भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)
Bhojanakutuhala of Raghunatha Navahasta
रघुनाथ नवहस्त (सम्पादक: सूरनाड कुंजन पिल्लै) द्वारा
पृष्ठ 182, कुल 358 में से
संदर्भ में पढ़ेंप्रथमपरिच्छेदः । १७१
तित्तलप्रभवं मांसं लघु हृद्यं बलंप्रदम् ॥ चिपुकस्य ।
वराहमांसं गुरु वातहारि
वृष्यं बलस्वेदकरं वनोत्थम् ।
तस्माद् गुरु ग्रामवराहमांसं
तनोति मेदोबलवीर्य्यवृद्धिम् ॥
छागमांसं गुरु स्निग्धं नातिशीतं रुचिप्रदम् ।
निर्दोषं वातपित्तघ्नं मधुरं बलपुष्टिदम् ॥
च्छागपोतभवं मांसं लघु शीतं प्रमेहजित् ।
ईषल्लघु बलं दत्ते तदेव तृणचारिणः ॥
भारङ्गस्यापि मांसं तु गुरु स्निग्धं कफप्रदम् ।
बल्यं वृष्यकरं पुष्टिप्रदं वातकरं परम् ॥ भारसिङ्ग ।
आविकं मधुरं मांसं किञ्चिद्गुरु बलप्रदम् ।
बृंहणं कफकृद् वृष्यं परं विष्टम्भि शीतलम् ॥
गोधामांसं तु वातघ्नं श्वासकासहरं च तत् । घोरफड ।
शशमांसं त्रिदोषघ्नं दीपनं श्वासकासनुत् ।
पिच्छिलं नाकुलं मांसं वातकृच्छ्लेष्मपित्तकृत् ॥ मुंगुसे ।
आरण्यकुक्कुटद्रव्यं हृद्यं श्लेष्महरं लघु ।
ग्राम्यस्तु श्लेष्मलो गुरुः ।
हारीतं पललं स्वादु कफपित्तास्रदोषजित् ।
वर्धनं वीर्यबलयोस्तद्वेव कपोतजम् ॥
१. Bh. adds :—
कुक्कुटो बृंहणः स्निग्धो वीर्योष्णोऽनिलजिद् गुरुः ।
चक्षुष्यः शुक्रकफहृद्धन्यो हृद्यः कफान्तकृत् ॥
पानीयकुक्कुटः स्निग्धो बृंहणः श्लेष्मलो गुरुः ।