सामग्री पर जाएँ
सर्वकोश
भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)

भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)

Bhojanakutuhala of Raghunatha Navahasta

रघुनाथ नवहस्त (सम्पादक: सूरनाड कुंजन पिल्लै) द्वारा

DevanagariSanskritpublished358 पृष्ठ

पृष्ठ 172, कुल 358 में से

संदर्भ में पढ़ें
पृष्ठ 172

प्रथमपरिच्छेदः । १५१
[१]दिलक्षणमाह • केयदेवः —
इक्षो रसस्य संमलं त्र्यंशार्धाङ्घ्रिमलामल।
विकाराः फाणितगुडमच्छण्डीखण्डशर्कराः ॥
इति । २गुणाश्च —
मच्छण्डी ग्राहिणी बल्या कषाया वातजिद् गुरुः
खण्डं गुरु सरं रुच्यं वातघ्नं बलपुष्टिदम् ॥
सितोपला सरा गुर्वी वातघ्नी न कफप्रदा ॥
इति ।
३वृष्या क्षतक्षीणहिता रक्तपित्तानिलापहाः ।
मच्छण्डिकाखण्डसिताः क्रमेण गुणवत्तरोः ॥
१. J1. omits मत्स्यण्डिकादि .................... न कफप्रदा ॥
इति । T1. has this portion after the first line of the verse
below : वृष्या क्षतक्षीणहिता etc. This transposition has been
effected for the sake of the continuity of the verse as it occurs
in the Aṣṭāṅgahṛdaya from which it forms a quotation.
T2. omits this introduction and the quotation following.
२. T2. अन्यत्र च मत्स्यण्ड्यादीनां पृथग्गुणाः ।
३. T2. introduces this verse with: अथ मत्स्यण्डिकादीनां त्रयाणां
गुणमाह वाग्भटः —. P1. P2. omit this line.
४. J1. The revisor adds in the margin, the following
धन्वन्तरिः —
शर्करोक्ता तु मीनाण्डा श्वेता मत्स्यण्डिका मता ।
५. T2. adds the explanation: क्षतक्षीणयोर्हिताः क्रमेणेति ।
क्रमेणेति मत्स्यण्डिकायाः खण्डो गुणवान्, खण्डात् सिता ।
उक्तं च सुश्रुतेन —
यथा यथैषां वैमल्यं मधुरत्वं तथा तथा ।
स्नेहगौरवशैत्यानि सरत्वं च तथा तथा ॥ इति ।