भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)
Bhojanakutuhala of Raghunatha Navahasta
रघुनाथ नवहस्त (सम्पादक: सूरनाड कुंजन पिल्लै) द्वारा
पृष्ठ 70, कुल 358 में से
संदर्भ में पढ़ेंप्रथमपरिच्छेदः ।
पत्रं पुष्पं फलं नाळं कन्दं संस्वेदजं तथा ।
शाकं षड्विधमुद्दिष्टं गुरु विद्याद्यथोत्तरम् ॥ इति ।
अथ शाकसामान्यगुणाः -
प्रायश्शाकानि सर्वाणि विष्टम्भीनि गुरूणि च ।
रूक्षाणि बहुवर्चांसि सृष्टविण्मरुतानि च ॥
शाकं भिनत्ति वपुरास्थि निहन्ति नेत्रं
वर्णं विनाशयति रक्तमथापि शुक्रम् ।
प्रज्ञाक्षयं च कुरुते पलितं च नूनं
हन्ति स्मृतिं गतिमिति प्रवदन्ति सन्तः ॥
शाकेषु सर्वेषु वसन्ति रोगास्सहेतवो देहविनाशनाय ।
तस्माद्बुधश्शाकविवर्जनं तु कुर्यात्तथाम्लेषु स एव दोषः ॥
अथ¹ विशेषगुणाः । तत्र -
मूलकं तीक्ष्णमुष्णं च कटुकं ग्राहि दीपनम् ।
दुर्नामगुल्महृद्रोगवातघ्नं रुचिदं गुरु ॥
साधारणमूलकगुणाः ।
बाँणाख्यमूलकं सोष्णं कटुकं रुचिदीपनम् ।
गुल्मवातकृमिकफान्नाशयेद् ग्राहकं गुरु ॥
नीवारिमूल काश्यां प्रसिद्धः ।
गृञ्जनं कटुकोष्णं च कफवातरुजापहम् ।
रुच्यं च दीपनं हृद्यं दुर्गन्धं गुल्मनाशनम् ॥
सोण्ठीमुळा ।
पिण्डमूलं कटूष्णं च गुल्मवातादिदोषनुत् ।
वाटोळामुळा
१. J₁. अथ मूलानि । तत्र मूलकगुणाः Bh. अथ मूलकादीनां विशेषण-
गुणाः । तत्र
२. Bh. ग्राहिहृद्रोग
३. Bh. omits this verse.