शौक्ल्यम्।
दिनकरवशात्तथेन्दोः प्रकाशतेऽधः प्रभृत्युदयः ॥३॥
सूर्य के अधःप्रदेश को छोड़ते हुये चन्द्र का शुक्ल जिस-जिस तरह नीचे की तरफ
लटकता है, उसी तरह चन्द्र का उदित अधोभाग भी क्रम से प्रकाशित होता है।।३।।
शशिनश्चन्द्रमसोऽर्कतलं सूर्याधोभागं त्यजतो यथा येन प्रकारेण पश्चात्पश्चिमायां दिशि
शौक्ल्यं शुक्लत्वमवलम्बते आक्रमते। तथा तेनैव प्रकारेणेन्दोश्चन्द्रस्य दिनकरवशात्सूर्य-
हेतोरधःप्रभृति बुध्नभागादारभ्योदयः प्रकाशते विराजते इति। एतदुक्तं भवति। रवेरधोभाग-
स्थश्चन्द्रमा अमावास्यान्ते भवति तत्र च तस्य चन्द्रलोकस्य सूर्याभिमुखं गोलार्द्धं शुक्लं
भवति। अधःस्थितमवनिदृश्यभागं कृष्णवर्णं भवति। ततः प्रतिपदादिषु तिथिषु यथा
यथा स्वभोगतुल्येनार्कान्प्राङ्मुखः शीघ्रगतित्वायाति तथातथा दृष्टिवर्तिनं सितमधोभागे-
ऽवलम्बते। तथा च सूर्यसिद्धान्ते—
विप्रकर्षं यथा याति ह्यधःस्थश्चन्द्रमा रखेः।
तथातथाऽस्य भूदृश्यमंशं भासयते रखेः।। इति।।३।।
प्रतिदिनं कथं चन्द्रगोले शुक्लवृद्धिर्भवति तदर्थमाह—
प्रतिदिवसमेवमर्कात्स्थानविशेषेण शौक्ल्यपरिवृद्धिः।
भवति शशिनोऽपराह्ने पश्चाद्भागे घटस्येव ॥४॥
अपराह्न काल में आतप में स्थित घड़े के पश्चिम भाग में जिस तरह शुक्लता बढ़ती है,
उसी तरह प्रतिदिन रवि से स्थानविशेष (दूर-दूर) में गमन करने से चन्द्र का शुक्लत्व
बढ़ता है।।४।।
एवमनेन प्रकारेण शशिनश्चन्द्रस्यार्कादादित्यात् स्थानविशेषेण स्थानान्तरगमनेन
शौक्ल्यस्य शुक्लभावस्य परिवृद्धिर्वृद्धिरधिकतरा भवति। यथायथायतो राशिभोगवशेन
याति तथातथा तस्य शुक्लाधिक्यं भवति। यथाऽपराह्ने द्वितीये दिनार्द्धे पश्चाद्भागे पश्चिमार्द्धे
घटस्य कुम्भस्याऽऽतपस्थस्य शुक्लता भवति तथेति। एतदुक्तं भवति। यथा यथा चन्द्रः प्राङ्-
मुखो राशिवशेन याति तथातथा शौक्ल्यपरिवृद्धिर्भवति। यावच्छुक्लाष्टम्यर्द्धे राशिचयान्त-
रितस्यार्द्धशुक्लता भवति। पौर्णमास्यन्ते षड्राश्यन्तरितस्य सर्वशुक्लता भवति। ततो
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

चन्द्रचाराध्यायः ८५
यथायथाऽर्कसन्निकर्षमायाति तथातथा शौक्ल्यहानिर्भवति। यावत्कृष्णाष्टम्यर्द्धे कृष्णार्द्धता
भवति। अमावास्यान्ते सर्वकृष्णता भवतीति।।४।।
अथ चन्द्रस्य नक्षत्रगमनेन शुभाशुभत्वमाह—
ऐन्द्रस्य शीतकिरणो मूलाषाढाद्वयस्य चायातः।
याम्येन बीजजलचरकाननहा वह्निभयदश्च ।।५।।
जिस समय चन्द्रमा ज्येष्ठा, मूल, पूर्वाषाढा, उत्तराषाढा—इन चार नक्षत्रों के दक्षिण
में होकर जाता है, उस समय बीज, जलचर और वन का नाश होता है। इससे यह सिद्ध
होता है कि उक्त नक्षत्रों के उत्तर में होकर यदि चन्द्र जाता हो तो शुभ होता है।।५।।
ऐन्द्रं ज्येष्ठा। मूलं नैर्ऋतम्। आषाढाद्वयं पूर्वाषाढोत्तराषाढे। शीतकिरणश्चन्द्रमा ऐन्द्रस्य
मूलाषाढाद्वयस्य च याम्येन दक्षिणेन यदा यातो गतस्तदा बीजानि यान्युप्यन्ते। जलचरा
जलप्राणिनः। काननानि वनानि च। हन्ति नाशयति। तथा वह्निभयदश्चाग्निभयदो भवति।
अथदिवोत्तरेण गतः शोभनः। ततो वक्ष्यति—
भानां यथासम्भवमुत्तरेण यातो ग्रहाणां यदि वा शशाङ्कः।
प्रदक्षिण तच्छुभदं नृपाणां याम्येन यातो न शिवः शशाङ्कः।। इति।।५।।
अन्येषामप्याह—
दक्षिणपार्श्वेन गतः शशी विशाखाऽनुराधयोः पापः।
मध्येन तु प्रशस्तः पितृदेवविशाखयोश्चापि ।।६।।
यदि विशाखा और अनुराधा के दक्षिण भाग में चन्द्रमा जाता हो तो पाप फल देने
वाला होता है। यदि मघा और विशाखा के मध्य में होकर चन्द्रमा जाता हो तो शुभ फल
देने वाला होता है।।६।।
विशाखाऽनुराधे प्रसिद्धे नक्षत्रे। अनयोः शशी चन्द्रो दक्षिणपार्श्वेन याम्यभागेन
गतो यातः। पापः पापफलदोऽनिष्टदो भवति। अथदिवोत्तरेण शुभः। पितृदेवो मघा। विशाखा
प्रसिद्धा। अनयोर्द्वयोर्मध्येनान्तरेण चन्द्रमा गतः प्रशस्तः। शुभफलदः। अपिशब्दो विशेषं
द्योतयति, तेन मघाविशाखयोरुत्तरेणापि गतश्चन्द्रः शुभफलदः। तथा च समाससंहितायाम्—
भवति विशाखाद्यानां षण्णां याम्येन पापदश्चन्द्रः।
उदगिष्टः सर्वेषां पित्र्येशविशाखयोश्चान्तः।।
तथा च पराशरः—
‘अथ मार्गेष्वाग्नेयादुत्तरोऽतिवर्षकरो मैत्रसावित्राभ्यां प्रजाहितकारी। ज्येष्ठाग्नेयमैत्र-
त्वाष्ट्राणां दक्षिणतश्चरन् पुष्कलाशुभदः। उपरिष्टाद्रौरोधिको धान्यविनाशी। अधो यव-
सम्पत्करः। मघाऽनुराधाभ्यां मध्येन गमनमतिशोभनम्। शिशिरग्रीष्मयोर्दक्षिणे च शुभदो
वर्षास्ववर्षकरः सर्वर्तुषु नैर्ऋतेऽपि विश्वदेवानां चे’ति।।६।।
CC-0. JK Sanskrit Academy, Jammu. Digitized by S3 Foundation USA

८६ बृहत्संहिता
अथ चन्द्रमसो नक्षत्रयोगमाह—
षडनागतानि पौष्णाद् द्वादश रौद्राच्च मध्ययोगीनि।
ज्येष्ठाद्यानि नवर्क्षाण्युडुपतिनातीत्य युज्यन्ते ॥७॥
रेवती से छः नक्षत्र ( रेवती, अश्विनी, भरणी, कृत्तिका, रोहिणी ) अनागत ( अप्राप्त )
होकर चन्द्र से मिलते हैं। आर्द्रा से बारह नक्षत्र ( आर्द्रा, पुनर्वसु, पुष्य, आश्लेषा, मघा,
पूर्वाफाल्गुनी, उत्तराफाल्गुनी, हस्त, चित्रा, स्वाती, विशाखा, अनुराधा ) मध्यसंयोगी होकर
चन्द्रमा से मिलते हैं और ज्येष्ठा से नव नक्षत्र ( ज्येष्ठा, मूल, पूर्वाषाढा, उत्तराषाढा, श्रवण,
धनिष्ठा, शतभिषा, पूर्वाभाद्रपदा, उत्तराभाद्रपदा ) अतिक्रान्त ( प्राप्त ) होकर चन्द्रमा से
मिलते हैं। इसका आशय यह है कि जब चन्द्र उत्तराभाद्रपदा में जाता है तो उसी समय
चन्द्र का रेवती नक्षत्र से संयोग हो जाता है। इसी तरह रेवती में जाने पर अश्विनी से,
अश्विनी में जाने पर भरणी से, भरणी में जाने पर कृत्तिका से, कृत्तिका में जाने पर रोहिणी
से और रोहिणी में जाने पर मृगशिर से संयोग हो जाता है। आर्द्रा आदि बारह नक्षत्रों में से
प्रत्येक नक्षत्रविभाग के बीच में चन्द्र के जाने से संयोग होता है। ज्येष्ठा से नव नक्षत्रों में
प्रत्येक नक्षत्र के अगले नक्षत्र में जाने पर ही चन्द्रमा पिछले नक्षत्र से संयोग कर लेता है।
जैसे—मूल में जाने पर ज्येष्ठा से, पूर्वाषाढा में जाने पर मूल इत्यादि से चन्द्र का संयोग
हो जाता है। इन्हीं नक्षत्रों को गर्ग आदि आचार्य अर्द्धभोगी, अध्यर्द्धभोगी और समभोगी
नाम से सम्बोधित करते हैं॥७॥
पौष्णं रेवती तस्मात्प्रभृति षट् नक्षत्राणि रेवत्यश्विनीभरणीकृत्तिकारोहिणीमृगशिराश्चे-
त्येतानि षट् नक्षत्राणि षट्संख्यानि ऋक्षाणि। उडुपतिना चन्द्रेण सहानागतान्यप्राप्तानि।
युज्यन्ते संयोगं यान्ति। यथोत्तरभाद्रपदस्थस्य चन्द्रमसो रैवत्या सह संयोगो दृश्यते। रेवती-
संस्थितस्य अश्विन्या सहैवमन्येषाम्। रौद्रमार्द्रा तस्मात्प्रभृति द्वादशनक्षत्राणि। आर्द्रापुनर्वसु-
तिष्याश्लेषामघापूर्वाफाल्गुन्युत्तराफाल्गुनीहस्तचित्रास्वातीविशाखानुराधा इति। एतान्युडुपतिना
मध्ययोगीनि युज्यन्ते। चन्द्रमा यत्र काले एषां मध्यप्राप्तो भवति। अर्द्धभोगं भुक्त इत्यर्थः।
यथा आर्द्रायां स्थितः सन् चन्द्र आर्द्राया संह संयोगं याति, एवमन्येषामपि ज्येष्ठाद्यानि
नवर्क्षाणि। ज्येष्ठाद्यानि ज्येष्ठात्प्रभृति नवनक्षत्राणि ज्येष्ठामूलपूर्वाषाढोत्तराषाढश्रवणधनिष्ठा-
शतभिषकपूर्वभाद्रपदोत्तराभाद्रपदेत्येतान्युडुपतिना चन्द्रेणातीत्यातिक्रम्य युज्यन्ते। यथा मूल-
स्थस्य चन्द्रमसो ज्येष्ठया सह संयोगो दृश्यते पूर्वाषाढास्थस्य मूलेनैवमन्येषामपि। एत-
दुक्तं भवति—गर्गादिभिः कानिचिन्नक्षत्राण्यर्द्धभोगीन्युक्तानि, कानिचिदध्यर्द्धभोगीनि, कानि-
चित्समभोगीनि। यान्यर्द्धभोगीनि तान्यतीत्य युज्यन्ते। यान्यध्यर्द्धभोगीनि तान्येवानागतानि।
यानि समभोगीनि तानि मध्यभोगीनि युज्यन्ते। तथा च गर्गः—
उत्तराश्च तथादित्यं विशाखा चैव रोहिणी।
एतानि षडध्यर्द्धभोगीनि महाक्षेत्राणि।
मघाश्विकृतिकासोमतिष्यपित्र्यभगाह्वयाः। ।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

चन्द्रचाराध्यायः ८७
सावित्रचित्राऽनूराधा मूलं तोयं च वैष्णवम्।
धनिष्ठा चैकपाच्चैव समभागः प्रकीर्तितः।
एतानि पञ्चदश समभागीनि मध्यक्षेत्राणि।
याम्येन्द्ररुद्रवायव्यसार्पवारुणसंज्ञिताः ।
एतानि षडर्द्धभोगीनि स्वल्पक्षेत्राणि।
नन्वाचार्येणान्यथोक्तानि तान्यन्यथा स्थितानि। उच्यते—आचार्येणातिगोलज्ञतया यष्टि-
यन्त्रेण देवदर्शनदृक्समान्युक्तानि। अथ किम्प्रमाणमध्यर्द्धभोगिनां किं वार्द्धभोगिनां किं
च समभोगिनामिति। उच्यते—चन्द्रमध्यमभुक्तिरध्यर्द्धगुणा अध्यर्द्धभोगिनां प्रमाणमर्द्धगुणा
अर्द्धभोगिनामेकगुणा समभोगिनामिति। तथा च ब्रह्मसिद्धान्ते—
केशादित्यविशाखाप्रोष्ठपदार्यम्णवैश्वदेवानि ।
षट् षड् ज्येष्ठाभरणीस्वात्यार्द्रावारुणाश्लेषाः ।।
पञ्चदशात्रानुक्तान्येकोऽभिजिदुक्तमृक्षभोगोऽन्यः ।
तन्मानं नाक्षत्रं दुरधिगमं मन्दबुद्धीनाम्।
अध्यर्द्धार्द्धसमक्षेत्राणां मध्यगतिलिप्तिकाः शशिनः।
अध्यर्द्धार्द्धैकगुणा भभोगलिप्तास्तदैक्योनाः ।।
मण्डललिप्ताः शेषा भोगोऽभिजितः ।।७।।
अथ चन्द्रमसः संस्थानानि दश भवन्ति। तद्यथा—नौर्लाङ्गलं दुष्टलाङ्गलं समो दण्डः
कार्मुकं युगं पार्श्वशय्यावर्जितं कुण्डाख्यमिति। तत्र नौसंस्थानस्य लक्षणं फलं चाह—
उन्नतमीषच्छृङ्गं नौसंस्थाने विशालता चोक्ता।
नाविकपीडा तस्मिन् भवति शिवं सर्वलोकस्य ।।८।।
चन्द्र का शृङ्ग कुछ उन्नत होकर जब नाव की तरह विशालता को प्राप्त होता है तो
‘नौ’ नाम का संस्थान होता है। इसमें नाविक लोगों को पीड़ा और अन्य सबों का शुभ होता
है।।९।।
ईषच्छृङ्गम्। ईषत्किञ्चिदुन्नतमुच्चं शृङ्गं यस्य। तथा विशालता विस्तीर्णता च भवति।
तन्नौसंस्थानम्। तस्मिन्नौसंस्थाने नाविकानां नौकर्णधारिणां पीडोक्ता कथिता। तथा च सर्व-
लोकस्य समस्तजनस्य च शिवं श्रेयो भवति।।८।।
अथ लाङ्गलसंस्थानं सफलमाह—
अर्द्धोन्नते च लाङ्गलमिति पीडा तदुपजीविनां तस्मिन्।
प्रीतिश्च निर्निमित्तं मनुजपतीनां सुभिक्षं च ।।९।।
यदि चन्द्र का शृङ्ग आधा उन्नत हो तो ‘लाङ्गल’ संस्थान होता है। इसमें हल से
जीवनयात्रा चलाने वाले को पीड़ा होती है। राजाओं में विना कारण स्नेह होता है और
सुभिक्ष होता है।।९।।

८८ बृहत्संहिता
शशिनि उच्छ्रिङ्गे चोत्तरे अर्द्धोन्नते लाङ्गलमिते हलनाम तत्स्थानम्। तस्मिन् संस्थाने
तदुपजीविनां लाङ्गलोपजीविनां पीडा भवति। तथा मनुजपतीनां राज्ञां निर्निमित्तं कारणं
विना प्रीतिः स्नेहो भवति। लोके शिवं श्रेयः सुभिक्षं च भवति। तथा च वृद्धगर्गः—
यदा सोमः प्रतिपदि नौस्थायी सम्प्रदृश्यते।
उत्तरोज्ज्वलशृङ्गो वा लाङ्गली च मनोहरः॥
क्षेमं सुभिक्षमारोग्यं सर्वभूतेषु निर्दिशेत्।
राज्ञां च विजयं ब्रूयाद् वर्द्धन्ते शृङ्गिणस्तथा॥ इति॥९॥
अथ दुष्टलाङ्गलसंस्थानं सफलमाह—
दक्षिणविषाणमर्द्धोन्नतं यदा दुष्टलाङ्गलाख्यं तत्।
पाण्ड्यनरेश्वरनिधनकृदुद्योगकरं बलानां च॥१०॥
जब चन्द्र का दक्षिण शृङ्ग अर्द्धोन्नत दिखाई दे, तब 'दुष्टलाङ्गल' नाम का संस्थान
होता है। इसमें पाण्डव देश के राजा की मृत्यु होती है और यह संस्थान सेनाओं को यात्रा
में प्रवृत्त कराता है॥१०॥
दक्षिणविषाणं याम्यशृङ्गं यदाऽर्द्धोन्नतं भवति तदा दुष्टलाङ्गलं नाम तत्संस्थानम्।
तच्च पाण्ड्यनरेश्वरनिधनकृत् पाण्ड्यदेशे योऽसौ नरेश्वरो राजा तस्य निधनं मरणं करोति।
तथा बलानां सैन्यानामुद्योगकरं सेनानामुद्योगम् उद्यमं करोति यात्रायाम्। तथा च वृद्धगर्गः—
दक्षिणे च भवेत् स्थूलं हीनं शृङ्गमथोत्तरम्।
दुष्टलाङ्गलसंज्ञं तत्रज्ञाक्षयकरं स्मृतम्॥ इति॥१०॥
अथ समदण्डसंस्थानमाह—
समशशिनि सुभिक्षक्षेमवृष्टयः प्रथमदिवससदृशाः स्युः।
दण्डवदुदिते पीडा गवां नृपश्वोग्रदण्डोऽत्र॥११॥
यदि चन्द्र का शृङ्ग समान हो तो प्रथम दिन की तरह सुभिक्ष, क्षेम ( . कुशल ) और
वृष्टि होती है अर्थात् प्रतिपदा के दिन जिस तरह सुभिक्ष, क्षेम और वृष्टि होती है, उसी
तरह एक महीने तक सुभिक्ष, क्षेम और वृष्टि होती रहेगी। यदि दण्डाकार चन्द्रमा दिखाई
दे तो गौ को पीड़ा होती है और राजा बहुत कठोर दण्ड देने वाला होता है॥११॥
समशशिनि तुल्यशृङ्गे चन्द्रे। प्रथमदिवससदृशाः प्रथमं दिनं प्रतिपत्तत्सदृशास्तत्तुल्याः
सुभिक्षक्षेमवृष्टयः स्युर्भवेयुः। प्रतिपद्दिने यादृशः सुभिक्षो यादृशः क्षेमो यादृशी वृष्टिस्तादृशा
एव मासं यावत् स्युर्भवेयुः। दण्डवदुदिते दण्डाकारे। गवां पीडा भवति। तथात्रास्मिन्
संस्थाने राजा नृप उग्रदण्डस्तीक्ष्णकरो भवति। तथा च वृद्धगर्गः—
समशृङ्गो यदा दृष्टः शशी क्षेमसुभिक्षकृत्।
प्रतिपत्सदृशं तत्र वासवो वर्षते तदा॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

चन्द्रचाराध्यायः ८९
चन्द्ररेखा यदा चोर्ध्वमृज्वी दण्ड इव स्थिता।
उदक्शृङ्गाधिकसमो दण्डस्थानं तदुच्यते।।
उद्युक्तदण्डा राजानो विनिघ्नन्ति समन्ततः।
गवां पीडां विजानीयाद्दण्डस्थाने यदा शशी।। इति।।११।।
अथ कार्मुकयुगसंस्थानयोर्लक्षणं फलं चाह—
कार्मुकरूपे युद्धानि यत्र तु ज्या ततो जयस्तेषाम्।
स्थानं युगमिति याम्योत्तरायतं भूमिकम्पाय ॥१२॥
यदि चन्द्र की आकृति धनुष के समान हो तो उसको 'कार्मुक'संस्थान कहते हैं।
इसमें युद्ध होता है तथा जिस तरफ धनुष की जीवा रहती है, उस दिशा के राजा की जीत
होती है। यदि चन्द्र के शृङ्ग दक्षिणोत्तर विस्तीर्ण हों तो उसको 'युग'संस्थान कहते हैं।
इसमें भूकम्प होता है॥१२॥
कार्मुकं धनुस्तद्रूपे तदाकारे संस्थाने। युद्धानि संग्रामा भवन्ति। यत्र तु ज्या यस्मिन्
भागे गुणस्तत्र तस्यां दिशि ये स्थिता राजानस्तेषां जयो भवति। तथा च वृद्धगर्गः—
उदये तु यदा सोमं पश्येद्धनुरिवोदितम्।
धनुर्द्धराणामुद्योगो जगद्युद्धकरो भवेत्।।
क्षत्रियाः क्षत्रियान् घ्नन्ति वर्णाश्चैव तथापरे।
अग्रतश्च जयस्तेषां पृष्ठतश्च पराजयः।।
स्थानं युगमिति। तत्स्थानं याम्योत्तरायतं दक्षिणसौम्यभागविस्तीर्णां मध्यं मण्डलं
यदि भवति तद्युगं नाम। तच्च भूमिकम्पाय भवति। एतदुक्तं भवति—एवंविधे संस्थाने
तन्मासमध्ये भूमिकम्पो वक्तव्यः। तथा च वृद्धगर्गः—
चन्द्ररेखा यदा व्यक्ता दक्षिणोत्तरमायता।
शुक्लादौ प्रतिपद्येत तद्योगस्थानलक्षणम्।।
सैन्योद्योगा भवन्त्यत्र भूमिकम्पश्च जायते।। इति।।१२।।
अथ पार्श्वशायिनः संस्थानं फलं चाह—
युगमेव याम्यकोट्यां किञ्चित्तुङ्गं स पार्श्वशायीति।
विनिहन्ति सार्थवाहान् वृष्टेश्च विनिग्रहं कुर्यात् ॥१३॥
पूर्वकथित युगसंस्थान में दक्षिण शृंग का अग्रभाग कुछ ऊँचा हो तो 'पार्श्वशायी'
संस्थान होता है। इसमें धनी व्यापारियों का और वृष्टि का नाश होता है॥१३॥
युगमेव युगसंस्थानं याम्यकोट्यां दक्षिणशृङ्गाग्रे किञ्चिदीषत्तुङ्गमुच्चं यदि भवति
तदा स पार्श्वशायीति चन्द्रः। पार्श्वशायीति तत्संज्ञा। स च सार्थवाहान् सार्थप्रधानान् विनि-
हन्ति घातयति। तथा वृष्टेर्वर्षणस्य च विनिग्रहं विनाशमभावं कुर्यात्। न वर्षतीत्यर्थः।
तथा च वृद्धगर्गः—
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

९० बृहत्संहिता
याम्यकोट्यायातः किञ्चिद्युगकाले यदा शशी।
पार्श्वशायीति संज्ञोऽयं सार्थहा वृष्टिनाशनः।। इति।।१३।।
अथाऽऽवर्जितलक्षणं सफलमाह—
अभ्युच्छ्रायादेकं यदि शशिनोऽवाङ्मुखं भवेच्छृङ्गम्।
आवर्जितमित्यसुभिक्षकारि तद् गोधनस्यापि ।।१४।।
अतिशय उन्नत होने के कारण चन्द्र का शृंग यदि अधोमुख हो तो 'आवर्जित' नाम का
संस्थान होता है। इसमें मनुष्य एवं पशु—दोनों के लिये दुर्भिक्ष होता है।।१४।।
अभि मुख्येनोच्छ्रायोऽभ्युच्छ्रायस्तस्मादभ्युच्छायाच्छशिनश्चन्द्रस्य यद्येकशृङ्गमवाङ्मु-
खमधोमुखं भवति तत्संस्थानमावर्जितं नाम। इतिशब्दः प्रकारायैवं प्रकाराय इत्यर्थः।
तदसुभिक्षकारि दुर्भिक्षं करोति लोके। न केवलं यावद् गोधनस्यापि तृणानामभावादपि
दुर्भिक्षं करोति। तथा च वृद्धगर्गः—
अधोमुखं यदा शृङ्गं शशिनो दृश्यते तदा।
संस्थानमावर्जितकं गोघ्नं दुर्भिक्षकारकम्।। इति।।१४।।
अथ कुण्डाख्यसंस्थाने लक्षणं फलं चाह—
अव्युच्छिन्ना रेखा समन्ततो मण्डला च कुण्डाख्यम्।
अस्मिन् माण्डलिकानां स्थानत्यागो नरपतीनाम् ।।१५।।
यदि चन्द्र के चारो तरफ अव्युच्छिन्न ( अखण्डित ) गोलाकार रेखा दिखाई दे तो
'कुण्डाख्य' संस्थान होता है। इसमें माण्डलिक राजाओं का स्थान छूट जाता है।।१५।।
समन्ततः सर्वत्र यद्यव्युच्छिन्ना रेखा खण्डरेखा चन्द्रमसो दृश्यते तदा तत्स्थानं
कुण्डाख्यं कुण्डमित्याख्या नाम यस्य। अस्मिन् संस्थाने माण्डलिकानां नरपतीनाम्।
मण्डले परिमिते देशे ये राजानस्तेषां स्थानत्यागः स्थानचलनं भवति, स्वस्थानाच्च्युति-
रित्यर्थः। तथा च वृद्धगर्गः—
अच्छिन्ना मण्डले रेखा शशिनो दृश्यते यदा।
कुण्डाख्यं नाम संस्थानं नृपविग्रहदायकम्।।
नक्षत्रचन्द्रमसोर्र्यानि संस्थानान्युक्तानि तेषां कानिचिद् गणितविधिना शृङ्गोन्नतिपरिलेखक-
रणेनोत्पद्यन्ते कानिचिन्न्नोत्पद्यन्ते। तथा चाऽऽचार्येणोक्तम्—
अपमान्तरसंयुक्तात्तदूनगुणिताच्छशाङ्करविविवरात्।
मूलेनापमविवरे छिन्ने विक्षेपसङ्गणिते।।
फलमिन्द्वर्कविशेषाच्छोध्यं त्वपमानुकूलविक्षिप्ते।
तद्द्व्यत्यासे देयं विपरीतं पूर्वसन्ध्यायाम्।।
दिनकृत्सप्तमभवनात्तेनोदयनाडिकाद्वयं यदि वा।
वियति विमले तदेन्दोर्लोकस्याऽऽलोकमायाति ।।
CC-0. JK Sanskrit Academy, Jammnu. Digitized by S3 Foundation USA

चन्द्रचाराध्यायः ९१
द्विगुणेच्छातिथ्यंशः शृङ्गमुदक्तुङ्गमुडुगणाधिपतेः।
देयं च भुजादेतच्छौक्ल्यं कर्णाद् द्विषट्कांशम्।।
अपमान्तरविक्षेपावैक्यान्यत्वे युतोनितौ कोटिः।
कर्णो रवीन्दुविवरं तत्कृतिविवरात् पदं बाहुः।।
सविता यतः शशाङ्कात्कोट्या परिकल्पितस्ततः कोटिः।
देयांशकाङ्गुलसमा भुजकर्णौ चाङ्गुलैरेव।।
शशिमध्यात्प्राक्कर्णः कोटिरतोऽतो भुजः शशाङ्कगतः।
परिधावक्षो नाम शौक्ल्यं मध्याद्धनुस्तत्र।।
याम्योदग्विक्षेपाद्द्विषुवज्ज्याघ्नाद्रविभिरवाप्तांशः ।
उदये शशिनो वृद्धिः क्षयो विपर्यस्तमय एवम्।।
एवं व्यर्काच्चन्द्राद्यद्यूना राशयः षडधिका वा।
तदुदयकालेन दिवा निशि च शशाङ्कोदयो वाच्यः।।
कृत्वैवं क्षयवृद्धी व्यर्कं चन्द्रं विशोध्य चक्रार्द्धात्।
शेषोदयकालसमे शशिदिवसार्द्धे शशी मध्ये।।
एवमत्र तानि नोत्पद्यन्ते किमर्थमाचार्येण फलमुक्तम्। उच्यते—यानि नोत्पद्यन्ते
परिलेखविधौ तान्युत्पातरूपा

९२ बृहत्संहिता
अथ सामान्यलक्षणमाह—
प्रोक्तस्थानाभावादुदगुच्चः क्षेमवृद्धिवृष्टिकरः ।
दक्षिणतुङ्गश्चन्द्रो दुर्भिक्षभयाय निर्दिष्टः ॥१६॥
पूर्वकथित संस्थानों के अभाव में यदि चन्द्र का शृंग उत्तर दिशा में उन्नत हो तो वह
क्षेम, सस्य की वृद्धि और वृष्टि को करता है एवं यदि दक्षिण दिशा में उन्नत हो तो दुर्भिक्ष
और भय करता है ।।१६।।
प्रोक्तानि कथितानि यानि संस्थानानि तेषामभावादसम्भवाद्यद्युदगुच्च उत्तरोन्नतश्चन्द्रमा-
स्तदा क्षेमवृद्धिवृष्टिकरः। लब्धपालनं क्षेमस्तं च करोति। वृद्धयः सस्यवृद्धयो वृष्टिर्वर्षणं
ते च करोतीति।
अथ दक्षिणतुङ्गो याम्योन्नतो भवति दक्षिणविषाणोन्नतस्तदा दुर्भिक्षभयाय निर्दिष्टः
कथितः। दुर्भिक्षभयं च करोति।।१६।।
अन्यदप्याह—
शृङ्गेणैकेनेन्दुर्विलीनमथवाऽप्यवाङ्मुखं शृङ्गम् ।
सम्पूर्ण चाभिनवं दृष्ट्वैको जीविताद् भ्रश्येत् ॥१७॥
यदि चन्द्र का एक शृङ्ग विलीन ( बिलकुल नहीं ) हो, अधोमुख हो या सब नये
प्रकार के हों तो उसे देखने वालों में से एक मनुष्य की मृत्यु होती है।।१७।।
एवंविधमिन्दुं चन्द्रं दृष्ट्वा विलोक्यैको मनुजो जीवितादायुषो भ्रश्येत् पतेत्। य
एवैकः पश्यति स म्रियत इत्यर्थः। कीदृशम्? एकेन शृङ्गेणोपलक्षितम्। अथवा विलीनं
गलितमिवैकेन शृङ्गेण। अपिशब्दो विकल्पनार्थः। अथवाऽवाङ्मुखमधोमुखं शृङ्गं चास्य
भवति। तथा सम्पूर्णं परिपूर्णमभिनवमभि मुख्येन नवम्। चशब्दः समुच्चये। अथवाऽभि
मुख्येन नवं द्वितीयाचन्द्रमेवंविधं पश्यति। तथा च समाससंहितायाम्—
उदयन्तमप्यसदृशं न शुभं बहुरूपताथवैकस्य।
एकश्चन्द्रविकारं यः पश्येन्न स चिरं जीवेत्।। इति।।१७।।
अथ चन्द्रमसो रूपाण्याह—
संस्थानविधिः कथितो रूपाण्यस्माद् भवन्ति चन्द्रमसः।
स्वल्पो दुर्भिक्षकरो महान् सुभिक्षावहः प्रोक्तः॥१८॥
संस्थानप्रकार कहने के बाद चन्द्र के स्वरूप और उनके फल को कहते हैं। यदि
चन्द्रबिम्ब छोटा हो तो दुर्भिक्ष और बड़ा हो तो सुभिक्ष होता है।।१८।।
संस्थानविधिः संस्थानप्रकारश्चन्द्रमसः कथित उक्तः। अस्मात् परतो रूपाणि भवन्ति,
तानि चाह—स्वल्पो दुर्भिक्षकरः, अत्यल्पमूर्त्तिरसुभिक्षं करोति। महान् पृथुमूर्त्तिः सुभिक्षावहः,
सुभिक्षमावहति करोतीति सुभिक्षावहः, प्रोक्तः कथितः।।१८।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

चन्द्रचाराध्यायः ९३
मध्यतनुर्वज्राख्यः क्षुद्भयदः सम्भ्रमाय राज्ञां च ।
चन्द्रो मृदङ्गरूपः क्षेमसुभिक्षावहो भवति ॥१९॥
ज्ञेयो विशालमूर्तिर्नरपतिलक्ष्मीविवृद्धये चन्द्रः।
स्थूलः सुभिक्षकारी प्रियधान्यकरस्तु तनुमूर्तिः॥२०॥
यदि चन्द्रबिम्ब मध्यम हो तो वज्रसंज्ञक होता है। यह क्षुधा और भय को देने वाला
तथा राजाओं में उद्यम उत्पन्न करने वाला होता है। यदि चन्द्रबिम्ब मृदङ्ग की तरह दिखलाई
पड़े तो कल्याण और सुभिक्ष होता है। यदि अति विस्तृत मूर्ति के समान हो तो राजलक्ष्मी
की वृद्धि होती है। यदि मोटी मूर्ति के समान हो तो सुभिक्ष करने वाला और पतली मूर्ति
के समान हो तो प्रियधान्य ( सुभिक्ष ) करने वाला होता है॥१९-२०॥
मध्यतनुर्यो मध्यादवनतः स वज्राख्यो वज्रसंज्ञः। क्षुद्भयदः क्षुद्भयं दुर्भिक्षं ददाति।
राज्ञां नृपाणां च सम्भ्रमायोद्यमाय भवति। तथा च वृद्धगर्गः—
विलग्नमध्यो मेघाभो वज्रसंस्थानसंस्थितः।
मध्यच्छिद्रो विलीनो वा भयं च जनयेद् महत्॥
चन्द्रः शशी मृदङ्गरूपो मृदङ्गाकारः क्षेमसुभिक्षावहो भवति। क्षेमं सुभिक्षं च करोति।
चन्द्रः शशी विशालमूर्तिर्विस्तीर्णबिम्बो नरपते राज्ञो लक्ष्मीविवृद्धये श्रियो वृद्ध्यर्थं
ज्ञेयो ज्ञातव्यः। स्थूलो घनः सुभिक्षकारी सुभिक्षकृद्भवति। तनुमूर्तिरघनदेहः प्रियधान्यकरो
दुर्भिक्षकारी च भवति॥१९-२०॥
अथ चन्द्रस्य कुजादिभिस्ताराग्रहैः शृङ्गे भिन्ने फलमाह—
प्रत्यन्तान् कूनृपांश्च हन्त्युडुपतिः शृङ्गे कुजेनाहते
शस्त्रक्षुद्भयकृद्यमेन शशिजेनावृष्टिदुर्भिक्षकृत् ।
श्रेष्ठान् हन्ति नृपान् महेन्द्रगुरुणा शुक्रेण चाल्पान्नृपान्
शुक्ले याप्यमिदं फलं ग्रहकृतं कृष्णे यथोक्तागमम् ॥२१॥
यदि चन्द्रशृङ्ग मङ्गल से वेधित हो तो दूर देश में रहने वाले बड़े राजाओं का नाश
करने वाला होता है एवं शनि से वेधित होने पर शस्त्र और क्षुधा का भय करने वाला होता
है। इसी प्रकार बुध से वेधित होने पर श्रेष्ठ राजाओं का नाश करने वाला होता है तथा शुक्र
से वेधित होने पर छोटे राजाओं का नाश करने वाला होता है। यह पूर्वोक्त ग्रहकृत फल
शुक्ल पक्ष में थोड़ा और कृष्ण पक्ष में पूर्ण रूप से घटित होता है॥२१॥
चन्द्रस्य ताराग्रहैः सह संयोगे समागमाध्यायोक्तगणितविधिना ग्रहणवत्कर्मणि जाते
भूत्वाऽधोभागेन भौमादयो बिम्बभेदनं कुर्वन्ति। तत्र शृङ्गभेदने इदं फलं मध्यभेदने च
वक्ष्यमाणम्।
प्रत्यन्तानिति। उडुपतिश्चन्द्रः कुजेन भौमेन शृङ्गे विषाणे आहते ताडिते सति प्रत्यन्तान्
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

९४ बृहत्संहिता
दूरवासिनः। कुनृपान् कुत्सितनरपतीन्। हन्ति घातयति। यमेन शनैश्चरेणाऽऽहते शृङ्गे
शस्त्रक्षुद्भयकृत्। शस्त्रभयं क्षुद्भयं दुर्भिक्षं च करोति। शशिजेन बुधेनाऽऽहते अवृष्टिर्जं
अवृष्ट्युद्भूतं भयं दुर्भिक्षजं भयं च करोति। महेन्द्रगुरुणा बृहस्पतिना हते श्रेष्ठान् नरपतीन्
हन्ति घातयति। शुक्रेण सितेनाऽऽहते शृङ्गे अल्पान् नृपान् स्वल्पान् नृपान् हन्ति। चशब्दः
समुच्चये सर्वत्राऽत्र।
शुक्ले याप्यमिति। इदं ग्रहकृतं शृङ्गभङ्गफलं शुक्लपक्षे याप्यं भवति किञ्चिद्द्र-
वतीत्यर्थः। कृष्णे कृष्णपक्षे यथोक्तागमं यथा निर्दिष्टं सकलं फलं भवतीति। तथा च
पराशरः—
‘अथ शृङ्गाभिमर्दने गुरुः प्रधाननृपविनाशाय। भृगुर्यायिनां कुनृपाणाम्। भौमः सौम्यो
दुर्भिक्षायावृष्टये। क्षुच्छस्त्रभयदः सौर’ इति। तथा च समाससंहितायाम्—
प्रत्यन्तविनाशोऽन्नक्षयो महाराजपीडा च।
संग्रामाश्चाभिहिते शृङ्गे भौमादिभिः क्रमशः।। इति।।२१।।
अधुना शुक्रभिन्नबिम्बस्य चन्द्रमसः फलमाह—
भिन्नः सितेन मगधान् यवनान् पुलिन्दान्
नेपालभृङ्गिरुमरुकच्छसुराष्ट्रभद्रान् ।
पाञ्चालकैकयकुलूतकपूरुषादान्
हन्यादुशीनरजनानपि सप्त मासान् ॥२२॥
यदि चन्द्रबिम्ब शुक्र से वेधित हो तो मगध, यवन, पुलिन्द, नेपाल, भृङ्गि, मरुदेश,
कच्छ, सूरत, मद्रास, पञ्जाब, काश्मीर, कुलूतक, पुरुषाद, उशीनर—इन देशों में सात
महीने तक भयानक मृत्यु होती है।।२२।।
सितेन शुक्रेण यदा भिन्नश्चन्द्रो मध्याद्विदारितस्तदा मगधान् जनान्, यवनान्, पुलिन्दान्,
एतान् सर्वान् जनान्। नेपालभृङ्गीमरुकच्छसुराष्ट्रभद्रानेतान् जनान्, पाञ्चालान्, कैकयान्,
कुलूतकान् जनानेव। पूरुषादान् पुरुषभक्षान्। उशीनरजनान्, एतान् सर्वान् पाककालादनन्तरं
सप्त मासान् यावन्निहन्याद् घातयेत्।।२२।।
अथ जीवभिन्नस्याह—
गान्धारसौवीरकसिन्धुकीरान्
धान्यानि शैलान् द्रविडाधिपांश्च ।
द्विजांश्च मासान् दश शीतरश्मिः
सन्तापयेद्वाक्पतिना विभिन्नः ॥२३॥
यदि चन्द्रबिम्ब बृहस्पति से वेधित हो तो कन्धार, सौवीरक, सिन्ध, कीर, पर्वतीय,
द्रविड—इन देशों के ब्राह्मणों और धान्यों का दश महीने तक नाश करता है।।२३।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

चन्द्रचाराध्यायः ९५
शीतरश्मिश्चन्द्रो वाक्पतिना गुरुणा विभिन्नो विदारितबिम्बः। गान्धारान्, सौवीरकान्,
कीरान्—एतान् सर्वानिन जनान् सन्तापयेत् सम्पीड़येत्। तथा धान्यानि व्रीहीन्, शैलान्
पर्वतान्, द्रविडाधिपान् द्रविडदेशीयाधिपतीन्, द्विजांश्च ब्राह्मणान्—एतान् दश मासान् यावत्
सन्तापयेत् सम्पीड़येत्। पाकाध्यायनिर्दिष्टकालात् परत इदं ज्ञेयमिति सर्वत्र।।२३।।
अथ भौमभिन्नस्याह—
उद्युक्तान् सह वाहनैर्नरपतींस्त्रैगर्तकान् मालवान्
कौलिन्दान् गणपुङ्गवानथ शिबीनायोध्यकान् पार्थिवान्।
हन्यात् कौरवमत्स्यशुक्त्यधिपतीन् राजन्यमुख्यानपि
प्रालेयांशुमसृग्ग्रहे तनुगते षण्मासमर्यादया ॥२४॥
यदि मङ्गल से चन्द्रबिम्ब वेधित हो तो अश्व आदि वाहनों के द्वारा योद्धाओं का नाश
होता है तथा त्रिगर्त, मालवा, कौलिन्द, गणों में प्रधान, शिबि और अयोध्या में उत्पन्न जनों
एवं राजाओं का नाश करता है। इसी तरह कुरु, मत्स्य, शुक्ति—इन देशों के जनों और
राजाओं का छः महीने के अन्दर नाश करता है।।२४।।
प्रालेयांशुर्हिमश्मिश्चन्द्रोऽसृग्ग्रहे अङ्गारके तनुगते शरीरस्थे भौमभिन्न इत्यर्थः।
षण्मासमर्यादया षण्मासावधि यावदेतान् हन्यात् घातयेत्। उद्युक्तान् सह वाहनैर्नरपतीन्,
नरपतीन्नृपान्। उद्युक्तान् उद्योगस्थितान् विजिगीषून् वाहनैरश्वादिभिः सह हन्यात्। त्रैगर्तन्
जनान्, मालवान्, कौलिन्दान् जनानेव। गणपुङ्गवान् समूहप्रधानान्। अथशब्दः स्वार्थे।
अथ शिबीन् जनान्, आयोध्यकानयोध्याभवान्, तथा पार्थिवान्नृपान्—एतानपि हन्यात्। तथा
कौरवानां मत्स्यानां शुक्तीनां जनानां चाधिपतयः स्वामिनस्तानपि राजन्यमुख्यान् क्षत्रिय-
प्रधानांश्च हन्यात्।।२४।।
अथ शनैश्चरभिन्नस्याह—
यौधेयान् सचिवान् सकौरवान् प्रागीशानथ चार्जुनायनान्।
हन्यादर्कजभिन्नमण्डलः शीतांशुर्दशमासपीडया ॥२५॥
यदि शनैश्चर से चन्द्रमा वेधित हो तो दश महीने तक पीड़ित करके योद्धाओं,
मन्त्रियों, कुरुवंशियों, पूर्व दिशा में स्थित राजाओं और अर्जुनायन (पाण्डुवंशीय) जनों
का नाश करता है।।२५।।
शीतांशुश्चन्द्रोऽर्कजभिन्नमण्डलः सौरविदारितबिम्बो दशमासपीडया दशमासोपतापेनैतान्
हन्याद् घातयेत्। यौधेयान् जनान्। सचिवान् मन्त्रिणः। सकौरवान् कौरवैर्जनैः सहितान्।
प्रागीशान् पूर्वस्यां येऽधिपतयस्तानू। अथशब्दः पादपूरणे। चशब्दः समुच्चयार्थे। अर्जुनायनान्
जनानीति।।२५।।
अथ बुधभिन्नस्याह—
मगधान् मधुरां च पीडयेद्वेणायाश्च तटं शशाङ्कजः।
अपरत्र कृतं युगं वदेद्यदि भित्त्वा शशिनं विनिर्गतः ॥२६॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

९६ बृहत्संहिता
यदि चन्द्रमा को वेधित करके बुध निकला हो तो मगध, मथुरा और वेणा नदी के
तट पर स्थित देशों के मनुष्यों को पीड़ित करता है तथा पश्चिमीय देशों में स्थित मनुष्यों
के लिए सतयुग के समान समय करता है, अर्थात् उन देशों में रहने वाले मनुष्य सब
प्रकार से सम्पन्न होते हैं।।२६।।
शशाङ्कजो बुधो यदि शशिनं चन्द्रं भित्त्वा विदार्य विनिर्गतो विनिःसृतस्तदा मगधान्
देशान् मथुरां च पीडयेत् हन्ति। तद्वासिनो जनान् विनाशयति। वेणा नाम नदी तस्या-
स्तटं तत्तीरे ये निवासिनस्तान् जना नित्यर्थः। एतानुक्तान् वर्जयित्वाऽपरत्र अन्यदेशेषु कृतं
युगं वदेत् कृतयुगाकारं ब्रूयात् तद्धर्मानुवृत्तेः।।२६।।
अथ केतुभिन्नस्याह—
क्षेमारोग्यसुभिक्षविनाशी शीतांशुः शिखिना यदि भिन्नः।
कुर्यादायुधजीविविनाशं चौराणामधिकेन च पीडाम् ॥२७॥
यदि केतु से चन्द्रमा वेधित हो तो सब प्रकार के मंगल, आरोग्य, सुभिक्ष—इनका
और शस्त्र से जीवनयात्रा चलाने वाले मनुष्यों का नाश करता है तथा चोरों को विशेषकर
पीड़ा देता है।।२७।।
शीतांशुश्चन्द्रः शिखिना केतुना यदि भिन्नो विदारितबिम्बस्तदा क्षेमारोग्यसुभिक्षविनाशी
भवति। क्षेममारोग्यं नीरुजत्वं सुभिक्षं च विनाशयति तच्छीलः। तथाऽऽयुधजीविनामायुधेन
ये जीवन्ति तेषां विनाशमुपघातं कुर्यात्। चौराणां तस्कराणामधिकेन चातिशयेन पीडां
रुजं कुर्यात्। तथा च पराशरः—
'अथ भेदेष्वसुरगुरुभिन्नः पाञ्चालमगधमद्रकुणिन्दकौलूतककैकययवनधुमाम्बष्टमार्गणाङ्ग-
नाराज्यभृङ्गिमरुकच्छोशीनरपुलिन्दपुरुषादनेपालान् सप्तमासानुपतापयतीति। अमरगुरुणा
दशमासान् गान्धारवसतिं सिन्धुवाहिकपर्वतकाश्मीरान्। क्षितिसुतभिन्नः कुरुशिबिमाल-
वत्रिगर्तकुलिन्दायोध्याधिपतीन् जयार्थिनः सह षण्मासानुपतापयतीति। अर्कसूनुसम्भेदो नृप-
विरोधामात्यभेदगणपयौधेयार्जुनयनभयायाऽनावृष्टिप्रादुर्भावाय च दशमासान्। बुधभिन्नः
सुभिक्षक्षेमवृष्टिकारः। केतोस्तद्विपर्ययः। प्रवर्द्धमानो वपुष्मानपराजितो ग्रहभिन्नोऽप्यशुभ-
फलसंहर्ता' इति।।२७।।
अथ ग्रहणकाले उल्काहतस्य चन्द्रस्य फलमाह—
उल्कया यदा शशी ग्रस्त एव हन्यते।
हन्यते तदा नृपो यस्य जन्मनि स्थितः ॥२८॥
यदि ग्रहणकालिक चन्द्र के ऊपर उल्कापात हो तो उस समय जिस राजा के जन्मनक्षत्र
में चन्द्रमा स्थित हो, उस राजा का नाश करता है।।२८।।
शशी चन्द्रः। ग्रस्तो राहुराशिगतो यदोल्कया हन्यते, तदभिमुखी उल्का याति, तदा
यस्य नृपस्य यस्य राज्ञः, जन्मनि जन्मगतः स्थितः स हन्यते तदा म्रियत इत्यर्थः। तथा
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

चन्द्रचाराध्यायः ९७
च समाससंहितायाम्—
उल्काभिहतो ग्रहणे तन्नक्षत्रं नृपं हन्ति।। इति।।२८।।
अथ चन्द्रमसो वर्णलक्षणमाह—
भस्मनिभः परुषोऽरुणमूर्त्तिः शीतकरः किरणैः परिहीणः ।
श्यावतनुः स्फुटितः स्फुरणो वा क्षुड्डमरामयचौरभयाय ।।२९।।
यदि चन्द्रबिम्ब भस्म के समान रूक्ष, रक्त वर्ण, किरणों से हीन, कृष्ण वर्ण, खण्डित
या काँपता हुआ हो तो दुर्भिक्ष, कलह, रोग और चोरों का भय देने वाला होता है।।२९।।
एवंविधः शीतकरश्चन्द्रः क्षुड्डमरामयचौरभयाय भवति। क्षुद्दुर्भिक्षम्। डमरः शत्रुकलहः।
आमयो रोगः। चौरास्तस्कराः। एषां सम्बन्धि भयं भवति। कीदृशः ? भस्मनिभो भस्मवर्णः
कलुषः। परुषो रूक्षः। अरुणमूर्त्तिर्लोहितशरीरः। किरणै रश्मिभिः परिहीणो वर्जितः।
श्यावतनुः श्यामशरीरः। स्फुटितो भग्नः। स्फुरणः कम्पमान इति।।२९।।
अन्यच्छुभलक्षणमाह—
प्रालेयकुन्दकुमुदस्फटिकावदातो
यत्नादिवाऽद्रिसुतया परिमृज्य चन्द्रः ।
उच्चैः कृतो निशि भविष्यति मे शिवाय
यो दृश्यते स भविता जगतः शिवाय ।।३०।।
मानो शिव जी के लिये पार्वती जी ने साफ करके हिम, कुन्दपुष्प या स्फटिक मणि
के समान स्वच्छ अत्यन्त सुन्दर चन्द्र बनाया हो, ऐसे चन्द्र को जो मनुष्य रात्रि में देखता
है उसके लिये वह कल्याणकारी होता है अर्थात् हिम आदि के समान स्वच्छ चन्द्र को रात्रि
में जो देखता है; उसका सर्वथा मंगल होता है।।३०।।
एवंविधश्चन्द्रो यो दृश्यतेऽवलोक्यते स जगतो जनानां शिवाय श्रेयसे भविता
भविष्यतीत्यर्थः। कीदृशः ? प्रालेयकुन्दकुमुदस्फटिकावदातः, प्रालेयं हिमम्, कुन्दकुमुदे
पुष्पविशेषे शुक्ले तथा स्फटिको मणिस्र्तद्वदवदातो निर्मल इत्यर्थः। तथा अद्रिसुतया
गौर्या यत्नाद्यत्नतः परिमृज्य समन्ततो निर्मलीकृत्योच्चैः कृत इवोपरि न्यस्तः। किमर्थम्?
निशि रात्रौ मे शिवाय महेश्वराय भविष्यति प्रेयसे वेति निश्चित्य। तथा च पराशरः—
'भस्मारुणवहिताम्रपीतपाण्डुनीलरूक्षवर्णः क्षुद्वैरकरः। स्निग्धः प्रसन्नो रश्मिवान्
श्वेतः क्षेमसुभिक्षवृष्टिकारः' इति।।३०।।
अथ पक्षवृद्धौ वा हानौ वा साम्ये शुभाशुभमाह—
शुक्ले पक्षे सम्प्रवृद्धे प्रवृद्धिं ब्रह्मक्षत्रं याति वृद्धिं प्रजाश्च ।
हीने हानिस्तुल्यता तुल्यतायां कृष्णे सर्वं तत्फलं व्यत्ययेन ।। ३१ ।।
यदि शुक्ल पक्ष में कोई तिथि बढ़ जाय तो ब्राह्मण, क्षत्रिय और प्रजागण अत्यन्त
बृ० भ० प्र०-७
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

९८ बृहत्संहिता
वृद्धि को प्राप्त होते हैं, लेकिन घट जाने पर उनकी हानि होती है और समान तिथि रहने
पर उनको साधारण फल प्राप्त होता है।।३१।।
शुक्ले पक्षे श्वेतमासार्द्धे सम्प्रवृद्धे सम्यक् प्रवृद्धिं गते ब्रह्मक्षत्रं वृद्धिं याति। ब्राह्मणा
द्विजाः, क्षत्रिया नृपाश्च वृद्धिं गच्छन्ति, तथा प्रजाश्च वृद्धिं यान्ति। हीने हानिरिति,
तस्मिन्नेव शुक्लपक्षे हीने क्षयं गते च ब्रह्मक्षत्रप्रजानां हानिर्भवति। तुल्यता तुल्यतायामिति ।
तुल्यतायां समत्वे न हानौ न वृद्धौ तेषां ब्रह्मक्षत्रप्रजानां तुल्यता साम्यमेव भवति। कृष्णे
सर्वं तत्फलं व्यत्ययेन, कृष्णे कृष्णपक्षे सर्वं प्रागुक्तं फलं व्यत्ययेन विपरीतेन ज्ञेयं ज्ञातव्यम्।
एतदुक्तं भवति—कृष्णपक्षे प्रवृद्धे ब्रह्मक्षत्रप्रजानां हानिर्हीने तस्मिन् पक्ष एव तेषां वृद्धिः।
समे पक्षे समत्वमिति।।३१।।
अन्यदप्याह—
यदि कुमुदमृणालहारगौरस्तिथिनियमात् क्षयमेति वर्द्धते वा।
अविकृतगतिमण्डलांशुयोगी भवति नृणां विजयाय शीतरश्मिः ॥३२॥
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां
चन्द्रचारश्चतुर्थोऽध्यायः ॥४॥
यदि विकाररहित गति और विकाररहित किरण वाला चन्द्र कुमुद, मृणाल या
मुक्ताहार के समान वर्ण का होकर तिथि के अनुसार घटता-बढ़ता हो तो मनुष्यों की
विजय का सूचक होता है।।३२।।
इति 'विमला' हिन्दीटीकायां चन्द्रचाराध्यायश्चतुर्थः ॥४॥
एवंविधः शीतरश्मिश्चन्द्रो नृणां पुंसां विजयाय भवति। कीदृशो यदि कुमुदमृणा-
लहारगौरः, कुमुदं पुष्पविशेषम्, मृणालं बिसम्, हारो मुक्ताहारस्तद्वद्यदि गौरः श्वेत इत्यर्थः।
तिथिनियमात्तिथिक्रमण क्षयमेति क्षयं गच्छति। तिथिक्रमेण वा वर्द्धते वृद्धिं याति। शुक्ल-
कृष्णप्रतिपदाद्यासु तिथिषु वृद्धिक्षयौ तुल्यौ भवतः कदाचिद्दीनाधिकतेत्यर्थः। अविकृतगतिः,
अविकृता विकाररहिता गतिर्गमनं यस्य कम्पनादिदोषरहितः। अविकृतं मण्डलं बिम्बं
यस्य अविकृतैरंशुभिः किरणैर्योगः संयोगो यस्य तथाभूत इति।।३२।।
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ
चन्द्रचारो नामाध्यायश्चतुर्थः ॥४॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

अथ राहुचाराध्यायः

अथ राहुचाराध्यायो व्याख्यायते। तत्रादावेव राहोग्रहत्वप्रतिपादनाय मतान्तरमाह—
अमृतास्वादविशेषाच्छिन्नमपि शिरः किलासुरस्येदम्।
प्राणैरपरित्यक्तं ग्रहतां यातं वदन्त्येके ॥१॥
राहु नामक राक्षस ने अपना मस्तक कट जाने पर भी अमृत पी चुकने के कारण
प्राणनाश नहीं; वरन् ग्रहत्व को प्राप्त किया—ऐसा कुछ लोग कहते हैं॥१॥
किलशब्द आगमप्रदर्शनार्थः। एके केचिदाचार्या एवं वदन्ति कथयन्ति। लोके यो
राहुरित्युच्यते स चाऽसुरः सैंहिकेयः। तस्य पुराऽमृतं पिबतो भगवता हरिणा सुदर्शनाख्येन
चक्रेण शिरो मूर्द्धा छिन्नं निकृत्तमपि अमृताऽऽस्वादविशेषादमृताऽऽस्वादनहेतोः प्राणै-
रसुभिरपरित्यक्तं नोज्झितं ग्रहतां यातं तदेव ग्रहत्वं प्राप्तमिति। तथा च पुराणकारः—
सिंहिकातनयो राहुरपिबच्चामृतं पुरा।
शिरच्छिन्नोऽपि न प्राणैस्त्यक्तोऽसौ ग्रहतां गतः।। इति॥१॥
यद्येवंविधो राहुस्तत्किमित्याकाशे ग्रहवन्नोपलभ्यते तदर्थमाह—
इन्दर्कमण्डलाकृतिरसितत्वात् किल न दृश्यते गगने।
अन्यत्र पर्वकालाद्वरप्रदानात् कमलयोनेः ॥२॥
कृष्ण वर्ण का होने के कारण ब्रह्मा जी के वर-प्रदान से पर्वकाल से भिन्न समय में
राहु आकाश में चन्द्र और रविमण्डल के सदृश नहीं दिखाई देता॥२॥
इन्दुमण्डलस्य चन्द्रबिम्बस्यार्कमण्डलस्य सूर्यबिम्बस्य च यादृश्याकृतिराकारस्तादृगेव
राहुमण्डलस्य। यद्येवं तत् किमिति गगने आकाशे न दृश्यते नोपलभ्यते? असितत्वात्
किलेति, असितत्वात् कृष्णत्वात् किल न दृश्यते यतोऽसौ तमोमय इति। यदि न
दृश्यते तदास्य दर्शनमस्तीत्याह—अन्यत्र पर्वकालादिति। कमलयोनेर्ब्रह्मणो वरप्रदानात्
पर्वकालाद् ग्रहणसमयादन्यत्र अन्यस्मिन् काले न दृश्यते, पर्वकाले तु पुनर्हश्यते। तथा
च पराशरः—
‘पुरा पुरुहूतपितरं कश्यपमपत्यार्थमकाले सिंहिका अभियाचयामास। तस्यै मुनिर-
कालयाज्ञाकोपाद्दारुणं मयकालान्तकोपमं सुतमदात्, यं राहुमित्याचक्षते कुशलाः। स
जातमात्र एवाऽदितिसुतसङ्घरावमर्दानु विमुखीकृतः क्रोधाद्धिमवति दिव्यमत्युग्रमयुतं
वर्षाणां तपोऽतप्यत। स पितामहाद्दिवि चरणममरतां सुरविजयमर्कचन्द्रसम्भक्षणं च वरमभि-
वरयामास। तस्मै भगवानमरगुरुः स्वयम्भूः प्रहसन्नुवाच। अतिवरमशक्तस्त्वमेतौ जरयितुं
किन्त्वेवमस्त्वित्युक्त्वान्तर्हिते भगवति दिनकररजनिकरावभिदुद्राव राहुः। ततो हरिरिति...


CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

१०० बृहत्संहिता
चक्रमुपरि प्रक्षिप्यास्य शिरच्छित्वोवाच। सर्वमवितथं पितामहवचो भवतु स्वे स्वे युगे
पर्वणि ग्रहणं कुर्वन् जगतः शुभाशुभानां कर्ता भविष्यसी'ति। तथा च भगवान् गर्गः—
आदित्यनिलयो राहुः सोमं गच्छति पर्वसु।
आदित्यमेति सोमाच्च पुरश्चान्द्रेषु पर्वसु।। इति।। २।।
अन्यदपि मतान्तरमाह—
मुखपुच्छविभक्ताङ्गं भुजङ्गमाकारमुपदिशन्त्यन्ये।
कथयन्त्यमूर्त्तमपरे तमोमयं सैंहिकेयाख्यम् ।।३।।
किसी का मत है कि मुख और पुच्छ से विभक्त है अंग जिसका, ऐसा जो सर्प का
आकार है, वही राहु का आकार है। किसी का मत है कि राहु का आकार कोई भी नहीं है,
बल्कि वह केवल अन्धकारमय है।।३।।
एके आचार्याः सैंहिकेयाख्यं राहुं मुखपुच्छविभक्ताङ्गमुपदिशन्ति कथयन्ति। मुख-
पुच्छाभ्यां विभक्तान्यङ्गानि यस्य, एतदेवास्य ज्ञायते नान्यदवयवादिकं मुखपुच्छाभ्यां
परतः। तथा च वीरभद्रः—
सिंहिकातनयस्यास्य राहोः पुच्छमुखादृते।
नान्यदस्ति परं बाहुकटिपादकरादिकम् ।। इति।
भुजङ्गमाकारमुपदिशन्त्यन्ये। अन्ये आचार्या भुजङ्गमाकारं सर्पाकृतिं च वदन्ति
कथयन्ति। यथा सर्परूपो राहुः। तथा च वसिष्ठः—
भषट्कान्तरितौ राहुः सूर्यचन्द्रमसावुभौ।
छादयत्युरगाकारो वरदानात् स्वयम्भुवः।। इति।
कथयन्त्यमूर्त्तमपर इति। अपरेऽन्ये पुनरमूर्त्तं मूर्त्तिरहितं तमोमयमन्धकारमयं राहुं
कथयन्ति वदन्ति। तथा च देवलः—
अन्धकारमयो राहुर्मेघखण्ड इवोत्थितः।
आच्छादयति सोमार्कौ पर्वकाले ह्युपस्थिते।। इति।। ३।।
अधुनैतत्परमतं दूषयितुमाह—
यदि मूर्त्तो भविचारी शिरोऽथवा भवति मण्डली राहुः।
भगणार्द्धेनान्तरितौ गृह्णाति कथं नियतचारः ।।४।।
यदि राहु मूर्तिमान्, राशि में चलने वाला, शिर वाला और बिम्ब वाला होता तो
मिश्रित गति वाला होकर भगणार्द्ध पर स्थित रवि-चन्द्र—इन दोनों को कैसे ग्रसित करता
अर्थात् कभी भी ग्रसित नहीं कर पाता।।४।।
यद्यसौ राहुर्मूर्त्तो मूर्त्तिमान् सावयवः। भविचारी भेषु राशिषु वा नक्षत्रेषु विचरणशीलः।
शिरोऽथवा भवति, शिरोमान् राहुर्मण्डलवान् वा तन्नियतचारो निश्चितगतिर्भूत्वा कथं
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

राहुचाराध्यायः १०१
भगणार्द्धेन राशिषट्केनान्तरितौ व्यवहितौ सूर्याचन्द्रमसौ गृह्णाति। किलास्य तिस्रो लिप्ता
एकादशविलिप्ताश्च गणितस्कन्धोक्ता नियता गतिर्यस्य नियतचारस्तस्य षड्राश्यन्तरिता
गतिर्न सम्भाव्यते अर्कादीनां यथेति ।। ४ ।।
अन्यद् दूषणान्तरमाह—
अनियतचारः खलु चेदुपलब्धिः संख्यया कथं तस्य ।
पुच्छाननाभिधानोऽन्तरेण कस्मान्न गृह्णाति ।। ५ ।।
यदि राहु अनिश्चित गति वाला होता तो गणित से उसका ज्ञान कैसे हो सकता था?
अथवा यदि मुख-पुच्छ-विभक्ताङ्ग वाला होता है तो अपने से दूसरी, तीसरी, चौथी या
पाँचवीं राशि पर स्थित रवि-चन्द्र को क्यों नहीं ग्रसता है ।। ५ ।।
यद्यसौ राहुरनियतचारोऽनिश्चितगतिः केत्वादिरिव तत्कथं तस्य संख्यया गणितेनो-
पलब्धिरुपलम्भनम्। कथं ज्ञायते यथास्मिन् राशौ राहुरवस्थित इति।
[L13

१०२ बृहत्संहिता
वह ठीक नहीं है; क्योंकि जब अनियत चार वाले राहु के द्वारा ग्रसित चन्द्र का उदय या
अस्त होगा तो उस समय क्षितिज के ऊपर विरुद्ध दिशा में नियत चार वाले राहु से सूर्य का
भी ग्रहण होना सम्भव है, पर ऐसा देखने में नहीं आता ।।७।।
यदि चेद्राहुद्वयं स्वर्भानुयुगम्। स्याद्भवेत्। तच्चन्द्रे शशिनि ग्रस्तेऽस्तमितेऽथवा दिने
ग्रस्त उदिते सति सूर्योऽपि रविरपि तत्समगतिना सूर्यतुल्यगतिनान्येनापरेण द्वितीयेन राहुणा
ग्रस्तश्छादितो दृश्येत अवलोक्येत च। एतदुक्तं भवति—यदा ग्रस्तश्चन्द्रमा उदेति ग्रस्तो
वास्तमेति तदा पूर्वापरहरिजसक्तस्येन्दोरर्कस्यापि पूर्वापरक्षितिजासक्तिर्भवति षड्राश्यन्तरित-
त्वादुपपद्यते। द्वावपि क्षितिजादुपरि स्थितौ दृश्यौ भवतः। पर्वकालस्य च सम्भवादेकेना-
नियत-चारेण चन्द्र आच्छाद्यते परेण च नियतचारेण षड्राश्यन्तरितः सूर्य इति।।७।।
एवं मतान्तराणि निराकृत्य स्वसिद्धान्तमाह—
भूच्छायां स्वग्रहणे भास्करमर्कग्रहे प्रविशतीन्दुः ।
प्रग्रहणमतः पश्चान्नेन्दोर्भानोश्च पूर्वार्द्धात् ॥८॥
अपने ग्रहण में चन्द्रमा भूच्छाया में और सूर्यग्रहण में सूर्यबिम्ब में प्रविष्ट होता है;
अतः चन्द्र का स्पर्श पश्चिम भाग से और सूर्य का स्पर्श पूर्व भाग से नहीं होता ।।८।।
यदि राहुकृतमर्कचन्द्रयोर्ग्रहणं तदिन्दोः प्राक्प्रग्रहणं पश्चात् सूर्यस्येति तत्किमिति राहो-
रेकरूपत्वात्? अत्राऽऽह—भूच्छायामिति। इन्दुश्चन्द्रः स्वग्रहणे। आत्मीयोपरागे भूच्छाया
प्रविशति। अर्कग्रहणे सूर्योपरागे भास्करमर्कं प्रविशति, यतोऽर्कात् सप्तमराशौ भूच्छाया
भ्रमति चन्द्रश्च पौर्णमास्यन्ते तत्रैव भवति। स च शीघ्रत्वात् पूर्वाभिमुखो भूच्छायां प्रविशति।
तत्र प्रविष्टस्य खण्डं नोत्पद्यते। अतस्तस्य पूर्वार्द्धात् प्रग्रहणं भवति। सूर्यग्रहणे चन्द्रा-
र्कवेकराशिगौ भवतः। तत्र चन्द्रमाः शीघ्रगतित्वात् पश्चादागत्यामावास्यान्तेऽर्कतलं प्रविश-
त्यतोऽविक्षिप्तः स एवाधःस्थोऽर्कमाच्छादयति। अतः पश्चात् सूर्यस्य खण्डं नोत्पद्यते।
अतोऽस्माद्धेतोरिन्दोश्चन्द्रस्य पश्चादर्द्धात् प्रग्रहणं न भवति। भानोरादित्यस्य पूर्वार्द्धात् प्रग्रहणं
न भवतीति।।८।।
अथ रात्रौ कुतो भूच्छाया भवत्येतत्प्रतिपादयितुमाह—
वृक्षस्य स्वच्छाया यथैकपार्श्वे भवति दीर्घचया ।
निशि निशि तद्वद्भूमेरावरणवशाद्दिनेशस्य ॥९॥
जिस तरह सूर्य के आवरणवश वृक्ष की छाया एक तरफ फैलती है, उसी तरह सूर्य
के आवरणवश पृथ्वी की छाया प्रत्येक रात्रि में लम्बी होती है।।९।।
यथा वृक्षस्य तरोः स्वच्छायाऽऽत्मीया भा दिनेशस्याऽऽदित्यस्याऽऽवरणवशात् छादन-
हेतोरेकस्मिन् पार्श्वे भवति दीर्घचयाऽऽयामिनी सूर्याद्विपक्षायां दिशि भवति। तद्वत्तेनैव
प्रकारेण निशि निशि रात्रौ रात्रौ दिनेशस्याऽऽवरणवशाद् भूर्यतः सूर्यमाच्छादयति। अतो
हेतोरेकपार्श्वे भवति दीर्घचया ॥९॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

राहुचाराध्यायः १०३
यद्येवं तत्प्रतिमासं किमिति चन्द्रस्य ग्रहणं न भवतीत्येतत्प्रतिपादयन्नाह—
सूर्यात् सप्तमराशौ यदि चोदग्दक्षिणेन नातिगतः ।
चन्द्रः पूर्वाभिमुखश्छायामौर्वीं तदा विशति ॥१०॥
जब सूर्य से सप्तम राशि में स्थित होकर पूर्वाभिमुख गति वाला चन्द्र क्रान्तिवृत्त से
अत्यल्प उत्तर या दक्षिण शर पर रहता है तो उस समय पूर्वाभिमुख चलता हुआ चन्द्र
पृथ्वी की छाया में प्रवेश करता है॥१०॥
यदि चन्द्रः शशी सूर्यादादित्यात् सप्तमे राशौ स्थितो भूच्छायात उत्तरेण दक्षिणेन
च नात्यर्थं याति। स्वल्पेन विक्षेपेण विक्षिप्तो भवतीत्यर्थः। तदा पूर्वाभिमुखो गच्छन्
प्राचीं दिशमनुसरन्नौर्वीं भूच्छायां प्रविशति नान्यथेति। यतो भूच्छाया मूलाद्बृहती भवत्य-
ग्रादलपा। सा च चन्द्रकक्षाया ऊर्ध्वं याति। तत्रस्थश्चन्द्रमा अत्यल्पविक्षिप्तो यदा भवति तदा
सर्वग्रास उत्पद्यते। विक्षेपे सति तदनुसारेण चतुर्थभागग्रासप्रमाणमर्द्धग्रासप्रमाणं पादोन-
ग्रासप्रमाणं ग्रासाभावो वा स्वबुद्धयोह्यमिति। तथा च ब्रह्मसिद्धान्ते—
भूच्छायां शशिकक्षायां रवौ भार्द्धान्तरस्थिते।
यदा विशत्यविक्षिप्तश्चन्द्रः स्यात्तद्ग्रहस्तदा॥ इति॥१०॥
अथ चन्द्रग्रहणं सर्वत्रैकरूपं दृश्यते अर्कग्रहणं प्रतिदेशमन्यादृशमित्येतत्प्रतिपादयन्नाह—
चन्द्रोऽधःस्थः स्थगयति रविमम्बुदवत् समागतः पश्चात्।
प्रतिदेशमतश्चित्रं दृष्टिवशाद् भास्करग्रहणम् ॥११॥
सभी देशों में प्रायः चन्द्रग्रहण एक रूप का और रविग्रहण विभिन्न रूप का देखने में
आता है। उसका कारण यह है कि मेघ की तरह अधःस्थित चन्द्रमा पश्चिम तरफ से
आकर रविबिम्ब को आच्छादित करता है; इसीलिये प्रत्येक देश में सूर्यग्रहण विभिन्न रूप
में देखने में आता है॥११॥
आदित्यादधःस्थश्चन्द्रः। स च पश्चात् पश्चिमभागात् समागतोऽम्बुदवन्मेघखण्डवद्रवि-
मादित्यं स्थगयत्याच्छादयति। अतोऽस्माद्धेतोः प्रतिदेशं देशं देशं प्रति भास्करग्रहणं सूर्यो-
परागं दृष्टिवशाद्दर्शनहेतोश्चित्रं नानाप्रकारं दृश्यतेऽवलोक्यते। क्वचित्सर्वग्रहणं क्वचि-
त्खण्डग्रहणं क्वचिद्ग्रहणाभावः। यथा मेघखण्डाच्छादितमर्कबिम्बं समाधोवर्तिनां सर्व-
मेवाऽदृश्यं पार्श्ववर्तिनां केषाञ्चिदद्र्धदृश्यं केषाञ्चिच्चतुर्थभागदृश्यमन्येषां सर्वदृश्यमिति।
तथा च सूर्यसिद्धान्ते—
इन्दुना छादितं सूर्यमधोऽविक्षिप्तगामिना।
न पश्यति यदा लोकस्तदा स्याद्भास्करग्रहः॥
तमोमयस्य तमसो रविरश्मिपलायिनः।
भूच्छाया चन्द्रबिम्बं च स्थाने द्वे परिकल्पिते॥ इति।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA