भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)
Bhojanakutuhala of Raghunatha Navahasta
रघुनाथ नवहस्त (सम्पादक: सूरनाड कुंजन पिल्लै) द्वारा
पृष्ठ 74, कुल 358 में से
संदर्भ में पढ़ेंप्रथमपरिच्छेदः ।
कटूष्णो महिषीकन्दः कफवातामयापहः ।
मुखजाड्यकरो रुच्यो महासिद्धिकरस्सितः ॥
महिषीकन्दः ।
हस्तिकन्दः कटूष्णः स्यात् कफवातामयापहः ।
त्वग्दोषश्रमहा कुष्ठविषवीसपर्नाशनः ॥
हस्तिकन्दः ।
कोलकन्दः कटुश्चोष्णः क्रिमिदोषविनाशनः ।
वान्तिविट्छर्दिशमनो विषदोषनिवारणः ।
कोळकन्द ।
वाराही तिक्तकटुको विषापित्तकफापहः ।
कुष्ठमेहक्रिमिकरो वृष्यो बल्यो रसायनः ॥
वाराहीकन्द ।
विष्णुकन्दस्तु मधुरशिशिरः पित्तनाशनः ।
दाहशोषहरो रुच्यस्सन्तर्पणकरः परः ॥
विष्णुकन्दः ।
मधुरो धरणीकन्दः कफपित्तामयापहः ।
रक्तदोषप्रशमनः कुष्ठकण्डूविनाशनः ॥
धरणीकन्दः ।
नांकुलीयुगलं तिक्तं कटूष्णं च त्रिदोषजित् ।
अनेकविषविध्वंसि किञ्चिच्छ्रेष्ठं द्वितीयकम् ॥
नकुलीकन्द ।
मालाकन्दस्तुतीक्ष्णस्स्याद्गण्डमालाविनाशनः ।
दीपनो गुल्महारी च वातश्लेष्मापकर्षकृत् ॥
मालाकन्द ।
विदारी मधुरा शीता गुरुः स्निग्धा च पित्तनुत् ।
ज्ञेया च कफकृत्पुष्टिबलवीर्यविवर्धिनी ॥
विदारीकन्द ।
- Bh. omits this Verse.