सामग्री पर जाएँ
सर्वकोश
भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)

भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)

Bhojanakutuhala of Raghunatha Navahasta

रघुनाथ नवहस्त (सम्पादक: सूरनाड कुंजन पिल्लै) द्वारा

DevanagariSanskritpublished358 पृष्ठ

पृष्ठ 75, कुल 358 में से

संदर्भ में पढ़ें
पृष्ठ 75

भोजनकुतूहले
मधुरश्शाल्मलीकन्दो मलसङ्ग्रहरोधजित् ।
शिशिरः पित्तदाहार्तिशोकसन्तापनाशनः ॥
सांवरीकन्द ।
चाण्डालकन्दो मधुरः कफपित्तास्रदोषनुत्
विषभूतादिदोषघ्नो विज्ञेयश्च रसायनः॥
चाण्डालकन्द ।
त्रिपर्णी मधुरा शीता श्वासकासविनाशिनी ।
पित्तप्रकोपशमनी विषव्रणहरा परा ॥
त्रिपर्णीकन्द ।
लक्ष्मणा मधुरा शीता स्त्रीवन्ध्यात्वविनाशिनी ।
रसायनकरी बल्या त्रिदोषशमनी परा ॥
लक्ष्मणाकन्द ।
कुमुदोत्पलपद्मानां कन्दा गुणकरा मताः ।
मधुराश्च कषायाश्च पित्तासृग्दाहनाशनाः ॥
पद्मादिकन्दाः ।
१छिच्छीकन्दः कटुः पाके गुरुः श्लेष्मानिलापहः ।
अतिसारक्रिमिहरो बहुमूत्रो रुचिप्रदः ॥
मांठभूले ।
आर्द्रकं तरुणं रुच्यं वातलं कफरक्तजित् ।
सगुडार्द्रं मतं बल्यं वातश्लेष्मघ्नमग्निदम् ॥
विड्भेद्यहृद्यमत्युष्णं पोषणं स्वरसादनुत् ।
तथा —
कटूष्णमार्द्रकं रुच्यं वृष्यं पाके हिमं लघु ।
मूत्रलं बृंहणं कण्ठ्यं दीपनं पाचनं जयेत् ॥
गुल्मानाहयकृत्कृच्छ्राशूलार्शःशोषपीनसान् ।
१. P 1. P 2. J 1. Bh. छिलीकन्द ।