बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 1 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 129, कुल 728 में से
संदर्भ में पढ़ेंचन्द्रचाराध्यायः ८९
चन्द्ररेखा यदा चोर्ध्वमृज्वी दण्ड इव स्थिता।
उदक्शृङ्गाधिकसमो दण्डस्थानं तदुच्यते।।
उद्युक्तदण्डा राजानो विनिघ्नन्ति समन्ततः।
गवां पीडां विजानीयाद्दण्डस्थाने यदा शशी।। इति।।११।।
अथ कार्मुकयुगसंस्थानयोर्लक्षणं फलं चाह—
कार्मुकरूपे युद्धानि यत्र तु ज्या ततो जयस्तेषाम्।
स्थानं युगमिति याम्योत्तरायतं भूमिकम्पाय ॥१२॥
यदि चन्द्र की आकृति धनुष के समान हो तो उसको 'कार्मुक'संस्थान कहते हैं।
इसमें युद्ध होता है तथा जिस तरफ धनुष की जीवा रहती है, उस दिशा के राजा की जीत
होती है। यदि चन्द्र के शृङ्ग दक्षिणोत्तर विस्तीर्ण हों तो उसको 'युग'संस्थान कहते हैं।
इसमें भूकम्प होता है॥१२॥
कार्मुकं धनुस्तद्रूपे तदाकारे संस्थाने। युद्धानि संग्रामा भवन्ति। यत्र तु ज्या यस्मिन्
भागे गुणस्तत्र तस्यां दिशि ये स्थिता राजानस्तेषां जयो भवति। तथा च वृद्धगर्गः—
उदये तु यदा सोमं पश्येद्धनुरिवोदितम्।
धनुर्द्धराणामुद्योगो जगद्युद्धकरो भवेत्।।
क्षत्रियाः क्षत्रियान् घ्नन्ति वर्णाश्चैव तथापरे।
अग्रतश्च जयस्तेषां पृष्ठतश्च पराजयः।।
स्थानं युगमिति। तत्स्थानं याम्योत्तरायतं दक्षिणसौम्यभागविस्तीर्णां मध्यं मण्डलं
यदि भवति तद्युगं नाम। तच्च भूमिकम्पाय भवति। एतदुक्तं भवति—एवंविधे संस्थाने
तन्मासमध्ये भूमिकम्पो वक्तव्यः। तथा च वृद्धगर्गः—
चन्द्ररेखा यदा व्यक्ता दक्षिणोत्तरमायता।
शुक्लादौ प्रतिपद्येत तद्योगस्थानलक्षणम्।।
सैन्योद्योगा भवन्त्यत्र भूमिकम्पश्च जायते।। इति।।१२।।
अथ पार्श्वशायिनः संस्थानं फलं चाह—
युगमेव याम्यकोट्यां किञ्चित्तुङ्गं स पार्श्वशायीति।
विनिहन्ति सार्थवाहान् वृष्टेश्च विनिग्रहं कुर्यात् ॥१३॥
पूर्वकथित युगसंस्थान में दक्षिण शृंग का अग्रभाग कुछ ऊँचा हो तो 'पार्श्वशायी'
संस्थान होता है। इसमें धनी व्यापारियों का और वृष्टि का नाश होता है॥१३॥
युगमेव युगसंस्थानं याम्यकोट्यां दक्षिणशृङ्गाग्रे किञ्चिदीषत्तुङ्गमुच्चं यदि भवति
तदा स पार्श्वशायीति चन्द्रः। पार्श्वशायीति तत्संज्ञा। स च सार्थवाहान् सार्थप्रधानान् विनि-
हन्ति घातयति। तथा वृष्टेर्वर्षणस्य च विनिग्रहं विनाशमभावं कुर्यात्। न वर्षतीत्यर्थः।
तथा च वृद्धगर्गः—
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA