सामग्री पर जाएँ
सर्वकोश
अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

Ashvavaidyaka of Jayadatta Suri with Commentary

जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा

DevanagariHindipublished522 पृष्ठ

पृष्ठ 31, कुल 522 में से

संदर्भ में पढ़ें
पृष्ठ 31

[ १७ ]
अथ
तृतीयोऽध्यायः ।
सर्व्वलक्षणः ।
अङ्गलक्षणानि ।
अतःपरं प्रवक्ष्यामि वाह्यानां लक्षणं स्मृतम् ।
लक्षणं शृणु वाह्यानां मुनिना यत्तु भाषितम् ॥ १ ॥
सर्व्वदोषहरं नित्यं नृपाणां जयवर्द्धनम् ।
अशुभैर्लक्षणैर्युक्ता हया न ग्रहणोचिताः ॥ २ ॥
अङ्गे लक्षणमेवादौ तेषां वक्ष्यामि देहजम् ।
ओष्ठयोः सृकणोश्चैव जिह्वायां दशनेषु च ॥ ३ ॥
वक्त्रे तालुनि नासायां गण्डयोर्नेत्रयोस्तथा ।
ललाटे मस्तके चैव केशे कर्णपुटे तथा ॥ ४ ॥
ग्रीवायां केशरे चापि स्कन्धे वक्षसि बाहुके ।
जंघायां जानुनोश्चाधः¹ कूर्चे पादे तथैव च ॥ ५ ॥
१ । अशुभैर्लक्षणैर्वक्ष्यमाणैरित्यर्थः ॥
३ । लक्षणं शुभाशुभलक्षणं ओष्ठादीनामित्यर्थः ॥
१ । जानुनोश्चापि । २ । कः ।
3