भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)
Bhojanakutuhala of Raghunatha Navahasta
रघुनाथ नवहस्त (सम्पादक: सूरनाड कुंजन पिल्लै) द्वारा
पृष्ठ 72, कुल 358 में से
संदर्भ में पढ़ेंप्रथमपरिच्छेदः ६१
पृथुपत्रः स्थूलकन्दो यवनेष्टो विलोहितः ॥
गृञ्जनस्य मधुरं कटुकन्दं नाछमप्युपदिशन्ति कषायम्
पत्रसञ्चयमुशन्ति चं तिक्तं सूरयो लवणमस्थि वदन्ति ॥
रसेन चोष्णः कटुपिच्छलश्च स्निग्धो गुरुः स्वादुरसोऽतिबल्यः ।
वृष्यश्च मेधास्वरवर्णचक्षुर्भग्नास्थिसन्धानकरः सुतीक्ष्णः ॥
हृद्रोगजीर्णज्वरकुक्षिशूलविवन्धगुल्मांरुचिकृच्छ्रशोफान् ।
दुर्नामकष्ठानलसादजन्तुकफामयान् हन्ति महारसोनः ॥
लशुनविशेषगुणाः ।
पलाण्डुः कटुको बल्यः कफपित्तहरो गुरुः ।
वृष्यश्च रोचनः स्निग्धो वान्तिदोषविनाशनः ॥
श्वेतपलांडु ।
अन्यो राजपलाण्डुः स्याद्यवनेष्टो नृपाह्वयः ।
पलाण्डुर्नृपपूर्वस्याच्छ्लैष्मिकः पित्तनाशनः ॥
कफहृद्दीपनश्चैव बहुनिद्राकरस्तथा ॥
तथा-
वक्ष्यते नृपपलाण्डुलक्षणं क्षारतीक्ष्णमधुरो रुचिप्रदः ।
कण्ठशोषशमनोऽतिदीपनः श्लेष्मपित्तशमनोऽग्निदीपनः ॥
अतिदीपनः दाहकृत् ।
रक्तपलाण्डु ।
सूरणः कटुरुष्णश्च पाचनः क्रिमिवातहा ।
श्वासकासकफान् हन्ति परं दुर्नामनाशनः ॥
गुल्मशूलक्रिमिघ्नश्च गुरुरसविकारकृत् ॥
रक्तसूरण ।
श्वेतस्सूरणको रुच्यः कटूष्णः क्रिमिनाशनः ।
गुल्मशूलादिदोषघ्नः सर्वारोचकहारकः ॥