अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)
Ashvavaidyaka of Jayadatta Suri with Commentary
जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा
पृष्ठ 36, कुल 522 में से
संदर्भ में पढ़ें२२ अश्ववैद्यकम्। [३ अध्यायः।
आवर्त्ताः।
अथातः संप्रवक्ष्यामि आवर्त्तानां विनिश्चयम्।
शुभाशुभविवेकाय यथा शास्त्रे व्यवस्थितम् ॥ २९ ॥
विंशतिस्तु शुभाः प्रोक्ताः षट्सप्तत्यधिकाः स्मृताः।
उत्तरोष्ठं प्रपाणं स्यात्तथावर्त्तः शुभावहाः ॥ ३० ॥
सृक्कणोश्च तथा प्रोक्ताः सर्वकामफलप्रदाः।
त्रयश्चैवाथ चत्वारो वाजिनो यस्य रोमजाः ॥ ३१ ॥
३०। आवर्त्ताः शुभाशुभभेदेन साकल्येन षण्णवतिप्रकाराः। तेषु
विंशतिः शुभाः। प्रथमं प्रपाणादिषु शुभप्रदेशेषु तानेव वर्णयति।
उत्तरोष्ठमित्यादिभिः। शुभावर्त्तस्थानानि तु नकुलस्त्रयोदशविधा-
न्त्याह। "ललाटे मस्तके चैव ग्रीवायां हृदये तथा। पादे पच्चे
मणीबन्धे नाभिदेशे विशेषतः॥ स्कन्धे पार्श्वे गले वक्त्रे कुचौ रन्ध्रे
त्रिके तथा। आद्यास्त्रयोदशावर्त्ता विज्ञेया वाजिपण्डितैः" इति ॥
अत्र शुक्राचार्य्यः "गलमध्ये पृष्ठमध्ये उत्तरोष्ठेऽधरे तथा। कर्णने-
त्रान्तरे वामकुचौ चैवतु पार्श्वयोः। ऊरुषु च शुभावर्त्तौ वाजिना-
मग्रपादयोः । आवर्त्तौ सान्तरौ भाले सूर्य्यचन्द्रौ शुभप्रदौ" इति।
ये प्रपाणगलकर्णसंस्थिताः पृष्ठमध्यनयनोपरिस्थितः। ओष्ठसक्थिभुज-
कुक्षिपाश्र्वगास्ते ललाटसहिताः सुशोभना इति बृहत्संहितायाम् ॥
एवमशुभदेशांश्च अनन्तरं अशुभावर्त्तकथनप्रस्तावे कथयिष्यति ॥
३१। अथ यस्य वाजिनः सृक्कणोः त्रयश्चत्वारो वा रोमजा
१। शास्त्र । कः ।