सामग्री पर जाएँ
सर्वकोश
बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

Brihat Samhita Vol 1 with Vimala Hindi Commentary

आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा

DevanagariHindipublished728 पृष्ठ

पृष्ठ 143, कुल 728 में से

संदर्भ में पढ़ें
पृष्ठ 143

राहुचाराध्यायः १०३
यद्येवं तत्प्रतिमासं किमिति चन्द्रस्य ग्रहणं न भवतीत्येतत्प्रतिपादयन्नाह—
सूर्यात् सप्तमराशौ यदि चोदग्दक्षिणेन नातिगतः ।
चन्द्रः पूर्वाभिमुखश्छायामौर्वीं तदा विशति ॥१०॥
जब सूर्य से सप्तम राशि में स्थित होकर पूर्वाभिमुख गति वाला चन्द्र क्रान्तिवृत्त से
अत्यल्प उत्तर या दक्षिण शर पर रहता है तो उस समय पूर्वाभिमुख चलता हुआ चन्द्र
पृथ्वी की छाया में प्रवेश करता है॥१०॥
यदि चन्द्रः शशी सूर्यादादित्यात् सप्तमे राशौ स्थितो भूच्छायात उत्तरेण दक्षिणेन
च नात्यर्थं याति। स्वल्पेन विक्षेपेण विक्षिप्तो भवतीत्यर्थः। तदा पूर्वाभिमुखो गच्छन्
प्राचीं दिशमनुसरन्नौर्वीं भूच्छायां प्रविशति नान्यथेति। यतो भूच्छाया मूलाद्बृहती भवत्य-
ग्रादलपा। सा च चन्द्रकक्षाया ऊर्ध्वं याति। तत्रस्थश्चन्द्रमा अत्यल्पविक्षिप्तो यदा भवति तदा
सर्वग्रास उत्पद्यते। विक्षेपे सति तदनुसारेण चतुर्थभागग्रासप्रमाणमर्द्धग्रासप्रमाणं पादोन-
ग्रासप्रमाणं ग्रासाभावो वा स्वबुद्धयोह्यमिति। तथा च ब्रह्मसिद्धान्ते—
भूच्छायां शशिकक्षायां रवौ भार्द्धान्तरस्थिते।
यदा विशत्यविक्षिप्तश्चन्द्रः स्यात्तद्ग्रहस्तदा॥ इति॥१०॥
अथ चन्द्रग्रहणं सर्वत्रैकरूपं दृश्यते अर्कग्रहणं प्रतिदेशमन्यादृशमित्येतत्प्रतिपादयन्नाह—
चन्द्रोऽधःस्थः स्थगयति रविमम्बुदवत् समागतः पश्चात्।
प्रतिदेशमतश्चित्रं दृष्टिवशाद् भास्करग्रहणम् ॥११॥
सभी देशों में प्रायः चन्द्रग्रहण एक रूप का और रविग्रहण विभिन्न रूप का देखने में
आता है। उसका कारण यह है कि मेघ की तरह अधःस्थित चन्द्रमा पश्चिम तरफ से
आकर रविबिम्ब को आच्छादित करता है; इसीलिये प्रत्येक देश में सूर्यग्रहण विभिन्न रूप
में देखने में आता है॥११॥
आदित्यादधःस्थश्चन्द्रः। स च पश्चात् पश्चिमभागात् समागतोऽम्बुदवन्मेघखण्डवद्रवि-
मादित्यं स्थगयत्याच्छादयति। अतोऽस्माद्धेतोः प्रतिदेशं देशं देशं प्रति भास्करग्रहणं सूर्यो-
परागं दृष्टिवशाद्दर्शनहेतोश्चित्रं नानाप्रकारं दृश्यतेऽवलोक्यते। क्वचित्सर्वग्रहणं क्वचि-
त्खण्डग्रहणं क्वचिद्ग्रहणाभावः। यथा मेघखण्डाच्छादितमर्कबिम्बं समाधोवर्तिनां सर्व-
मेवाऽदृश्यं पार्श्ववर्तिनां केषाञ्चिदद्र्धदृश्यं केषाञ्चिच्चतुर्थभागदृश्यमन्येषां सर्वदृश्यमिति।
तथा च सूर्यसिद्धान्ते—
इन्दुना छादितं सूर्यमधोऽविक्षिप्तगामिना।
न पश्यति यदा लोकस्तदा स्याद्भास्करग्रहः॥
तमोमयस्य तमसो रविरश्मिपलायिनः।
भूच्छाया चन्द्रबिम्बं च स्थाने द्वे परिकल्पिते॥ इति।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA