सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

Ashvavaidyaka of Jayadatta Suri with Commentary

जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा

DevanagariHindipublished522 पृष्ठ

२ अध्यायः ।] अश्ववयस्कम् । १५
मुष्कौ च कटिसन्धिश्च ततो विन्द्यात् परं बुधः ।
अधस्तात् कटिसन्धेस्तु ऊरुसन्धिरुदाहृतः ॥ २९ ॥
सक्थिनो फलसन्धिस्तु ऊरुपान्ताभिधानकः १ ।
ततः स्फुरं २ विजानीयात् तस्याधो मन्दिरं भवेत् ॥ ३० ।
किणञ्चैव ततो विन्द्यात् मन्दिराभ्याससंस्थितम् ।
ततःपरं विजानीयात् कलां कूर्चञ्च कुष्ठिकम् ॥ ३१ ॥
खुरान्तसङ्गं ३ मण्डूकं ततो विन्द्याद्विचक्षणः ।
अङ्कजङ्घाद्वयञ्चैव ४ वक्षोग्रीवाशिरोमुखम् ॥ ३२ ॥
३० । फलसन्धिः कोषसन्धिप्रदेशः, उर्व्वोः उपान्ताभिधानकः
उपान्तनामकः यः प्रदेश इति यावत् । ते सक्थिनी ॥ ततः सक्थ्यन-
न्तरं यः प्रदेशस्तं स्फुरं विजानीयात् ॥
३२ । अङ्केति । अत्र अङ्गात् मुखान्ताः प्रदेशाः सम्भूय पूर्वकायः
कथित इत्यर्थः । केवलं पृष्ठदेशो मध्यमकायः, तथा कटिदेशात्
खुरान्तः अपरो भागः पश्चिमः पश्चात्कयो मतः ॥
१ । ऊरुपादाभिधायकः । २ । खः ।
२ । खुरम् । २ । खः ।
३ । खुरस्तलं च । २ । खः ।
४ । अंगकक्षाद्वयम् । २ । गः : अथोजङ्घाद्वयम् । २ । खः ।

१६ अश्ववैद्यकम्। [२ अध्यायः।
पूर्वकायः१ समुद्दिष्टः पृष्ठदेशस्तु मध्यमः ।
आकटेः पश्चिमोभागः२ खुरान्तश्चापरोऽमतः ।
इति प्रदेशा विख्याताः पूर्वशास्त्रानुसारतः ॥ ३३ ॥
इति प्रदेशाध्यायः ।
१। पूर्व्वकायात् । २ । खः।
२। पश्चिमे भागे । २ । खः।

[ १७ ]
अथ
तृतीयोऽध्यायः ।
सर्व्वलक्षणः ।
अङ्गलक्षणानि ।
अतःपरं प्रवक्ष्यामि वाह्यानां लक्षणं स्मृतम् ।
लक्षणं शृणु वाह्यानां मुनिना यत्तु भाषितम् ॥ १ ॥
सर्व्वदोषहरं नित्यं नृपाणां जयवर्द्धनम् ।
अशुभैर्लक्षणैर्युक्ता हया न ग्रहणोचिताः ॥ २ ॥
अङ्गे लक्षणमेवादौ तेषां वक्ष्यामि देहजम् ।
ओष्ठयोः सृकणोश्चैव जिह्वायां दशनेषु च ॥ ३ ॥
वक्त्रे तालुनि नासायां गण्डयोर्नेत्रयोस्तथा ।
ललाटे मस्तके चैव केशे कर्णपुटे तथा ॥ ४ ॥
ग्रीवायां केशरे चापि स्कन्धे वक्षसि बाहुके ।
जंघायां जानुनोश्चाधः¹ कूर्चे पादे तथैव च ॥ ५ ॥
१ । अशुभैर्लक्षणैर्वक्ष्यमाणैरित्यर्थः ॥
३ । लक्षणं शुभाशुभलक्षणं ओष्ठादीनामित्यर्थः ॥
१ । जानुनोश्चापि । २ । कः ।
3

' + 'T' = 'आ'.
In line 9:
The first character has: a left hook, then a loop... wait, it's आ!
Wait, what about ओष्ठौ?
"आत्तौ पूजितावोष्ठौ" -> wait, could it be:
रक्तौ पूजितावोष्ठौ?
Wait, why would it be रक्तौ?
Look at line 10: "सृक्कणोर्मृदुता शस्ता जिह्वायां रक्तता तथा ॥ १० ॥"
And about lips (ओष्ठ): what are the auspicious qualities of lips in Shalihotra / Ashvavaidyaka?
Let's recall or analyze:
"बालहीनौ मृदुत्वचौ" - hairless and soft-skinned.
What about the first two words?
"... पूजितावोष्ठौ" (auspicious are the two lips).
What kind of lips?
Could it be वृत्तौ?
Look at the first letter: वृ? No, it has ा (aa-matra)!
Wait, could it be ताम्रौ?
No, it ends in त्तो or त्तौ.
Wait, look at आ and त्तौ:
Could it be आत्तौ?
Wait, what if it's श्लाघ्यौ? No.
What if it's आत्तौ?
Wait

३ अध्यायः ।] अश्ववैद्यकम् । १६
अतश्चान्यद्धि¹ दोषाय तन्वी दीर्घा च सा शुभा ।
घनाः² स्निग्धाः सुबद्धाश्च समा दन्ताः सुशोभनाः ॥ ११ ॥
षट्संख्येष्वधरौष्ठे च तेषु व्यञ्जनसम्भवः ।
आननं तुङ्गघोणञ्च³ निर्मांसं प्रियदर्शनम् ॥ १२ ॥
सुगन्धि पूजितं वक्त्रं विपरीतं विगर्हितम् ।
तालु रक्तं प्रशस्तञ्च सुपुटे चैव नासिके ॥ १३ ॥
नात्युल्वणौ समौ गण्डौ⁴ वाहानां कीर्त्तितौ शुभौ ।
अत्यन्तं निर्गते चैव सुबद्धे नैव चाविले ॥ १४ ॥
११ । घनाः सान्द्राः । स्निग्धा नतु रूक्षा इत्यर्थः । सुबद्धाः सुघ-
टिताः ॥
१२ । तेषु दन्तेषु । अधरौष्ठे नीचौष्ठे षट्संख्येषु षट्स्वित्यर्थः ।
व्यञ्जनसम्भवः प्रकाशम्भावनेत्यर्थः । अङ्कुरोत्पत्तिर्वा ॥ प्रियदर्शनं
प्रशंसनीयमित्यर्थः ॥ तुङ्गघोणं उच्चनासिकम् । निर्मांसं नातिमां-
सलमित्यर्थः ॥
१३ । वक्त्रं मुखगह्वर इत्यर्थः । सुपुटे इति सुशोभनावरणयुक्ते
इत्यर्थः । त्रिषु पात्रं पुटो वाटीत्यमरः ॥
१४ । उल्वणौ उन्नतौ नात्युल्वणौ ईषङ्कोन्नतिभावावित्यर्थः ॥
१ । अतोऽन्यत्वं च । २ । कः ।
२ । धन्याः । २ । गः ।
३ । आयतं तुङ्गघोणञ्च निर्मांसं परिकीर्त्तितम् । २ । खः ।
४ । नातितनू समौ गण्डौ । खः ।

२० अश्ववैद्यकम् । [३ अध्यायः ।
प्रशस्ते वाजिनां नेत्रे मध्यात्तेऽमलतारके ।
स्निग्धायते विशाले च श्लिष्टे मधुनिभेक्षणे ॥ १५ ॥
स्वर्णाप्रभे विशाले च शस्ते वाहस्य लोचने ।
सावर्त्तञ्चाप्यनिस्रञ्च विशालञ्चैव वाजिनाम् ॥ १६ ॥
ललाटं पूजितं प्राहुर्मुनयः शास्त्रकोविदः ।
शिरः समं तथा वृत्तमावर्त्तद्वयभूषितम् ॥ १७ ॥
केशाश्च मृदवः स्निग्धा वहवश्चैव पूजिताः ।
ह्रस्वता१ कर्णयोश्चैव तीक्ष्णता तनुता तथा ॥ १८॥
अदीर्घरोमता चैव प्रशस्तेति२ प्रकीर्त्तिता ।
सुवृत्तां कुञ्चिताञ्चैव धन्यां ग्रीवां विदुर्बुधाः ॥ १९ ॥
केशराश्च जटाहीना मृदुश्चैव प्रशस्यते ।
सुबद्धः सुदृढश्चैव स्कन्धो वाहस्य पूजितः ॥ २० ॥
प्रशस्तं विपुलं वक्षो निर्गतं विशिरञ्च यत्३ ।
ऋजुवृक्षसमौ४ बाहू गूढं जानु प्रशस्यते ॥ २१ ॥
१८ । स्निग्धाश्चिक्कणाः ॥ ह्रस्वता आकारतः तीक्ष्णता सूच्यद्-
भावः दैर्घ्येण । तनुता वेधेन चेत्यर्थः ॥
२० । सुबद्धः सुघटितः ।
२१ । प्रशस्तं कवाटविस्तृतं । निर्गतं वहिःस्फीतमिव स्थित-
मित्यर्थः ॥
१ । ऋजुता । खः । ३ । तत् । खः ।
२ । प्रशस्तो विप्रकीर्त्तितः । खः । ४ । उरुवृत्तसमौ । खः ।

३ अध्यायः ।] अश्ववैद्यकम् । २१
अवक्रा मांसहीना च वाजिजंघा शुभा स्मृता ।
सुवृत्तं सुसमञ्चैव नातिस्तब्धं नचोन्नतम्¹ ॥ २२ ॥
कूर्चमेवंविधं विद्याद् ग्रन्थिव्रण²विवर्जितम् ।
दृढमण्डिकिकायुक्तो वर्त्तुलः श्लिष्टसन्धिकः ॥ २३ ॥
खुरः खरखुराकारः प्रशस्तः समुदाहृतः ।
पार्श्वे चैव समे वृत्ते ऊर्द्धं मांसोपशोभिते ॥ २४ ॥
अविलम्बि सुवृत्तञ्च उदरञ्चातिपूजितम् ।
नातिदीर्घं समं पृष्ठं किञ्चिच विनतं शुभम् ॥ २५ ॥
सुवृत्ता चैव पीना च कटिर्धन्या प्रकीर्त्तिता ।
मृदुस्निग्धायतैर्युक्तं बालैः पुच्छं प्रशस्यते ॥ २६ ॥
वृषणौ च समौ वृत्तौ ईषल्लम्बावलोमशौ ।
कृष्णवर्णविहोनन्तु ह्रस्वं मेहनमीष्यते ॥ २७ ॥
आनुपूर्व्यायतं पीनं शोभितञ्चोरुद्वयम् ।
पूर्वजंघेव जंघादि खुरान्तञ्चापि पश्चिमम् ।
शालिहोत्रादिभिः प्रोक्तं मुनिभिः सर्ववेदिभिः ॥ २८ ॥
२५ । न लम्बमानम् ॥
२६ । पीना मांसला ॥
२८ । पूर्वजंघेव पश्चिमजंघादि खुरान्तमपि लक्षणयुक्तं प्रोक्तम् ॥
१ । शुभं स्मृतं सुवृत्तञ्च समञ्चेव नतोन्नतम् । खः ।
२ । ग्रन्थिव्रणविवर्जितम् । कः. खः ।

२२ अश्ववैद्यकम्। [३ अध्यायः।
आवर्त्ताः।
अथातः संप्रवक्ष्यामि आवर्त्तानां विनिश्चयम्।
शुभाशुभविवेकाय यथा शास्त्रे व्यवस्थितम् ॥ २९ ॥
विंशतिस्तु शुभाः प्रोक्ताः षट्सप्तत्यधिकाः स्मृताः।
उत्तरोष्ठं प्रपाणं स्यात्तथावर्त्तः शुभावहाः ॥ ३० ॥
सृक्कणोश्च तथा प्रोक्ताः सर्वकामफलप्रदाः।
त्रयश्चैवाथ चत्वारो वाजिनो यस्य रोमजाः ॥ ३१ ॥
३०। आवर्त्ताः शुभाशुभभेदेन साकल्येन षण्णवतिप्रकाराः। तेषु
विंशतिः शुभाः। प्रथमं प्रपाणादिषु शुभप्रदेशेषु तानेव वर्णयति।
उत्तरोष्ठमित्यादिभिः। शुभावर्त्तस्थानानि तु नकुलस्त्रयोदशविधा-
न्त्याह। "ललाटे मस्तके चैव ग्रीवायां हृदये तथा। पादे पच्चे
मणीबन्धे नाभिदेशे विशेषतः॥ स्कन्धे पार्श्वे गले वक्त्रे कुचौ रन्ध्रे
त्रिके तथा। आद्यास्त्रयोदशावर्त्ता विज्ञेया वाजिपण्डितैः" इति ॥
अत्र शुक्राचार्य्यः "गलमध्ये पृष्ठमध्ये उत्तरोष्ठेऽधरे तथा। कर्णने-
त्रान्तरे वामकुचौ चैवतु पार्श्वयोः। ऊरुषु च शुभावर्त्तौ वाजिना-
मग्रपादयोः । आवर्त्तौ सान्तरौ भाले सूर्य्यचन्द्रौ शुभप्रदौ" इति।
ये प्रपाणगलकर्णसंस्थिताः पृष्ठमध्यनयनोपरिस्थितः। ओष्ठसक्थिभुज-
कुक्षिपाश्र्वगास्ते ललाटसहिताः सुशोभना इति बृहत्संहितायाम् ॥
एवमशुभदेशांश्च अनन्तरं अशुभावर्त्तकथनप्रस्तावे कथयिष्यति ॥
३१। अथ यस्य वाजिनः सृक्कणोः त्रयश्चत्वारो वा रोमजा
१। शास्त्र । कः ।

द्वौ वा ललाटजौ' यस्य सतु धन्यतमः स्मृतः ।
आनुपूर्व्या स्थिता चोर्द्धं ललाटे रोमजास्त्रयः ॥ ३२ ॥
निःश्रेणी नाम सा ख्याता भर्तुः सर्वार्थसाधिनी ।
शिरःकेशान्तयोर्मध्ये ध्रुवो नामाभिधीयते ॥ ३३ ॥
तत्रावर्त्तः स्मृतोऽश्वस्य भर्तुर्जयविवर्द्धनः ।
घण्टाबन्धसमीपस्थो निगालः कीर्त्तितो बुधैः ॥ ३४ ॥
तस्मिन् देवमणिर्नाम रोमजः शुभकृत् स्मृतः ।
कर्णमूले तथा वाह्वोः केशान्ते मस्तके तथा ॥ ३५ ॥
आवर्त्ताः सन्तीतिशेषः । ते सर्वकामफलप्रदाः प्रोक्ताः उक्तञ्च अग्नि-
पुराणे । “सकृष्णाक्ष ललाटे च कर्णमूले निगालके । बाहुमूले गले
श्रेष्ठा आवर्त्ताः” इति ॥
३३ । ललाटे आनुपूर्व्या त्रयो रोमजाः निःश्रेणी नाम्ना कथ्यन्ते
इति फलितार्थः । अत्र शुक एवमाह । “आवर्त्तचितयं भाले शुभ-
ञ्चोर्द्धन्तु सान्तरं । अशुभञ्चातिसंलग्नमावर्त्तचितयं तथा ॥ त्रिकोण-
चितयं भाले आवर्त्तानान्तु दुःखदम्”—इति । अत्र नकुलो ललाटस्था-
वर्त्तत्रयस्य त्रिकूट इति नाम ददौ । “त्रयो यस्य ललाटस्था आवर्त्ता
अधरोत्तराः । त्रिकूटः स परिज्ञेयः वाजिहृद्विकरः परः”—इति ॥
३४-३५ । घण्टाबन्धेति । निगालस्थावर्त्तस्य देवमणित्वं नकुलो-
ऽप्याह यथा । निगालस्थो य आवर्त्तः स हि देवमणिः स्मृत इति ॥
१। ललाटतः। गः। २। स्थितः। ख.।

२४ अश्ववैद्यकम् । [३ अध्यायः ।]
आवर्त्ताः पूजिता नित्यं विशेषेण तु मस्तके ।
आवर्त्ता यस्य चत्वारो वाजिनो वक्षसि स्थिताः ॥ ३६॥
एकः कण्ठे भवेत् स्पष्टः स धन्यः सर्वकामदः ।
रन्ध्रे चैव यदा भर्तुरीप्सितार्थ¹प्रदो भवेत् ॥ ३७॥
उपरन्ध्रे भवेच्चैव² रोमजश्चातिपूजितः ।
शङ्खचक्रगदावज्र³शुक्तिपद्मो⁴पमाश्च ये ॥ ३८॥
३६ । अत्र कर्णमूलबाहुकेशान्तेभ्यो मस्तकावर्त्तस्य विशेषपूजितत्वं
गम्यते कर्णमूलावर्त्तस्य शुभत्वं नकुलशुक्रावाहतुः । “कर्णमूले यदा-
वर्त्तस्तन्मध्येच तथा परः । विजयाख्यावुभौ ज्ञेयौ युद्धकाले जयप्रदौ”
इति ॥ कण्ठजावर्त्तस्य च नकुलशुकौ चिन्तामणिरिति नाम ददतुः ।
३७ । “कण्ठे यस्य महावर्त्त एकोऽश्वस्य प्रजायते । चिन्तामणिः
स विज्ञेयश्चिन्तितार्थविवृद्धिदः” इति ॥ रन्ध्रे कुक्षिविवरे । उपरन्ध्रे
रन्ध्रोर्द्धस्थे प्रदेशे इत्यर्थः । एते प्रपाणसृक्क ललाटकर्णनिगालबाहु-
केशान्तमस्तकवक्षःकण्ठरन्ध्रोपरन्ध्रेषु आवर्त्ताः प्रशस्ताः कथिताः ॥
३८ । शङ्खेत्यादि । अत्र शुभदेशजानां विशेषशुभत्वनिर्देशात्
तेषां शङ्खाद्यानां स्वभावशुभत्वं गम्यते ॥ “शङ्खचक्रगदापद्मवेदि-
स्वस्तिकसन्निभः । प्रासादतोरणधनुःसुपूर्णकलशाकृतिः ॥ स्वस्तिक-
शृङ्गीनखड्गश्रीवत्साभः शुभो भ्रमः” इति शुकः ॥
१ । शंसितार्थप्रदः । खः । ३ । पद्म । खः ।
२ । उपरन्ध्रोद्भवश्चैव । खः । ४ । वज्र । खः ।

. It clearly is "शङ्क". Let's inspect: "प्रोथशङ्ककटिवस्तिजानुनि" - yes, printed as शङ्क).

Line 15:
नाभिककुदे तथा गुदे व्यङ्गकुक्षिचरणेषु चाशुभाः” इति बृहत्संहिता ॥
(Wait, "व्यङ्गकुक्षिचरणेषु" or "व्यङ्क"? "व्य-ङ्ग-कु-क्षि-च-र-णे-षु". Yes, व्यङ्गकुक्षिचरणेषु).

Line 16:
“कक्षायां जानुमेढ्रे च त्रिवर्णा पुच्छसन्निधौ । पुच्छे गुह्ये वलावष्ट
(Wait, "वलावष्ट" or "वलाहके"? "व-ला-व-ष्ट" - looks like वलावष्ट).

Line 17:
आवर्त्ता अधमा ह्येते” इति नकुलः ॥
(ह्येते: ह्ये-ते).

Line 18:
४२ । गण्डस्थस्यावर्त्तस्याश्रयभेदेन शुभाशुभत्वमाह नकुलः ।

Line 19:
“एकोऽथवा कपोलस्थो यस्यावर्त्तः प्रदृश्यते । वर्त्तमानः स विज्ञेयः

Divider line before footnotes.

Line 20:
१। अशुभेरितान्

२६ अश्ववैद्यकम् । [३ अध्यायः ।
अश्रुपातः समुद्दिष्टः प्रदेशश्चक्षुषोरधः ॥ ४२ ॥
तत्रावर्त्तो भवेद्भीमः स्वामिनः कुलनाशनः ।
अपाङ्गाद्द्व्यङ्गुले चैव प्रदेशः शङ्ख उच्यते ॥ ४३ ॥
तस्मिन् भर्तुर्विनाशाय भवेद्वाहस्य रोमजः ।
भ्रूप्रदेशसमुद्भूत¹ आवर्त्तो नैव पूजितः ॥ ४४ ॥
सुहृद्वियोगकृत् सः स्याद्भर्तुरर्थावसादकः ।
मन्यां ग्रीवां शिरो विन्द्यात्तत्रावर्त्तस्तु कुत्सितः ॥ ४५ ॥
स इच्छेत् स्वामिनाशनम् ॥ गण्डावर्त्तो भवेद्यस्य वाजिनो दक्षिणा-
श्रयः । स करोति महासौख्यं स्वामिनः शिवसंज्ञकः ॥ तद्वद्वामाश्रयः
क्रूरः प्रकरोति धनक्षयम्” इति । एवं शुक्रोऽप्याह । “कपोलस्थौ
यदावर्त्तौ दृश्येते यस्य वाजिनः । यशोवृद्धिकरौ प्रोक्तौ राज्यवृद्धिकरौ
मतौ ॥ एकोऽथवा कपोलस्थो यस्यावर्त्तः प्रदृश्यते । शर्वेनाम स
विख्यातः स इच्छेत् स्वामिनाशनम् ॥ गण्डसंज्ञो यदावर्त्तो वाजिनो
दक्षिणाश्रितः। स करोति महासौख्यं स्वामिनां शिवसंज्ञकः ॥ तद्वद्
वामाश्रितः क्रूरः प्रकरोति धनक्षयम् । इन्द्राभौ तावुभौ शस्तौ
नृपराज्य विवृद्धिदौ” इति ॥
४३ । अपाङ्गात् नेत्रपर्य्याद् द्व्यङ्गुले ऊर्द्धे इति शेषः ।
४५ । ग्रीवायामावर्त्तत्रयस्य तु शुभलमाह शुक्रः । “एवमेव
१ । भ्रुवोर्देशे । खः ।

३ अध्यायः ।] अश्ववैद्यकम् । २७
कक्षयोश्चापि संग्रामे स्वामिनञ्चाशु घातयेत् ।
चिबुकस्य समीपस्थो वामदक्षिणभागतः ॥ ४६ ॥
प्रदेशस्तु हनुर्नाम तत्रावर्त्तो हि दारुणः ।
अधरौष्ठस्य वाधस्ताच्चिबुकं हि प्रसिद्धकम् ॥ ४७ ॥
तस्मिन् पापो भवेद्भर्तुः कर्णयोश्चापि रोमजः ।
कण्ठस्याथ निगालस्य मध्ये गलक उच्यते ॥ ४८ ॥
तत्रावर्त्त स्मृतः १ पापः स्कन्धसन्धिगतश्च यः ।
अधस्ताज्जंघयोश्चैव ग्रन्थिः कूर्च्च इति स्मृतः ॥ ४९ ॥
प्रकारेण त्रयो ग्रीवां समाश्रिताः । त्रयावर्त्तः स वाजीन्द्रो जायते
नृपमन्दिरे” इति ॥
४६ । कचावर्त्तस्याशुभत्वे नकुलः। “एकावर्त्तो भवेद्यस्य कक्षान्ते
वाजिनो यदा। स रणे मृत्युमाप्नोति द्वौ च स्वामिविनाशनौ”
इति ॥ एवं शुक्रोऽपि, यथा,—“यस्यावर्त्तौ वक्रगतौ कुक्ष्यन्ते
वाजिनो यदि । स नूनं मृत्युमाप्नोति कुर्याद्वा स्वामिनाशनम्”,
इति ॥
४८ । कर्णसमीपस्थस्य निन्दितत्वमाह शुक्रः । “भ्रमः कर्ण-
समीपे तु शृङ्गी चैकः स निन्दितः” इति ॥
४९ । शुक्रस्तु गलावर्त्तस्य शुभत्वमाह । “गलमध्ये शुभस्त्वेक
सर्वाशुभनिवारणः” इति॥ स्कन्धपार्श्वयोश्चापि शुभत्वे शुक्रः । “स्कन्ध-
१ । स्थितः । खः ।

२८ अश्ववैद्यकम् । [३ अध्यायः ।
तचावर्त्तः स्मृतो भर्तुः संग्रामे जीवितान्तकृत् ।
कूर्चादष्टाङ्गुलं चोर्द्धं पार्श्वयोस्तु कला स्मृता ॥ ५० ॥
तच भर्तुः शराघाते जीवितान्तश्च रोमजः ।
ककुदं वृषभस्येव सुव्यक्तमुपलक्षयेत्¹ ॥ ५१ ॥
वाजिनो यस्य तत्र स्यादावर्त्तः² स्वामिनाशनः ।
ककुदस्य पुरोभागे समीपे वह उच्यते ॥ ५२ ॥
भर्तुः सुतसमेतस्य तस्मिन्नाशाय रोमजः ।
काकसेतु³ च यस्य स्यादावर्त्तस्तस्य दारुणः ॥ ५३ ॥
रणे हतः समं भर्त्ता क्रव्याद्भिः स विलुप्यते ।
क्रोडे चैवासने चापि हृदये चैव जानुनि ॥ ५४ ॥
अवर्त्ताः स्वामिघाताय भवन्त्येव न संशयः ।
पार्श्वयो रोमजो यस्य स चाश्वो नयति क्षयम् ॥५५॥
सपक्षञ्चाशु भर्त्तारं नीहाराम्बु यथा रविः ।
कूर्चस्याधः प्रदेशस्तु कुष्ठिकः४ परिकीर्तितः ॥ ५६ ॥
पार्श्वे यदावर्त्तः स भवेत् पद्मलक्षणः । करोति विविधान् पद्मान्
स्वामिनः सततं सुखम्” इति ॥
५४ । जान्वावर्त्तस्य फलमाह नकुलः । “जानुदेशे यदावर्त्तो
वाजिनः संप्रदृश्यते । प्रवासं सततं ब्रूते स भर्तुः क्लेशसंयुतम्” इति ।
“जानुसंस्था यदावर्त्ताः प्रवासक्लेशकारकाः” इति शुक्रः ॥
१ । उपलक्षते । खः । ३ । काकुदेशे । खः ।
२ । आवर्त्तंस्तु विनाकृत् । खः । ४ । कुष्ठिञ्च । खः ।

३ अध्यायः । ] अश्ववैद्यकम् । २६
अधन्यस्तच वाहस्य जंघयोर्जानुतोऽधः १ यः ।
नाभिजे। मुष्कजश्चैव चिकजश्च विशेषतः ॥ ५७॥
पुच्छमूलस्थितश्चापि नैव धन्यः प्रकीर्त्तितः ।
कुक्षौ व्याधिं२ नियच्छन्ति रोमजाः कुक्षिसम्भवाः ॥५८॥
पायुसीवनिमध्यस्था३ नैव धन्यास्तु कीर्त्तिताः ।
स्फिक्पिण्डे४ स्थूरके चैव यस्यावर्त्तो हि वाजिनः ॥५६॥
लिङ्गावर्त्तः स विख्यातो भर्तुः सर्वार्थनाशकः ।
शतपादीति विख्यातस्तथा वै मुकुलोऽपरः ॥ ६० ॥
आवर्त्तश्चैव संघातः पादुकश्चार्द्धपादुकः ।
भुक्तिश्चैवावलीढश्च आवर्त्तः कीर्त्तितोऽष्टधा ॥ ६१ ॥
५७। चिकजस्य फलमाह शुकः। “चिकजश्च यदावर्त्तः स्त्री-
गणस्य विनाशनः” इति ॥
५८ । पुच्छमूलावर्त्तफलं शुक्राचार्य्य आह । “पुच्छमूले यदा-
वर्त्तो धूमकेतुरनर्थकृद्” इति । एवं नकुलोऽपि आह । “पुच्छदेशे
यदावर्त्तौ वाजिनः संप्रदृश्यते । धूमकेतुरिति ख्यातः स त्याज्यो दूरतो
नृपैः” इति ॥
६० । अत्र शुकः। “मध्यदन्तात् पार्श्वगतात् सैव शतपदी कचैः ।
न चैवात्यशुभा पृष्ठमुखी शतपदी मता” इति ॥
१। जंघतो जानुतश्च । खः । ३। पायुसीवनमध्ये स्युः । खः ।
२। व्याधिः क्षयं याति । खः । ४। स्फिचिजे खुरजे । खः ।

matra)
Character 7: ढ़ (ढ with dot? Or just ढ?)
Character 8: स्त (स with त)
Wait! "एतेषामेवलीढस्त"?
Wait, why would it say "एतेषामेवलीढस्त"?
Wait, look at line 11:
"एतेषामेव सर्वेषामावर्त्तानां"
Does line 11 have a footnote?
No, line 11 has NO footnote!
Wait, could footnote 3 be for "ऽवलीढः"?
If manuscript 'ख' has: "एतेषामेवलीढस्त"?
No, wait! In verse 64:
"वत्सावलीढकाकारोऽवलीढः परिकीर्त्तितः"
Could 'ख' read:
"वत्सावलीढकाकार एतेषामेव लीढस्त"?
No, look at footnote 3 again:
Could it be:
"३। एतेषामेव लीढस्त। खः।"?
Wait, let's look at the letters:
ए - ते - षा - मे - व
Yes, they really look like:
ए (it has the exact shape of ए)
ते (त with e-matra)
षा (ष with aa-matra)
मे (म with e-matra)
व (व)
Wait! Why does it say "एतेषामेव लीढस्त"?
Wait, look at

३ अध्यायः।] अश्ववैद्यकम्। ३१
एको¹ हेम्ना दहेत्पापं तेन दोषो² न दुष्यति।
अथवा द्विजमुख्याय वेगादिगुणवान्³ हयः॥ ६८॥
दत्त्वा ग्राह्यः क्रयेणैव दुरावर्त्तस्तु काकुदी।
श्रीवृक्षो⁴ रोमजश्चैव रोचमानस्तथैव च॥ ६९॥
अङ्गदी मुषली चैव राज्यरत्नप्रदः सदा।
प्रपाणे⁵ मारुतं विन्द्याल्ललाटे च हुताशनम्॥ ७०॥
उरसि चाश्विनौ देवौ चन्द्रसूर्य्यौ च मूर्द्धनि।
रन्ध्रे स्कन्दविशाखौ च उपरन्ध्रे हरो हरिः⁶॥ ७१॥
इत्येवं पूजिता ह्येते दशावर्त्तास्तु वाजिनः।
अप्येकेन विहीनाश्चेद्⁷ भवेयुरशुभास्तदा॥ ७२॥
७०-७१। इत्येते मारुतादयो दशविधावर्त्ताः पूजिताः।
उक्तञ्च अग्निपुराणे,—"रन्ध्रोपरन्ध्रयो र्द्वौ द्वौ द्वौ द्वौ मस्तकवक्षसोः।
प्रपाणे च ललाटे च कण्ठावर्त्ताः शुभा दश" इति॥ नकुलस्तु
ललाटस्यैकावर्त्तस्य सूर्य्यसंज्ञत्वं प्राह। यथा,—"ललाटे यस्य चावर्त्तो
यस्यैकः सम्प्रजायते। स करोत्यश्वसंघातान् स्वामिनः सूर्य्यसंज्ञक"
इति॥ "भाले चोर्द्धमुखः शुभः" इति शुक्रः॥ अत्र नकुलः।
“ललाटे युगलावर्त्तौ चन्द्रार्कौ सम्प्रकीर्त्तितौ। वाजिने यदि तौ
स्यातां राष्ट्रवृद्धिकरौ परौ" इति॥ अत्र शुक्लोऽपि किञ्चिद्विशेषं
१। एवं। खः। ४। श्रीवत्सः। कः।
२। दोषेण। ५। अपाने। खः।
३। ये वेगादिगुणाधिकाः। खः। ६। हरिहरौ। खः।
७। विहीना ये। खः।

१२ अश्ववैद्यकम् । [५ अध्यायः।
पुण्ड्रकाः ।
अत ऊर्ध्वं प्रवक्ष्यामि पुण्ड्राणां लक्षणं शुभम् ।
आनुपूर्व्या¹ यथादृष्टं मुनिभिस्त्वर्थवेदिभिः² ॥ ७३ ॥
शुक्तिशङ्खगदाखड्गपद्मचक्राङ्कुशोपमाः ।
शरासनसमाकाराः प्रशस्ताः पुण्ड्रकाः स्मृताः ॥ ७४ ॥
मत्स्यभृङ्गारप्रासादस्रग्वेदियूपसन्निभाः ।
श्रीवृक्षदर्पणाकाराः³ शुभदाः परिकीर्त्तिताः ॥ ७५ ॥
वर्णयति । “ललाटे यस्य चावर्त्तद्वितयस्य समुद्भवः । मस्तके च तृतीयस्य
पूर्णहर्षोऽयमुत्तमः॥ आवर्त्तौ सान्तरौ भाले चन्द्रसूर्य्यौ शुभप्रदौ ।
मिलितौ तौ मध्यफलौ अतिलग्नौ तु दुःफलौ” इति ॥ “तेषां
प्रपाण एको ललाटे केशेषु च भ्रुवावर्त्तः । रन्ध्रोपरन्ध्रमूर्द्धनि वक्षसि
चेति स्तनौ द्वौ द्वौ” । बृहत्संहिता ॥
७३ । पुण्ड्राणामिति शुक्लाद्याकाराः भिन्नाकारा वा अश्वशरीरेषु
चिह्नविशेषाः तेषाम् ॥
७४ । शुक्त्याद्याकाराः प्रशस्ताः । एतदतिरिक्ता अप्रशस्तत्वाद्वर्ज्या
इति भावः । ते च काकाद्याकाराः इति वक्ष्यति ॥
७५ । अश्वानां हृदयस्थः श्वेतरोमावर्त्तविशेषः श्रीवृक्षः । “तथा
वक्षसि वाहस्य श्रीवृक्षक उदाहृत” इति हारावली । श्रीवृक्ष-
दर्शनाकारा इति पाठे श्रीवृक्षवद्दर्शनीय आकारा येषां ते तथोक्ताः ।
इदं श्लोकद्वयं ख-पुस्तके नास्ति । “श्रीवत्सदर्पणाकाराः” इति पाठे
श्रीवत्सनामकरोमजावर्त्तवत् दर्पणवच्च आकारा येषां ते ॥
१ । आनुपूर्व्याद् यथोद्दिष्टम् । खः। यथादृष्टि । कः। २। शास्त्रज्ञानिभिः। कः।
३ । श्रीवत्सदर्पणाकाराः । कः । दर्शनाकाराः । गः ।

३ अध्यायः ।] अश्ववैद्यकम् । २१
शिरोललाटवदनं यः पुण्ड्रो व्याप्य तिष्ठति ।
स धन्यः पूजितो नित्यं ऋजुकश्चैव¹ यो भवेत् ॥ ७६ ॥
पर्व्वतेन्दुपताकाभा ये च स्रग्दामसन्निभाः ।
ते सर्व्वे पूजिताः पुण्ड्रा धनधान्यफलप्रदाः ॥ ७७ ॥
इति पुण्ड्राः शुभाः प्रोक्ताः पूर्व्वशास्त्रानुसारतः ।
अशुभांश्चैव वक्ष्यामि यथायोगं समासतः ॥ ७८ ॥
काककङ्कबन्धाही²गृध्रगोमायुसन्निभाः ।
असिताः पीतका रक्ताः पुण्ड्रका नैव पूजिताः ॥ ७९ ॥
तिर्य्यग्गाश्चैव विच्छिन्नाः शृङ्खलापाशसन्निभाः³ ।
शूलाग्रा वामदेहस्थाः पुण्ड्रका न शुभाः स्मृताः ॥ ८० ॥
७६ । ऋजुगः सरल इत्यर्थः ॥
७९ । काकेत्यादि । काकः प्रसिद्धः । कङ्कः पक्षिविशेषः (काँक)
इति प्रसिद्धः । कबन्धः अमस्तककलेवरः । अहिः सर्पः । गृध्रः
(शकुनि) इति प्रसिद्धः । गोमायुः शृगालः । तैः सन्निभाः सदृशाः ॥
८० । शृङ्खलापाशसन्निभाः शृङ्खलारज्ज्वाकाराः । तिर्य्यग्गा इति
ये शरीरे तिर्य्यग्भावेन स्थिता इत्यर्थः । विच्छिन्ना विच्छेदं प्राप्ताः ।
शूलाग्राः शूलाग्रवत् सूक्ष्माग्रभागाः । एवम्भूता वामपार्श्वस्थाः पुण्ड्रका
न शुभाः ॥
१। ऋजुगः। गः। मृदुकः। खः। ३। पाशशोभिताः। खः।
२। गोधाहि। खः।
5

:
In footnote 1:
१ । जिह्मारुषाचित्तरूक्षाणि । खः । or १ । जिह्मारुषाच्चित्तरूक्षाणि । खः ।
Wait, could it be जिह्मारुष्णाच्चित्तरूक्षाणि?
No, it's जिह्मारुषाच्चित्तरूक्षाणि or जिह्मारुषाचित्तरूक्षाणि. Let's look very carefully at the middle:
Is there a 'च'?
Yes, 'च' with 'ि' = चि.
Wait, is there a 'च' under it?
Look under the 'च': there is a small shape under it, like 'च' or 'छ'?
Wait, look at 'दग्धचूर्ण' in line 11.
Look at 'उच्च' or similar.
It looks like च्चि!
Wait, what if it's जिह्मारुषाच्चित्तरूक्षाणि?
Let's also look at whether it could be जिह्मारुषाश्चित्तरूक्षाणि. In older prints, 'श्च' is sometimes written as 'श' + 'च' or ligature. But usually 'श्च' has the loop.
Here, let's transcribe it faithfully as it appears:
१ । जिह्मारुषाच्चित्तरूक्षाणि । खः । (or जिह्मारुषाचित्तरूक्षाणि)