सामग्री पर जाएँ
सर्वकोश
बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

Brihat Samhita Vol 1 with Vimala Hindi Commentary

आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा

DevanagariHindipublished728 पृष्ठ

पृष्ठ 139, कुल 728 में से

संदर्भ में पढ़ें
पृष्ठ 139

अथ राहुचाराध्यायः

अथ राहुचाराध्यायो व्याख्यायते। तत्रादावेव राहोग्रहत्वप्रतिपादनाय मतान्तरमाह—
अमृतास्वादविशेषाच्छिन्नमपि शिरः किलासुरस्येदम्।
प्राणैरपरित्यक्तं ग्रहतां यातं वदन्त्येके ॥१॥
राहु नामक राक्षस ने अपना मस्तक कट जाने पर भी अमृत पी चुकने के कारण
प्राणनाश नहीं; वरन् ग्रहत्व को प्राप्त किया—ऐसा कुछ लोग कहते हैं॥१॥
किलशब्द आगमप्रदर्शनार्थः। एके केचिदाचार्या एवं वदन्ति कथयन्ति। लोके यो
राहुरित्युच्यते स चाऽसुरः सैंहिकेयः। तस्य पुराऽमृतं पिबतो भगवता हरिणा सुदर्शनाख्येन
चक्रेण शिरो मूर्द्धा छिन्नं निकृत्तमपि अमृताऽऽस्वादविशेषादमृताऽऽस्वादनहेतोः प्राणै-
रसुभिरपरित्यक्तं नोज्झितं ग्रहतां यातं तदेव ग्रहत्वं प्राप्तमिति। तथा च पुराणकारः—
सिंहिकातनयो राहुरपिबच्चामृतं पुरा।
शिरच्छिन्नोऽपि न प्राणैस्त्यक्तोऽसौ ग्रहतां गतः।। इति॥१॥
यद्येवंविधो राहुस्तत्किमित्याकाशे ग्रहवन्नोपलभ्यते तदर्थमाह—
इन्दर्कमण्डलाकृतिरसितत्वात् किल न दृश्यते गगने।
अन्यत्र पर्वकालाद्वरप्रदानात् कमलयोनेः ॥२॥
कृष्ण वर्ण का होने के कारण ब्रह्मा जी के वर-प्रदान से पर्वकाल से भिन्न समय में
राहु आकाश में चन्द्र और रविमण्डल के सदृश नहीं दिखाई देता॥२॥
इन्दुमण्डलस्य चन्द्रबिम्बस्यार्कमण्डलस्य सूर्यबिम्बस्य च यादृश्याकृतिराकारस्तादृगेव
राहुमण्डलस्य। यद्येवं तत् किमिति गगने आकाशे न दृश्यते नोपलभ्यते? असितत्वात्
किलेति, असितत्वात् कृष्णत्वात् किल न दृश्यते यतोऽसौ तमोमय इति। यदि न
दृश्यते तदास्य दर्शनमस्तीत्याह—अन्यत्र पर्वकालादिति। कमलयोनेर्ब्रह्मणो वरप्रदानात्
पर्वकालाद् ग्रहणसमयादन्यत्र अन्यस्मिन् काले न दृश्यते, पर्वकाले तु पुनर्हश्यते। तथा
च पराशरः—
‘पुरा पुरुहूतपितरं कश्यपमपत्यार्थमकाले सिंहिका अभियाचयामास। तस्यै मुनिर-
कालयाज्ञाकोपाद्दारुणं मयकालान्तकोपमं सुतमदात्, यं राहुमित्याचक्षते कुशलाः। स
जातमात्र एवाऽदितिसुतसङ्घरावमर्दानु विमुखीकृतः क्रोधाद्धिमवति दिव्यमत्युग्रमयुतं
वर्षाणां तपोऽतप्यत। स पितामहाद्दिवि चरणममरतां सुरविजयमर्कचन्द्रसम्भक्षणं च वरमभि-
वरयामास। तस्मै भगवानमरगुरुः स्वयम्भूः प्रहसन्नुवाच। अतिवरमशक्तस्त्वमेतौ जरयितुं
किन्त्वेवमस्त्वित्युक्त्वान्तर्हिते भगवति दिनकररजनिकरावभिदुद्राव राहुः। ततो हरिरिति...


CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA