भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)
Bhojanakutuhala of Raghunatha Navahasta
रघुनाथ नवहस्त (सम्पादक: सूरनाड कुंजन पिल्लै) द्वारा
स्याद्यावनालरसपाकभवो गुडोऽयं
क्षारः कषायमधुरः कफवातहारी ।
पित्तप्रदः सततमेष निषेव्यमाणः
कण्ठर्तिकृज्जननोऽस्रविदाहदायी ॥
जोंधळ्याचा गुड ।
अथ शर्करा —
२. शुद्धस्फटिकसङ्काशा निर्मला सितशर्करा ।
शर्करा ज्वरपित्तासृङ्मूर्च्छाच्छर्दिविषापहा ॥
श्वासङ्गमर्दहृल्लासवैत्यशूलहरामिकैत् ।
तत्र — ४
स्निग्धा पुण्ड्रकशर्करा हितकरी क्षीणे क्षयेऽरोचके
चक्षुष्या बलवृंहणी सुमधुरा रूक्षा च वंशोद्भवा ५।
वृष्या तृप्तिबलप्रदा भ्रमहरा श्यामेक्षुजा शीतला
स्निग्धा शान्तिकरी रसाळजनिता रक्तेक्षुजा पित्तजित् ॥
६पंचेक्षुशर्करा ।
T1. The revisor adds this section in the margin trans-
[
प्रथमपरिच्छेदः । १५१
[१]दिलक्षणमाह • केयदेवः —
इक्षो रसस्य संमलं त्र्यंशार्धाङ्घ्रिमलामल।
विकाराः फाणितगुडमच्छण्डीखण्डशर्कराः ॥
इति । २गुणाश्च —
मच्छण्डी ग्राहिणी बल्या कषाया वातजिद् गुरुः
खण्डं गुरु सरं रुच्यं वातघ्नं बलपुष्टिदम् ॥
सितोपला सरा गुर्वी वातघ्नी न कफप्रदा ॥
इति ।
३वृष्या क्षतक्षीणहिता रक्तपित्तानिलापहाः ।
मच्छण्डिकाखण्डसिताः क्रमेण गुणवत्तरोः ॥
१. J1. omits मत्स्यण्डिकादि .................... न कफप्रदा ॥
इति । T1. has this portion after the first line of the verse
below : वृष्या क्षतक्षीणहिता etc. This transposition has been
effected for the sake of the continuity of the verse as it occurs
in the Aṣṭāṅgahṛdaya from which it forms a quotation.
T2. omits this introduction and the quotation following.
२. T2. अन्यत्र च मत्स्यण्ड्यादीनां पृथग्गुणाः ।
३. T2. introduces this verse with: अथ मत्स्यण्डिकादीनां त्रयाणां
गुणमाह वाग्भटः —. P1. P2. omit this line.
४. J1. The revisor adds in the margin, the following
धन्वन्तरिः —
शर्करोक्ता तु मीनाण्डा श्वेता मत्स्यण्डिका मता ।
५. T2. adds the explanation: क्षतक्षीणयोर्हिताः क्रमेणेति ।
क्रमेणेति मत्स्यण्डिकायाः खण्डो गुणवान्, खण्डात् सिता ।
उक्तं च सुश्रुतेन —
यथा यथैषां वैमल्यं मधुरत्वं तथा तथा ।
स्नेहगौरवशैत्यानि सरत्वं च तथा तथा ॥ इति ।
१५५ भोजनकुतूहल
तद्गुणा तिक्तमधुरा कषाया यासशर्करा ।
त्रिदोषघ्नी पित्तकासेक्षुधर्मच्छदसम्भवा ॥
तत्तुल्या मधुशर्करा । तत्तुल्या मधुसमानगुणेत्यर्थः ।
अभिष्यन्द्यतिधुरं फाणितं बृंहणं गुरु ।
शुक्रकृत् कफकृच्चैव पित्तघ्नं च विशेषतः ॥
फाणितं गुर्वभिष्यन्दि चयकृन्मूत्रशोधनम् ।
अवृष्यं बृंहणं क्षारं वीर्योष्णं सर्वदोषकृत् ॥
इति कैयदेवः ।
शर्करा तु सितोपला ।
सिता च मधुधूलिस्तु खण्डस्तद्विकृतिः पुनः ॥
'मच्छण्डिका फाणितं चापि' इति हैमनः ।
रूक्षो मधूकपुष्पोत्थः फाणितो वातपित्तकृत् ।
कफघ्नो मधुरः पाके विपाके वस्तिदूषणः ॥
शर्करेक्षुविकाराणां फाणितं च वरावरे ।
हिमजा शर्करा गौल्या सोऽल्पा तिक्ता त्वपिच्छिला
... introduces this verse with: — यासशर्करागुणानाह
वाग्भटः and has the following explanation at the close of the
line: — तद्गुणा मत्स्याण्डकादिसामान्यसदृशगुणाः । यासशर्करा दुरालभारसेने-
क्षुरसेन वा क्रियते ।
२ T₂. omits this line.
३. T₂. सिता कासेषु । T₁. सितकासेषु ।
४. T₂. has on मधुशर्कराः — मधुशर्करागुणमाह —
यद्गुणं यन्मधु प्रोक्तं तद्गुणा तस्य शर्करा ।
विशेषात्तर्पणी बल्या पुष्ट्या च क्षीणदेहिनाम् ॥
वह्निपाकात् कालपाकाद्वा शर्करा रूपतां गतं मधु मधुशर्करा । तद्गुणा मधुसदृशगुणा ।
The Ms. continues:— सामान्यशर्करागुणमाह वाग्भटः —
दाहतृट्छर्दिमूर्च्छास्रपित्तघ्न्यः सर्वशर्कराः ।
सर्वा उक्ताः मत्स्याण्डिकाद्याः मधुशर्करा च । मत्स्याण्डिकादौ रक्तपित्तहरत्वग्रहण-
मतिशयार्थम् ।
प्रथमपरिच्छेदः ।
वातघ्नी सारिका रुच्या दाहपित्तास्रदायिनी ।
गुडगडा
सितखण्डोऽतिमधुरश्चक्षुष्येच्छादिनाशनः ।
कुष्ठव्रणकफश्वासहिक्कापित्तास्रदोषजित् ॥
वालखंड ।
वृष्या क्षतक्षीणहिता रक्तपित्तानिलापहाः ।
मत्स्यण्डिकाखण्डसिताः क्रमेण गुणवत्तराः ॥
क्षतक्षीणयोर्हिताः । क्रमेणेति । मत्स्यण्डिकायाः खण्डो गुणवान्,
खण्डात् सिता । उक्तं च सुश्रुतेन —
यथा यथैषां वैमल्यं मधुरत्वं तथा तथा ।
स्नेहगौरवशौत्यानि सरत्वं च तथा तथा ॥
इति ।
अन्यत्र च मत्स्यण्ड्यादीनां पृथग् गुणाः ।
मत्स्यण्डी ग्राहिणी बल्या कषाया वातजिद् गुरुः ।
खण्डं गुरु सरं रुच्यं वातघ्नं बलपुष्टिदम् ।
सितोपला सरा गुर्वी वातघ्नी न कफप्रदा ।
इति ।
यासशर्करागुणानाह वाग्भटः —
तद्गुणा तिक्तमधुरा कषाया यासशर्करा ।
तद्गुणा मत्स्यण्डिकादिसामान्यसदृशगुणा ।
यासशर्करा दुरालभारसेनेक्षुरसेन च क्रियते ।
मधुशर्करागुणमाह —
यद्गुणं यन्मधु प्रोक्तं तद्गुणा तस्य शर्करा ।
विशेषात्तर्पणी बल्या पुष्ट्या च क्षीणदेहिनाम् ॥
१. $J_1$. omits अथ ... ... ... ... वाग्भटः and it reads
अथ शर्करा ।.
२. $J_1$. adds: धन्वन्तरिः —
शर्करोक्ता तु मीताण्डी श्वेता मत्स्याण्डिका सिता ।
in the margin and reads this portion after रक्तेक्षुजा पित्तजित् ।
I will transcribe what is visible: शर्करारूतां or शर्करारूपतां). Actually, wait! Look at the top of that letter: is it हू? No. Let's transcribe शर्करारूतां or शर्करारूपतां. Wait, look at the blank space between रू and तां: there isn't one, they are right next to each other. So it's 2 syllables: रूतां! So शर्करारूतां!
Everything else is verified and very clean.१६४ भोजनकुतूहले
वह्निपाकात् कालपाकाद्वा शर्करारूतां गतं मधु मधुशर्करा ।
तद्गुणा मधुसदृशगुणा ।
सामान्यशर्करागुणमाह वाग्भटः -
दाहतृट्छर्दिमूर्छासृक्पित्तघ्न्यः सर्वशर्कराः ।
सर्वा उक्तां मत्स्यण्डिकायाः मधुशर्करा च । मत्स्यण्डिकादौ
रक्तपित्तहरत्वग्रहणमतिशयार्थम् । अन्यत्र च शर्करागुणाः -
शुद्धस्फटिकसङ्काशा निर्मला सितशर्करा ।
शर्करा ज्वरपित्तासृङ्मूर्च्छाच्छ
प्रथमपरिच्छेदः । १६५
दाहं निवारयति तापमपाकरोति
तृष्णां नियच्छति निहन्ति च मोहमूर्च्छाम्
श्वासं निवारयति तर्पयतीन्द्रियाणि
शीतस्सदा सुमधुरः खलु सिद्धखण्डः ॥
खण्डतवराजः
अथेषुविकाराणां तारतम्यमाह वाग्भटः
शर्केक्षुविकाराणां फाणितं च वरावरे ।
इक्षुविकाराणां मध्ये शर्करा सिताख्या वरा फाणितमवरं इतरे
मध्यमाः ॥
इतीक्षुरसविकारप्रकरणम् ।
अथ मधु ।
तेष –
माक्षिकं भ्रामरं क्षौद्रं पौत्तिकं छात्रकं तथा ।
आर्घ्यमौद्दालकं दालमित्यष्टौ मधुजातयः ॥
नानापुष्परसाहाराः कपिला नवमक्षिकाः ।
याः स्थूलास्ताभिरुत्पन्नं मधु माक्षिकमुच्यते ॥
ये स्निग्धाञ्जनगोडाभाः पुष्पासवपरायणाः ।
भ्रमरैर्जनितं तैस्तु भ्रामरं मधु भण्यते ॥
पिङ्गला मक्षिकास्सूक्ष्माः क्षुद्रा इति हि ताः स्मृताः ।
ताभिरुत्पादितं यत्तु तत् क्षौद्रं मधु कथ्यते ॥
महत्यो मक्षिकाः पिङ्गाः पूतिका इति कीर्तिताः ।
तज्जातं मधु धीमद्भिः पौत्तिकं समुदाहृतम् ॥ ४ ॥
छत्राकारं तु पटलं सरघाः पीतपिङ्गलाः ।
यत् कुर्वन्ति तदुत्पन्नं मधु च्छात्रकमीरितम् ॥
१. J1. तत्र ; Bh omits this.
२. Bh. वर्ण्यते ।
१६६ भोजनकुतूहले
मक्षिकास्तीक्ष्णतुण्डा याः पीताः षट्पदसन्निभाः ।
तदुद्भूतं यद्गुह्यार्हं तदार्घ्यं मधु भण्यते ॥
जंहालाः कथिताः कीटा भूमेरुद्दालनात् स्मृताः ।
वल्मीकान्तस्तदुत्पन्नमौद्दालकमुदीर्यते ॥
इन्द्रनीलदलाकाराः सूक्ष्माश्चिन्वन्ति मक्षिकाः ।
यद् वृक्षकोटरान्तरःस्थं मधु दालमिति स्मृतम् ॥
माक्षिकं तैलवर्णं स्याच्छ्वेतं भ्रामरमुच्यते ।
क्षौद्रं तु कपिलाभासं पौत्तिकं घृतसन्निभम् ॥
आपीतवर्णं छात्रं स्यात् पिङ्गलं चार्घ्यनामकम्
औद्दालं स्वर्णसदृशमापीतं दालमुच्यते ॥
माक्षिकं मधुरं रूक्षं लघु श्वासादिदोषनुत् ।
भ्रामरं पिच्छलं रूक्षं मधुरं मुखजाड्यनुत् ॥
क्षौद्रं तु शीतलं रूक्षं चक्षुष्यं पित्तवातजित् ।
पौत्तिकं मधु रूक्षोष्णमस्रपित्तादिदाहहृत् ॥
पित्तमेहकृमिघ्नं च विद्याच्छात्रं गुणोत्तरम् ।
आर्घ्यं मध्वतिचक्षुष्यं कफपित्तादिदोषहृत् ॥
औद्दालकं तु कुष्ठादिदोषघ्नं स्वरसिद्धिदम् ।
दालं कटु कषायाम्लं मधुरं पित्तदायि च ॥
नवं मधु भवेत् स्थौल्यं नातिश्लेष्महरं परम् ।
देहस्थौल्यापहं ग्राहि पुराणं मधु लेखनम् ॥
पक्वं दोषत्रयघ्नं मधु विविधरुजाजाड्यहिक्कामयादि-
ध्वंसं धत्ते च रुच्यं बलमतिधृतिकृद् वीर्यशुद्धिं विधत्ते ।
१. Bh. omits the portion to the end of मद्यप्रकरण and
observes in its place मधुवर्णगुणाविलक्षणं सुषेणे द्रष्टव्यः ।
२. J1. दोषजित् ।
३. J1. विषमेह ।
प्रथमपरिच्छेदः । १६७
आमं चेदामगुल्मामयपवनरुजापित्तदाहास्त्रदोष-
ध्वंसं धत्ते विशोषं जनयति नयति स्वाङ्गशुद्धिं विशेषतः ॥
व्रणशोधनसन्धानव्रणसंरोपणादिषु ।
साधारणन्मधु हितं तत्तुल्या मधुशर्करा ॥
उष्णैः सहोष्णकाले वा स्वयमुष्णमथापि वा ।
आर्त्तं मधु मनुष्याणां विषवत्तापदायकम् ॥
कीटकादियुतमम्लदूषितं यच्च पर्युषितकं मधु स्वतः ।
कण्टकोदरगतं च मेचकं यच्च मेहजनितं च दोषकृत् ॥
दण्डैर्निहत्य यदुपात्तमपास्य दोषान्
तादृग्विधं मधु रसायनयोगयोग्यम् ।
हिक्कागुदाङ्कुरविशोषकफव्रणादि-
कोपापहं भवति दोषदन्यथा चेत् ॥
यद्गुणं यन्मधु प्रोक्तं तद्गुणा तस्य शर्करा ।
विशेषात्तर्पणी बल्या पुष्ट्या च क्षीणदेहिनाम् ॥
गुरु शीतकषायत्वाद्रौक्ष्याच्चाल्पं हितं मधु ।
न हि कष्टतमं किञ्चित् तदजीर्णाद्यतो वरम् ॥
उपक्रमविरोधित्वात् सद्यो हन्याद्यथा विषम् ।
नानाद्रव्यात्मकत्वाच्च योगवाहि परं मधु ॥
वृष्ययोगैरतो युक्तं वृष्यतामनुवर्तते ।
स्वीयगुणोदासीनत्वे सति संयोगिगुणोत्कर्षकत्वं योगवाहित्वम् ॥
इति मधुप्रकरणम् ।
१. J₁. gives under this verse the substance of the
same as तप्तात्सन्मधुगुणः
२. T₂. Bh. add the explanation :—
विषान्वयत्वे सविषपुष्पेभ्योऽपि यतो मधु ।
कुर्वते हि स्वयं यच्च संविधा अमरादयः ॥
१४८ भोजनकुतूहले
अथ मद्यप्रकरणम् ।
तच्च, गौडीमाध्वोपैष्टीभेदात् त्रिविधम् । तत्र—
स्याद् धातकीरसगुडादिकृता तु गौडी
पुष्पद्रवादिमधुमारमयी च माध्वी ।
पैष्टी पुनर्विविधधान्यविकारजाता
ख्याता मदाधिकतया किल पूर्वपूर्वा ॥
तालादिरसनिर्यासेः सैन्दी हालां सरा जगुः ।
नानाद्रव्यकदम्बेन द्रव्यं कादम्बरं स्मृतम् ॥
तत्र—
गौडी तीक्ष्णोष्णमधुरा वातहृत् पित्तकारिणी ।
बलकृद् दीपनी पथ्या कान्तिकृत् तर्पणी परा ॥
माध्वी तु मधुरा हृद्या नात्युष्णा पित्तवातकृत् ।
कामलापाण्डुगुल्मार्शःप्रमेहशमनी परा ॥
पैष्टी कट्वम्लतीक्ष्णा स्यान्मधुरा दीपनी परा ।
सैन्दी सिता कषायाम्ला तृष्णासन्तापनाशिनी ॥
कादम्बरी सुमधुरा पित्तघ्नी श्रमहारिणी ।
मदनिर्वाणमदनज्वालापल्लवधृक् सरा ॥
ऐक्षवं तु भवेन्मद्यं शिशिरं च मनोहरम् ।
यौवद्धान्यकृतं मद्यं गुरु विष्टम्भदायकम् ॥
शर्कराधातकीतोये कृतं शीतं मनोहरम् ।
शार्करं कथ्यते मद्यं वृष्यं दीपनमोहनम् ॥
१. J¹. मद्यं कादम्बरं ।
२. J¹. मदोत्कटम् । T₂. adds the explanation मनोहरं
मदोत्कटम् ।
३. T₂. has also the alternative reading यवधान्यकृतम् ।
४. T₂. has also the alternative reading दीपनपाचनम् ।
मद्यं नवं सर्वविकारहेतु सर्वं च वातादिकदोषदायि
जीर्णं तु सर्वं सकलामयघ्नं वृष्यं च सन्दीपनमुक्तमे
सामान्यतः ।
दीपनं रोचनं मद्यं तीक्ष्णोष्णं तुष्टिपुष्टिदम्
सुस्वादु तिक्तकटुकमम्लपाकरसं सरम् ॥
सकषायं स्वरारोग्यप्रतिभावर्णकृल्लघु।
नष्टनिद्रातिनिद्रेभ्यो हितं पित्तास्रदूषणम् ॥
कृशस्थूलहितं रूक्षं सूक्ष्मं स्रोतोविशोधनम् ।
वातश्लेष्महरं युक्त्या पीतं विषवदन्यथा ॥
उक्तं च वैद्येन—
मद्यं न पेयं वा पेयं स्वल्पं सुबहुवारि वा ।
अन्यथा शोषशैथिल्यदाहमोहान् करोति (च) ॥
द्राक्षेक्षवः सखर्जूरः शालिपिष्टं यवस्य वा ।
पञ्च मद्याकराः श्रेष्ठाः द्राक्षा तेषां विशिष्यते ।
अन्येऽपि मद्यभेदास्तत्प्रकाराश्च सर्वानुपयोगात् ग्रन्थगौरवभयाच्चेह
नोक्ताः । यत उक्तम् —
मद्यप्रयोगं कुर्वीत शूद्रादिषु महार्तिषु ॥
इति मद्यप्रकरणम् ।
अथ मांसप्रकरणम् ।
तच्चिविधं; भूचरखेचराप्चरभेदात् । तेषां क्रमेण गुणाः —
मांसं खड्गमृगोत्थं तु बलकृद् बृंहणं गुरु ।
गवयस्यामिषं बल्यं रुच्यं वृष्यं च बृंहणम् ॥
१. T1; T2. omit उक्तं च वैद्येन ।
२. T1. has also the alternative reading द्राक्षेक्षुमद्यखर्जूराः ।
१. लघु स्यादामं बृंहणं च मांसं बलिष्ठं वनमाहिषस्य ।
स्निग्धं निद्राकरं पित्तहारि ग्राम्यस्य चामिषम् ।
माहिष्येति सम्बन्धः ।
करीः क्रव्यं गुरु स्निग्धं वातलं श्लेष्मकारकम् ।
बहुपुष्टिप्रदं गाजमामिषं वह्निमान्द्यदम् ॥
अश्वमांसं भवेदुष्णं वातघ्नं बलदं लघु ।
पित्तदाहप्रदं नृणां तदेत्वातिसेवनात् ॥
औष्ट्रं मांसं तु शिशिरं त्रिदोषशमनं लघु ।
बलपुष्टिप्रदं रुच्यं मधुरं वीर्यवर्धनम् ॥
गर्दभप्रभवं मांसं किञ्चिद्गुरु बलप्रदम् ।
रुच्यं तु वनजं सैत्यमतिवीर्यबलप्रदम् ॥
वनगर्दभस्येत्यर्थः ।
मृगस्य मांसं लघु शीतवृष्यं त्रिदोषहृत् षड्रसदं च रुच्यम्
कुरङ्गमांसं मधुरं च तद्वत् कन्तारुहं पित्तहरं च मारुतम् ॥
मृगस्तःप्रमृगः । मारुतं मरुत्प्रकोपकारि । कुरङ्गश्चतुरगतिः ।
५. त्रिदोषहारि चैषां स्याल्लघु वृष्यं सुशीतलम् ॥
६. कृष्णपृष्ठः ।
अन्यत्र —
सारङ्गं पिशितं स्निग्धं मधुरं लघु वृष्यदम् ।
सारङ्गः कृष्णपृष्ठ एव ।
१. J₁. omits स्निग्ध ... भवेदुष्ण in the next verse.
२. T₁; T₂; P₁; P₂. add गाजं गजभवम् ।
३. Bh. omits this verse.
४. J₁. हरिणस्ताम्रमृगः; Bh. मृगाश्चोष्ट्रमृगाः ।
५. J₁; Bh. त्रिदोषहारि चैणस्य लघु ।
६. T₁. कृष्णपृष्ठः एणः ।
प्रथमपरिच्छेदः । १७१
तित्तलप्रभवं मांसं लघु हृद्यं बलंप्रदम् ॥ चिपुकस्य ।
वराहमांसं गुरु वातहारि
वृष्यं बलस्वेदकरं वनोत्थम् ।
तस्माद् गुरु ग्रामवराहमांसं
तनोति मेदोबलवीर्य्यवृद्धिम् ॥
छागमांसं गुरु स्निग्धं नातिशीतं रुचिप्रदम् ।
निर्दोषं वातपित्तघ्नं मधुरं बलपुष्टिदम् ॥
च्छागपोतभवं मांसं लघु शीतं प्रमेहजित् ।
ईषल्लघु बलं दत्ते तदेव तृणचारिणः ॥
भारङ्गस्यापि मांसं तु गुरु स्निग्धं कफप्रदम् ।
बल्यं वृष्यकरं पुष्टिप्रदं वातकरं परम् ॥ भारसिङ्ग ।
आविकं मधुरं मांसं किञ्चिद्गुरु बलप्रदम् ।
बृंहणं कफकृद् वृष्यं परं विष्टम्भि शीतलम् ॥
गोधामांसं तु वातघ्नं श्वासकासहरं च तत् । घोरफड ।
शशमांसं त्रिदोषघ्नं दीपनं श्वासकासनुत् ।
पिच्छिलं नाकुलं मांसं वातकृच्छ्लेष्मपित्तकृत् ॥ मुंगुसे ।
आरण्यकुक्कुटद्रव्यं हृद्यं श्लेष्महरं लघु ।
ग्राम्यस्तु श्लेष्मलो गुरुः ।
हारीतं पललं स्वादु कफपित्तास्रदोषजित् ।
वर्धनं वीर्यबलयोस्तद्वेव कपोतजम् ॥
१. Bh. adds :—
कुक्कुटो बृंहणः स्निग्धो वीर्योष्णोऽनिलजिद् गुरुः ।
चक्षुष्यः शुक्रकफहृद्धन्यो हृद्यः कफान्तकृत् ॥
पानीयकुक्कुटः स्निग्धो बृंहणः श्लेष्मलो गुरुः ।
भोजनकुतूहले
पारावतपलं स्निग्धमधुरं गुरु शीतलम् ।
पित्तच्छर्दिदाहनुद् बल्यं वीर्यवृद्धिकरं परम् ॥
रुच्यं तित्तिरिजे मांसं लघु वीर्यबलप्रदम् ।
कषायमधुरं शीतं त्रिदोषशमनं परम् ॥
तद्वच्च लावकं मांसं पथ्यं ग्राहि बलप्रदम् ।
चटकस्यास्रजिच्छीतं लघु वृष्यं बलप्रदम् ॥
तद्वदारण्यचटकक्रव्यं लघु च पथ्यकम् ।
रुच्यं कापिञ्जल क्रव्यं शीतलं बृंहणं गुरु ॥
वृष्यं चकोरजं मांसं बल्यं पुष्टिकरं परम् ।
चक्रवाकभवं क्रव्यं लघु स्निग्धं बलप्रदम् ॥
वह्निकृत् सर्वशूलघ्नं ग्रहण्यार्शोविकारजित् ।
सारसस्य तथा मांसं मधुराम्लकषायकम् ॥
मोहातीसारपित्तघ्नं ग्रहण्यार्शोरुजापहम् ।
मांसं शीतं वृष्यं स्निग्धं गुरु जलपक्षिणां कथितम् ।
तेष्वपि च हंसमांसं वृष्यतमं तिमिरहरं च ॥
अन्ये बकबलाकाद्याः गुरवः प्राणिभक्षणात् ।
स्निग्धातिगुरवो मत्स्या वातघ्ना रक्तपित्तदाः ।
तत्र कांश्चिदपि ब्रूमो विशेषगुणलक्षणान् ॥
रोहितो गर्गरो भीरुर्वेलको बर्बरस्तथा ।
छागलो रक्तमत्स्याऽथ महिषश्च बिलाह्वयः ॥
पादटिप्पण्यः (Footnotes):
१. T2. takes off मांसं and continues. पथ्यं । the next verse.
२. T2. gives the name after this चटकः स्त्रियां । विह्वल्यां चे ।
३. T2. गुर्वम्बुपक्षिणाम् ।
प्रथमपरिच्छेदः ।
चानुरूपस्त्वकर्मोषा च ज्ञेया वर्णा वशादयः
तत्र ।
कृष्णः शल्की श्वेतकुक्षिस्तु मत्स्यो '
यः श्रेष्ठोऽसौ रोहितो वृत्तवक्त्रः । २ .
कोष्णं बल्यं रोहितस्यापि मांसं
वातं हन्ति स्निग्धमृध्नाति वीर्यम् ।
रोहितमत्स्य ।
यः पीतवर्णोऽपिं च पिच्छिलाङ्गः पृष्ठे च रेखाबहुलः स शल्कः ।
स गर्गरो गर्गरनादवश्यो जडश्च शीतः कफवातदायी ॥
गामरु ।
पृष्ठे पक्षौ द्वौ गले पुच्छके चेत् सर्पाभः स्यात् पुष्करो वृत्ततुण्डः ।
ज्ञेयः शल्की मत्स्यको भीरुरुक्तः स्निग्धो वृष्यो दुर्जरो वातकारी ॥
अहीर ।
नातिस्थूलो वृत्तवक्त्रोऽपि चास्ये धत्ते दन्तान् श्मश्रुलो दीर्घकायः ।
त्रिःसन्ध्यायां रात्रिषेपे त्रिवर्णः प्रोक्तो बालः पथ्यबल्यः सुवृष्यः ॥
बालांबु ।
पृष्ठे कुक्षौ कण्टकी दीर्घतुण्डः सर्पाभो यः सोऽप्ययं बर्बराख्यः ।
वाताटोपं सोऽपि दत्तेऽन्त्रजाड्यं स्निग्धो बल्यो दुर्जरो वीर्यकारी ।
बाभीरु ।
श्वेतं सुकायं समदीर्घवृत्तं निश्शल्ककं छागलकं वदन्ति ।
द्विकण्टकोऽसौ खलु पृष्ठवंशे कण्ठ्यस्तुपथ्यो रुचिदश्च बल्यः ॥
सगल्लु ।
१. J₁. कर्णावशादयः, Bh. कर्णा च शादयः T2. gives also the
varient reading वर्णा वशाभिधः ।
२. T₂. वृत्तचक्रः
३. Bh. has an omission बातकारी...... to दुर्जरो, probably
due to the scribe.
यो रक्ताङ्गो नातिदीर्घो न चाल्पो
• नातिस्थूलो रक्तमत्स्यः स उक्तः
शीतो रुच्यः पुष्टिकृद् दीपनोऽसौ
नाशं दत्ते किञ्च दोषत्रयस्य ॥
तांबुडु ।
यः कृष्णो दीर्घकायः स्यात् स्थूलशल्की बलान्वितः ।
मत्स्यो माहिषनामासौ दीपनो बलवीर्यदः ॥
भैसाड ।
शुक्लाङ्गस्ताम्रपक्षो यः स्वल्पाङ्गश्च बिलाह्वयः ।
स रुच्यो मधुरो बल्यो गुणाढ्यो वीर्यपुष्टिदः ॥
वालिक ।
यः स्थूलाङ्गो महिषाकारको यस्तालुस्थाने क्षीरजाभां दधाति ।
शल्कं स्थूलं यश्च चारूपकोऽसौ दत्ते वीर्यं दीपनो वृष्यदायी ॥
पाउस ।
वितस्तिमानः श्वेताङ्गः सूक्ष्मशल्कः स दीपनः ।
अउमोसाह्वयो मत्स्यो बलवीर्याङ्गपुष्टिदः ॥
भाउमास ।
विवृत्ताङ्गोऽल्पकृष्णाङ्गः शल्की वर्णवसामिषः ।
दीपनः पाचनः पथ्यो वृष्योऽसौ बलपुष्टिदः ॥
कानवसा ।
इति द्वादशभेदानां गुणा रूपं च वर्णितम् ।
तथा—
निश्र्शल्का निन्दिता मत्स्याः सर्वे रुरुकुता हिताः ॥
१. Bh. ताम्बुदमासे ।
२. $T_1$, $T_2$. यस्य ।
३. Bh. ऽल्पवशाङ्गः ।
प्रथमपरिच्छेदः ।
बलपुष्टिकरा वीर्यवपुःस्थैर्यविवर्धनाः ॥
अथ स्थानविशेषेण गुणाः ।
क्षाराम्बुमत्स्या गुरवो विदाहिनो
विष्टम्भदास्ते लवणार्णवादिजाः ।
ह्रदकुल्याजलनिर्झरतडागवापीजलेषु ये मत्स्याः ।
तेऽतिजडा नादेया यथोत्तरं लघुतरास्तु नादेयाः ॥
सुषेणः —
जडास्तटाकसम्भूताः स्निग्धाः स्वादुरसाः स्मृताः ॥
कौपा वृष्याः श्लेष्मलाः संप्रदिष्टाः गुल्मार्शोलानाहकुष्ठप्रदाः स्युः ।
तडागवनिर्झरजाश्च मेध्याश्चक्षुस्स्थिरायुष्यबलप्रदाश्च ।
महाह्रदेषु बलिनः स्वाल्पाम्भस्यबला मताः ।
सामुद्रो गुरुष्णरुक्षमधुरः स्याच्छ्लेष्मलो वातहा
स्यात्स्नेहाभिविवर्धनो नबलकरश्चाध्मानविष्टम्भकृत् ।
पित्तोद्रेककफात्ययेषु विहितो मत्स्योऽतिहृद्यस्सदा
विष्टम्भं जनयेच्च शीतपवनं व्यापादयत्यग्रतः ॥
तथा —
ऋतुप्रभौ निर्झरेषु प्रजाता मत्स्या हिता ग्रीष्मकाले तु चौण्ड्याः ।
तडागजाः प्रावृषि सर्व एव स्निग्धा बलिष्ठाश्च सृजन्ति दोषान् ॥
शरहृतौ निर्झरजाश्च कूपजाता हिमतौ शिशिरे च शस्ताः ॥
रसरक्तादिधातूनां गुरु स्यादुत्तरोत्तरम् ।
मैदं कटियङ्कन्मांसं वार्षणं चातिमात्रतः ॥
१. T1. न ग्राह्याः ।
२. T2. has the explanation नादेया न ग्राह्याः । वाहेया नद्युत्पन्नाः ।
भोजनकुतूहले
... स हतं सर्वं बलवीर्यविवर्धनम् ।
भृष्टमांसं विदाहि स्यादस्रवातादिदोषकृत् ।
पूर्वार्धं पुरुषस्य चेद् गुरुतरं पश्चार्धभागः स्त्रियाः
स्त्री गुर्वी किल गुर्विणी यदि तथा योषित् तुस्या लघुः
पक्षी चेत् पुरुषो लघुः स्फिकशिरःस्कन्धांसपृष्ठे क्रमा-
न्मांसं यच्च कटिस्थितं तदखिलं गुर्वेव सर्वात्मनाम् ॥
इति मांसप्रकरणम् ।
अथ जलप्रकरणम् ।
तत्र जलसामान्यगुणाः -
पानीयं मधुरं सितं रुचिकरं तृष्णाविशोषापहं
मोहभ्रान्तिनिवारणं च कुरुते भुक्तान्नपक्तिं सदा ।
निद्रालस्यनिवारणं विषहरं स्रोतस्सुमन्तर्पणं
पीतं धीबलवीर्यपुष्टिजननं चाणाङ्गपुष्टिप्रदम् ॥
१. Bh. adds before this :
मत्स्यगर्भः परं वृष्यः स्निग्धः श्लेष्मकरो गुरुः ।
बृंहणो बलदः स्निग्धस्तद्वन्मकरमादिशेत् ॥
मकरसुसर इति भाषायाम् ।
कणपो गूढपात् कूर्मः कमठो दृढपृष्ठकः ।
कच्छपो बलदस्तस्निग्धो वातजित् पुंस्त्वकारकः ॥
कासवाचे
मण्डूको बृंहणो वृष्यश्शीतलोऽसृग्गदापहः ॥
बेंडुकाचे
सर्पाणां स्नेहनं मांसं चक्षुष्यं बृंहणं गुरु ।
दूषीविषकिमिहरं मेधाग्निवलवर्धनम् ॥
सर्पमांस ॥
२. $T_2$, $P_1$, $P_2$. add तथा गुर्विणी before इति मांसप्रकरणम्
३. $J_1$ मधुरं हिमं च रुचिकं ॥ Bh, मधुरं हितं रुचिकरम् ॥
अपि च —
पानीयं श्रमनाशनं क्लमहरं मूर्च्छापिपासापहं
तन्द्राच्छर्दिविनाशनं बलकरं निद्राहरं तर्पणम्
हृद्यं गुप्तसरं ह्यजीर्णशमकं नित्यं हितं शीतलं
लघ्वच्छं रसकारणं निगदितं पीयूषवज्जीवनम् ॥
अथ पानीयभेदाः —
पानीयं मुनिभिः प्रोक्तं दिव्यं भौममिति द्विधा ।
तत्र --
दिव्यं चतुर्विधं प्रोक्तं धारजं करकाभवम् ।
तौषारं च तथा हैमं तेषु धारं गुणाधिकम् ॥
भौममम्भो निगदितं प्रथमं त्रिविधं बुधैः ।
जाङ्गलं परमानूपं ततः साधारणं क्रमात् ॥
तदपि नादेयादिभेदेन बहुविधं वक्ष्यते । धारजं यथा —
धाराभिः पतितं तोयं गृहीतं स्फीतवाससा ।
शिलायां वा सुधायां वा धौतायां पतितं च यत् ॥
सौवर्णे राजते ताम्रे स्फाटिके काचनिर्मिते ।
भाजने मृण्मये वापि स्थापितं धारमुच्यते ॥
धारं नीरं त्रिदोषघ्नमनिर्देश्यरसं लघु ।
सौम्यं रसायनं बल्यं तर्पणं हृादि जीवनम् ॥
पाचनं मतिकृन्मूर्च्छातन्द्रादाहश्रमक्लमान् ।
तृष्णां हरति तत्पथ्यं विशेषात् प्रावृषि स्मृतम् ॥
धारजमपि द्विविधम् । गाङ्गं सामुद्रं च । तत्र गाङ्गं यथा —
आकाशगङ्गासम्बन्धि जलमादाय दिग्गजाः ।
मेघैरन्तरिता दृष्टिं कुर्वन्तीति वचः सताम् ॥
गाङ्गमाश्वयुजे मासि प्रायो वर्षति वारिदः ।
१. Bh. omits अपि च ... ... ... तथा line 16 page 18
1081
१७८ भोजनकुतूहले
तत्परीक्षा च --
स्थापितं हेमने पात्रे राजते मृण्मयेऽपि वा
शाल्योदनं येन संसिक्तं भवेदक्लेदवर्णवत् ॥
तद्ग्राह्यं सर्वदोषघ्नं ज्ञेयं सामुद्रमन्यथा ।
तत्तु सक्षारलवणं गुरुदृष्टिबलापहम् ॥
विस्रं च दोषलं तीक्ष्णं सर्वकर्मसु गर्हितम् ।
सामुद्रं त्वाश्विने मासि गुणैर्गाङ्गवदादिशेत् ॥
यतोऽगस्त्यस्य दिव्येनैरुदयात्सकलं जलम् ।
निर्मलं निर्विषं स्वादु शुक्लं स्याददोषलम् ॥
उक्तं च —
फूत्कारविषवातेन नागानां व्योमचारिणाम् ।
वर्षासु सविषं तोयं दिव्यमप्याश्विनं विना ॥ इति ॥
अथानातर्वस्य गुणाः —
अनार्तवं प्रमुञ्चन्ति वारि वारिधरास्तु यत् ।
तत् त्रिदोषाय सर्वेषां देहिनां परिकीर्तितम् ॥
अन्यत्र तु —
शरत्पयोदनिर्मुक्तं महावैडूर्यसन्निभम् ।
सर्वदोषहरं स्वादु दिव्यमित्युच्यते जलम् ॥
प्रावृड्जलदनिर्मुक्तमव्यक्तस्वादुलक्षणम् ।
वारि स्फाटिकसङ्काशमान्तरिक्षमिति स्मृतम् ॥
इत्युक्तम् । कैरकाभवं यथा —
दिव्यं वार्यभिसंयोगात् संहताः खात्पतन्ति याः ।
पाषाणखण्डवच्चापः ताः कारकयोऽमृतोपमाः ॥
१ J1. शाल्यन्नम् ।
४, J1. मृध्यं च ।
.. J2. करकार्थ यथा — दिव्यं वार्येति ।
प्रथमपरिच्छेदः । १७९
करकाजं जलं रूक्षं विशदं गुरु च स्थिरम् ।
दारुणं शीतलं सान्द्रं पित्तहत् कफवातकृत् ॥
तौषारं यथा—
अपि नद्यः समुद्रान्तर्बहिरापश्च तद्भवाः ।
धूमावयवनिर्मुक्तास्तुषाराख्यास्तु ताः स्मृताः ।
अपथ्याः प्राणिनां प्रायो भूरुहाणां तु ता हिताः ।
तुषाराम्बु हिमं रूक्षं स्वाद्वातलमपिच्छलम् ॥
कफोत्थस्तम्भकण्ठार्तिमेदोमन्दादिरोगनुत् ।
हैमं यथा —
हिमवच्छिखरादिभ्यो द्रवीभूयाभिवर्षति ।
यत्तदेव हिमं हैमं जलमाहुर्मनीषिणः ॥
हिमाम्बु शीतं पिच्छलं गुरु वातविवर्धनम् ॥
अन्यत्र तु —
और्वानलधूमेरितमम्बु समुद्रस्य यद् घनीभूतम् ।
पवनानीतमुदीच्यां तद्धिममिति कथ्यते मुनिभिः ॥ इति ।
हिमं तु शीतलं रूक्षं दारुणं सूक्ष्ममित्यपि ।
न तद् दूषयते वातं न च पित्तं न वा कफम् ॥
इति दिव्यम् ।
अथ भौमम् । तत्र जाङ्गलं यथा —
अल्पोदकोऽल्पवृक्षश्च पित्तरक्तामयान्वितः ।
ज्ञातव्यो जाङ्गलो देशस्तत्रत्यं जाङ्गलं जलम् ॥
जाङ्गलं सलिलं रूक्षं लवणं लघु तत्कटु ।
वह्निकृत्कफकृत्पथ्यं विकारान् कुरुते बहून् ॥
आनूपं यथा —
बह्वम्बुर्बहुवृक्षश्च वातश्लेष्मामयान्वितः ।
देशोऽनूप इति ख्यात आनूपं तद्भवं जलम् ॥