भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)
Bhojanakutuhala of Raghunatha Navahasta
रघुनाथ नवहस्त (सम्पादक: सूरनाड कुंजन पिल्लै) द्वारा
^१ मोदका गुरुतराश्च वृष्यकाः श्लेष्मलाश्चिरविपाककारकाः ।
मन्दमाशु जनयन्ति कोष्ठकं माषमोदकवरो बलप्रदः॥
मोदका गुरवो वृष्याः श्लेष्मलाश्चिरपाकिनः ।
मन्दाग्निं च प्रयच्छन्ति गोधूमाश्शालिजास्तथा
तथा. —
शमयति बहुपित्तं श्लेष्मकोपं करोति
जनयति जठराग्निं वातरोगं निहन्ति ।
सुरतजमतिखेदं तत्क्षणादेव हन्या-
दमृतफलमुदारं चारु शंसन्ति वैद्याः ॥
साजोचे लाडू ।
^२ क्षीरे कटाहे तापेन घनीभूते सितायुते ।
एलालवङ्गमरिचं यथायोग्यं विनिक्षिपेत् ॥
पिण्डकास्तर्पणा बल्या वृष्यास्स्युः पित्तनाशनाः ।
वातघ्नाश्च विशेषेण क्लमश्रमनिवारणाः ॥
पेडे ।
मुद्गसक्तून् समसिताघृतान् पिण्डीकृतान् मृदून् ।
एलादियुक्तान् घर्मर्तुहितान् वै पिण्डकान् वरान् ॥
तान् मुद्गदलमित्याहुः पाकशास्त्रविशारदाः ॥
मुगदल ।
भृष्टैस्तिलैस्तैर्गुडसाधितानि रुच्यानि ^३ जन्तूक्षबलापहानि ।
हरन्ति वातं तिलमोदकानि त्वग्दोषदृष्ट्यामयकारणानि ॥
^४ तिलवे ।
१. J1. adds सूपगुणाः before मोदका etc.।
२. J1. omits क्षीरे कटाहे ... ... ... कफवर्धनं इति
३. Bh. जन्तोश्च वलापहानि ।
४. Bh. तिल्लाडू ।
प्रथमपरिच्छेदः
सुभृष्टैर्निस्तुषैश्शुभ्रैः कुट्टितैः कृतमोदकम् ।
सगुडं पित्तवातघ्नं वीर्यपुष्टिविवर्धनम् ॥
अन्यत्र –
तिलैर्विघट्टितं श्लक्ष्णं गुडपिण्डमुदाहृतम् ।
हृद्यं मन्दाग्निजननं पुष्टिकृत्कफवर्धनम् ॥ इति ।
अथ मण्डादिगुणाः । वाग्भटः –
मण्डपेयाविलेपीनामोदनस्य च लाघवम् ।
यथापूर्वं शिवस्तत्र मण्डो वातानुलोमनः ॥
तृड्ग्लानिदोषशेषघ्नः पाचनो धातुसाम्यकृत् ।
स्रोतोमार्दवकृत्स्वेदी सन्धुक्षयति चानलम् ॥
क्षुत्तृष्णाग्लानिदौर्बल्यकुक्षिरोगज्वरापहा ।
मलामलोमनी पथ्या पेया दीपनपाचनी ॥
विलेपी ग्राहिणी हृद्या तृष्णाघ्नी दीपनी हिता ।
व्रणाक्षिरोगसंशुद्धदुर्बलस्नेहपायिनाम् ॥
मण्डः ओदनोपरितनो रसः । ससिक्यो रसः पेया विलेपी यवागूः ।
सुधौतः प्रस्रुतः स्विन्नस्त्यक्तोष्मा चौदनो लघुः ।
यश्चाग्नेयौषधक्वाथसाधितो भृष्टतण्डुलः ॥
विपरीतो गुरुर्यश्च क्षीरमांसादिसाधितः ।
आग्नेयौषधसाधितो भृष्टतण्डुलो यस्स लघुः । गुर्वौषधादिसाधितोऽभृ-
ष्टतण्डुलस्त्यक्तोष्मा क्षीरमांसादिसाधितश्च गुरुरित्यर्थः । आदिशब्द
इक्षुरसघृतादिसंग्रहार्थः । हृदयदीपे मण्डो सिक्तः । ससिक्था परिसि-
क्था यवागूश्च । परिसिक्था शिथिलोदन इत्यर्थः, यवागूरिशथिलो-
१. Bh omits काँदि
२. Bh. शोषघ्नः
३. J₁. omits this sentence. T₁. and Bh. read this after
वाग्भट before the four preceding verses.
४. J₁: ससिक्था पेयोपरिसिक्था
1081
दन इति वचनात् । घनसिक्था विलेपी । परिस्रुतस्त्वोदनो भक्तः ।
तिलतण्डुलस्तु कृसर इति । कूष्माण्डक्षोदं युक्त्या निर्जलं विधाय
माषपिष्टं गोधूमपिष्टं च समभागं दत्त्वा उभयसमां शर्करां संयोज्य
सर्वमेकत्रं चूर्णयित्वा आमलकवद्गोलकान् विधाय घृते पचेत् । पक्वां-
स्तान् मधुनि निक्षिपेत् । तानि मधुफलानीति व्याहरन्ति पाकज्ञाः ।
इति सिद्धान्नप्रकरणम् ।
अथ शाकप्रकरणम् ।
तच्च -
मूलपत्रकरीराग्रफलकाण्डाधिरूढकाः ।
त्वक्पुष्पं केंवचं चेति शाकं दशविधं स्मृतम् ॥
तत्र मूलं द्विविधम् ; मूलकं, कन्दश्च । पत्रं प्रसिद्धम् । करीरं प्रथामा-
ङ्कुरः । अग्रं प्रसिद्धम् । काण्डं कदल्यादेः । अधिरूढं बालास्थि
मज्जेति केचित् । क्षेत्रोद्भूतफलमूलादेः स्वेदाद्भवोद्भिन्नाङ्कुरा विरू-
ढका इत्यपि । त्वक्पुष्पेति प्रसिद्धे । केंवचं छत्राकम् । न चात्र
पदार्थमात्रस्य शाकापत्या अभिमत्यं, व्यञ्जनतया प्रसिद्धेष्वेव तत्त्वात् ।
पृथिव्यादिनवद्रव्यवाचितया प्रयुक्तस्यापि द्रव्यशब्दस्य द्रव्यवांश्चैत्र
इत्यादौ स्वर्णादिमत्त एवोपस्थितिवत् । उक्तं च -
शक्तिग्रहं व्याकरणोपमानकोशाप्तवाक्याद्व्यवहारतश्च ।
वाक्यस्य शेषाद्विवृतेर्वदन्ति सान्निध्यतःसिद्धपदस्य वृद्धाः ॥
इति । अतश्च न शाकव्रतादौ द्रव्यमात्रत्याग इत्यस्मत्कृतजनार्दनम-
होदधौ विस्तरेण प्रपञ्चितम् । केयदेवस्तु -
शाकं चतुर्विधं पुष्पपत्रकन्दफलाख्यकम् ।
इति चातुर्विध्यमाह । भावप्रकाशे -
१. J1. omits कूष्माण्डक्षोदं ... ... ... इति सिद्धान्नप्रकरणम् ।
२. J1 T1 कवकं चेति
३. J1. कवकं
४. J1. द्रव्यवानित्यादौ
५. J1. omits this line.
प्रथमपरिच्छेदः ।
पत्रं पुष्पं फलं नाळं कन्दं संस्वेदजं तथा ।
शाकं षड्विधमुद्दिष्टं गुरु विद्याद्यथोत्तरम् ॥ इति ।
अथ शाकसामान्यगुणाः -
प्रायश्शाकानि सर्वाणि विष्टम्भीनि गुरूणि च ।
रूक्षाणि बहुवर्चांसि सृष्टविण्मरुतानि च ॥
शाकं भिनत्ति वपुरास्थि निहन्ति नेत्रं
वर्णं विनाशयति रक्तमथापि शुक्रम् ।
प्रज्ञाक्षयं च कुरुते पलितं च नूनं
हन्ति स्मृतिं गतिमिति प्रवदन्ति सन्तः ॥
शाकेषु सर्वेषु वसन्ति रोगास्सहेतवो देहविनाशनाय ।
तस्माद्बुधश्शाकविवर्जनं तु कुर्यात्तथाम्लेषु स एव दोषः ॥
अथ¹ विशेषगुणाः । तत्र -
मूलकं तीक्ष्णमुष्णं च कटुकं ग्राहि दीपनम् ।
दुर्नामगुल्महृद्रोगवातघ्नं रुचिदं गुरु ॥
साधारणमूलकगुणाः ।
बाँणाख्यमूलकं सोष्णं कटुकं रुचिदीपनम् ।
गुल्मवातकृमिकफान्नाशयेद् ग्राहकं गुरु ॥
नीवारिमूल काश्यां प्रसिद्धः ।
गृञ्जनं कटुकोष्णं च कफवातरुजापहम् ।
रुच्यं च दीपनं हृद्यं दुर्गन्धं गुल्मनाशनम् ॥
सोण्ठीमुळा ।
पिण्डमूलं कटूष्णं च गुल्मवातादिदोषनुत् ।
वाटोळामुळा
१. J₁. अथ मूलानि । तत्र मूलकगुणाः Bh. अथ मूलकादीनां विशेषण-
गुणाः । तत्र
२. Bh. ग्राहिहृद्रोग
३. Bh. omits this verse.
द्वितीय शाक-वर्ग, कन्द-मूल एवं फल-वर्ग गुण-दोष निरूपण
६० भोजनकुतूहले
कोष्णं तीक्ष्णं च तिक्तं मधुरकटुरसं मूत्रदं चातिमूत्र-
श्वासार्शःकासगुल्मक्षयनयनरुजोमान्द्यशूलामयघ्नम् ।
कण्ठ्यं बल्यं च रुच्यं मलविकृतिहरं मूलकं बालकं स्या-
दुष्णं जीर्णं तु शोषप्रदमुदितमिदं दाहपित्तास्रदायि ॥
मान्द्यं अग्निमान्द्यम् ।
आमं संग्राहि रुच्यं कफपवनहरं पक्वमेतत्कटूष्णं
भुक्तेः प्राग् भक्षितं चेत् सपदि वितनुते पित्तदाहप्रकोपम् ।
भुक्त्या सार्धं तु जग्धं हितगतिबलवद्वेसवारेण तच्चेत्
पक्वं हृद्रोगशूलप्रशमनमुदितं मूत्रकृत्स्र्वमूलम् ॥
हिता गतिः प्राप्तिर्यस्येति बलविशेषणम् । वातश्लेष्महरं शुष्कमिति
वाग्भटः ।
इति मूलकगुणाः ॥
गाजरं मधुरं रुच्यं किञ्चित्कटु कफापहम् ।
आध्मानकृमिशूलघ्नं दाहपित्ततृषापहम् ॥
गाजरमूल ।
माकन्दी कटुका तिक्ता मधुरा दीपनी परा ।
रुच्याल्पवातकृत्पथ्या न वर्षासु हिताऽधिका ॥
अधिका बाहुल्येन भक्षिता ।
मायीणमूल ।
¹रसोनेोऽम्लरसोनस्स्याद् गुरुष्णः कफवातनुत् ।
अरुचिकृमिहृद्रोगशोफघ्नश्च रसायनः ॥
अम्लरसोनः अम्लरसशून्य इत्यर्थः ।
शुभ्रलसण ।
रसोनाऽन्यो महाकन्दो गृञ्जनो दीर्घपत्रकः ।
१. P१. रसोनेोऽम्लरसोनः
प्रथमपरिच्छेदः ६१
पृथुपत्रः स्थूलकन्दो यवनेष्टो विलोहितः ॥
गृञ्जनस्य मधुरं कटुकन्दं नाछमप्युपदिशन्ति कषायम्
पत्रसञ्चयमुशन्ति चं तिक्तं सूरयो लवणमस्थि वदन्ति ॥
रसेन चोष्णः कटुपिच्छलश्च स्निग्धो गुरुः स्वादुरसोऽतिबल्यः ।
वृष्यश्च मेधास्वरवर्णचक्षुर्भग्नास्थिसन्धानकरः सुतीक्ष्णः ॥
हृद्रोगजीर्णज्वरकुक्षिशूलविवन्धगुल्मांरुचिकृच्छ्रशोफान् ।
दुर्नामकष्ठानलसादजन्तुकफामयान् हन्ति महारसोनः ॥
लशुनविशेषगुणाः ।
पलाण्डुः कटुको बल्यः कफपित्तहरो गुरुः ।
वृष्यश्च रोचनः स्निग्धो वान्तिदोषविनाशनः ॥
श्वेतपलांडु ।
अन्यो राजपलाण्डुः स्याद्यवनेष्टो नृपाह्वयः ।
पलाण्डुर्नृपपूर्वस्याच्छ्लैष्मिकः पित्तनाशनः ॥
कफहृद्दीपनश्चैव बहुनिद्राकरस्तथा ॥
तथा-
वक्ष्यते नृपपलाण्डुलक्षणं क्षारतीक्ष्णमधुरो रुचिप्रदः ।
कण्ठशोषशमनोऽतिदीपनः श्लेष्मपित्तशमनोऽग्निदीपनः ॥
अतिदीपनः दाहकृत् ।
रक्तपलाण्डु ।
सूरणः कटुरुष्णश्च पाचनः क्रिमिवातहा ।
श्वासकासकफान् हन्ति परं दुर्नामनाशनः ॥
गुल्मशूलक्रिमिघ्नश्च गुरुरसविकारकृत् ॥
रक्तसूरण ।
श्वेतस्सूरणको रुच्यः कटूष्णः क्रिमिनाशनः ।
गुल्मशूलादिदोषघ्नः सर्वारोचकहारकः ॥
६२ भोजनकुतूहले
बल्यः कदल्याः कन्दस्स्यात् कफपित्तहरो गुरुः ।
बातलो रक्तशमनः कषायो रूक्षशीतलः ॥
कदलीकन्द
मुखाळुस्स्यान्मधुरसः शिशिरः पित्तनाशनः ।
रुचिकृद्वातकृच्चैव दाहशोषतृषापहः ॥
मुखाळू
पिण्डाळुर्मधुरश्शीतो मूत्रकृच्छ्रामयापहः ।
दाहशोषप्रमेहघ्नो वृष्यस्सन्तर्पणो गुरुः ॥
ननु
कटूष्णो वातकफहा पिण्डाळुः पित्तवर्धनः ।
इति वाग्भटः । इह तु मधुरश्शीत इति पित्तघ्नत्वं चानेनोक्तं भवति ।
चरके तु त्रिदोषकरत्वमिति महान् विरोधः । मैवम् । वग्भटोक्तिः पत्र-
विषया , चरकोक्तिरपक्ककन्दविषया । मधुरत्वायुक्तिस्तु पक्कविषयेति
न कोऽपि विरोधः ।
पिण्डालु , मोहलकान्दे भाषया ।
रक्तपिण्डालुकश्शीतो मधुराम्लः श्रमापहः ।
पित्तदाहापहो वृष्यो बलपुष्टिकरो गुरुः ॥
रक्ताळु ।
कासालुरुग्रकण्डूर्तिवातश्लेष्मामयापहः ।
अरोचकहरः स्वादुः पथ्यो दीपनकारकः ॥
कांसालु ।
फोडालुः श्लेष्मवातघ्नः कटूष्णो दीपनीयकः ।
फोडालुः ।
पानीयालुर्विदोषघ्नः सन्तर्पणकरः परः ।
पानीयाळु !
नीळाळुर्मधुरश्शीतः पित्तदाहश्रमापहः ।
नीळाळुः
प्रथमपरिच्छेदः ।
कटूष्णो महिषीकन्दः कफवातामयापहः ।
मुखजाड्यकरो रुच्यो महासिद्धिकरस्सितः ॥
महिषीकन्दः ।
हस्तिकन्दः कटूष्णः स्यात् कफवातामयापहः ।
त्वग्दोषश्रमहा कुष्ठविषवीसपर्नाशनः ॥
हस्तिकन्दः ।
कोलकन्दः कटुश्चोष्णः क्रिमिदोषविनाशनः ।
वान्तिविट्छर्दिशमनो विषदोषनिवारणः ।
कोळकन्द ।
वाराही तिक्तकटुको विषापित्तकफापहः ।
कुष्ठमेहक्रिमिकरो वृष्यो बल्यो रसायनः ॥
वाराहीकन्द ।
विष्णुकन्दस्तु मधुरशिशिरः पित्तनाशनः ।
दाहशोषहरो रुच्यस्सन्तर्पणकरः परः ॥
विष्णुकन्दः ।
मधुरो धरणीकन्दः कफपित्तामयापहः ।
रक्तदोषप्रशमनः कुष्ठकण्डूविनाशनः ॥
धरणीकन्दः ।
नांकुलीयुगलं तिक्तं कटूष्णं च त्रिदोषजित् ।
अनेकविषविध्वंसि किञ्चिच्छ्रेष्ठं द्वितीयकम् ॥
नकुलीकन्द ।
मालाकन्दस्तुतीक्ष्णस्स्याद्गण्डमालाविनाशनः ।
दीपनो गुल्महारी च वातश्लेष्मापकर्षकृत् ॥
मालाकन्द ।
विदारी मधुरा शीता गुरुः स्निग्धा च पित्तनुत् ।
ज्ञेया च कफकृत्पुष्टिबलवीर्यविवर्धिनी ॥
विदारीकन्द ।
- Bh. omits this Verse.
भोजनकुतूहले
मधुरश्शाल्मलीकन्दो मलसङ्ग्रहरोधजित् ।
शिशिरः पित्तदाहार्तिशोकसन्तापनाशनः ॥
सांवरीकन्द ।
चाण्डालकन्दो मधुरः कफपित्तास्रदोषनुत्
विषभूतादिदोषघ्नो विज्ञेयश्च रसायनः॥
चाण्डालकन्द ।
त्रिपर्णी मधुरा शीता श्वासकासविनाशिनी ।
पित्तप्रकोपशमनी विषव्रणहरा परा ॥
त्रिपर्णीकन्द ।
लक्ष्मणा मधुरा शीता स्त्रीवन्ध्यात्वविनाशिनी ।
रसायनकरी बल्या त्रिदोषशमनी परा ॥
लक्ष्मणाकन्द ।
कुमुदोत्पलपद्मानां कन्दा गुणकरा मताः ।
मधुराश्च कषायाश्च पित्तासृग्दाहनाशनाः ॥
पद्मादिकन्दाः ।
१छिच्छीकन्दः कटुः पाके गुरुः श्लेष्मानिलापहः ।
अतिसारक्रिमिहरो बहुमूत्रो रुचिप्रदः ॥
मांठभूले ।
आर्द्रकं तरुणं रुच्यं वातलं कफरक्तजित् ।
सगुडार्द्रं मतं बल्यं वातश्लेष्मघ्नमग्निदम् ॥
विड्भेद्यहृद्यमत्युष्णं पोषणं स्वरसादनुत् ।
तथा —
कटूष्णमार्द्रकं रुच्यं वृष्यं पाके हिमं लघु ।
मूत्रलं बृंहणं कण्ठ्यं दीपनं पाचनं जयेत् ॥
गुल्मानाहयकृत्कृच्छ्राशूलार्शःशोषपीनसान् ।
१. P 1. P 2. J 1. Bh. छिलीकन्द ।
प्रथमपरिच्छेदः । ३५
कासश्वासज्वरच्छर्दिहिक्कोच्छ्वासप्रबलानिलान् ॥
आर्द्रकस्य रसस्सद्यः पूरणात् कर्णशूलनुत् ।
आलें
हरिद्रा कटुतिक्तोष्णा कफवातास्रकुष्ठनुत् ।
मेहकण्डूव्रणान् हन्ति हेमवर्णविधायिनी ॥
हरिद्रा ।
सेंठी सतिक्ताम्लरसा लघूष्णा रुचिप्रदा च ज्वरहारिणी च ।
कफास्रकण्डूव्रणदोषहन्त्री वक्त्रामयध्वंसकरी च सोष्णा ॥
अम्बेहळेदि ।
गन्धपत्रा कटुस्वादुतिक्तोष्णा कफवातजित् ।
कासच्छर्दिज्वरान् हन्ति पित्तकोपं करोति च ॥
कचोराघोर । गन्धपलाश इति मालवे प्रसिद्धः ।
कर्चूरः कटुतिक्तोष्णः कफकासविनाशनः ।
मुखवैशद्यजननो गलगण्डादिदोषनुत् ॥
कचोरा ।
शृङ्गाटकश्शोणितपित्तहारी लघुस्सरो वृष्यतमो विशेषात् ।
त्रिदोषतापभ्रमतापहारी रुचिप्रदो मेहनदार्ढ्यहेतुः ॥
६ त्रिदोषतापः त्रिदोषज्वरः । तापः दाहः ।
सिंघाटे ।
हन्त्यम्लपित्तमरुचिं वमिदाहमोहतृष्णामदक्लमहरं च सुशीतलं च ।
कण्ठस्य शोषशमनं गुरु वातरक्ते क्षीणे च पथ्यमतिचारु कसेरुकं स्यात् ॥
कसेरु ।
१. J₁. omits the word.
२. P₂. गोंठी ।
३. J₁. तीक्ष्णोष्णा ।
४. J₁. तीक्ष्णोष्णः ।
५. Bh. तापज्वरदाहहारी ।
६. T₁. J₁. Bh. omit त्रिदोष ... ... ... दाह
1981
५५ भोजनकुतूहले
अथ पत्रशाकाः
तत्र वास्तुकम् —
तदेकं तु बृहत्पत्रं रक्तं स्याद्रौडवास्तुकम् ।
प्रायशो यवमध्ये स्याद्यवशाकमतः स्मृतम् ।
वास्तुकद्वितयं स्वादु क्षारं पाके कटूदितम् ।
दीपनं पाचनं रुच्यं लघु शुक्रबलप्रदम् ॥
सरं प्लीहास्रपित्तार्शःकृमिदोषत्रयापहम् ।
तथा—
वास्तुकं तु मधुरं सुशीतलं क्षारमम्लमपि दोषजित्परम् ।
रोचनं ज्वरहरं महार्शसां नाशनं च मलमूत्रशुद्धिकृत् ॥
चाकवत ।
चुक्रं स्यादम्लपत्रं तु लघूष्णं वातगुल्मनुत् ।
रुचिकृद्दीपनं पथ्यमीषत्पित्तकरं परम् ॥
चुका ।
चिल्ली वास्तुकतुल्या स्यात् सक्षारा श्लेष्मपित्तनुत् ।
प्रमेहमुत्रकृच्छ्रघ्नी पथ्या च रुचिकारिणी ॥
चील ।
श्वेतचिल्ली सुमधुरा क्षारा च शिशिरा च सा ।
त्रिदोषशमनी पथ्या ज्वरदोषविनाशिनी ॥
बथुवा ।
श्वानचिल्ली कटुस्तीक्ष्णा कण्डूतिव्रणहारिणी ।
सुणेचिल ।
शिग्रुपत्रभवं शाकं रुच्यं वातकफापहम् ।
कटूष्णं दीपनं पथ्यं क्रिमिघ्नं पाचनं परम् ॥
सेउगपत्रे
पालक्यमीषत्कटुकं मधुरं पथ्यशीतलम् ।
रक्तपित्तहरं ग्राहि ज्ञेयं सन्तर्पणं परम् ॥
पालक ।
प्रथमपरिच्छेदः । ६७
पुष्कलः पुष्टिकृद्रुच्यः पित्तघ्नः श्लेष्मलो लघुः ।
किञ्चिदुष्णो रक्तवर्णो वातरोगे न तौ हितौ ॥
पोकळा १.
राजशाकिनिका रुच्या पित्तघ्नी शीतला च सा ।
सैवातिशीतला रुच्या विज्ञेया स्थूलशाकिनी ॥
दोन्ही राजगिरे ।
मारिषो रेचकश्शीतो गुरुर्मेदस्त्रिदोषजित् ।
अन्यत्र तु —
मारिषो मधुरश्शीतो विष्टम्भी पित्तनुद् गुरुः ॥
वातश्लेष्मकरो रक्तपित्तनुद्विषमाग्निजित् ।
रक्तमाषो गुरुर्नातिसक्षारो मधुरस्सरः ।
श्लेष्मलः कटुकः पाके स्वल्पदोष उदीरितः ॥
मांठ ।
उपोदकी कटुश्शीता कषाया मधुरा च सा ।
निद्रालस्यकरी रुच्या विष्टम्भंश्लेष्मकारिणी ॥
मोठीवेली ।
उपोदकी परा क्षुद्रा सूक्ष्मपत्रा तु मण्डपी ।
रसवीर्यविपाकेषु सदृशी पूर्वया स्वयम् ॥
क्षुद्रवेली ।
उपोदकी तृतीया च वनजा वन्यजाह्वया ।
वन्याप्युपोदकी तिक्ता कटूष्णा रोचनी परा ॥
रानवेली ।
क्षुपोपोदकनाम्नी च बल्लिस्सा मूलपोतिका ।
मूलपोतित्रिदोषघ्नी वृष्या बल्या लघुश्च सा ॥
बैलपुष्टिकरी रुच्या जठरानलदीपनी ।
बसला ।
१. J1. omits this Verse.
२. T2. adds बल्या नूतनबलकरी । बलपुष्टिकरी विद्यमानबलवृद्धिकरी ।
६८ भोजनकुतूहल
कुणञ्जरस्त्रिदोषघ्नो मधुरो रुच्यदीपनः ।
ईषत्कषायस्सङ्ग्राही पित्तश्लेष्महरो लघुः ॥
कुंजीर ।
झरसी मूत्रदोषघ्नी वातला पित्तजन्तुनुत् ।
मधुरा विरसा तिक्ता शस्तात्यन्तमरोचके ॥
थोर, झरसी ।
सूक्ष्मपत्रा तु झरसी तद्गुणा लघुदीपनी ।
धाकुटी झरसी ।
अन्यत्र तु - झरसीशाकं प्रकृत्य
तिक्तं कटूष्णं दोषघ्नं कफवातहरं परम् ।
रेचनं दीपनं रुच्यं कृमिशूलव्रणापहम् ॥
झररिशिरी झरा शुल्या पत्रिका झरपत्रिका ।
सूक्ष्मपत्रा ।
कपित्थपत्रा शकुला जातिचित्रकपत्रिका ।
स्थूलपत्रेत्यभिधानात् ।
कौसुम्भशाकं मधुरं कटूष्णं विण्मूत्रदोषापहमामयघ्नम् ।
दृष्टिप्रसादं कुरुते विशेषात् संशीलितं दीप्तिकरं च वन्हेः ॥
कुसुम्भशाक ।
मिश्रेया मधुरा स्निग्धा कटुः कफहरा परा ।
वातपित्तोत्थदोषघ्नी प्लीहजन्तुविनाशिनी ॥
रानसेउप ।
कौसुम्भः कटुकः पाके श्लेष्महृद्दीपनश्च सः ।
बनकुंसुम्भ ।
शतपुष्पादलं सोष्णं मधुरं गुल्मशूलनुत् ।
वातघ्नं दीपनं पथ्यं पित्तकृद्रुचिकौरकम् ॥
सेउप ।
१. १. P1. P2. शक्तात्यन्त ।
२. .T2. ad is विण्मूत्राश्रितवातादिविकारहारि । आमवास्तञ्जनितोवदद्याः ।
३. J1, दायकम् ।
प्रथमपरिच्छेदः । १९
तण्डुलीयकदलं हिममर्शःपित्तरक्तविषकासविनाशि ।
ग्राहकं च मधुरं च विपाके दाहशोषशमनं रुचिदायि ॥
तांदुळजा ।
पानीयतण्डुलीयो यस्तत्कञ्चटमुदाहृतम् ।
कञ्चटं तिक्तकं रक्तपित्तानिलहरं लघु ॥
पानीयतांदुलजा ।
कटूष्णं राजिकापत्रं क्रिमिवातकफावहम् ।
कण्ठामयहरं स्वादु शुक्रहृद्रुचिदायकम् ॥
मोहरीपत्र
सार्षपं पत्रमत्युष्णं रक्तपित्तप्रकोपनुत् ।
विदाहि कटुकं स्वादु शुक्रहृद्रुचिदायकम् ॥
शिरसपत्र ।
चोङ्गेरीशाकमत्युष्णं कटु रोचनपाचनम् ।
दीपनं कफवातार्शःसंग्रहण्यातिसारजित् ॥
आंबोती ।
घोला च घोलिका घोलिः कलं ३दुष्कफकारकः ।
क्षेत्रजा लवणा रुच्या चाम्ला वातकफापहा ॥
सेतीचेघोल ।
आरण्या घोलिका चाम्ला रूक्षा रुच्यानिलापहा ।
रानघोल ।
पित्तश्लेष्मकरी चान्या सूक्ष्मा जीर्णज्वरापहा ।
मलांचीघोल ।
बर्षाभूवसुकौ वर्ण्यौ कफमान्द्यानिलापहौ ।
शाके रूक्षतरौ गुल्मप्लीहशूलापहारकौ ॥
घिंटूळि वसु ।
१. Bh. omits this verse.
२. P1. P2. चागोरी
३. T1. T2. दुष्कम्भ ?
भोजनकुतूहले
जीवन्ती मधुरा शीता रक्तपित्तानिलापहा ।
क्षयदाहज्वरान् हन्ति कफवीर्यविवर्धिनी ॥
एवमेव बृहत्पूर्वा रसवीर्यबलान्विता ।
भूतविद्राविणी ज्ञेया वेगाद्रसनियामिका ॥
हरिणवेलिद्वय ।
स्वर्णजीवन्तिका वृष्या चक्षुष्या मधुरा तथा ।
शिशिरा वातपित्तासृग् दाहजिद्वलवार्धिनी ॥
हेमहरिणवेलि ।
वरा शाकेषु जीवन्ती सार्षपस्त्ववरः स्मृतः ॥
आखुकर्णी कटूष्णा च कफपित्तहरा सरा ।
आनाहज्वरशूलार्तिनाशिनी पाचनी परा ॥
भोपनी ।
वत्सादनी तु मधुरा पित्तदाहास्रदोषजित् ।
वृष्या सन्तर्पणी रुच्या त्रिदोषविनाशिनी ॥
वासेनि ।
वृद्धदारुद्वयं गौल्यं पिच्छलं कफवातकृत् ।
बल्यं कासामदोषघ्नं द्वितीयं स्वल्पवीर्यदम् ॥
दोन्हीफाङ्गी ।
अत्यम्लपर्णी तीक्ष्णाम्ला प्लीहशूलविनाशिनी ।
वातहृद्दीपनी रुच्या गुल्मश्लेष्मामयापहा ॥
आंबटवेलि ।
१. The revisor adds in the margin of a previous folio:
'जीवन्ती त्रिदोषहन्त्री । खाडे कुष्ठी महाराष्ट्रभाषया ताक । कानडीभाषया हाल
गुणकी पला ।'
२. J1. स्वर्णजीवाभिका ।
३. P1, P2. दाहकृत् ।
४. J1. वत्सदाती ।
प्रथमपरिच्छेदः ।
स्यातामुभौ गोक्षुरकौ तु शीतलौ
बलप्रदौ तौ मधुरौ च बृंहणौ ।
कृच्छ्राश्मरीमेहविदाहनाशनौ •
रसायनौ तत्र बृहद्गुणोत्तरः ॥
सरांटेद्वय ।
सैतिवारस्तु¹ सङ्ग्राही कषायोष्णस्त्रिदोषनुत् ।
मेधारुचिप्रदो दाहज्वरहारी रसायनम् ॥
कुरटू ।
शेणस्त्वम्लकषायश्च² मलगर्भास्रपातनः ।
वान्तिकृद्वातकफनुज्ज्ञेयस्तीव्रोऽङ्गमर्दजित् ॥
सणै³ ।
अम्बष्ठा सकषायाम्ला कफकण्ठरुजापहा ।
वातामयबलासघ्नी रुचिकृद्दीपनी परा⁴ ॥
आंबाडा ।
महाराष्ट्री कटुस्तिक्ता कषाया मुखशोधिनी ।
व्रणकीटादिदोषघ्नी रसदोषनिबर्हिणी ॥
पिंपलगा ।
काचमाची⁵ कटुस्तिक्ता रसोष्णा कफनाशिनी ।
शूलार्शश्शोफदोषघ्नी कुष्ठकण्डूतिहारिणी⁶ ॥
कामोणी ।
१. J₁. सितावरस्तु ; Bh. सितिवारस्तु ।
२. P₁ P₂. शाण ।
३. Bh. adds ताग इति भाषायाम् ।
४. J. The revisor adds in the margin :-
अम्बष्ठाम्बालिका माची कुची दन्तशठाम्बिका ।
अम्लोऽम्लको आम्लकश्च वल्कलं तन्तुरूपधृक् ॥
आम्लकोऽप्रतमक्षोष्णः कटी पवनदोषजित् ।
मेध्यः शाकवरश्चैव वह्निवृद्धिकरः परम् ॥
अम्बष्ठाचे शाकगुण ।
५. Bh. काकमाची ।
६. Bh. कटकण्डूति ।
महाचञ्चुः कटूष्णा च कषाया मलशोधिनी ।
गुल्मशूलोदराशोऽर्तिविषघ्नी च रसायनी ॥
क्षुद्रचञ्चुश्च मधुरा कटूष्णा च कषायका ।
दीपनी शूलगुल्मार्शश्शमनी च विबन्धकृत् ॥
चञ्चुद्वय ।
कासमर्दश्च तिक्तोष्णो मधुरः कफवातनुत् ।
अजीर्णकासपित्तघ्नः पाचनः कण्ठशोधनः ॥
कासवदा ।
अजगन्धा कटूष्णा च वातगुल्मोदरापहा ।
कर्णव्रणार्तिशूलघ्नी पीता चेदञ्जने हिता ॥
तिलवणी ।
चक्रमर्दः कटुस्तीव्रमदो वातकफापहः ।
व्रणकण्डूतिकुष्ठार्तिदद्रुपामादिदोषनुत् ॥
तरवटा ।
१दीपान्तरसमुत्पन्नस्समहान् दद्रुहा परम् ।
काष्ठेतरवटा ।
प्रसारिणी गुरुष्णा च तिक्ता वातविनाशिनी ।
अर्शःश्वयथुहन्त्री च मलविष्टम्भहारिणी ॥
चान्दवेलि । हीलमोचिकेति नामान्तरम् ।
ब्राह्मी हिमा कषाया च तिक्ता वातास्रपित्तजित् ।
बुद्धिं प्रज्ञां च मेधां च कुर्यादायुःप्रवर्द्धिनी २॥
ब्राह्मी ।
ब्राह्मी तु सूक्ष्मपत्रान्या स्निग्धपत्रा जलोद्भवा ।
ब्राह्मी तिक्ता च सोष्णा च बलवातामदोषजित् ३॥
बांबि ।
१. J₁. omits दीपा......परम् । काष्ठे तरवटा ।
२. T₂. adds the explanation : बुद्धिर्लोकव्यवहारदाक्षिण्यम् ।
प्रज्ञा शास्त्रीयव्यवहारे । मेधा धारणा ।
३. J₁. ब्रव ।
प्रथमपरिच्छेदः ।
चिर्वल्लिका चैव कटुः कषाया
जीर्णज्वरे चातिहिता रसायनी ।
चींवांचेघांळ, ।
गोलोमिका कटुस्तिक्ता त्रिदोषशमनी हिमा ।
गलरोगप्रशमनी दोषघ्नी ग्राहिणी च सा ॥
१महागोलोमिका तद्वत् । कासलीति उत्तरापथे प्रसिद्धा ।
पाथरी ।
मेच्छाक्षी शिशिरा वृष्या व्रणदोषक्षयापहा ।
होनगुन्द्रा ।
द्रोणपुष्पी कटूस्सोष्णा रुच्या वान्तिकफापहा ।
अग्निमान्द्यहरा चैव पथ्या वातापहारिणी ॥
तथा —
द्रोणपुष्पीदलं स्वादु रूक्षं गुरु च पित्तजित् ।
भेदनं कामलाशोथमेहज्वरहरं कटु ॥
कुम्भा ।
सुगन्धिखातपित्तघ्नी लघ्वरुच्या ज्वरे हिता ।
व्यञ्जनालङ्कृतिः शीता सार्द्रा कुस्तुम्बरी स्मृता ॥
शुष्कं कुस्तुम्बरीपत्रं वातार्शःपित्तगुल्मजित् ॥
कोथिंबीर ।
मेथिका कटुरुष्णा च रक्तपित्तप्रकोपिनी ।
अरोचकहरा दीप्तिकरी वातघ्नदीपनी ॥
हृद्यं सुगन्धि कैडर्यपत्रं गरकफानिलान् ।
जयेदार्द्रं परं शुष्कं पत्रं बल्यं त्रिदोषनुत् ॥
कालशाकः, करेपक इति कार्णाटकाः
१. J1. omits महा......प्रसिद्धा ।
२. P1. P2. मठाक्षी ।
३. J1. पित्तकृत् ।
४. J1. omits इति.. ...प्रयोगपारिजातः ।
1081
७४ भोजनकुतूहले
'रमणो रामणः कालशाकः कैडर्य इत्यभिधानाद्' इति श्राद्धप्रकरणे
प्रयोगपारिजातः।
गाङ्गेरुकदळं शीतं कषायं मधुरं गुरु ।
मेदःशोफोदराशसिं वातलं ग्राहि पिच्छलम् ॥
कारीशाक ।
बल्यं हिमं स्वाद्वगस्त्यं भूतकासत्रिदोषजित् ।
श्रमवैवर्ण्यजित्पत्रमागस्त्यं नातिशीतलम् ।
नक्तान्धानां हितं नस्यात् तत्स्याच्चातुर्थिकापहम् ॥
श्वेतागस्त्यपत्र ।
रक्तागस्त्यदळं रुच्यं विषवीसर्पकुष्ठजित् ।
तत्पुष्पं सर्वपापघ्नमगस्तिफलमग्निकृत् ॥
अवृष्यं रोचनं रूक्षं वातलं कफपित्तजित् ॥
रक्तागस्त्यपत्र ।
स्वादु बिम्बीदळं शीतं वातपित्तास्रपित्तजित् ।
कामलापाण्डुतृष्णाघ्नं मेदःशुक्रकफप्रदम् ॥
f
पत्रं सूरणजं तीक्ष्णं रूक्षमुष्णं विकारि च ।
कृमिक्लेष्मार्शसां पथ्यं तन्नाळं सरं गुरु ।
सूरणपत्रना-
शी र्ली कटुकाम्ला च वातशोफकफापहा
तन्नाळं तैललेपघ्नमत्युष्णं रुचिकृत्तरम् ॥
शीकेक्कायीपत्रफ
पट्टशाकस्तु नाडीको नाडीशाकश्च स स्मृतः
नाडीको रक्तपित्तघ्नो विष्टम्भी वातकोपनः ॥
नालीक ।
१. Bh. शुक्रकफप्रदम् ।
०२. J1. लघु ।
३. J1. P1 P2. मत्यम्लम् ।
प्रथमपरिच्छेदः । ७५
करम्बी शतपर्वा च कथ्यन्ते तद्गुणा अथ ।
कलम्बी स्तन्यदा प्रोक्ता मधुरा शुक्रकारिणी ॥
कलंबी ।
शीतिवारश्शितिवरस्स्वस्तिकस्सुनिषण्णकः ।
श्रीवारकस्सूचिपत्रः पर्णाकः कुक्कुटाशिखी ॥
चाङ्गेरीसदृशः पत्रैश्चतुर्दल इतीरितः ।
शाको जलान्विते देशे चतुष्पत्रीति चोच्यते ॥
²चतुष्पत्री ।
सुनिषण्णो हिमो ग्राही मोहदोषग्रहापहः ।
अविदाही लघुः स्वादुः कषायो रूक्षदीपनः ॥
वृष्यो रुच्यो ज्वरश्वासमेहकुष्ठभ्रमप्रणुत् ॥
सुणसुण ।
पाचनं लघु रुच्योष्णं पत्रं मूलकजं नवम् ।
स्नेहसिद्धं त्रिदोषघ्नमसिद्धं कफपित्तकृत् ॥
मूलकपत्र ।
यवानीशाकमाग्नेयं रुच्यं वातकफप्रणुत् ।
उष्णं कटु च तिक्तं च पित्तलं लघु शूलहृत् ॥
वोवापत्र ।
सेहुण्डस्य दलं तीक्ष्णं दीपनं रोचनं हरेत् ।
आध्माना³ष्ठीलिकागुल्मशूलशोथोदराणि च ॥
सेर इति भाषया । ⁴निवँडिङ्ग ।
पर्पटो हन्ति पित्तास्रं ज्वरतृष्णाकफभ्रमान् ।
संग्राही शीतलस्तिक्तो दाहनुद्वातलो लघुः ॥
पित्तपापडा ।
१. All Mss. other than J1. omit this verse.
२. J1. omits the name 'चतुष्पत्री' ।
३. P1. P2. नाच्छीतिका ।
४. J1. omits the name निवँडिङ्ग ।