सामग्री पर जाएँ
सर्वकोश
भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)

भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)

Bhojanakutuhala of Raghunatha Navahasta

रघुनाथ नवहस्त (सम्पादक: सूरनाड कुंजन पिल्लै) द्वारा

DevanagariSanskritpublished358 पृष्ठ

पृष्ठ 77, कुल 358 में से

संदर्भ में पढ़ें
पृष्ठ 77

५५ भोजनकुतूहले
अथ पत्रशाकाः
तत्र वास्तुकम् —
तदेकं तु बृहत्पत्रं रक्तं स्याद्रौडवास्तुकम् ।
प्रायशो यवमध्ये स्याद्यवशाकमतः स्मृतम् ।
वास्तुकद्वितयं स्वादु क्षारं पाके कटूदितम् ।
दीपनं पाचनं रुच्यं लघु शुक्रबलप्रदम् ॥
सरं प्लीहास्रपित्तार्शःकृमिदोषत्रयापहम् ।
तथा—
वास्तुकं तु मधुरं सुशीतलं क्षारमम्लमपि दोषजित्परम् ।
रोचनं ज्वरहरं महार्शसां नाशनं च मलमूत्रशुद्धिकृत् ॥
चाकवत ।
चुक्रं स्यादम्लपत्रं तु लघूष्णं वातगुल्मनुत् ।
रुचिकृद्दीपनं पथ्यमीषत्पित्तकरं परम् ॥
चुका ।
चिल्ली वास्तुकतुल्या स्यात् सक्षारा श्लेष्मपित्तनुत् ।
प्रमेहमुत्रकृच्छ्रघ्नी पथ्या च रुचिकारिणी ॥
चील ।
श्वेतचिल्ली सुमधुरा क्षारा च शिशिरा च सा ।
त्रिदोषशमनी पथ्या ज्वरदोषविनाशिनी ॥
बथुवा ।
श्वानचिल्ली कटुस्तीक्ष्णा कण्डूतिव्रणहारिणी ।
सुणेचिल ।
शिग्रुपत्रभवं शाकं रुच्यं वातकफापहम् ।
कटूष्णं दीपनं पथ्यं क्रिमिघ्नं पाचनं परम् ॥
सेउगपत्रे
पालक्यमीषत्कटुकं मधुरं पथ्यशीतलम् ।
रक्तपित्तहरं ग्राहि ज्ञेयं सन्तर्पणं परम् ॥
पालक ।