भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)
Bhojanakutuhala of Raghunatha Navahasta
रघुनाथ नवहस्त (सम्पादक: सूरनाड कुंजन पिल्लै) द्वारा
पृष्ठ 86, कुल 358 में से
संदर्भ में पढ़ेंप्रथमपरिच्छेदः । ७५
करम्बी शतपर्वा च कथ्यन्ते तद्गुणा अथ ।
कलम्बी स्तन्यदा प्रोक्ता मधुरा शुक्रकारिणी ॥
कलंबी ।
शीतिवारश्शितिवरस्स्वस्तिकस्सुनिषण्णकः ।
श्रीवारकस्सूचिपत्रः पर्णाकः कुक्कुटाशिखी ॥
चाङ्गेरीसदृशः पत्रैश्चतुर्दल इतीरितः ।
शाको जलान्विते देशे चतुष्पत्रीति चोच्यते ॥
²चतुष्पत्री ।
सुनिषण्णो हिमो ग्राही मोहदोषग्रहापहः ।
अविदाही लघुः स्वादुः कषायो रूक्षदीपनः ॥
वृष्यो रुच्यो ज्वरश्वासमेहकुष्ठभ्रमप्रणुत् ॥
सुणसुण ।
पाचनं लघु रुच्योष्णं पत्रं मूलकजं नवम् ।
स्नेहसिद्धं त्रिदोषघ्नमसिद्धं कफपित्तकृत् ॥
मूलकपत्र ।
यवानीशाकमाग्नेयं रुच्यं वातकफप्रणुत् ।
उष्णं कटु च तिक्तं च पित्तलं लघु शूलहृत् ॥
वोवापत्र ।
सेहुण्डस्य दलं तीक्ष्णं दीपनं रोचनं हरेत् ।
आध्माना³ष्ठीलिकागुल्मशूलशोथोदराणि च ॥
सेर इति भाषया । ⁴निवँडिङ्ग ।
पर्पटो हन्ति पित्तास्रं ज्वरतृष्णाकफभ्रमान् ।
संग्राही शीतलस्तिक्तो दाहनुद्वातलो लघुः ॥
पित्तपापडा ।
१. All Mss. other than J1. omit this verse.
२. J1. omits the name 'चतुष्पत्री' ।
३. P1. P2. नाच्छीतिका ।
४. J1. omits the name निवँडिङ्ग ।