सामग्री पर जाएँ
सर्वकोश
भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)

भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)

Bhojanakutuhala of Raghunatha Navahasta

रघुनाथ नवहस्त (सम्पादक: सूरनाड कुंजन पिल्लै) द्वारा

DevanagariSanskritpublished358 पृष्ठ

पृष्ठ 67, कुल 358 में से

संदर्भ में पढ़ें
पृष्ठ 67

^१ मोदका गुरुतराश्च वृष्यकाः श्लेष्मलाश्चिरविपाककारकाः ।
मन्दमाशु जनयन्ति कोष्ठकं माषमोदकवरो बलप्रदः॥
मोदका गुरवो वृष्याः श्लेष्मलाश्चिरपाकिनः ।
मन्दाग्निं च प्रयच्छन्ति गोधूमाश्शालिजास्तथा
तथा. —
शमयति बहुपित्तं श्लेष्मकोपं करोति
जनयति जठराग्निं वातरोगं निहन्ति ।
सुरतजमतिखेदं तत्क्षणादेव हन्या-
दमृतफलमुदारं चारु शंसन्ति वैद्याः ॥
साजोचे लाडू ।
^२ क्षीरे कटाहे तापेन घनीभूते सितायुते ।
एलालवङ्गमरिचं यथायोग्यं विनिक्षिपेत् ॥
पिण्डकास्तर्पणा बल्या वृष्यास्स्युः पित्तनाशनाः ।
वातघ्नाश्च विशेषेण क्लमश्रमनिवारणाः ॥
पेडे ।
मुद्गसक्तून् समसिताघृतान् पिण्डीकृतान् मृदून् ।
एलादियुक्तान् घर्मर्तुहितान् वै पिण्डकान् वरान् ॥
तान् मुद्गदलमित्याहुः पाकशास्त्रविशारदाः ॥
मुगदल ।
भृष्टैस्तिलैस्तैर्गुडसाधितानि रुच्यानि ^३ जन्तूक्षबलापहानि ।
हरन्ति वातं तिलमोदकानि त्वग्दोषदृष्ट्यामयकारणानि ॥
^४ तिलवे ।
१. J1. adds सूपगुणाः before मोदका etc.।
२. J1. omits क्षीरे कटाहे ... ... ... कफवर्धनं इति
३. Bh. जन्तोश्च वलापहानि ।
४. Bh. तिल्लाडू ।