बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 1 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 140, कुल 728 में से
संदर्भ में पढ़ें१०० बृहत्संहिता
चक्रमुपरि प्रक्षिप्यास्य शिरच्छित्वोवाच। सर्वमवितथं पितामहवचो भवतु स्वे स्वे युगे
पर्वणि ग्रहणं कुर्वन् जगतः शुभाशुभानां कर्ता भविष्यसी'ति। तथा च भगवान् गर्गः—
आदित्यनिलयो राहुः सोमं गच्छति पर्वसु।
आदित्यमेति सोमाच्च पुरश्चान्द्रेषु पर्वसु।। इति।। २।।
अन्यदपि मतान्तरमाह—
मुखपुच्छविभक्ताङ्गं भुजङ्गमाकारमुपदिशन्त्यन्ये।
कथयन्त्यमूर्त्तमपरे तमोमयं सैंहिकेयाख्यम् ।।३।।
किसी का मत है कि मुख और पुच्छ से विभक्त है अंग जिसका, ऐसा जो सर्प का
आकार है, वही राहु का आकार है। किसी का मत है कि राहु का आकार कोई भी नहीं है,
बल्कि वह केवल अन्धकारमय है।।३।।
एके आचार्याः सैंहिकेयाख्यं राहुं मुखपुच्छविभक्ताङ्गमुपदिशन्ति कथयन्ति। मुख-
पुच्छाभ्यां विभक्तान्यङ्गानि यस्य, एतदेवास्य ज्ञायते नान्यदवयवादिकं मुखपुच्छाभ्यां
परतः। तथा च वीरभद्रः—
सिंहिकातनयस्यास्य राहोः पुच्छमुखादृते।
नान्यदस्ति परं बाहुकटिपादकरादिकम् ।। इति।
भुजङ्गमाकारमुपदिशन्त्यन्ये। अन्ये आचार्या भुजङ्गमाकारं सर्पाकृतिं च वदन्ति
कथयन्ति। यथा सर्परूपो राहुः। तथा च वसिष्ठः—
भषट्कान्तरितौ राहुः सूर्यचन्द्रमसावुभौ।
छादयत्युरगाकारो वरदानात् स्वयम्भुवः।। इति।
कथयन्त्यमूर्त्तमपर इति। अपरेऽन्ये पुनरमूर्त्तं मूर्त्तिरहितं तमोमयमन्धकारमयं राहुं
कथयन्ति वदन्ति। तथा च देवलः—
अन्धकारमयो राहुर्मेघखण्ड इवोत्थितः।
आच्छादयति सोमार्कौ पर्वकाले ह्युपस्थिते।। इति।। ३।।
अधुनैतत्परमतं दूषयितुमाह—
यदि मूर्त्तो भविचारी शिरोऽथवा भवति मण्डली राहुः।
भगणार्द्धेनान्तरितौ गृह्णाति कथं नियतचारः ।।४।।
यदि राहु मूर्तिमान्, राशि में चलने वाला, शिर वाला और बिम्ब वाला होता तो
मिश्रित गति वाला होकर भगणार्द्ध पर स्थित रवि-चन्द्र—इन दोनों को कैसे ग्रसित करता
अर्थात् कभी भी ग्रसित नहीं कर पाता।।४।।
यद्यसौ राहुर्मूर्त्तो मूर्त्तिमान् सावयवः। भविचारी भेषु राशिषु वा नक्षत्रेषु विचरणशीलः।
शिरोऽथवा भवति, शिरोमान् राहुर्मण्डलवान् वा तन्नियतचारो निश्चितगतिर्भूत्वा कथं
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA