सामग्री पर जाएँ
सर्वकोश
भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)

भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)

Bhojanakutuhala of Raghunatha Navahasta

रघुनाथ नवहस्त (सम्पादक: सूरनाड कुंजन पिल्लै) द्वारा

DevanagariSanskritpublished358 पृष्ठ

पृष्ठ 73, कुल 358 में से

संदर्भ में पढ़ें
पृष्ठ 73

६२ भोजनकुतूहले
बल्यः कदल्याः कन्दस्स्यात् कफपित्तहरो गुरुः ।
बातलो रक्तशमनः कषायो रूक्षशीतलः ॥
कदलीकन्द
मुखाळुस्स्यान्मधुरसः शिशिरः पित्तनाशनः ।
रुचिकृद्वातकृच्चैव दाहशोषतृषापहः ॥
मुखाळू
पिण्डाळुर्मधुरश्शीतो मूत्रकृच्छ्रामयापहः ।
दाहशोषप्रमेहघ्नो वृष्यस्सन्तर्पणो गुरुः ॥
ननु
कटूष्णो वातकफहा पिण्डाळुः पित्तवर्धनः ।
इति वाग्भटः । इह तु मधुरश्शीत इति पित्तघ्नत्वं चानेनोक्तं भवति ।
चरके तु त्रिदोषकरत्वमिति महान् विरोधः । मैवम् । वग्भटोक्तिः पत्र-
विषया , चरकोक्तिरपक्ककन्दविषया । मधुरत्वायुक्तिस्तु पक्कविषयेति
न कोऽपि विरोधः ।
पिण्डालु , मोहलकान्दे भाषया ।
रक्तपिण्डालुकश्शीतो मधुराम्लः श्रमापहः ।
पित्तदाहापहो वृष्यो बलपुष्टिकरो गुरुः ॥
रक्ताळु ।
कासालुरुग्रकण्डूर्तिवातश्लेष्मामयापहः ।
अरोचकहरः स्वादुः पथ्यो दीपनकारकः ॥
कांसालु ।
फोडालुः श्लेष्मवातघ्नः कटूष्णो दीपनीयकः ।
फोडालुः ।
पानीयालुर्विदोषघ्नः सन्तर्पणकरः परः ।
पानीयाळु !
नीळाळुर्मधुरश्शीतः पित्तदाहश्रमापहः ।
नीळाळुः