सामग्री पर जाएँ
सर्वकोश
भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)

भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)

Bhojanakutuhala of Raghunatha Navahasta

रघुनाथ नवहस्त (सम्पादक: सूरनाड कुंजन पिल्लै) द्वारा

DevanagariSanskritpublished358 पृष्ठ

पृष्ठ 180, कुल 358 में से

संदर्भ में पढ़ें
पृष्ठ 180

मद्यं नवं सर्वविकारहेतु सर्वं च वातादिकदोषदायि
जीर्णं तु सर्वं सकलामयघ्नं वृष्यं च सन्दीपनमुक्तमे
सामान्यतः ।
दीपनं रोचनं मद्यं तीक्ष्णोष्णं तुष्टिपुष्टिदम्
सुस्वादु तिक्तकटुकमम्लपाकरसं सरम् ॥
सकषायं स्वरारोग्यप्रतिभावर्णकृल्लघु।
नष्टनिद्रातिनिद्रेभ्यो हितं पित्तास्रदूषणम् ॥
कृशस्थूलहितं रूक्षं सूक्ष्मं स्रोतोविशोधनम् ।
वातश्लेष्महरं युक्त्या पीतं विषवदन्यथा ॥
उक्तं च वैद्येन—
मद्यं न पेयं वा पेयं स्वल्पं सुबहुवारि वा ।
अन्यथा शोषशैथिल्यदाहमोहान् करोति (च) ॥
द्राक्षेक्षवः सखर्जूरः शालिपिष्टं यवस्य वा ।
पञ्च मद्याकराः श्रेष्ठाः द्राक्षा तेषां विशिष्यते ।
अन्येऽपि मद्यभेदास्तत्प्रकाराश्च सर्वानुपयोगात् ग्रन्थगौरवभयाच्चेह
नोक्ताः । यत उक्तम् —
मद्यप्रयोगं कुर्वीत शूद्रादिषु महार्तिषु ॥
इति मद्यप्रकरणम् ।
अथ मांसप्रकरणम् ।
तच्चिविधं; भूचरखेचराप्चरभेदात् । तेषां क्रमेण गुणाः —
मांसं खड्गमृगोत्थं तु बलकृद् बृंहणं गुरु ।
गवयस्यामिषं बल्यं रुच्यं वृष्यं च बृंहणम् ॥
१. T1; T2. omit उक्तं च वैद्येन ।
२. T1. has also the alternative reading द्राक्षेक्षुमद्यखर्जूराः ।