अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)
Ashvavaidyaka of Jayadatta Suri with Commentary
जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा
पृष्ठ 45, कुल 522 में से
संदर्भ में पढ़ें३ अध्यायः।] अश्ववैद्यकम्। ३१
एको¹ हेम्ना दहेत्पापं तेन दोषो² न दुष्यति।
अथवा द्विजमुख्याय वेगादिगुणवान्³ हयः॥ ६८॥
दत्त्वा ग्राह्यः क्रयेणैव दुरावर्त्तस्तु काकुदी।
श्रीवृक्षो⁴ रोमजश्चैव रोचमानस्तथैव च॥ ६९॥
अङ्गदी मुषली चैव राज्यरत्नप्रदः सदा।
प्रपाणे⁵ मारुतं विन्द्याल्ललाटे च हुताशनम्॥ ७०॥
उरसि चाश्विनौ देवौ चन्द्रसूर्य्यौ च मूर्द्धनि।
रन्ध्रे स्कन्दविशाखौ च उपरन्ध्रे हरो हरिः⁶॥ ७१॥
इत्येवं पूजिता ह्येते दशावर्त्तास्तु वाजिनः।
अप्येकेन विहीनाश्चेद्⁷ भवेयुरशुभास्तदा॥ ७२॥
७०-७१। इत्येते मारुतादयो दशविधावर्त्ताः पूजिताः।
उक्तञ्च अग्निपुराणे,—"रन्ध्रोपरन्ध्रयो र्द्वौ द्वौ द्वौ द्वौ मस्तकवक्षसोः।
प्रपाणे च ललाटे च कण्ठावर्त्ताः शुभा दश" इति॥ नकुलस्तु
ललाटस्यैकावर्त्तस्य सूर्य्यसंज्ञत्वं प्राह। यथा,—"ललाटे यस्य चावर्त्तो
यस्यैकः सम्प्रजायते। स करोत्यश्वसंघातान् स्वामिनः सूर्य्यसंज्ञक"
इति॥ "भाले चोर्द्धमुखः शुभः" इति शुक्रः॥ अत्र नकुलः।
“ललाटे युगलावर्त्तौ चन्द्रार्कौ सम्प्रकीर्त्तितौ। वाजिने यदि तौ
स्यातां राष्ट्रवृद्धिकरौ परौ" इति॥ अत्र शुक्लोऽपि किञ्चिद्विशेषं
१। एवं। खः। ४। श्रीवत्सः। कः।
२। दोषेण। ५। अपाने। खः।
३। ये वेगादिगुणाधिकाः। खः। ६। हरिहरौ। खः।
७। विहीना ये। खः।