सामग्री पर जाएँ
सर्वकोश
भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)

भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)

Bhojanakutuhala of Raghunatha Navahasta

रघुनाथ नवहस्त (सम्पादक: सूरनाड कुंजन पिल्लै) द्वारा

DevanagariSanskritpublished358 पृष्ठ

पृष्ठ 71, कुल 358 में से

संदर्भ में पढ़ें
पृष्ठ 71

६० भोजनकुतूहले
कोष्णं तीक्ष्णं च तिक्तं मधुरकटुरसं मूत्रदं चातिमूत्र-
श्वासार्शःकासगुल्मक्षयनयनरुजोमान्द्यशूलामयघ्नम् ।
कण्ठ्यं बल्यं च रुच्यं मलविकृतिहरं मूलकं बालकं स्या-
दुष्णं जीर्णं तु शोषप्रदमुदितमिदं दाहपित्तास्रदायि ॥
मान्द्यं अग्निमान्द्यम् ।
आमं संग्राहि रुच्यं कफपवनहरं पक्वमेतत्कटूष्णं
भुक्तेः प्राग् भक्षितं चेत् सपदि वितनुते पित्तदाहप्रकोपम् ।
भुक्त्या सार्धं तु जग्धं हितगतिबलवद्वेसवारेण तच्चेत्
पक्वं हृद्रोगशूलप्रशमनमुदितं मूत्रकृत्स्र्वमूलम् ॥
हिता गतिः प्राप्तिर्यस्येति बलविशेषणम् । वातश्लेष्महरं शुष्कमिति
वाग्भटः ।
इति मूलकगुणाः ॥
गाजरं मधुरं रुच्यं किञ्चित्कटु कफापहम् ।
आध्मानकृमिशूलघ्नं दाहपित्ततृषापहम् ॥
गाजरमूल ।
माकन्दी कटुका तिक्ता मधुरा दीपनी परा ।
रुच्याल्पवातकृत्पथ्या न वर्षासु हिताऽधिका ॥
अधिका बाहुल्येन भक्षिता ।
मायीणमूल ।
¹रसोनेोऽम्लरसोनस्स्याद् गुरुष्णः कफवातनुत् ।
अरुचिकृमिहृद्रोगशोफघ्नश्च रसायनः ॥
अम्लरसोनः अम्लरसशून्य इत्यर्थः ।
शुभ्रलसण ।
रसोनाऽन्यो महाकन्दो गृञ्जनो दीर्घपत्रकः ।
१. P१. रसोनेोऽम्लरसोनः