बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 1 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 142, कुल 728 में से
संदर्भ में पढ़ें१०२ बृहत्संहिता
वह ठीक नहीं है; क्योंकि जब अनियत चार वाले राहु के द्वारा ग्रसित चन्द्र का उदय या
अस्त होगा तो उस समय क्षितिज के ऊपर विरुद्ध दिशा में नियत चार वाले राहु से सूर्य का
भी ग्रहण होना सम्भव है, पर ऐसा देखने में नहीं आता ।।७।।
यदि चेद्राहुद्वयं स्वर्भानुयुगम्। स्याद्भवेत्। तच्चन्द्रे शशिनि ग्रस्तेऽस्तमितेऽथवा दिने
ग्रस्त उदिते सति सूर्योऽपि रविरपि तत्समगतिना सूर्यतुल्यगतिनान्येनापरेण द्वितीयेन राहुणा
ग्रस्तश्छादितो दृश्येत अवलोक्येत च। एतदुक्तं भवति—यदा ग्रस्तश्चन्द्रमा उदेति ग्रस्तो
वास्तमेति तदा पूर्वापरहरिजसक्तस्येन्दोरर्कस्यापि पूर्वापरक्षितिजासक्तिर्भवति षड्राश्यन्तरित-
त्वादुपपद्यते। द्वावपि क्षितिजादुपरि स्थितौ दृश्यौ भवतः। पर्वकालस्य च सम्भवादेकेना-
नियत-चारेण चन्द्र आच्छाद्यते परेण च नियतचारेण षड्राश्यन्तरितः सूर्य इति।।७।।
एवं मतान्तराणि निराकृत्य स्वसिद्धान्तमाह—
भूच्छायां स्वग्रहणे भास्करमर्कग्रहे प्रविशतीन्दुः ।
प्रग्रहणमतः पश्चान्नेन्दोर्भानोश्च पूर्वार्द्धात् ॥८॥
अपने ग्रहण में चन्द्रमा भूच्छाया में और सूर्यग्रहण में सूर्यबिम्ब में प्रविष्ट होता है;
अतः चन्द्र का स्पर्श पश्चिम भाग से और सूर्य का स्पर्श पूर्व भाग से नहीं होता ।।८।।
यदि राहुकृतमर्कचन्द्रयोर्ग्रहणं तदिन्दोः प्राक्प्रग्रहणं पश्चात् सूर्यस्येति तत्किमिति राहो-
रेकरूपत्वात्? अत्राऽऽह—भूच्छायामिति। इन्दुश्चन्द्रः स्वग्रहणे। आत्मीयोपरागे भूच्छाया
प्रविशति। अर्कग्रहणे सूर्योपरागे भास्करमर्कं प्रविशति, यतोऽर्कात् सप्तमराशौ भूच्छाया
भ्रमति चन्द्रश्च पौर्णमास्यन्ते तत्रैव भवति। स च शीघ्रत्वात् पूर्वाभिमुखो भूच्छायां प्रविशति।
तत्र प्रविष्टस्य खण्डं नोत्पद्यते। अतस्तस्य पूर्वार्द्धात् प्रग्रहणं भवति। सूर्यग्रहणे चन्द्रा-
र्कवेकराशिगौ भवतः। तत्र चन्द्रमाः शीघ्रगतित्वात् पश्चादागत्यामावास्यान्तेऽर्कतलं प्रविश-
त्यतोऽविक्षिप्तः स एवाधःस्थोऽर्कमाच्छादयति। अतः पश्चात् सूर्यस्य खण्डं नोत्पद्यते।
अतोऽस्माद्धेतोरिन्दोश्चन्द्रस्य पश्चादर्द्धात् प्रग्रहणं न भवति। भानोरादित्यस्य पूर्वार्द्धात् प्रग्रहणं
न भवतीति।।८।।
अथ रात्रौ कुतो भूच्छाया भवत्येतत्प्रतिपादयितुमाह—
वृक्षस्य स्वच्छाया यथैकपार्श्वे भवति दीर्घचया ।
निशि निशि तद्वद्भूमेरावरणवशाद्दिनेशस्य ॥९॥
जिस तरह सूर्य के आवरणवश वृक्ष की छाया एक तरफ फैलती है, उसी तरह सूर्य
के आवरणवश पृथ्वी की छाया प्रत्येक रात्रि में लम्बी होती है।।९।।
यथा वृक्षस्य तरोः स्वच्छायाऽऽत्मीया भा दिनेशस्याऽऽदित्यस्याऽऽवरणवशात् छादन-
हेतोरेकस्मिन् पार्श्वे भवति दीर्घचयाऽऽयामिनी सूर्याद्विपक्षायां दिशि भवति। तद्वत्तेनैव
प्रकारेण निशि निशि रात्रौ रात्रौ दिनेशस्याऽऽवरणवशाद् भूर्यतः सूर्यमाच्छादयति। अतो
हेतोरेकपार्श्वे भवति दीर्घचया ॥९॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA