अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)
Ashvavaidyaka of Jayadatta Suri with Commentary
जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा
पृष्ठ 47, कुल 522 में से
संदर्भ में पढ़ें३ अध्यायः ।] अश्ववैद्यकम् । २१
शिरोललाटवदनं यः पुण्ड्रो व्याप्य तिष्ठति ।
स धन्यः पूजितो नित्यं ऋजुकश्चैव¹ यो भवेत् ॥ ७६ ॥
पर्व्वतेन्दुपताकाभा ये च स्रग्दामसन्निभाः ।
ते सर्व्वे पूजिताः पुण्ड्रा धनधान्यफलप्रदाः ॥ ७७ ॥
इति पुण्ड्राः शुभाः प्रोक्ताः पूर्व्वशास्त्रानुसारतः ।
अशुभांश्चैव वक्ष्यामि यथायोगं समासतः ॥ ७८ ॥
काककङ्कबन्धाही²गृध्रगोमायुसन्निभाः ।
असिताः पीतका रक्ताः पुण्ड्रका नैव पूजिताः ॥ ७९ ॥
तिर्य्यग्गाश्चैव विच्छिन्नाः शृङ्खलापाशसन्निभाः³ ।
शूलाग्रा वामदेहस्थाः पुण्ड्रका न शुभाः स्मृताः ॥ ८० ॥
७६ । ऋजुगः सरल इत्यर्थः ॥
७९ । काकेत्यादि । काकः प्रसिद्धः । कङ्कः पक्षिविशेषः (काँक)
इति प्रसिद्धः । कबन्धः अमस्तककलेवरः । अहिः सर्पः । गृध्रः
(शकुनि) इति प्रसिद्धः । गोमायुः शृगालः । तैः सन्निभाः सदृशाः ॥
८० । शृङ्खलापाशसन्निभाः शृङ्खलारज्ज्वाकाराः । तिर्य्यग्गा इति
ये शरीरे तिर्य्यग्भावेन स्थिता इत्यर्थः । विच्छिन्ना विच्छेदं प्राप्ताः ।
शूलाग्राः शूलाग्रवत् सूक्ष्माग्रभागाः । एवम्भूता वामपार्श्वस्थाः पुण्ड्रका
न शुभाः ॥
१। ऋजुगः। गः। मृदुकः। खः। ३। पाशशोभिताः। खः।
२। गोधाहि। खः।
5