भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)
Bhojanakutuhala of Raghunatha Navahasta
रघुनाथ नवहस्त (सम्पादक: सूरनाड कुंजन पिल्लै) द्वारा
पृष्ठ 79, कुल 358 में से
संदर्भ में पढ़ें६८ भोजनकुतूहल
कुणञ्जरस्त्रिदोषघ्नो मधुरो रुच्यदीपनः ।
ईषत्कषायस्सङ्ग्राही पित्तश्लेष्महरो लघुः ॥
कुंजीर ।
झरसी मूत्रदोषघ्नी वातला पित्तजन्तुनुत् ।
मधुरा विरसा तिक्ता शस्तात्यन्तमरोचके ॥
थोर, झरसी ।
सूक्ष्मपत्रा तु झरसी तद्गुणा लघुदीपनी ।
धाकुटी झरसी ।
अन्यत्र तु - झरसीशाकं प्रकृत्य
तिक्तं कटूष्णं दोषघ्नं कफवातहरं परम् ।
रेचनं दीपनं रुच्यं कृमिशूलव्रणापहम् ॥
झररिशिरी झरा शुल्या पत्रिका झरपत्रिका ।
सूक्ष्मपत्रा ।
कपित्थपत्रा शकुला जातिचित्रकपत्रिका ।
स्थूलपत्रेत्यभिधानात् ।
कौसुम्भशाकं मधुरं कटूष्णं विण्मूत्रदोषापहमामयघ्नम् ।
दृष्टिप्रसादं कुरुते विशेषात् संशीलितं दीप्तिकरं च वन्हेः ॥
कुसुम्भशाक ।
मिश्रेया मधुरा स्निग्धा कटुः कफहरा परा ।
वातपित्तोत्थदोषघ्नी प्लीहजन्तुविनाशिनी ॥
रानसेउप ।
कौसुम्भः कटुकः पाके श्लेष्महृद्दीपनश्च सः ।
बनकुंसुम्भ ।
शतपुष्पादलं सोष्णं मधुरं गुल्मशूलनुत् ।
वातघ्नं दीपनं पथ्यं पित्तकृद्रुचिकौरकम् ॥
सेउप ।
१. १. P1. P2. शक्तात्यन्त ।
२. .T2. ad is विण्मूत्राश्रितवातादिविकारहारि । आमवास्तञ्जनितोवदद्याः ।
३. J1, दायकम् ।