सामग्री पर जाएँ
सर्वकोश
भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)

भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)

Bhojanakutuhala of Raghunatha Navahasta

रघुनाथ नवहस्त (सम्पादक: सूरनाड कुंजन पिल्लै) द्वारा

DevanagariSanskritpublished358 पृष्ठ

पृष्ठ 189, कुल 358 में से

संदर्भ में पढ़ें
पृष्ठ 189

१७८ भोजनकुतूहले
तत्परीक्षा च --
स्थापितं हेमने पात्रे राजते मृण्मयेऽपि वा
शाल्योदनं येन संसिक्तं भवेदक्लेदवर्णवत् ॥
तद्ग्राह्यं सर्वदोषघ्नं ज्ञेयं सामुद्रमन्यथा ।
तत्तु सक्षारलवणं गुरुदृष्टिबलापहम् ॥
विस्रं च दोषलं तीक्ष्णं सर्वकर्मसु गर्हितम् ।
सामुद्रं त्वाश्विने मासि गुणैर्गाङ्गवदादिशेत् ॥
यतोऽगस्त्यस्य दिव्येनैरुदयात्सकलं जलम् ।
निर्मलं निर्विषं स्वादु शुक्लं स्याददोषलम् ॥
उक्तं च —
फूत्कारविषवातेन नागानां व्योमचारिणाम् ।
वर्षासु सविषं तोयं दिव्यमप्याश्विनं विना ॥ इति ॥
अथानातर्वस्य गुणाः —
अनार्तवं प्रमुञ्चन्ति वारि वारिधरास्तु यत् ।
तत् त्रिदोषाय सर्वेषां देहिनां परिकीर्तितम् ॥
अन्यत्र तु —
शरत्पयोदनिर्मुक्तं महावैडूर्यसन्निभम् ।
सर्वदोषहरं स्वादु दिव्यमित्युच्यते जलम् ॥
प्रावृड्जलदनिर्मुक्तमव्यक्तस्वादुलक्षणम् ।
वारि स्फाटिकसङ्काशमान्तरिक्षमिति स्मृतम् ॥
इत्युक्तम् । कैरकाभवं यथा —
दिव्यं वार्यभिसंयोगात् संहताः खात्पतन्ति याः ।
पाषाणखण्डवच्चापः ताः कारकयोऽमृतोपमाः ॥
१ J1. शाल्यन्नम् ।
४, J1. मृध्यं च ।
.. J2. करकार्थ यथा — दिव्यं वार्येति ।