भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)
Bhojanakutuhala of Raghunatha Navahasta
रघुनाथ नवहस्त (सम्पादक: सूरनाड कुंजन पिल्लै) द्वारा
पृष्ठ 68, कुल 358 में से
संदर्भ में पढ़ेंप्रथमपरिच्छेदः
सुभृष्टैर्निस्तुषैश्शुभ्रैः कुट्टितैः कृतमोदकम् ।
सगुडं पित्तवातघ्नं वीर्यपुष्टिविवर्धनम् ॥
अन्यत्र –
तिलैर्विघट्टितं श्लक्ष्णं गुडपिण्डमुदाहृतम् ।
हृद्यं मन्दाग्निजननं पुष्टिकृत्कफवर्धनम् ॥ इति ।
अथ मण्डादिगुणाः । वाग्भटः –
मण्डपेयाविलेपीनामोदनस्य च लाघवम् ।
यथापूर्वं शिवस्तत्र मण्डो वातानुलोमनः ॥
तृड्ग्लानिदोषशेषघ्नः पाचनो धातुसाम्यकृत् ।
स्रोतोमार्दवकृत्स्वेदी सन्धुक्षयति चानलम् ॥
क्षुत्तृष्णाग्लानिदौर्बल्यकुक्षिरोगज्वरापहा ।
मलामलोमनी पथ्या पेया दीपनपाचनी ॥
विलेपी ग्राहिणी हृद्या तृष्णाघ्नी दीपनी हिता ।
व्रणाक्षिरोगसंशुद्धदुर्बलस्नेहपायिनाम् ॥
मण्डः ओदनोपरितनो रसः । ससिक्यो रसः पेया विलेपी यवागूः ।
सुधौतः प्रस्रुतः स्विन्नस्त्यक्तोष्मा चौदनो लघुः ।
यश्चाग्नेयौषधक्वाथसाधितो भृष्टतण्डुलः ॥
विपरीतो गुरुर्यश्च क्षीरमांसादिसाधितः ।
आग्नेयौषधसाधितो भृष्टतण्डुलो यस्स लघुः । गुर्वौषधादिसाधितोऽभृ-
ष्टतण्डुलस्त्यक्तोष्मा क्षीरमांसादिसाधितश्च गुरुरित्यर्थः । आदिशब्द
इक्षुरसघृतादिसंग्रहार्थः । हृदयदीपे मण्डो सिक्तः । ससिक्था परिसि-
क्था यवागूश्च । परिसिक्था शिथिलोदन इत्यर्थः, यवागूरिशथिलो-
१. Bh omits काँदि
२. Bh. शोषघ्नः
३. J₁. omits this sentence. T₁. and Bh. read this after
वाग्भट before the four preceding verses.
४. J₁: ससिक्था पेयोपरिसिक्था
1081